योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ४१

विकिस्रोतः तः
Jump to navigation Jump to search


एकचत्वारिंशः सर्गः ४१

श्रीराम उवाच ।
क्षीरोदकुक्षितुल्याभिः शीतलामलदीप्तिभिः ।
तवोक्तिभिर्विचित्राभिर्गम्भीराभिरिवाभितः ।। १
क्षणमान्ध्यमिवाप्नोमि क्षणं यामि प्रकाशताम् ।
शान्तातपलवः प्रावृड्लोलाभ्र इव वासरः ।। २
अनन्तस्याप्रमेयस्य सर्वस्यैकस्य भास्वतः ।
अनस्तमितसारस्य कलना कथमागता ।। ३
श्रीवसिष्ठ उवाच ।
यथाभूतार्थवाक्यार्थाः सर्वा एव ममोक्तयः ।
नासमर्था विरूपार्थाः पूर्वापरविरोधदाः ।। ४
ज्ञानदृष्टौ प्रसन्नायां प्रबोधे विततोदये ।
यथावज्ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिबलाबलम् ।। ५
उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये ।
शब्दार्थवाक्यरचनाभ्रमो मा तन्मयो भव ।। ६
यदा पुरा ज्ञास्यसि तत्सत्यमत्यन्तनिर्मलम्।
वाच्यवाचकशब्दार्थभेदं त्यक्ष्यसि वै तदा ।। ७

भेदकृद्वाक्प्रपञ्चोऽयमुपदेश्येषु कल्पितः ।
उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये ।। ८
शब्दार्थवाक्प्रपञ्चोऽयमुपदेशेषु कल्पितः ।
सदाऽज्ञेषु न तज्ज्ञेषु विद्यते पारमार्थिकः ।। ९
कलनामलमोहादि किंचिन्नात्मनि विद्यते ।
नीरागं ब्रह्म परमं तदेवेदं जगत्स्थितम् ।। १०
एतद्विचित्ररूपाभिर्युक्तिभिर्बहुशः पुनः ।
विस्तरेणैव वक्तव्यं सिद्धान्तावसरेऽनघ ।। ११
वाक्प्रपञ्चं विना त्वेतदज्ञानमतुलं तमः ।
भेत्तुमन्योन्यमुदितं यत्नं कर्तुं न शक्यते ।। १२
अविद्ययैवोत्तमया स्वात्मनाशोद्यमेच्छया ।
विद्या सा प्रार्थ्यते राम सर्वदोषापहारिणी ।। १३
शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलः ।
शमं विषं विषेणैति रिपुणा हन्यते रिपुः ।। १४
ईदृशी राम मायेयं यां स्वनाशेन हर्षदा ।
न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति ।। १५
विवेकमाच्छादयति जगन्ति जनयत्यलम् ।
नच विज्ञायते कैषा पश्याश्चर्यमिदं जगत् ।। १६
अप्रेक्ष्यमाणा स्फुरति प्रेक्षिता सु विनश्यति ।
मायेयमपरिज्ञायमानरूपैव वल्गति ।। १७
अहो नु खलु चित्रेयं माया संसारबन्धनी ।
असत्येवातिसत्येव स्वज्ञानं विहितं तया ।। १८
अत्यभिन्नपदे तस्मिंस्तन्वाना भेदमाततम् ।
संसारमाया येनासौ तेनासौ पुरुषोत्तमः ।। १९
नास्त्येषा परमार्थे न त्वेवं भावनयेद्धया ।
ज्ञो भूत्वा ज्ञेयसंप्राप्तो ज्ञास्यस्यस्यास्त्वमाशयम् ।। २०
यावत्तु न प्रबुद्धस्त्वं तावन्मद्वचसैव ते ।
 निश्चयो भवतूद्दामो नास्त्यविद्येति निश्चलः ।। २१
यदिदं दृश्यतां यातं मानसं मननं महत् ।
असन्मात्रमिदं यस्मान्मनोमात्रविजृम्भितम् ।। २२
सत्तद्ब्रह्मेति यस्यान्तर्निश्चयः सोऽपि मोक्षभाक् ।
चलाचलाकृतिर्या या दृष्टिरावद्धभावना ।। २३
सा समग्रजगद्भूतखगबन्धनवागुरा ।
यः स्वप्नभूमिवद्भ्रान्तमसत्सद्ह्येकनिश्चयः ।। २४
जगत्पश्यत्यसक्तात्मा न स दुःखे निमज्जति ।
यस्यैतास्वस्वरूपासु भावना स्वात्मभावना ।। २५
अस्वरूपस्य तस्यापि सा ह्यविद्यैव विद्यते ।
विकारितादयो दोषा न केचन महात्मनि ।। २६
परमात्मनि विद्यन्ते पयसीवेह पांसवः ।
भावनाशब्दशब्दार्थरञ्जनेयं जगद्गता ।। २७
व्यवहारार्थमुत्पन्ना व्यतिरिक्ता च नात्मनः ।
अनेन व्यवहारेण विनैताः शास्त्रदृष्टयः ।। २८
संस्थितिं नाधिगच्छन्ति पटा इव वितन्तवः ।
उह्यमानो ह्यविद्यायामात्मा नेहोपलक्ष्यते ।। २९
आत्मज्ञानादृते तच्च शास्त्रार्थात्समवाप्यते ।
अविद्यासरितः पारमात्मलाभादृते किल ।। ३०
राम नासाद्यते तद्धि पदमक्षयमुच्यते ।
यतःकुतश्चिज्जातेयमविद्या मलदायिनी ।। ३१
नूनं स्थितिमुपायाता समासाद्य पदं स्थिता ।
कुतो जातेयमिति ते राम मास्तु विचारणा ।। ३२
इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा ।
अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि राघव ।। ३३
यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् ।
वस्तुतः किल नास्त्येषा विभात्येषा न वेक्षिता ।। ३४
असतो भ्रान्तता सत्यरूपां जानातु कः कुतः ।
जातेयं प्रौढिमापन्ना दोषायैवातताकृतिः ।। ३५
बलात्प्रणाशय त्वेनां परिज्ञास्यसि वै ततः ।
अपि शूरा अतिप्राज्ञास्ते न सन्ति जगत्त्रये ।। ३६
अविद्यया ये पुरुषा न नाम विवशीकृताः ।
तदस्या रोगशीलाया यत्नं कुरु विनाशने ।। ३७
यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति ।
सर्वापदामेकसखीमज्ञानतरुमञ्जरीम् ।
अनर्थसार्थजननीमविद्यामलमुद्धर ।। ३८
भयविषाददुराधिविपत्प्रदां
हृदयमोहमहापटलांकुराम् ।
भृशमपास्य कुदृष्टिमिमां बला-
द्भव भवार्णवपारमुपागतः ।। ३९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे अविद्याकथनं नामैकचत्वारिशः सर्गः ।। ४१ ।।