योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः २१

विकिस्रोतः तः
Jump to navigation Jump to search

एकविंशः सर्गः २१

श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ संशयो यो महानयम् ।
हृदि व्यावर्तते लोलः कल्लोल इव सागरे ।। १
दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये ।
म्लाना संविन्मनोनाम्नी कुतः केयमुपस्थिता ।। २
यस्मादन्यन्न नामास्ति न भूतं न भविष्यति ।
कुतः कीदृक्कथं तत्र कलङ्कस्तस्य विद्यते ।। ३
श्रीवसिष्ठ उवाच ।
साधु राम त्वया प्रोक्तं जाता ते मोक्षभागिनी ।
मतिरुत्तमनिष्यन्दा नन्दनस्येव मञ्जरी ।। ४
पूर्वापरविचारार्थतत्परेयं मतिस्तव ।
संप्राप्स्यसि पदं प्रोच्चैर्यत्प्राप्तं शंकरादिभिः ।। ५
प्रश्नस्यास्य तु हे राम न कालस्तव संप्रति ।
सिद्धान्तः कथ्यते यत्र तत्रायं प्रश्न उच्यते ।। ५
सिद्धान्तकाले भवता प्रष्टव्योऽहमिदं परम् ।
करामलकवत्तेन सिद्धान्तस्ते भविष्यति ।। ७
सिद्धान्तकाले प्रश्नोक्तिरेषा तव विराजते ।
प्रावृषीव हि केकोक्तिर्युक्ता शरदि हंसगीः ।। ८
सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये ।
प्रावृषि त्वतनूदग्रपयोदपटलोत्थितः ।। ९
अयं प्रकृत आरब्धो मनोनिर्णय उत्तमः ।
यद्वशाज्जनताजन्म तदाकर्णय सुव्रत ।। 4.21.१०
एवं प्रकृतिरूपेयं मनोमननधर्मिणी ।
कर्मेति राम निर्णीतं सर्वैरेव मुमुक्षुभिः ।। ११
शृणु दर्शनभेदेन तन्नामाभिमताकृतिम् ।
वाग्मिनां वदतां यातं चित्राभिः शास्त्रदृष्टिभिः ।। १२
यं यं भावमुपादत्ते मनो मननचञ्चलम् ।
तत्तामेति घनामोदमन्तःस्थः पवनो यथा ।। १३
ततस्तमेव निर्णीय तमेव च विकल्पयन् ।
अन्तःस्थया रञ्जनया रञ्जयन्स्वामहंकृतिम् ।। १४
तन्निश्चयमुपादाय तत्रैव रसमृच्छति ।
यन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेषु च ।। १५
यन्मयं हि मनो राम देहस्तदनु तद्वशः ।
तत्तामायाति गन्धान्तः पवनो गन्धतामिव ।। १६
बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस्ततः ।
स्फुरति स्वत एवोर्वी रजोलोल इवानिले ।। १७
कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिं प्रणयत्यलम् ।
कर्म निष्पद्यते स्फारं पांसुजालमिवानिले ।। १८
एवं हि मनसः कर्म कर्मबीजं मनः स्मृतम् ।
अभिन्नैव तयोः सत्ता यथा कुसुमगन्धयोः ।। १९
यादृशं भावमादत्ते दृढाभ्यासवशान्मनः ।
तथा स्पन्दाख्यकर्माख्यप्रथाशाखा विमुञ्चति ।। 4.21.२०
तथा क्रियां तत्फलतां निष्पादयति चादरात् ।
ततस्तमेव चास्वादमनुभूयाशु बध्यते ।। २१
यं यं भावमुपादत्ते तं तं वस्त्विति विन्दति ।
तत्तच्छ्रेयोऽन्यन्नास्तीति निश्चयोऽस्य च जायते ।।२२
धर्मार्थकाममोक्षार्थं प्रयतन्ते सदैव हि ।
मनांसि दृढभिन्नानि प्रतिपत्त्या स्वयैव च ।। २३
मनो वै कापिलानां तु प्रतिपत्तिनिजामलम् ।
उररीकृत्य निर्णीय कल्पिताः शास्त्रदृष्टयः ।। २४
मोक्षे तु नान्यथा प्राप्तिरिति भावितचेतसः ।
स्वां दृष्टिं प्रतिबिम्बन्ति स्थिताः स्वनियमभ्रमैः ।। २५
वेदान्तवादिनो बुद्ध्या ब्रह्मेदमिति रूढया ।
मुक्तिः शमदमोपेता निर्णीय परिकल्पिता ।। २६
मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः ।
स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः ।। २७
विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमपूरया ।
मुक्तिः शमदमोपेता निर्णीय परिकल्पिता ।। २८
मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः ।
स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः ।। २९
आर्हतादिभिरन्यैश्च स्वयाभिमतयेच्छया ।
चित्राश्चित्रसमाचारैः कल्पिताः शास्त्रदृष्टयः ।। 4.21.३०
निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैरिवोत्थितैः ।
स्वनिश्चितैरिति प्रौढा नानाकारा हि रीतयः ।। ३१
सर्वासामेव चैतासां रीतीनामेवमाकरः ।
मनो नाम महाबाहो मणीनामिव सागरः ।। ३२
न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ ।
यद्यथा परमाभ्यस्तमुपलब्धं तथैव तत् ।। ३३
यस्त्वकृत्रिम आनन्दस्तदर्थं प्रयतैर्नरैः ।
मनस्तन्मयतां नेयं येनासौ समवाप्यते ।। ३४
दृश्यं संपरिडिम्भं स्वं तुच्छं परिहरन्मनः ।
तज्जाभ्यां सुखदुःखाभ्यां नावश्यं परिकृष्यते ।। ३५
अपवित्रमसद्रूपं मोहनं भयकारणम् ।
दृश्यमाभासमाभोगि बन्धमाभावयानघ ।। ३६
मायैषा सा ह्यविद्यैषा भावनैषा भयावहा । ।
संविदस्तन्मयत्वं यत्तत्कर्मेति विदुर्बुधाः ।। ३७ ।
दृष्ट्वा दृश्यैकतानत्वं विद्धि त्वं मोहनं मनः ।
प्रमार्जयेव तन्मिथ्या महामलिनकर्दमम् ।। ३८
दृश्यतन्मयता यैषा स्वभावस्थानुभूयते ।
संसारमदिरा सेयमविद्येत्युच्यते बुधैः ।। ३९
अनयोपहतो लोकः कल्याणं नाधिगच्छति ।
भास्वरं तापनालोकं पटलान्धेक्षणो यथा ।। 4.21.४०
स्वयमुत्पद्यते सा च संकल्पाद्व्योमवृक्षवत् ।
असंकल्पनमात्रेण भावनायां महामते ।। ४१
क्षीणायां स्वरसादेव विमर्शेन विलासिना ।
असंसङ्गः पदार्थेषु सर्वेषु स्थिरतां गतः ।। ४२
सत्यदृष्टौ प्रपन्नायामसत्ये क्षयमागते ।
निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते ।। ४३
न सत्ता यस्य नासत्ता न सुखं नापि दुःखिता ।
केवलं केवलीभावो यस्यान्तरुपलभ्यते ।। ४४
अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः ।
आत्मनोऽनन्यभूताभिरपि यः परिवर्जितः ।। ४५
वासनाभिरनन्ताभिर्व्योमेव घनराजिभिः ।
संदिग्धायां यथा रज्ज्वां सर्पतत्त्वं तथैव हि ।। ४६
चिदाकाशात्मना बन्धस्त्वबन्धेनैव कल्पितः ।
कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यथा ।। ४७
तदेवान्यत्वमादत्ते खमहोरात्रयोरिव ।
यदतुच्छमनायासमनुपाधि गतभ्रमम् ।। ४८
तत्तत्कल्पनयातीतं तत्सुखायैव कल्पते ।
शून्य एव कुसूले तु सिंहोऽस्तीति भयं यथा ।। ४९
शून्य एव शरीरेऽन्तर्बद्धोऽस्मीति भयं तथा ।
शून्य एव कुसूले तु प्रेक्ष्य सिंहो न लभ्यते ।। 4.21.५०
तथा संसारबन्धार्थः प्रेक्षितोऽसौ न लभ्यते ।
इदं जगदयं चाहमिति संभ्रान्तमुत्थितम् ।। ५१
बालानां मध्यमे काले छाया वैतालिकी यथा ।
कल्पनावशतो जन्तोर्भावाभावशुभाशुभाः ।। ५२
क्षणादसत्तामायान्ति सत्तामपि पुनः क्षणात्।
मातैव गृहिणीभावगृहीता कण्ठलम्बिनी ।। ५३
करोति गृहिणीकार्यं सुरतानन्ददा सती ।
कान्तैव मातृभावेन गृहीता कण्ठलम्बिनी ।। ५४
नूनं विस्मारयत्येव मन्मथं मातृभावनात् ।
भावानुसारिफलदं पदार्थौघमवेक्ष्य च ।। ५५
न ज्ञेनेह पदार्थेषु रूपमेकमुदीर्यते ।
दृढभावनया चेतो यद्यथा भावयत्यलम् ।। ५६
तत्तत्फलं तदाकारं तावत्कालं प्रपश्यति ।
न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ।। ५७
यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ।
भाविताकाशमातङ्गं व्योमहस्तितया मनः ।। ५८
व्योमकाननमातङ्गीं व्योमस्थामनुधावति ।
तस्मात्संकल्पमेव त्वं सर्वभावमयात्मकम् ।। ५९
त्यज राम सुषुप्तस्थः स्वात्मनैव भवात्मनः ।
मणिर्हि प्रतिबिम्बानां प्रतिषेधक्रियां प्रति ।। 4.21.६०
न शक्तो जडभावेन नतु राम भवादृशः ।
यदात्मनि जगद्राम तवेह प्रतिबिम्बति ।। ६१
तदवस्त्विति निर्णीय मा तेनागच्छ रञ्जनम् ।
तदेव सत्यमिति वाप्यभिन्नं परमात्मनः ।। ६२
मत्वान्तस्त्वमनाद्यन्तं भावयात्मानमात्मना ।
चेतसि प्रतिबिम्बन्ति ये भावास्तव राघव ।
रञ्जयन्त्वन्यसक्तत्वान्मा ते त्वां स्फटिकं यथा ।।६३
स्फटिकममननं यथा विशन्ति
प्रकटतया न च रञ्जना विचित्रा ।
इह हि विमननं तथा विशन्तु
प्रकटतया भुवनैषणा भवन्तम् ।। ६४

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे विज्ञानवादो नामैकविंशः सर्गः ।। २१ ।।