योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ३९

विकिस्रोतः तः
Jump to navigation Jump to search


एकोनचत्वारिंशः सर्गः ३९

श्रीराम उवाच ।
भगवन्नेवं स्थिते परे ब्रह्मण्येव विद्यमाने कुत
एवाभित्तिचित्ररूपायाः सृष्टेरागम इति कथय
महात्मन् ।। १
श्रीवसिष्ठ उवाच ।
राजपुत्र ब्रह्मतत्त्वमेवेदमावर्तते यस्मात्सर्वशक्ति
तत्तस्मात्सर्वाः शक्तयो ब्रह्मणि दृश्यन्ते ।। २
सत्त्वमसत्त्वं द्वित्वमेकत्वमनेकत्वमाद्यत्वमन्त-
त्वमिति ।। ३
तच्च नान्यत् । यथा जलराशेर्जलाशय उल्लास-
प्रफुल्लासेन नानाकारतां दर्शयन्प्रकटतांगच्छति।। ४
तथा चिद्धनश्चित्तं चित्त्वाच्च सर्वाः शक्तीः कर्म-
मयीर्वासनामयीर्मनोमयीश्चिनोति दर्शयति विभ-
र्ति जनयति क्षिपयति चेति ।। ५
सर्वेषामेव जीवानां सर्वासामभितो दृशाम् ।
समग्राणां पदार्थानामुत्पत्तिर्ब्रह्मणोऽनिशम् ।। ६
लोकात्परादुपायान्ति तस्मिश्चित्त्वाद्विशन्त्यलम् ।
तन्मया एव सततं तरङ्गा इव सागरे ।। ७
श्रीराम उवाच ।
भगवंस्तवातिगहनेयं वचनव्यक्तिर्न खल्वद्य वा-
क्यार्थमवगच्छामि ।। ८
क्व किलातीतमनःषष्ठेन्द्रियवृत्ति ब्रह्मतत्त्वं क्व भङ्गु-
रेयं तज्जा पदार्थश्रीरिति वचनरचना । यदि चाय-
मारम्भो ब्रह्मण आपतितस्तदनेन तत्सदृशेनैव
भवितव्यम् ।। ९
यो यस्माज्जायते स तत्सदृश एव भवति ।। १०
यथादीपाद्दीपःपुरुषात्पुरुषः सस्यात्सस्यम् ।। ११
यतो निर्विकाराद्यदागतं निर्विकारेणैवानेन भवि-
तव्यम् ।। १२
अथैतद्व्यतिरिक्तं चिदात्मनस्तन्निष्कलङ्कस्य परमे-
श्वरस्य येयं कलङ्कापत्तिरित्याकर्ण्य भगवान् ब्रह्म-
र्षिरुवाच ।। १३
ब्रह्मैवेदं स्थितं नाम मलमस्तीह नानघ ।
तरङ्गौघगणैरम्भः सिन्धौ स्फुरति नो रजः ।। १४
द्वितीया कल्पनैवेह न रघूद्वह विद्यते ।
ब्रह्ममात्रादृते वह्नावौष्ण्यमात्रादृते यथा ।। १५
श्रीराम उवाच ।
निर्दुःखं ब्रह्म निर्द्वन्द्वं तज्जं दुःखमयं जगत् ।
अस्पष्टार्थमिदं ब्रह्मन्न वेद्मि वचनं तव ।। १६
श्रीवाल्मीकिरुवाच ।
इत्युक्ते तत्र रामेण चिन्तयामास चेतसा ।
वसिष्ठो मुनिशार्दूलो राघवस्योपदेशने ।। १७
परं विकासमायाता नास्य तावदियं मतिः ।
किंचिन्निर्मलतां प्राप्ता प्रोह्यते चेह वस्तुनि ।। १८
यो व्युत्पन्नमनास्तस्य ज्ञातज्ञेयस्य धीमतः ।
मोक्षोपायगिरां पारं प्रयातस्य विवेकतः ।। १९
न कश्चित्कस्यचिद्दोषो नास्ति विद्यात्मनि ह्यलम् ।
यावन्नोक्तं न विश्रान्तिं तावदेत्येष राघवः ।। २०
अर्धव्युत्पन्नबुद्धेस्तु नैतद्व्यक्तं हि शोभते ।
दृश्यानया भोगदृशा भावयन्नेव नश्यति ।। २१
परां दृष्टिं प्रयातस्य भोगेच्छा नाभिजायते ।
सर्वं ब्रह्मेति सिद्धान्तः काले नामास्य युज्यते ।। २२
आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् ।
पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ।। २३
अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।
महानरकजालेषु स तेन विनियोजितः ।। २४
प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः ।
नास्त्यविद्यामलमिति युक्तं वक्तुं महात्मनः ।। २५
अपरीक्ष्य च यः शिष्यं प्रशास्त्यतिविमूढधीः।
स एव नरकं याति यावदाभूतसंप्लवम्।। २६
इति संचिन्त्य भगवानज्ञानतिमिरापहः ।
तमुवाच मुनिश्रेष्ठो वसिष्ठो भूमिभास्करः ।। २७
श्रीवसिष्ठ उवाच ।
कलङ्ककलना ब्रह्मण्यस्ति नास्तीति वानघ ।
सिद्धान्तकाले वक्तव्यं स्वयं ज्ञास्यसि राघव ।। २८
ब्रह्म सर्वशक्ति सर्वव्यापि सर्वगतं सर्वोहमेवेति। २९
यथेन्द्रजालिनः पश्यसि चित्रा मायया क्रिया
जनयन्तः सदसत्तां नयन्त्यसच्च सत्तां नयन्ति तथै-
वात्मा अमायामयोऽपि मायामय इव परम ऐन्द्रजा-
लिको घटं पटं करोति पटं च घटं करोति उपले
लतां जनयति मेरौ कनकतटे नन्दनवनमिव लता-
यामुपलमुत्पादयति कल्पपादपेषु रत्नस्तबकमिव
व्योम्नि काननमध्यारोपयति ।। ३०
गन्धर्वउद्यानमिव तस्मिन् जगति भविष्यति
गगने कल्पनया नगरतां जनयति नष्टच्छायाञ्जन-
मिव व्योम धरातलं नयतीति ।। ३१
गन्धर्वनगरराजगृहे विपुलाङ्गनाजनमिव भूतले
व्योम निवेशयति ।। ३२
रक्तकुट्टिमेष्वाकाशप्रतिबिम्बमिव किंचिदस्ति
जगति भविष्यति वा बभूव ।। ३३
यदीश्वरो व्यक्तरूपो विचित्रतामुपेत्य निदर्श-
यति। ।। ३४
सर्वमेव सर्वथा सर्वत्र यथा संभवत्येकमेवेह
वस्तु विद्यत इति तस्माद्धर्षामर्षविस्मयानां क्व वाऽव-
सरो राम ।। ३५
समतयैव सततं धृतिमता स्थातव्यम् ।। ३६
विस्मयस्मयसंमोहहर्षामर्षविकारिताम् ।
समतावलितस्तज्ज्ञो न कदाचन गच्छति ।। ३७
अपर्यवसाने देशकालवति चित्रा हि जगति
युक्तयो दृश्यन्ते ।। ३८
एताश्च युक्तीर्नामासावात्मा यत्नेन रचनां करोति
न चोत्पन्नां तिरस्करोति सागर इव वीचीः ।। ३९
किं तर्हि क्षीर इव घृतं घट इव मृदि पट इव तन्तुषु
वट इव धानायात्मन्येव स्थिताः शक्तयः प्रकटता-
मागता व्यवह्रियन्तेऽविरचितमेव तरङ्गवत् ।। ४०
नात्र कश्चित्कर्ता न भोक्ता न विनाशमेति ।। ४१
केवलमात्मतत्त्वे साक्षिणि निरामये समतया-
त्मनि नित्यमसंक्षुब्धे तिष्ठति सत्येवं संपद्यते ।। ४२
सति दीप इवालोकः सत्यर्क इव वासरः ।
सति पुष्प इवामोदः स्वतः संपद्यते जगत् ।। ४३
आभासमात्रमेवेदं परिदृश्यत एव च ।
स्पन्दः समीरणस्येव न सन्नासदवस्थितम् ।। ४४
निर्दोषवदेव जागतीनां दृष्टीनां परमार्थतो भग-
वान्स्थितो विनष्टानां पुनः कर्ता कृतानां वा नाश-
यिता स केवलं कदाचित्प्रकटाः कदाचिदल्पप्रकटाः
कदाचिदप्रकटास्तारका इव कुसुमराशयः ।। ४५
नश्यतीह हि तद्वस्तु नात्मभूतं यदात्मनः ।
कथं नश्यति तद्वस्तु स्वात्मभूतं यदात्मनः ।। ४६
जायते नैव तद्वस्तु नात्मभूतं यदात्मनः ।
जायते चैव तद्वस्तु स्वात्मभूतं यदात्मनः ।। ४७
कथं तज्जायते तस्मात्स्वात्मभूतं यदात्मनः ।। ४८
तस्मात्सम्यग्ज्ञानवशाद्ब्रह्मणः सर्वपदार्थानामा-
गमः ।। ४९
अवतीर्णानां च तेषामवतरणसमकालमेवाविद्यो-
देति तत्त्वज्ञानं दृढतामेति तदनु शतसहस्रस्कन्धो
विचित्रशुभाशुभफलभरफलितो भूरिशाखः स्फार-
तामेति संसारद्रुमः ।। ५०
आशामञ्जरिताकृतिं विफलितं दुःखादिभिर्दारुणै-
र्भोगैः पल्लवितं जराकुसुमितं तृष्णालताभासुरम् ।
संसाराभिधवृक्षमात्मनिगडं छित्त्वा विवेकासिना
मुक्तस्त्वं विहरेह वारणपतिः स्तम्भादिवोन्मोचितः
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे सर्वैकत्वप्रतिपादनं नामैकोनचत्वारिशः सर्गः ।। ३९ ।।