योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ४०
चत्वारिंशः सर्गः ४०
श्रीराम उवाच ।
उत्पत्तिः कथमेतेषां जीवानां ब्रह्मणः पदात् ।
कियती कीदृशी चेति विस्तरेण वद प्रभो ।। १
श्रीवसिष्ठ उवाच ।
उत्पद्यन्ते यथा चित्रा ब्रह्मणो भूतजातयः ।
यथा नाशं प्रयान्त्येता यथा मुक्ता भवन्ति हि ।। २
यथा च परिवर्धन्ते तिष्ठन्त्यन्तर्हिता यथा ।
संक्षेपेण महाबाहो श्रृणु वक्ष्यामि तेऽनघ ।। ३
ब्राह्मी चिच्छक्तिरमला कल्पयन्ती यदृच्छया ।
सर्वशक्तिः स्वयं चेत्यं भवत्याकलनात्मकम् ।। ४
कलनाद्धनतामेत्य यत्किंचिदपि सा स्वयम् ।
संकल्पयति पश्चात्तत्तत्तामेति मनःपदम् ।। ५
मनःसंकल्पमात्रेण गन्धर्वपुरवत्क्षणात् ।
तनोतीदमसद्दृश्यं ब्राह्मीं स्थितिमिव त्यजत् ।। ६
चित्स्वरूपं परिकचच्छून्यमेवावतिष्ठते ।
यत्तद्दृश्यं स्थितं तत्स्याद्दृश्यमाकाशमेव तत् ।। ७
कृत्वा पद्मजसंकल्पं रूपं पश्यति पद्मजम् ।
ततो जगत्कल्पयति सप्रजापतिपूर्वकम् ।। ८
चतुर्दशविधानन्तभूतजातसघुंघुमा ।
सृष्टिरेवमियं राम चित्तनिर्मितिमागता ।। ९
चित्तमात्रमयी शून्या व्योममात्रशरीरिका ।
संकल्पमात्रनगरी भ्रान्तिमात्रात्मिका सती ।।१०
इह काश्चिन्महामोहा भूतानां जातयः स्थिताः ।
काश्चिदभ्युदितज्ञानाःकाश्चिन्मध्ये स्खलन्ति हि ।।११
भुवि संबध्यमानानां यान्त्येनामुपदेश्यताम् ।
सर्वासां भूतजातीनां या एता नरजातयः ।। १२
बह्वाधयो दुःरवमया मोहद्वेषभयातुराः ।
तासां सम्यक्प्रवक्ष्यामि तावद्राजससात्त्विकीः ।।१३
यत्तदप्यमृतं ब्रह्म सर्वव्यापि निरामयम् ।
चिदाभासमनन्ताख्यमनादि विगतभ्रमम् ।। १४
निस्पन्दवपुषस्तस्य स्पन्दः सत्तैकदेशतः ।
घनतामेति सौम्येऽब्धौ चलता चलतामिव ।। १५
श्रीराम उवाच ।
अनन्तस्यात्मतत्त्वस्य एकदेशः क उच्यते ।
कथं विकारिता वा स्यात्कथं वा द्वयविक्रमः ।। १६
श्रीवसिष्ठ उवाच ।
तेन जातं ततोजातमितीयं रचना गिराम् ।
शास्त्रसंव्यवहारार्थं न राम परमार्थतः ।। १७
विकारितावयवितादिक्सत्तादेशतादयः ।
क्रमा न संभवन्तीशे दृश्यमानोदया अपि ।। १८
तं विना कल्पनैवान्या नास्ति नापि भविष्यति ।
कुतस्त्यौ क्रमशब्दार्थावुक्तयो व्यवहारजाः ।। १९
या येह कलना योऽर्थो यः शब्दो यो गिरां गणः ।
तज्जत्वात्तन्मयत्वाच्च तत्तत्पदमिवेष्यते ।। २०
तज्जः स एव भवति वह्नेर्वह्निरिवोत्थितः ।
जन्योऽयं जनकश्चायमित्युक्ता भेदकल्पना ।। २१
अयमस्मात्समुत्पन्न इतीयं या जगत्स्थितिः ।
आधिक्यं तत्क्रियाशक्तौ जन्यं जनकमेव वा ।। २२
इदमन्यदिदं चान्यदिति शब्दार्थविक्लवः ।
उक्तावेव न देवेऽस्ति प्रमितौ भिन्नता यतः ।। २३
तज्जयैव मनःशक्त्या स्वतः संज्ञा प्रवर्तते ।
दृढभावनया तस्मादिष्टोऽर्थः प्रतिपद्यते ।। २४
अग्नेः शिखाया एकस्या द्वितीया जनकेति या ।
उक्तिवैचित्र्यमेवैतन्नोक्त्यर्थेऽत्रास्ति सत्यता ।। २५
न जन्यजनकाद्यास्ताः संभवन्त्युक्तयः परे ।
एकमेव ह्यनन्तत्वात्किं कथं जनयिष्यति। ।। २६
उक्तेरेव स्वभावोऽयमुक्तेरुक्तिरनन्तरम् ।
प्रतियोगिव्यवच्छेदसंख्याद्यर्थे न युज्यते ।। २७
ऊर्मिजालमिवाम्भोधौ परे यः परिदृश्यते ।
शब्दोऽर्थकलनाकारस्तद्ब्रह्मैव विदुर्बुधाः ।। २८
ब्रह्म चिद्ब्रह्म च मनो ब्रह्म विज्ञानवस्तु च ।
ब्रह्मार्थो ब्रह्म शब्दश्च ब्रह्म चिद्ब्रह्म धातवः ।। २९
ब्रह्म सर्वमिदं विश्वं विश्वातीतं च तत्पदम् ।
वस्तुतस्तु जगन्नास्ति सर्वं ब्रह्मैव केवलम् ।। ३०
अयमन्योऽयमन्योऽयं भाग इत्यम्बरात्मनि ।
मिथ्याज्ञानविकल्पोक्तिर्वाचि सत्यार्थतात्र का ।। ३१
वह्नेः शिखेव जातेयं शिखेति मनसोऽभिधा ।
चापलोत्थविकल्पश्रीर्वस्तुतः स्यान्न सिद्ध्यति ।। ३२
असत्यैव विकल्पोक्तिः सत्यभावो विकल्पते ।
तमोपहतदृष्टित्वाद्द्विचन्द्रज्ञानदोषवत् ।। ३३
सर्वस्मात्सर्वगात्तस्मादनन्ताद्ब्रह्मणः पदात् ।
नान्यत्किंचित्संभवति तदुत्थं यत्तदेव तत् ।। ३४
ब्रह्मतत्त्वं विना नेह किंचिदेवोपपद्यते ।
खर्वं च खल्विदं ब्रह्मेत्येषैव परमार्थता ।। ३५
एवंप्रायश्च हे प्राज्ञ सिद्धान्तस्ते भविष्यति ।
तत्रैवोदाहरिष्यामः सिद्धान्तार्थोक्तिपञ्जरम् ।। ३६
इहाविद्यादिकाः केचिद्विद्यन्ते नेतरक्रमाः ।
ज्ञास्यस्यलमशेषार्थांस्तत्तदज्ञानसंक्षये ।। ३७
अवस्तुसंक्षये वस्तु यथावस्तु प्रसीदति ।
यथा च दृश्यते दृश्यं जगन्नैशतमःक्षये ।। ३८
यदिदमखिलमाततं कुदृष्ट्या
तदुपशमे तव राम निर्मलामे ।
अवितथपदनिर्मले भविष्य-
त्यवितथमेव न संशयोऽत्र कश्चित् ।। ३९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे ब्रह्मैवेदं सर्वं जगदिति प्रतिपादनं नाम चत्वारिंशः सर्गः ।। ४० ।।