योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः २४

विकिस्रोतः तः
Jump to navigation Jump to search


चतुर्विंशः सर्गः २४

श्रीवसिष्ठ उवाच ।
महानरकसाम्राज्ये मत्तदुष्कृतवारणाः ।
आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ।। १
स्वाश्रयं प्रथमं देहं कृतघ्ना नाशयन्ति ये ।
ते कुकार्यमहाकोशा दुर्जयाः स्वेन्द्रियारयः ।। २
कलेवरालयं प्राप्य विषयामिषगृध्नुकाः ।
अक्षगृध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः ।। ३
विवेकतन्तुजालेन गृहीता येन ते शठाः ।
तस्याङ्गानि न लुम्पन्ति पाशा नागबलं यथा ।। ४
आपातरमणीयेषु रमते विषयेषु यः ।
विवेकधनवानस्मिन्कुकलेवरपत्तने ।। ५
इन्द्रियारिभिरन्तस्थैरवशो नाभिभूयते ।
न तथा सुखिता भूपा मृन्मयोग्रपुरीजुषः ।। ६
यथा स्वाधीनमनसः स्वशरीरपुरीश्वराः ।
आक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः ।। ७
वसन्त इव मञ्जर्यो वर्धन्ते शुद्धबुद्धयः ।
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ।। ८
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ।
तावन्निशीथवेताला वल्गन्ति हृदि वासनाः ।। ९
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ।
भृत्योऽभिमतकर्तृत्वान्मन्त्री सत्कार्यकारणात् ।। १०
सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ।
लालनात्स्निग्धललना पालनात्पावनः पिता ।। ११
सुहृदुत्तमविश्वासान्मनो मन्ये मनीषिणाम् ।
स्वालोकितः शास्त्रदृशा बुद्ध्यान्तः स्वानुभावितः।।१२
प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ।
सुदृष्टः सुपरामृष्टः सुदृढः सुप्रबोधितः ।। १३
सुगुणे योजितो भाति हृदि हृद्यो मनोमणिः ।
जन्मवृक्षकुठाराणि तथोदर्कोदयानि च ।। १४
दिशत्येवं मनोमन्त्री कर्माणि शुभकर्मणि ।
एवं मनोमणिं राम बहुपङ्ककलङ्कितम् ।। १५
विवेकवारिणा सिद्ध्ये प्रक्षाल्यालोकवान्भव ।
भवभूमिषु भीमासु विवेकविकलो वसन् ।। १६
मा पतोत्पातपूर्णासु विवशः प्राकृतो यथा ।
संसारमायामुदितामनर्थशतसंकुलाम् ।। १७
मा महामोहमिहिकामिमां त्वमवधीरय ।
विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च ।। १८
इन्द्रियारीनलं जित्वा तीर्णो भव भवार्णवात् ।
असत्येव शरीरेऽस्मिन्सुखदुःखेष्वसत्सु च ।। १९
दामव्यालकटन्यायो मा ते भवतु राघव ।
भीमभासदृढस्थित्या त्वं यास्यसि विशोकताम् ।। २०
अयमहमिति निश्चयो वृथा य-
स्तमलमपास्य महामते स्वबुद्ध्या ।
यदितरदवलम्ब्य तत्पदं त्वं
व्रज पिब भुङ्क्ष्व न बध्यसे मनस्कः ।। २१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो. स्थितिप्रकरणे मनस्यसत्ताप्रतिपादनं नाम चतुर्विंशः सर्गः ।। २४ ।।