योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ३३

विकिस्रोतः तः
Jump to navigation Jump to search


त्रयस्त्रिंशः सर्गः ३३

श्रीवसिष्ठ उवाच ।
सर्वातिशयसाफल्यात्सर्वं सर्वत्र सर्वदा ।
संभवत्येव तस्मात्त्वं शुभोद्योगं न संत्यज ।। १
मित्रस्वजनबन्धूनां नन्दिनानन्ददायिना ।
सरसीशानमासाद्य मृत्युरप्युपनिर्जितः ।। २
सर्वोत्कर्षेण संपन्ना देवा अपि विमर्दिताः ।
दानवैर्दानवार्थाढ्यैर्गजैः पद्माकरा इव ।। ३
मरुत्तनृपतेर्यज्ञे संवर्तेन महर्षिणा ।
ब्रह्मणेवापरः सर्गो भावितः ससुरासुरः ।। ४
महातिशययुक्तेन विश्वामित्रेण विप्रता ।
भूयोभूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता ।। ५
पिष्टसेकाम्बु दुष्प्रापं रसायनवदश्नता ।
दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना ।। ६
त्रैलोक्यमल्लांस्तृणवदश्नन्विष्ण्वलजादिकान् ।
भक्त्यातिशयदार्ढ्येन कालः श्वेतेन कालितः ।। ७
प्रणयेन यमं जित्वा कृत्वा वचनसंगमम् ।
परलोकादुपानीतः सावित्र्या सत्यवान्पतिः ।। ८
न सोऽस्त्यतिशयो लोके यस्यास्ति न फलं स्फुटम् ।
भवितव्यं विचार्यान्तः सर्वातिशयशालिना ।। ९
आत्मज्ञानमशेषाणां सुखदुःखदशादृशाम् ।
मूलकाषकरं तस्माद्भाव्यं तत्रातिशायिना ।। १०
नाशायापद्गतार्थिन्या दृष्ट्या दृश्यादिदृष्टयः ।
दुःखादृते निराबाधं सुखं किं चिदवाप्यते ।। ११
अशमः परमं ब्रह्म शमश्च परमं पदम् ।
यद्यप्येवं तथाप्येनं प्रथमं विद्धि शंकरम् ।। १२
अभिमानं परित्यज्य शममाश्रित्य शाश्वतम् ।
विचार्य प्रज्ञयार्यत्वं कुर्यात्सज्जनसेवनम् ।। १३
न तपांसि न तीर्थानि न शास्त्राणि जयन्ति च ।
संसारसागरोत्तारे सज्जनासेवनं विना ।। १४
लोभमोहरुषां यस्य तनुतानुदिनं भवेत् ।
यथाशास्त्रं विहरति स्वस्वकर्मसु सज्जनः ।। १५
अथात्मविदुषां सङ्गात्तस्य साधोः प्रवर्तते ।
अत्यन्ताभाव एवास्य यथा दृश्यस्य दृश्यते ।। १६
दृश्यात्यन्ताभावतस्तु परमेवावशिष्यते ।
अन्याभाववशादाशु जीवस्तत्रैव लीयते ।। १७
नचोत्पन्नं नचैवासीद्दृश्यं नच भविष्यति ।
वर्तमानेऽपि नैवास्ति परमेवास्त्यवेधितम् ।। १८
एवं युक्तिसहस्रेण दर्शितं दृश्यतेऽपि च ।
सर्वैरेवानुभूतं च दर्शयिष्यामि चाधुना ।। १९
तथेदममलं शान्तं त्रिजगत्संविदम्बरम् ।
इदं तत्त्वमतत्त्वादि कुतोऽत्र स्यात्कथं च वा ।। २०
चिच्चमत्कुरुते चारु चञ्चलाऽचञ्चलात्मनि ।
यत्तयैव तदेवेदं जगदित्यवबुध्यते ।। २१
त्रैलोक्यभूयोनुभवश्चिदादित्यांशुमण्डलम् ।
को वा स्वांशुमतोर्भेदो निर्विकल्पःस कथ्यताम् ।।२२
स्वाभावतोऽस्याश्चिदृष्टेर्ये उन्मेषनिमेषणे ।
जगद्रूपानुभूतेस्तावेतावस्तमयोदयौ ।। २३
अहमर्थोऽपरिज्ञातः परमार्थाम्बरे मलम् ।
परिज्ञातोऽहमर्थस्तु परमात्माम्बरं भवेत् ।। २४
अहंभावः परिज्ञातो नाहंभावो भवत्यलम् ।
एकतामम्बुनेवाम्बु याति चिन्नभसात्मना ।। २५
अहमादिजगद्दृश्यं किल नास्त्येव वस्तुतः ।
अवश्यमेव तत्तस्माच्छिष्यतेऽहंविचारतः ।। २६
बाध्यते चामलधियामपिशाचे पिशाचधीः ।
शिशूनां तावदाध्वान्तःकरणानां विचारणा ।। २७
चिज्ज्योत्स्ना यावदेवान्तरहंकारघनावृता ।
विकासयति नो तावत्परमार्थकुमुद्वतीम् ।। २८
प्रमार्जितेऽहमित्यस्मिन्पदे स्वार्थे स्वयं विना ।
नरकस्वर्गमोक्षादितृष्णायाः कल्पनैव का ।। २९
हृदि यावदहंभावो वारिदः प्रविजृम्भते ।
तावद्विकासमायाति तृष्णाकुटजमञ्जरी ।। ३०
आक्रम्य चेतनां नित्यमहंकाराम्बुदे स्थिते ।
जाड्यमेव स्थितिं याति न प्रकाशः कदाचन ।। ३१
असन्नयमहंकारः स्वयं मिथ्या प्रकल्पितः ।
दुःखायैव न हर्षाय बालसंभ्रमयक्षवत् ।। ३२
मुधैव कल्पितो मोहमहंभावः प्रयच्छति ।
अनन्तसंसारकरं दामादिष्विव दुर्मतौ ।। ३३
अयं सोऽहमिति स्फारान्मोहादन्यतरत्तमः ।
अनर्थभूतं संसारे न भूतं न भविष्यति ।। ३४
यत्किंचिदिदमायाति सुखदुःखमलं भवे ।
तदहंकारचक्रस्य प्रविकारो विजृम्भते ।। ३५
अहंकाराङ्कुरः कृष्टो हृदयेनावरोपितः ।
सहस्रशाखं दुश्छेदं तस्य संसृतिनाशनम् ।। ३६
अहंभावोऽङ्कुरो जन्म वृक्षाणामक्षयात्मनाम् ।
ममेदमिति विस्तीर्णास्तेषां शाखाः सहस्रशः ।। ३७
करटापातविस्फोटा भान्त्यर्था वासनादयः ।
विचार्यचारुरववत्तरङ्गवरपङ्किवत् ।। ३८
अहंभावनया भाति त्वमहंभाववर्जितः ।
संसारचक्रवहनमात्मनः परिरोधया ।। ३९
अहंभावतमो यावज्जन्मारण्ये विजृम्भते ।
तावदेता विवल्गन्ति चिन्तामत्ताः पिशाचिकाः।। ४०
अहंकारपिशाचेन गृहीतो यो नराधमः ।
न शास्त्राणि न मन्त्राश्च तस्याभावस्य सिद्धये ।। ४१
श्रीराम उवाच ।
केनोपायेन भगवन्नहंकारो न वर्धते ।
तं त्वं कथय मे ब्रह्मन्संसारभयशान्तये ।। ४२
श्रीवसिष्ठ उवाच ।
चिन्मात्रदर्पणाकारे निर्मले स्वात्मनि स्थिते ।
इति भावानुसंधानादहंकारो न वर्धते ।। ४३
मिथ्येयमिन्द्रजालश्रीः किं मे स्नेहविरागयोः ।
इत्यन्तरानुसंधानादहंकारो न जायते ।। ४४
नाहमात्मनि नो यस्य दृश्यश्रिय इति स्वयम् ।
शान्तेन व्यवहारेण नाहंकारः प्रवर्धते ।। ४५
अहं हि जगदित्यन्तर्हेयादेयदृशोः क्षये ।
समतायां प्रसन्नायां नाहंभावः प्रवर्धते ।। ४६
अहं चिज्जगदित्यन्तर्हेयादेयदृशोः क्षये ।
समतायां प्रसन्नायां नाहंभावः प्रवर्धते ।। ४७
श्रीराम उवाच ।
किमाकृतिरहंकारः कथं संत्यज्यते प्रभो ।
सशरीरोऽशरीरश्च त्यक्ते तस्मिंश्च किं भवेत् ।। ४८
श्रीवसिष्ठ उवाच ।
त्रिविधो राघवास्तीह त्वहंकारो जगत्त्रये ।
द्वौ श्रेष्ठावितरस्त्याज्यः श्रृणु त्वं कथयामि ते ।। ४९
अहं सर्वमिदं विश्वं परमात्माहमच्युतः ।
नान्यदस्तीति परमा विज्ञेया सा ह्यहंकृतिः ।। ५०
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ।
सर्वस्माद्व्यतिरिक्तोऽहं बालाग्रशतकल्पितः ।। ५१
इति या संविदेषासौ द्वितीयाहंकृतिः शुभा ।
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ।। ५२
अहंकाराभिधा या सा कल्प्यते नतु वास्तवी ।
पाणिपादादिमात्रोऽयमहमित्येष निश्चयः ।। ५३
अहंकारस्तृतीयोऽसौ लौकिकस्तुच्छ एव सः ।
वर्ज्य एव दुरात्मासौ शत्रुरेव परः स्मृतः ।। ५४
अनेनाभिहतो जन्तुर्न भूयः परिरोहति ।
रिपुणानेन बलिना विविधाधिप्रदायिना ।। ५५
कष्टीकृतमतिर्लोकः संकटेष्वेव मज्जति ।
अनया दुरहंकृत्या भावात्संसक्तया चिरम् ।। ५६
शिष्टाहंकारवाञ्जन्तुर्भगवान्याति मुक्तताम् ।
लोकाहंकारवद्दोषवपुरस्मिन्निरूपणः ।। ५७
न देहोऽस्मीति निर्णीय वर्जनं महतां मतम् ।
प्रथमं द्वावहंकारावङ्गीकृत्यान्त्यलौकिकौ ।। ५८
प्रथमं द्वावहंकारावङ्गीकृत्यान्त्यलौकिकौ ।
तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी ।। ५९
अनया दुरहंकृत्या दामव्यालकटाः किल ।
तां दशां समनुप्राप्ता या कथास्वपि खेददा ।। ६०
श्रीराम उवाच ।
तृतीयां लौकिकीमेतां त्यक्त्वा चित्तादहंकृतिम् ।
किंभावः पुरुषो ब्रह्मन्प्राप्नुयादात्मनो हितम् ।। ६१
श्रीवसिष्ठ उवाच ।
एषा तावत्परित्याज्या त्यक्त्वैतां दुःखदायिनीम् ।
यथा यथा पुमांस्तिष्ठेत्परमेति तथा तथा ।। ६२
अहंकारदृशावेते पूर्वोक्ते भावयन्यदि ।
तिष्ठेदुपैति परमं तत्पदं पुरुषोऽनघ ।। ६३
अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः ।
संतिष्ठेत तथात्युच्चैः पदमेवाधिरोहति ।। ६४
सर्वदा सर्वयत्नेन लौकिकी दुरहंकृतिः ।
परमानन्दबोधाय वर्जनीयाऽनया धिया ।। ६५
शरीरास्थामयापुण्यदुरहंकारवर्जनम् ।
अत्यन्तपरमं श्रेय एतदेव परं पदम् ।। ६६
भावादहंकृतिं त्यक्त्वा स्थूलामेतां हि लौकिकीम् ।
तिष्ठन्व्यवहरन्वापि न नरः प्रपतत्यधः ।। ६७
संशान्ताहंकृतेर्जन्तोर्भोगा रोगा महामते ।
न स्वदन्ते सुतृप्तस्य यथा प्रतिविषा रसाः ।। ६८
भोगेष्वस्वदमानेषु पुंसः श्रेयः पुरो गतम् ।
क्षीणेऽन्धकारे किं नाम मनसोऽन्यत्प्रवर्तते ।। ६९
अहंकारानुसंधानवर्जनादेव राघव ।
पौरुषेण प्रयत्नाच्च तीर्यते भवसागरः ।। ७०
नाहं न तेन मम किंचिदपीति मत्वा
सर्वं च मे सकलमप्यहमेव चेति ।
लब्धास्पदं मनसि संविदमेवमीड्यां
नीत्वा स्थितिं परमुपैति पदं महात्मा ।। ७१

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे दामव्यालकटोपाख्यानेऽहंकारविचारो नाम त्रयस्त्रिंशः सर्गः ।। ३३ ।।