योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः २२

विकिस्रोतः तः
Jump to navigation Jump to search


द्वाविंशः सर्गः २२

श्रीवसिष्ठ उवाच ।
जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ।
मननं त्यजतो ज्ञात्वा किंचित्परिणतात्मनः ।। १
दृश्यं संत्यजतो हेयमुपादेयमुपेयुषः ।
द्रष्टारं पश्यतो दृश्यमद्रष्टारमपश्यतः ।। २
जागर्तव्ये परे तत्त्वे जागरूकस्य जीवतः ।
सुप्तस्य घनसंमोहमये संसारवर्त्मनि ।। ३
पर्यन्तात्यन्तवैराग्यात्सरसेष्वरसेष्वपि ।
भोगेष्वाभोगरम्येषु विरक्तस्य निराशिषः ।। ४
व्रजत्यात्माम्भसैकत्वं जीर्णंजाड्ये नभस्यलम् ।
गलत्यपगतासङ्गे हिमापूर इवातपे ।। ५
तरङ्गितासु कल्लोलजललोलान्तरासु च ।
शाम्यन्तीष्वथ तृष्णासु नदीष्विव घनात्यये ।। ६
संसारवासनाजाले खगजाल इवाखुना ।
त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा ।। ७
कातकं फलमासाद्य यथा वारि प्रसीदति ।
तथा विज्ञानवशतः स्वभावः संप्रसीदति ।। ८
नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् ।
विनिर्याति मनो मोहाद्विहगः पञ्जरादिव ।। ९
शान्ते संदेहदौरात्म्ये गतकौतुकविभ्रमम् ।
परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते ।। १०
जनितोत्तमसौन्दर्या दूरादस्तमयोन्नता ।


समतोदेति सर्वत्र शान्ते वात इवार्णवे ।। ११
अन्धकारमयी मूका जाड्यजर्जरितान्तरा ।
तनुत्वमेति संसारवासनेवोदये क्षपा ।। १२
दृष्टचिद्भास्करा प्रज्ञापद्मिनी पुण्यपल्लवा ।
विकसत्यमलोद्योता प्रातर्द्यौरिव रूपिणी ।। १३
प्रज्ञा हृदयहारिण्यो भुवनाह्लादनक्षमाः ।
सत्त्वलब्धाः प्रवर्धन्ते सकलेन्दोरिवांशवः ।। १४
बहुनात्र किमुक्तेन ज्ञातज्ञेयो महामतिः ।
नोदेति नैव यात्यस्तमभूताकाशकोशवत् ।। १५
विचारणा परिज्ञातस्वभावस्योदितात्मनः ।
अनुकम्प्या भवन्तीह ब्रह्मविष्ण्विन्द्रशंकराः ।। १६
प्रकटाकारमप्यन्तर्निरहंकारचेतसम् ।
नाप्नुवन्ति विकल्पास्तं मृगतृष्णामिवैणकाः ।। १७
तरङ्गवदिमे लोकाः प्रयान्त्यायान्ति चेतसः ।
क्रोडीकुर्वन्ति चाज्ञं ते न ज्ञं मरणजन्मनी ।। १८
आविर्भावतिरोभावौ संसारो नेतरक्रमः ।
इति ताभ्यां समालोको रमते स निबध्यते ।। १९
न जायते न म्रियते कुम्भे कुम्भनभो यथा ।
भूषिते दूषिते वापि देहे तद्वदिहात्मवान् ।। २०
विवेक उदिते शीते मिथ्या भ्रममरूदिता ।
क्षीयते वासना साग्रे मृगतृष्णा मराविव ।। २१
कोऽहं कथमिदं चेति यावन्न प्रविचारितम् ।
संसाराडम्बरं तावदन्धकारोपमं स्थितम् ।। २२
मिथ्याभ्रमभरोद्भूतं शरीरं पदमापदाम् ।
आत्मभावनया नेदं यः पश्यति स पश्यति ।। २३
देशकालवशोत्थानि न ममेति गतभ्रमम् ।
शरीरे सुखदुःखानि यः पश्यति स पश्यति ।। २४
अपारपर्यन्तनभो दिक्कालादिक्रियान्वितम् ।
अहमेवेति सर्वत्र यः पश्यति स पश्यति ।। २५
वालाग्रलक्षभागात्तु कोटिशः परिकल्पितात् ।
अहं सूक्ष्म इति व्यापी यः पश्यति स पश्यति ।।२६
आत्मानमितरच्चैव दृष्ट्या नित्याविभिन्नया ।
सर्वं चिज्ज्योतिरेवेति यः पश्यति स पश्यति ।। २७
सर्वशक्तिरनन्तात्मा सर्वभावान्तरस्थितः ।
अद्वितीयश्चिदित्यन्तर्यः पश्यति स पश्यति ।। २८
आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् ।
देहोऽहमिति यः प्राज्ञो न पश्यति स पश्यति ।।२९
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा मम ।
द्वितीयो न ममास्तीति यः पश्यति स पश्यति ।। ३०
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।
चित्तं तु नाहमेवेति यः पश्यति स पश्यति ।। ३१
नाहं न चान्यदस्तीति ब्रह्मैवास्ति निरामयम् ।
इत्थं सदसतोर्मध्ये यः पश्यति स पश्यति ।। ३२
यन्नाम किंचित्त्रैलोक्यं स एवावयवो मम ।
तरङ्गोऽब्धाविवेत्यन्तर्यः पश्यति स पश्यति ।। ३३
शोच्या पाल्या मयैवेयं स्वसेयं मे कनीयसी ।
त्रिलोकी पेलवेत्युच्चैर्यः पश्यति स पश्यति ।। ३४
आत्मतापरते त्वत्तामत्ते यस्य महात्मनः ।
भवादुपरते नूनं स पश्यति सुलोचनः ।। ३५
चेत्यानुपातरहितं चिद्भैरवमयं वपुः ।
आपूरितजगज्जालं यः पश्यति स पश्यति ।। ३६
सुखं दुःखं भवो भावो विवेककलनाश्च याः ।
अहमेवेति वा नूनं पश्यन्नपि न हीयते ।। ३७
स्वात्मसत्तापरापूर्णे जगत्यंशेन वर्तिना ।
किं मे हेयं किमादेयमिति पश्यन्सुद्दङ्गरः ।। ३८
अप्रतर्क्यमनाभासं सन्मात्रमिदमित्यलम् ।
हेयोपादेयकलना यस्य क्षीणा स वै पुमान् ।। ३९
य आकाशवदेकात्मा सर्वभावगतोऽपि सन् ।
न भावरञ्जनामेति स महात्मा महेश्वरः ।। ४०
तमःप्रकाशकलनामुक्तः कालात्मतां गतः ।
यः सौम्यः सुसमः स्वस्थस्तं नौमि पदमागतम् ।।४१
यस्योदयास्तमयसंकलनाकलासु
चित्रासु चारुविभवासु जगद्गतासु ।
वृत्तिः सदैव सकलैकमतेरनन्ता
तस्मै नमः परमबोधवते शिवाय ।। ४२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे अनुत्तमपदविश्रान्तिवर्णनं नाम द्वाविंशः सर्गः ।। २२ ।।