योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ३१

विकिस्रोतः तः
Jump to navigation Jump to search


एकत्रिंशः सर्गः ३१

श्रीवसिष्ठ उवाच ।
अतः प्रबोधाय तव वच्मि राम महामते ।
दामव्यालकटन्यायो मा तेऽस्त्विति तु लीलया ।। १
अविवेकानुसंधानाच्चित्तमापदमीदृशीम् ।
अनन्तभवदुःखाय परिगृह्णाति हेलया ।। २
क्व किलामरविध्वंसिशम्बरानीकनाथता ।
क्व तापतप्तजम्बालजालजर्जरमीनता ।। ३
क्व धैर्यममरानीकविद्रावणकरं महत् ।
क्व किरातमहीपालक्षुद्रकिङ्कररूपता ।। ४
क्व नाम निरहङ्कारचित्सत्त्वोदारधीरता ।
क्व मिथ्यावासनावेशादहङ्कारकुकल्पना ।। ५
शाखाप्रतानगहना संसारविषमञ्जरी ।
अहङ्काराङ्कुरा देव समुदेतीयमातता ।। ६
अहङ्कारमतो राम मार्जयान्तः प्रयत्नतः ।
अहं न किंचिदेवेति भावयित्वा सुखी भव ।। ७
अहङ्काराम्बुदच्छन्नं परमार्थेन्दुमण्डलम् ।
रसायनमयं शीतमदृश्यत्वमुपागतम् ।। ८
अहङ्कारपिशाचार्ता दामव्यालकटास्त्रयः ।
गताः सत्तामसन्तोऽपि मायामाहात्म्यदानवाः ।। ९
काश्मीरेषु महारण्यसरसीवनपल्वले ।
अद्य मत्स्याः स्थिता राम शैवाललवलालसाः ।। १०
श्रीराम उवाच ।
नासतो विद्यते भावो नाभावो विद्यते सतः ।
ते ह्यसन्तः कथं सत्तां संपन्ना इति मे वद ।। ११
श्रीवसिष्ठ उवाच ।
एवमेतन्महाबाहो नासत्संभवति क्वचित् ।
कदाचित्किंचिदप्येव बृहत्संपद्यते तनु ।। १२
किमसत्संस्थितं ब्रूहि किं तत्सद्वाथ संस्थितम् ।
सम्यङ्निदर्शनेनैव करिष्ये तव बोधनम् ।। १३
श्रीराम उवाच ।
सन्त एव स्थिताः सन्तो ब्रह्मन्वयमिमे किल ।
दामादयस्त्वसन्तोऽपि वक्षि सन्तः स्थिता इति।।१४
श्रीवसिष्ठ उवाच ।
यथा दामादयो राम स्थिता मायामया इति ।
असत्या एव सत्याभा मृगतृष्णाम्बुपूरवत् ।। १५
तथैवेमे वयमपि ससुरासुरदानवाः ।
असत्या एव वल्गामो याम आयाम एव च ।। १६
अलीकमेव त्वद्भावो मद्भावोऽलीकमेव च ।
अनुभूतोऽप्यसद्रूपः स्वप्ने स्वमरणं यथा ।। १७
मृतो बन्धुर्यथा स्वप्नेऽप्यनुभूतोऽप्यसन्मयः ।
मृतोऽयमिति चेज्ज्ञप्तिर्भवेदेवमिदं जगत् ।। १८
एषातिमूढविषय उक्तिरेव न राजते ।
अभ्यासेन विनोदेति नानुभूतेरपह्नवः ।। १९
निश्चयोऽन्तःप्ररूढो यः संपन्नोऽभ्यसनं विना ।
नाशमायाति लोकेऽस्मिन्न कदाचन कस्यचित् ।।२०
इदं जगदसद्ब्रह्म सत्यमित्येव वक्ति यः ।
तमुन्मत्तमिवोन्मत्तो विमूढोऽपि हसत्यलम् ।। २१
अक्षीबक्षीवयोरैक्यं क्व किलेहाज्ञतज्ज्ञयोः ।
अन्धप्रकाशयोर्बोधे स्याच्छायातपयोरिव ।। २२
यत्नेनाप्यनुभूतोऽर्थः सत्ये कर्तुमपह्नवम् ।
अज्ञोऽन्तश्च न शक्रोति शवमाक्रमणं यथा ।। २३
ब्रह्म सर्वं जगदिति वक्तुं नाज्ञस्य युज्यते ।
तपोविद्याननुभवे स तदेवानुभूतवान् ।। २४
अबुद्धविषये ह्येषा राम वाक्प्रविराजते ।
बुद्धस्यास्मीति रूपेण किल नास्त्येव किंचन ।। २५
ब्रह्मेवेदं परं शान्तमित्येवानुभवन्सुधीः ।
अपह्नवः स्वानुभूतेः कर्तुं तस्य क्व युज्यते। ।। २६
परस्माद्व्यतिरेकेण नाहमात्मनि किंचन ।
हेमनीवोर्मिकादित्वं न मय्यस्ति विशिष्टता ।। २७
भूतता व्यतिरेकेण मूढे नात्मनि किंचन ।
ऊर्म्यादिबुद्धौ हेमेव ज्ञे नास्ति परमार्थता ।। २८
मिथ्याहंतामयो मूढः सत्यैकात्ममयः सुधीः ।
युज्यते न क्वचिन्नाम स्वभावापह्नवोऽनयोः ।। २९
यो यन्मयस्तस्य तस्मिन्युज्यतेऽपह्नवः कथम् ।
पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्तमेव हि ।। ३०
तस्मान्नेमे वयं सत्या नच दामादयः क्वचित् ।
असत्यास्ते वयं चेमे नास्ति नः खलु संभवः ।। ३१
सत्यं संवेदनं शुद्धं बोधाकाशं निरञ्जनम् ।
सत्यं सर्वगतं शान्तमस्त्यनस्तमयोदयम् ।। ३२
सर्वं शान्तं च निःशून्यं न किंचिदिव संस्थितम् ।
तत्र व्योम्नि विभान्तीमा निजा भासोऽङ्ग सृष्टयः।।३३
यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः ।
केशोण्ड्रकादिवद्भान्ति तथेमास्तत्र दृष्टयः ।। ३४
स आत्मानं यथा वेत्ति तथानुभवति क्षणात् ।
चिदाकाशस्ततोऽसत्यमपि सत्यं तदीक्षणात् ।। ३५
न सत्यमस्ति नासत्यमिति तस्माज्जगत्त्रये ।
यद्यथा वेत्ति चिद्रूपं तत्तथोदेत्यसंशयम् ।। ३६
यथा दामादयस्तद्वदेवमभ्युदिता वयम् ।
सत्यासत्याः किमत्राङ्ग तान्प्रत्यपि विकल्पना ।। ३७
अस्यानन्तस्य चिद्व्योम्नः सर्वगस्य निराकृतेः ।
चिदुदेति यथा यान्तस्तथा सा तत्र भात्यलम् ।। ३८
यत्र दामादिरूपेण संवित्प्रकचिता स्वयम् ।
तथा सा तत्र संपन्ना तथाकारानुभूतितः ।। ३९
अस्मदादिस्वरूपेण संविद्यत्रोदिता स्वयम् ।
तथासौ तत्र संपन्ना तथाकारानुभूतितः ।। ४०
स्वस्वप्नप्रतिभासस्य जगदित्यभिधा कृता ।
चिद्व्योम्नो व्योमवपुषस्तापस्येव मृगाम्बुता ।। ४१
यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता ।
यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता ।। ४२
नच तत्क्वचिदासुप्तं न प्रबुद्धं कदाचन ।
चिद्व्योम केवलं दृश्यं जगदित्यवगम्यताम् ।। ४३
निर्वाणमेव सर्गश्रीः सर्गश्रीरेव निर्वृतिः ।
नानयोः शब्दयोरर्थभेदः पर्याययोरिव ।। ४४
परमार्थो जगदिति रूपं वेत्ति स्वयं स्वकम् ।
यथा तैमिरिकं चक्षुः केशोण्ड्रकमिवेक्षते ।। ४५
न तत्केशोण्डृकं किंचित्सा हि दृष्टिस्तथा स्थिता ।
नेदं दृश्यमिदं किंचिदित्थं चिद्व्योम संस्थितम् ।। ४६
सर्वत्र सर्वमिदमस्ति यथानुभूतं
नो किंचन क्वचिदिहास्ति न चानुभूतम् ।
शान्तं सदेकमिदमाततमित्थमास्ते
संत्यक्तशोकभयमेदमतस्त्वमास्स्व ।। ४७
शिलोदराकारघनं प्रशान्तं
महाचिते रूपमिदं स्वमच्छम् ।
नैवास्ति नास्तीति दृशौ क्वचित्तु
यच्चास्ति तत्साधु तदेव भाति ।। ४८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु स्थितिप्रकरणे सदसन्निराकरणं नामैकत्रिंशः सर्गः ।। ३१ ।।