योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ३८

विकिस्रोतः तः
Jump to navigation Jump to search


अष्टत्रिंशः सर्गः ३८

श्रीवसिष्ठ उवाच ।
एवं स्थिते तु तज्ज्ञानां यदेतत्कर्तृत्वं दृश्यते सुख-
दुःखादिषु योगादिषु वा तदसन्नतु मूर्खाणाम् ।। १
यतः कर्तृत्वं नाम किमुच्यते । यो ह्यन्तस्थाया
मनोवृत्तेर्निश्चय उपादेयताप्रत्ययो वासनाभिधान-
स्तत्कर्तृत्वशब्देनोच्यते ।। २
चेष्टावशात्तादृक्फलभोक्तृत्वं वासनानुरूपं स्प-
न्दते पुरुषः स्पन्दानुरूपं फलमनुभवति । फलभो-
क्तृत्वं नाम. कर्तृत्वादिति सिद्धान्तः ।। ३
तथाच ।
कुर्वतोऽकुर्वतो वापि स्वर्गेऽपि नरकेऽपि वा ।
यादृग्वासनमेतत्स्यान्मनस्तदनुभूयते ।। ४
तस्मादज्ञाततत्त्वानां पुंसां कुर्वतामकुर्वतां च
कर्तृता नतु ज्ञाततत्त्वानामवासनत्वात् ।। ५
ज्ञाततत्त्वो हि शिथिलीभूतवासनः कुर्वन्नपि
फलं नानुसंदधाति । अथच स्पन्दनमात्रं केवलं
करोत्यसक्तबुद्धिः संप्राप्तमपि फलमात्मैवेदं सर्वमेव
कर्मफलमनुभवत्यकुर्वन्नपि करोति मग्नमनाः ।। ६
मनो यत्करोति तत्कृतं भवति यन्न करोति तन्न
कृतं भवति अतो मन एव कर्तृ न देहः ।। ७
चित्तादेवायं संसार आगतश्चित्तमय एव चित्त-
मात्रं चित्त एव स्थित इति विज्ञातम् । विषयश्च
मृगतृ- सर्वमुपशान्तमभूद्वासनैवेति ज्ञ एवास्तीति ।। ८
आत्मविदां हि तन्मनः परमुपशममागतं
मृगतृष्णाजलमिव वर्षति जलदे हिमकण इव चण्डातपे
विलीनं तुर्यदशामुपागतं स्थितम्।। ९
नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् ।
न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः ।। १०
न वासनामये स्पन्दरसे गज इव पल्वले मज्जति
तज्ज्ञो मूर्खमनोभोगभूमिमेव पश्यति न सत्तत्त्वं।।११
तथाचायमत्रापरो दृष्टान्तः । अकुर्वन्नपि श्वभ्र-
पतनं श्तयासनगतोऽपि श्वभ्रपातवासनावासिते
चेतसि श्वभ्रपतनदुःखमनुभवति । अपरस्तु कुर्व-
न्नपि श्वभ्रपतनं परममुपशममुपगतवति मनसि
शय्यासनसुखमनुभवति । एवमनयोः शय्यासन-
श्वभ्रपातयोरेकः श्वभ्रपतनस्याकर्तापि कर्ता संपन्नो
द्वितीयश्च श्वभ्रपतनस्य कर्ताप्यकर्ता संपन्नश्चित्त-
वशात्तस्माद्यच्चित्तं तन्मयो भवति पुरुष इति
सिद्धान्तः ।। १२
तेन तत्र कर्तुरकर्तुर्वा नित्यमसंसक्तं भवतु चेतो
नहि किंचिदस्त्यात्मतत्त्वव्यतिरिक्तं यत्र संसक्ति-
र्भाव्यते । यत्किंचिदिदं जगद्गतं तत्सर्वं शुद्धचित्त-
त्वादाभासमवेहि ।। १३
एवं चास्य ज्ञातज्ञेयस्य पुंसो नामात्मा सुखदुः-
खानां न गम्य इति निश्चये जाते नात्मव्यतिरिक्ता
आधाराधेयदृष्टयो विद्यन्त इति निश्चये जाते कर्ता
भोक्तासर्वपदार्थव्यतिरिक्तोबालाग्रसहस्रभागोऽह-
मिति निश्चये जाते यत्किंचिदिदं तत्सर्वमहमेवेति
वा निश्चये जाते सर्वसत्त्वावभासकः सर्वगस्तिष्ठा-
म्येवाहमिति निश्चये जाते नाहं सुखदुःखानां गम्य
इति विगतज्वरतया चित्तवृत्तिर्लीलयैव तिष्ठते
व्यवहारेषु ।। १४
तज्ज्ञस्य संकटे च मुदितैव केवलं ज्योत्स्नेव
भुवनभावमलंकरोति येन चित्तादृते तु ज्ञः कुर्वन्न
प्यकर्ता संपन्नो मनसोऽलेपकत्वान्नासौ पादपा
ण्यादिविक्षेपस्य यत्नकृतस्यापि कर्मणः फलमनु-
भवति ।। १५
एवं मनः सर्वकर्मणां सर्वेहितानां सर्वभावानां
सर्वलोकानां सर्वगतीनां बीजं तस्मिन्परिहृते सर्व-
कर्माणि परिहृतानि भवन्ति सर्वदुःखानि क्षीयन्ते
सर्वकर्माणि लयमुपयान्ति । मानसेनापि कर्मणा
यत्कृतेनापि ज्ञो नाक्रम्यते न विवशीक्रियते न
रञ्जनामुपैत्यव्यतिरिक्तात् ।। १६
यथा बालो मनसा नगरस्य निर्माणं निर्मृष्टं च
कुर्वंन्नगरनिर्माणं मनःकृतमकृतमिव लीलयानुभ-
वति नोपादेयतयासुखदुःखमकृत्रिममिति पश्यति
नगरनिर्मथनं च मनःकृतं कृतमिति पश्यतीति
दुःखमपि लीलयानुभवन्नपि न दुःखमिति पश्यति ।
एवमसौपरमार्थतःकुर्वन्नपि न लिप्यत एवेति ।। १७
सर्वभावेषु हेयोपादेयताभ्यां जगति किं कारणं
दुःखस्य न चोपादेये किंचिदपि संभवति यदविनाशं
व्यतिरिक्तं चात्मनस्तस्मादयमात्माऽकर्ताऽभोक्ताऽ-
तत्त्वतो यदेतत्कर्तृत्वं च स्वध्यारोप्यते ।। १८
आवश्यकं तत्सम्यग्दर्शनमोहान्न वस्तुत इति
यथाभूतवस्तुविचारणात्कर्तृत्वभोक्तृत्वे न स्तः ।
इन्द्रियेन्द्रियार्थद्वेषाभिलाषादिका दृष्टयस्तद्दृष्टीनां
दृश्यन्ते नातद्दृष्टीनाम् ।। १९
मोक्षोऽस्ति न संसारे स्वसंसक्तमनसामिहासं-
सक्तमनसां त्वेतत्सर्वमेवास्ति ।। २०

यथास्थितं ज्ञस्य केवलमात्मतत्वमेवोल्लसति
तद्वित्वैकत्ववादिसिद्धे द्वित्वैकत्वे करोति सत्त्वा-
सत्त्वे करोति शक्तिजालादभिन्नां सर्वशक्तितां च
दर्शयति तस्य ।। २१
न बन्धोऽस्ति न मोक्षोऽस्ति नाबन्धोस्ति न बन्धनम्।
अप्रबोधादिदं दुःखं प्रबोधात्प्रविलीयते ।। २२
संकल्पिता जगति मोक्षमतिर्मुधैव
संकल्पिता जगति बन्धमतिर्मुधैव ।
संत्यज्य सर्वमनहंकृतिरात्मनिष्ठो
धीरो धिया व्यवहरन्भुवि राम तिष्ठ ।। २३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे उपशमवर्णनं नाम अष्टत्रिंशः सर्गः ।। ३८ ।।