योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ३५
पञ्चत्रिंशः सर्गः ३५
श्रीवसिष्ठ उवाच ।
जयन्ति ते महाशूराः साधवो यैर्विनिर्जितम् ।
अविद्यामेदुरोल्लासैः स्वमनो विषयोन्मुखम् ।। १
संसारस्यास्य दुःखस्य सर्वोपद्रवदायिनः ।
उपाय एक एवास्ति मनसः स्वस्य निग्रहः ।। २
श्रूयतां ज्ञानसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते ।। ३
किमन्यैः शास्त्रसंदर्भैः क्रियतामिदमेव तु ।
यद्यत्स्वाद्विह तत्सर्वं दृश्यतां विषवह्निवत् ।। ४
विषमा विषयाभोगाः प्रविचार्य पुनःपुनः ।
उपरिष्टात्परित्यज्य सेव्यमानाः सुखावहाः ।। ५
दोषान्प्रसवति स्फारान्वासनावलिता मतिः ।
कीर्णकण्टकबीजा भूः कण्टकप्रसरं यथा ।। ६
अलग्नवासनाजाला मतिः प्रसरवर्जिता ।
अदृष्टरागद्वेषा या शममेति शनैः परम् ।। ७
शुभाशुभानसद्ग्लानीन्प्रसूते सुगुणान्सदा ।
फलदानङ्कुरान्काले श्रेष्ठबीजवतीव भूः ।। ८
शुभभावानुसंधानातप्रसन्ने मनसि स्थिते ।
शनैः शनैः प्रशान्ते च मिथ्याज्ञानघनाम्बुदे ।। ९
वृद्धिं याते च सौजन्ये यक्षे शुक्ल इवोडुपे ।
विवेके प्रसृते पुण्ये नभसीवार्कतेजसि ।। १०
धृतावन्तर्विवृद्धायां मुक्तायामिव कीचके ।
स्थितावन्तः कृतार्थायां मधाविव निशाकरे ।। ११
फलिते शीतलच्छाये सत्सङ्गसफलद्रुमे ।
स्रवत्यानन्दसुरस समाधिसरलद्रुमे ।। १२
मनो भवति निर्द्वन्द्वं निष्कामं निरुपद्रवम् ।
प्रशान्तचापलानर्थशोकमोहभयामयम् ।। १३
क्षीणशास्त्रार्थसंदेहं विगताशेषकौतुकम् ।
निरस्तकल्पनाजालं मोहमुक्तमलेपकम् ।। १४
निरीहं निरुपाक्रोशं निरपेक्षं निराधिकम् ।
संशान्तशोकनीहारमसक्तं ग्रन्थिवर्जितम् ।। १५
संदेहोग्रसुतं साग्रं सतृष्णादारपञ्जरम् ।
नाशयित्वा स्वमात्मानं साधयत्यर्थमैश्वरम् ।। १६
आत्मपीवरताहेतून्विकल्पांश्चायमुज्झति ।
संस्मृत्य प्रभुतामेषु जहाति तृणवत्तनुम् ।। १७
मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ।
ज्ञमनो नाशमभ्येति मनोऽज्ञस्य विवर्धते ।। १८
मनोमात्रं जगच्चक्रं मनः पर्वतमण्डलम् ।
मनो व्योम मनो देवो मनो मित्रं मनो रिपुः ।। १९
विकल्पकलुषा या स्याच्चित्तत्त्वस्यात्मविस्मृतिः ।
मन इत्युच्यते सेयं वासना भवभागिनी ।। २०
चेत्यानुपातकलितचिन्मात्रे तिष्ठताभिधम् ।
मनाग्विवकल्पकलुषं चित्तत्त्वं जीव उच्यते ।। २१
चेत्यप्रपतितं रूढसंज्ञमज्ञत्वमागतम् ।
तदेवाधिकनिःसारं कल्प्यतेऽन्तर्मनस्तया ।। २२
नात्मा संसारिपुरुषो न शरीरं न शोणितम् ।
जडं सर्वं शरीरादि देही स्ववदलेपकः।। २३
शरीरे कणशः कृत्ते नास्त्यन्यद्रुधिरादिकात् ।
निर्भिन्ने कदलीस्तम्भे नास्त्यन्यत्पल्लवादृते ।। २४
मनो जीवो नरं विद्धि तदेवाकारमागतम् ।
आत्मनात्मानमादत्ते स्वविकल्पात्मकल्पितम् ।। २५
स्वविकल्पान्नरस्तत्र प्रसार्य रचयत्यलम् ।
जालमात्मनिबन्धाय कोशकारकृमिर्यथा ।। २६
इमं देहभ्रमं त्यक्त्वा देशकालान्तरे पुनः ।
शरीरत्वमथादत्ते पल्लवत्वमिवाङ्कुरः ।। २७
यादृग्वासनमेतत्स्यात्तमनस्तादृक्प्रजायते ।
जातं स्वपिति यच्चित्तं तत्स्वप्ने निशि तिष्ठति ।। २८
अम्लं मधुरसासिक्तं मधुरं मधुरञ्जितम् ।
बीजं प्रतिविषाकल्कसिक्तं च कटु जायते ।। २९
शुभवासनया चेतो महत्या जायते महत् ।
भवतीन्द्रमनोराज्य इन्द्रता स्वप्नभाङ्गरः ।। ३०
क्षुद्रवासनया चेतःक्षुद्रतामपि पेलवाम् ।
पिशाचविभ्रमात्स्वप्ने पिशाचान्निशि पश्यति ।। ३१
सरसि स्फारनैर्मल्ये कालुष्यं याति न स्थितिम् ।
तथैव स्फारकालुष्ये प्रसादो याति न स्थितिम् ।। ३२
मनसि स्फारकालुष्ये तद्रूपं जायते फलम् ।
तथैव स्फारनैर्मल्ये तद्रूपं जायते फलम् ।। ३३
त्यजत्युदारां न गतिं क्षीणोऽप्यनिशमुत्तमः ।
उद्योगवानविरतं पूरणाशामिवोडुपः ।। ३४
नेह बन्धो न मोक्षोऽस्ति नाबन्धोऽस्ति न बन्धता।
मिथ्योत्थितैव मायेयमिन्द्रजाललता यथा ।। ३५
गन्धर्वनगराकारा मृगतृष्णा इवोत्थिता ।
द्विचन्द्रविभ्रमाभासा द्वैतैकत्वविवर्जिता ।। ३६
सर्वैव ब्रह्मसत्तेयमित्येषा परमार्थता ।
परिस्फुरति निःसारः संसारोऽयमसन्मयः ।। ३७
नानन्तोऽहं वराकोऽहमिति दुर्निश्चयोदितः ।
अनन्तोऽस्मीश्वरोऽस्मीति निश्चयेन विलीयते ।। ३८
सर्वगे स्वात्मनि स्वच्छे एषोऽहमिति भावना ।
एतत्तद्बन्धनं लोके स्वविकल्पोपकल्पितम् ।। ३९
बन्धमोक्षदशाहीना द्वित्वैकत्वविवर्जिता ।
सर्वैव ब्रह्मसत्तेयमित्येषा परमार्थता ।। ४०
नैर्मल्यप्राप्तमरणमसक्तं सर्वदृष्टिषु ।
अमनस्त्वमिहापन्नं ब्रह्म पश्यति नान्यथा ।। ४१
मनो निर्मलतां यातं शुभसंतानवारिभिः ।
ब्राह्मीं दृष्टिमुपादत्ते रागं शुक्लपटो यथा ।। ४२
सर्वमेव ममात्मेति सर्वभावनयानघ ।
हेयादेयबले क्षीणे बन्धमोक्षो विमुच्यताम् ।। ४३
शुद्धस्य मनसः कायशास्त्रवैराग्यबुद्धिभिः ।
अभिजातोपलस्येव जगत्तस्येति विद्युतिः ।। ४४
पदार्थेनैकतामेत्य मनसो नैकतानता ।
असत्यज्ञानदृष्टिं तां विद्धि क्षणविनाशिनीम् ।। ४५
सबाह्याभ्यन्तरं त्यक्त्वा सर्वां दृश्यदृशं यदा ।
मनस्तिष्ठति तल्लीनं संप्राप्तं तत्पदं तदा ।। ४६
दृश्यदृष्टिः स्फुटा येयं सा ह्यवश्यमसन्मयी ।
तन्मयत्वं च मनसः स्वरूपं विद्धि नेतरत् ।। ४७
आद्यन्तयोर्विनाशित्वान्मध्येऽपि तदसन्मयम् ।
अज्ञातमनसस्तेन दुःखिता हस्तसंस्थिता ।। ४८
आत्मैवेदं जगदिति विना भावेन दुःखदा ।
दृश्यश्रीरन्यथा त्वेषा भोगमोक्षप्रदायिनी ।। ४९
जलमन्यत्तरङ्गोऽन्य इति नानातयाऽज्ञता ।
जलमेव तरङ्गोऽयमित्येकत्वात्किल ज्ञता ।। ५०
दुःखमायात्यसदिति हेयोपादेयरूपि यत् ।
तदभावेन तु ज्ञानादानन्त्यमवशिष्यते ।। ५१
संकल्पकल्पितत्वाच्च मनोरूपमसन्मयम् ।
असन्मयविनाशे तु कः शोको वद राघव ।। ५२
अवत्सलो यथा बन्धुररागद्वेषया धिया ।
दृश्यते पश्य तद्वत्त्वं तत्त्वं पञ्जरमात्मनः ।। ५३
अवत्सलाद्यथा बन्धोः सुखदुःखैर्न लिप्यते ।
तत्त्वेन संपरिज्ञानात्तथा तत्त्वचयात्मनः ।। ५४
तदनादि शिवं ज्ञानं यन्मध्यं द्रष्टृदृश्ययोः ।
तस्मिन्सत्ये मनः शान्तं पांसुर्वायुक्षये यथा ।। ५५
उपशान्ते मनोवायौ देहपांसुः प्रशाम्यति ।
पुनः संसारनगरे न नीहारः प्रवर्तते ।। ५६
वासनाप्रावृषि क्षीणे संस्थितौ राममागते ।
जाड्ये जनितहृत्कम्पे पङ्के शोषमुपागते ।। ५७
शुष्के तृष्णावटे शान्ते मन्दे हृदयकानने ।
क्षीणेष्वक्षकदम्बेषु मिथ्याज्ञानघने क्षते ।। ५८
क्षीयते मोहमिहिका प्रभात इव शर्वरी ।
क्वापि गच्छति तज्जाड्यं विषं मन्त्रहतं यथा ।। ५९
देहाद्रौ न भयक्षुद्राः सरितः प्रसरन्त्यलम् ।
नोल्लसन्ति लसत्पक्षाः संकल्पोग्रकलापिनः ।। ६०
परां निर्मलतामेति संविदाकाशगोचरः ।
राजतेऽतितरामच्छो जीवादित्यो महोदयः ।। ६१
घनमोहभरोन्मुक्ता विविक्तत्वं परं गताः ।
समये ह्यतिशोभन्ते धौता आशा महादिशः ।। ६२
भृशमाभाति विमला मुदिताकाशमञ्जरी ।
शीतलीकृतदिक्वक्रा शरद्व्योम्नीव चन्द्रिका ।। ६३
सर्वसंपत्प्रकाशेन परमानन्ददायिना ।
भृशं सफलतामेति सुविविक्ता विवेकभूः ।। ६४
सपर्वतवनाभोगं परमालोकसुन्दरम् ।
अच्छाच्छं शीतलच्छायं जायते भुवनान्तरम् ।। ६५
विस्तारितं सुसुमतां स्फारितं स्फटिकाकृतिम् ।
उपैति हृत्सरः स्वच्छं नीरजोम्बुजकोशकम्।। ६६
हृत्पद्मकोशान्मलिनः स्वाहंकारमधुव्रतः ।
अपुनर्दर्शनायैव चञ्चलः क्वापि गच्छति ।। ६७
भवत्यपगताक्षेपः सर्वगः सर्वनायकः ।
निर्वासनः शान्तमनाः स्वदेहनगरेश्वरः ।। ६८
विचारणासमधिगतात्मदीपको
मनस्यलं परिगलितेव धीरधीः ।
विलोकयन्क्षयभवनीरसा गती-
र्गतज्वरो विलसति देहपत्तने ।। ६९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये स्थितिप्रकरणे उपशमवर्णनं नाम पञ्चत्रिंशः सर्गः ।। ३५ ।।