योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ३२

विकिस्रोतः तः
Jump to navigation Jump to search


द्वात्रिंशः सर्गः ३२

श्रीराम उवाच ।
सतामप्यसतामेव बालयक्षपिशाचवत् ।
दामव्यालकटादीनां दुःखस्यान्तः कथं भवेत् ।। १
श्रीवसिष्ठ उवाच ।
दामव्यालकुटुम्बैस्तैस्तदैव यमकिङ्करैः ।
प्रार्थितेन यमेनोक्तमिदं श्रृणु रघूद्वह ।। २
यदा वियोगमेष्यन्ति श्रोष्यन्ति च निजां कथाम् ।
दामादयस्तदा मुक्ता भविष्यन्तीत्यसंशयम् ।। ३
श्रीराम उवाच ।
स्ववृत्तान्तमिमं कुत्र कदा कथयते कथम् ।
श्रोष्यन्ति भगवंस्ते वा वर्णयेदं यथाक्रमम् ।। ४
श्रीवसिष्ठ उवाच ।
काश्मीरेषु महापद्मसरसीतीरपल्वले ।
भूयोभूयोऽनुभूयैव मत्स्ययोनिपरम्पराम् ।। ५
आलोलिताशया लोलाः कालेन लयमागताः ।
तत्रैव पद्मसरसि ते भविष्यन्ति सारसाः ।। ६
तत्र कह्लारमालासु सरोजपटलीषु च ।
शैवालवरवल्लीषु तरङ्गवलनासु च ।। ७
चलत्कुसुमदोलासु नीलोत्पललतासु च ।
सीकरौघाभ्रलेखासु शीतलावर्तवर्तिषु ।। ८
सारसाः सरसंभोगान्भुक्त्वा भुवनभूषणाः ।
विहृत्य सुचिरं कालमलमागतशुद्धयः ।। ९
ते वियुक्ता भविष्यन्ति मुक्तये लब्धबुद्धयः ।
रजःसत्त्वतमांसीव भेदं प्राप्य यदृच्छया ।। १०
काश्मीरमण्डलस्यान्तर्नगरं नगशोभितम् ।
नाम्नाधिष्ठानमित्येव श्रीमत्तस्य भविष्यति ।। ११
प्रद्युम्नशिखरं नाम तस्य मध्ये भविष्यति ।
श्रृङ्गं लघु सरोजस्य कोशचक्रमिवोदरे ।। १२
तस्य मूर्ध्नि गिरेर्गेहं कश्चिद्राजा भविष्यति ।
अभ्रंकषमहाशालं श्रृङ्गे श्रृङ्गमिवापरम् ।। १३
गृहस्येशानकोणेऽस्ति शिरोभित्तिव्रणोदरे ।
तस्यानिशमविश्रान्तवाताधूततृणान्तिके ।। १४
आलये दानवो व्यालः कलविङ्को भविष्यति ।
प्रथमाल्पश्रुतशास्त्र इवार्थरहितारवः ।। १५
तस्मिन्नेव तदा काले तत्र राजा भविष्यति ।
श्रीयशस्करदेवाख्यः शक्रः स्वर्ग इवापरः ।। १६
दानवो दामनामात्र मशकस्तस्य सद्मनि ।
भविष्यति बृहत्स्तम्भपृष्ठच्छिद्रे मृदुध्वनिः ।। १७
अधिष्ठानाभिधे तस्मिन्नेवान्तर्नगरे तदा ।
रत्नावलीविहाराख्यो विहारोऽपि भविष्यति ।। १८
तस्मिंस्तद्भूमिपामात्यो नरसिंह इति श्रुतः ।
करामलकवद्दृष्टबन्धमोक्षो निवत्स्यति ।। १९
भविष्यति गृहे तस्य क्रीडनः क्रकरः खगः ।
कटो मायासुरो नाम कृतराजतपञ्जरः ।। २०
स नृसिंहो नृपामात्यश्लोकैर्विरचितामिमाम् ।
दामव्यालकटादीनां कथयिष्यति सत्कथाम् ।। २१
सकटः क्रकरः श्रुत्वा तत्कथासंस्मृतात्मभूः ।
शान्तमित्थं महाशान्तं परं निर्वाणमेष्यति ।। २२
प्रद्युम्नशिखरप्रान्तवास्तव्यः कलविङ्ककः ।
तत्रत्यैश्च कथां श्रुत्वा परं निर्वाणमेष्यति ।। २३
राजमन्दिरदार्वन्तर्व्रणवास्तव्यतां गतः ।
मशकोऽपि प्रसङ्गेन श्रुत्वा शान्तिमुपैष्यति ।। २४
प्रद्युम्नश्रृङ्गाच्चटको मशको राजमन्दिरात् ।
विहारात्क्रकरश्चेति मोक्षमेष्यन्ति राघव ।। २५
एष ते कथितः सर्वो दामव्यालकथाक्रमः ।
मायैवमेव संसारशून्यैवात्यन्तभासुरा ।। २६
भ्रमयत्यपरिज्ञानान्मृगतृष्णाम्बुधीरिव ।
महतोऽपि पदादेवं नानाज्ञानवशादधः ।। २७
पतन्ति मोहिता मूढा दामव्यालकटा इव ।
क्व भ्रूक्षेपविनिष्पिष्टमेरुमन्दरसद्मता ।। २८
क्व राजगृहदार्वन्तर्व्रणे मशकरूपता ।
क्व चपेटभुजामात्रपातितार्केन्दुबिम्बता ।। २९
क्व प्रद्युम्नगिरौ गेहे भित्तिव्रणविहङ्गता ।
क्व पुष्पलीलया लोलकरतोलितमेरुता ।। ३०
क्व वा श्रृङ्गे नृसिंहस्य गृहे क्रकरपोतता ।
चिदाकाशोऽहमित्येव रजसा रञ्जितप्रभः ।। ३१
स्वरूपमत्यजन्नेव विरूपमपि बुध्यते ।
स्वयैव वासनाभ्रान्त्या सत्ययेवाप्यसत्यया ।। ३२
मृगतृष्णाम्बुबुद्ध्येव याति जन्तुरिवान्तरम् ।
तरन्ति ते भवाम्भोधिं स्वप्रवाहधियैव ये ।। ३३
शास्त्रेणासादितं दृश्यमिति निर्वाणसंस्थिताः ।
नानादुःखविकाराणि शुष्कतर्कमतानि ये ।। ३४
यान्ति श्वभ्रं जलानीव स्वलाभं नाशयन्ति ते ।
स्वानुभूतिप्रसिद्धेन मार्गेणागमगामिना ।। ३५
न विनाशो भवत्यङ्ग गच्छतां परमां गतिम् ।
इदं मे स्यादिदं मे स्यादितिबुद्धेर्महामते ।। ३६
स्वेन दौर्भाग्यदैन्येन न भस्माप्युपतिष्ठते ।
वेत्ति नित्यमुदारात्मा त्रैलोक्यमपि यस्तृणम् ।। ३७
तं त्यजन्त्यापदः सर्वाः सर्पा इव जरत्त्वचम् ।
परिस्फुरति यस्यान्तर्नित्यं सत्त्वचमत्कृतिः ।। ३८
ब्राह्ममण्डमिवाखण्डं लोकेशाः पालयन्ति तम् ।
अप्यापदि दुरन्तायां नैव गन्तव्यमक्रमे ।। ३९
राहुरप्यक्रमेणैवं पिबन्नप्यमृतं मृतः ।
सच्छास्त्रसाधुसंपर्कमर्कमुग्रप्रकाशदम् ।। ४०
ये श्रयन्ते न ते यान्ति मोहान्ध्यस्य पुनर्वशम् ।
अवश्या वश्यतां यान्ति यान्ति सर्वापदः क्षयम् ।।४१
अक्षयं भवति श्रेयः कृतं येन गुणैर्यशः ।
येषां गुणेष्वसंतोषो रागो येषां श्रुतं प्रति ।। ४२
सत्यव्यसनिनो ये च ते नराः पशवोऽपरे ।
यशश्चन्द्रिकया येषां भासितं जन्तुहृत्सरः ।। ४३
तेषां क्षीरसमुद्राणां नूनं मूर्तौ स्थितो हरिः ।
भुक्तं भोक्तव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः ।। ४४
किमन्यद्भवभङ्गाय भूयो भोगेषु लुब्धता ।
यथाक्रमं यथाशास्त्रं यथाचारं यथास्थिति ।। ४५
स्थीयतां मुच्यतामन्तर्भोगजालमवास्तवम् ।
संस्तवः क्रियतां कीर्त्या गुणैर्गगनगामिमिः ।। ४६
त्रायेते मृत्युतो ह्येते न कदाचन भोगकाः ।
गायन्ति सिद्धसुन्दर्यो येषामिन्दुसितं यशः ।। ४७
गीतिभिर्गगनाभोगैस्ते जीवन्ति मृताः परे ।
परमं पौरुषं यत्नमास्थायादाय सूद्यमम् ।। ४८
यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् ।
यथाशास्त्रं विहरता त्वरा कार्या न सिद्धिषु ।। ४९
चिरकालपरिपक्वा सिद्धिः पुष्टफला भवेत् ।
वीतशोकभयायासमगर्वमपयन्त्रणम् ।। ५०
व्यवहारो यथाशास्त्रं क्रियतां मा विनश्यताम् ।
जीवो जीर्णान्धकूपेषु भवेष्वन्तमिवागतः ।। ५१
भवतां भूरिसङ्गानामधुनेन्द्रियदामतः ।
इतःप्रभृति मा भूयो गम्यतामधमादधः ।। ५२
इदं विचार्यतां शास्त्रमस्त्रमापन्निवारणम् ।
रणे शितशरश्रेणिशतनिर्लूनवारणे ।। ५३
जीवमुद्रा च किं पङ्के भोगगन्धो निरस्यताम् ।
किमर्थमात्रया कार्यमार्याः शास्त्रमवेक्ष्यताम् ।। ५४
इदं बिम्बमिदं बिम्बमिति सत्यं विचार्यताम् ।
धिया परप्रेरणया यातमापशवो यथा ।। ५५
दौर्भाग्यदायिनी दीना शुभहीना विचारणा ।
घनदीर्घमहानिद्रा त्यज्यतां संप्रबुध्यताम् ।। ५६
सुप्तं मास्थीयतां वृद्धकच्छपेनेव पल्वले ।
उत्थानमङ्गीक्रियतां जरामरणशान्तये ।। ५७
अनर्थायार्थसंपत्तिर्भोगौघो भवरोगदः ।
आपदः संपदः सर्वाः सर्वत्रानादरो जयः ।। ५८
लोकतन्त्रानुसारेण विचाराद्व्यवहारिणाम् ।
शास्त्राचारानुसारेण कर्मणा सत्फलाय च ।। ५९
आचारचारुचरितस्य विविक्तवृत्तेः
संसारसौख्यफलदुःखदशास्त्रगृध्नोः ।
आयुर्यशांसि च गुणाश्च सहैव लक्ष्म्या
फुल्लन्ति माधवलता इव सत्फलाय ।। ६०

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे दामव्यालकटोपाख्याने सदाचारनिरूपणं नाम द्वात्रिंशः सर्गः ।। ३२ ।।