योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ३०

विकिस्रोतः तः
Jump to navigation Jump to search


त्रिंशः सर्गः ३०

श्रीवसिष्ठ उवाच ।
इति तुष्टेषु देवेषु दानवेषु हतेषु च ।
दामव्यालकटा दीना बभूवुर्भयविह्वलाः ।। १
जज्वाल कुपितः क्वेति कल्पान्ताग्निरिव ज्वलन् ।
शम्बरः शमितानीको दामव्यालकटान्प्रति ।। २
शम्बरस्य भयाद्गत्वा पातालमथ सप्तमम् ।
दामव्यालकटास्तस्थुस्त्यक्त्वाथ निजमण्डलम् ।। ३
यमस्य किङ्करा यत्र ये कालत्रासनक्षमाः ।
कुतूहलेन तिष्ठन्ति नरकार्णवपालकाः ।। ४
ते तेषामथ यातानां दत्त्वा भयमभीरवः ।
चिन्ता इव घनाकाराः कुमारीश्च ददुः क्रमात् ।। ५
तैः सार्धं नीतवन्तस्ते तत्र दामादयोऽवधिम् ।
दशवर्षसहस्रान्तमात्तानन्तकुवासनाः ।। ६
इयं मे कामिनी कन्या ममेयं प्रभुतेति च ।
दुरूढस्नेहबन्धानां कालस्तेषां व्यवर्तत ।। ७
धर्मराजोऽथ तं देशं कदाचित्समुपाययौ ।
महानरककार्याणां विचारार्थं यदृच्छया ।। ८
अपरिज्ञातमेनं ते धर्मराजं त्रयोऽसुराः ।
न प्रणेमुर्विनाशाय सामान्यमिव किङ्करम् ।। ९
अथ वैवस्वतेनैते ज्वलितासूग्रभूमिषु ।
विहितभ्रूपरिस्पन्दमात्रेणैव निवेशिताः ।। १०
तत्र ते करुणाक्रन्दाः ससुहृद्दारबन्धवः ।
प्रदग्धाः पर्णविटपा वृक्षा इव वनानिलैः ।। ११
स्वया वासनया जातास्तयैव क्रूरया पुनः ।
बन्धकर्मकराकाराः किराता राजकिङ्कराः ।। १२
तज्जन्माथ परित्यज्य जाताः श्वभ्रेषु वायसाः ।
तदन्ते गृध्रतां यातास्ततोऽपि शुक्लतां गताः ।। १३
सूकरत्वं त्रिगर्तेषु मेषत्वं पर्वतेषु च ।
मगधेष्वथ कीटत्वं बभ्रुस्ते च कुबुद्धयः ।। १४
अनुभूयेतरामन्यां चित्रां योनिपरम्पराम् ।
अद्य मत्स्याः स्थिता राम काश्मीरारण्यपल्वले ।। १५
दावाग्निक्वथिताल्पाल्पपङ्ककल्पाम्बुपायिनः ।
न म्रियन्ते न जीवन्ति जरज्जम्बालजर्जराः ।। १६
विचित्रयोनिसंरम्भमनुभूय पुनःपुनः ।
भूत्वा भूत्वा पुनर्नष्टास्तरङ्गा जलधाविव ।। १७
भवजलधिगतास्ते वासनातन्तुनुन्ना-
स्तृणमिव चिरमूढा देहरूपैस्तरङ्गैः ।
उपशममुपयाता राम नाद्याप्यनन्तं
परिकलय महत्त्वं दारुणं वासनायाः ।। १८
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपाये स्थितिप्रकरणे दामव्यालकटजन्मान्तरचित्रवर्णनं नाम त्रिंशः सर्गः ।। ३० ।।