योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः २९

विकिस्रोतः तः
Jump to navigation Jump to search


एकोनत्रिंशः सर्गः २९

श्रीवसिष्ठ उवाच ।
एवंप्रायाकुलारम्भैरसुरैरसुहारिभिः ।
सहसा हृतसंरब्धैरारब्धः सुमहान् रणः ।। १
माययाथ विवादेन सन्धिना विग्रहेण च ।
पलायनेन धैर्येण च्छन्नगोपायनेन च ।। २
कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश्च भूरिशः ।
धृतः स संगरो देवैस्त्रिंशद्वर्षाणि पञ्चकम् ।। ३
वर्षाणि दिवसान्मासान्दशाष्टौ सप्त पञ्च च ।
वर्षाणि पेतुर्वृक्षाग्निहेत्येकाशनिभूभृताम् ।। ४
एतावता तु कालेन दृढाभ्यासादहंकृतेः ।
दामादयोऽहमित्यास्थां जगृहुर्ग्रस्तचेतसः ।। ५
नैकट्यातिशयाद्यद्वद्दर्पणं बिम्बवद्भवेत् ।
अभ्यासातिशयात्तद्वत्ते साहंकारतां गताः ।। ६
यद्वद्दूरगतं वस्तु नादर्शे प्रतिबिम्बति ।
पदार्थवासना तद्वदनभ्यासान्न जायते ।। ७
यदा दामादयो जाता अहंकारात्मवासनाः ।
तदा मे जीवितं मेऽर्थ इति दैन्यमुपागताः ।। ८
भववासनया ग्रस्ता मोहवासनया ततः ।
आशापाशनिबद्धास्ते ततः कृपणतां गताः ।। ९
मुग्धेव ह्यनहंकारैर्ममत्वमुपकल्पितम् ।
रज्ज्वां भुजङ्गत्वमिव दामव्यालकटैस्ततः ।। १०
आपादमस्तको देहः कथं मे भवतु स्थिरः ।
ममेति तृष्णाकृपणा दीनतां ते समाययुः ।। ११
स्थिरो भवतु मे देहः सुखायास्तु धनं मम ।
इति बद्धधियां तेषां धैर्यमन्तर्द्धिमाययौ ।। १२
सवासनत्वाद्वपुषामल्पसत्त्वात्सुरद्विषाम् ।
या तु प्रहारपरता मार्जितेवाशु साभवत् ।। १३
कथं सुरा जगत्यस्मिन्भवाम इति चिन्तया ।
विवशा दीनतां जग्मुः पद्मा इव निरम्भसः ।। १४
तेषां योषान्नपानेन स्वाहंकृतिमतां रतिः ।
बभूव भावभावस्था भीषणा भवभाजिनी ।। १५
अथ तस्मिन्रणे भीत्या सापेक्षत्वमुपाययुः ।
मत्तेभघनसंरब्धे वने हरिणका इव ।। १६
मरिष्यामो मरिष्याम इति चिन्ताहताशयाः ।
मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे ।। १७
शरीरैकार्थिनां तेषां भीतानां मरणादपि ।
अल्पसत्त्वतया मूर्घ्नि कृतमेव परैः पदम् ।। १८
अथ प्रम्लानसत्त्वास्ते हन्तुमग्रगतं भटम् ।
न शेकुरिन्धने क्षीणे हविर्दग्धुमिवाग्नयः ।। १९
विबुधानां प्रहरतां मशकत्वमुपागताः ।
क्षतविक्षतसंघातास्तस्थुः सामान्यसद्भटाः ।। २०
बहुनात्र किमुक्तेन मरणाद्भीतचेतसः ।
दैत्या देवेषु वलगत्सु दुद्रुवुः समराजिरात् ।। २१
तेषु द्रवत्सु भीतेषु सर्वतो दानवादिषु ।
दामव्यालकटाख्येषु विख्यातेषु सुरालये ।। २२
तद्दैत्यसैन्यं न्यपतद्विद्रुतं खादितस्ततः ।
कल्पान्तपवनोद्भूतं ताराजालमिवाभितः ।। २३
अमराचलकुञ्जेषु शिखराणां शिखासु च ।
तटेषु वारिराशीनां पयोदपटलेषु च ।। २४
सागरावर्तगर्तेषु श्वभ्रेषूद्यत्सरित्सु च ।
जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च ।। २५
तद्वाणोच्छिन्नदेशेषु ग्रामेषु नगरेषु च ।
अटवीषूग्रपक्षासु मरुभूमिदवाग्निषु ।। २६
लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च ।
आन्ध्रद्वविडकाश्मीरपारसीकपुरेषु च ।। २७
नानाम्भोधितरङ्गासु गङ्गाजलघटासु च ।
द्वीपान्तरेषु जालेषु जम्बूखण्डलतासु च ।। २८
सर्वतः पर्वताकाराः पतितास्ते सुरारयः ।
विस्फोटिताङ्गचरणा विभिन्नकरबाहवः ।। २९
शाखालग्नान्त्रतन्त्रीका मुक्तरक्तभरच्छटाः ।
व्यस्तशेखरमूर्धानो निष्क्रान्ताः कुपितेक्षणाः ।। ३०
सायुधा बलमायेषुच्छिन्नकङ्कटहेतयः ।
दूरापातविपर्यस्तपतन्नानायुधांशुकाः ।। ३१
कण्ठलम्बिशिरस्त्राणचटत्कारोग्रभीतयः ।
शिखाशतशिलाप्रोता देहभागविलम्बिनः ।। ३२
शाल्मल्युग्रदृढापातकटत्कण्टकसंकटाः ।
सुशिलाफलकास्फालशतधाशीर्णमस्तकाः ।। ३३
सर्वं एव सकलायुधशस्त्र-
पातमात्रसमनन्तरमेव ।
दिक्षु नाशमगमन्नसुरेन्द्राः
पांसवोऽम्बुदनिधौ पयसीव ।। ३४

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे दामव्यालकटोपाख्याने असुरपरिभ्रंशो नामैकोनत्रिंशः सर्गः ।। २९ ।।