योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः १९

विकिस्रोतः तः
Jump to navigation Jump to search


एकोनविंशः सर्गः १९

श्रीवसिष्ठ उवाच ।
जीवबीजं परं ब्रह्म सर्वत्र खमिव स्थितम् ।
तेन जीवोदरजगत्यपि जीवोऽस्त्यनेकधा ।। १
चिद्धनैकघनात्मत्वाज्जीवान्तर्जीवजातयः ।
कदलीदलवत्सन्ति कीटा इव धरोदरे ।। २
यो यो नाम यथा ग्रीष्मे कल्पस्वेदाद्भवेत्कृमिः ।
यद्यद्दृश्यं शुद्धचित्खं तज्जीवो भवति स्वतः ।। ३
यथा यथा यतन्ते ते जीवकाः स्वात्मसिद्धये ।
तथा तथा भवन्त्याशु विचित्रोपासनक्रमैः ।। ४
देवान्देवयजो यान्ति यक्षा यक्षान्त्व्रजन्ति हि ।
ब्रह्म ब्रह्मयजो यान्ति यदतुच्छं तदाश्रयेत् ।। ५
स मुक्तो भृगुपुत्रो हि निर्मलत्वात्स्वसंविदः ।
बद्धः प्रथमदृष्टेन दृश्येनाशु स्वभावतः ।। ६
भुवि जाता परिम्लाना बाला यत्प्रथमं पुरः ।
संवित्प्राप्नोति तद्रूपा भवत्यन्या न काचन ।। ७
श्रीराम उवाच ।
जाग्रत्स्वप्नदशाभेदं भगवन्वक्तुमर्हसि ।
कथं च जाग्रज्जाग्रत्स्यात्स्वप्नो जाग्रद्भमः कथम् ।। ८
श्रीवसिष्ठ उवाच ।
स्थिरप्रत्यययुक्तं यत्तज्जाग्रदिति कथ्यते ।
अस्थिरप्रत्ययं यत्स्यात्तत्स्वप्नः समुदाहृतः ।। ९
जाग्रत्त्वे क्षणदृष्टः स्यात्स्वप्नः कालान्तरे स्थितः ।
तज्जाग्रत्स्वप्नतामेति स्वप्नो जाग्रत्त्वमृच्छति ।। १०
जाग्रत्स्वप्नदशाभेदो न स्थिरास्थिरते विना ।
समः सदैव सर्वत्र समस्तोऽनुभवोऽनयोः ।। ११
स्वप्नोऽपि स्वप्नसमये स्थैर्याज्जाग्रत्त्वमृच्छति ।
अस्थैर्याज्जाग्रदेवास्ते स्वप्नस्तादृशबोधतः ।। १२
स्वप्नोऽपि जाग्रद्बुद्ध्यंशो जाग्रत्त्वमनुगच्छति ।
स्वप्नता स्वप्नबुद्ध्या तु यथासंवेदनं स्थितम् ।। १३
यत्तु यावत्स्थिरं बुद्धं तत्तावज्जाग्रदुच्यते ।
क्षणभङ्गात्तु तत्स्वप्नो यथा भवति तच्छ्रुणु ।। १४
जीवधातुः शरीरेऽन्तर्विद्यते येन जीव्यते ।
तेजो वीर्यं जीवधातुरित्याद्यभिधमङ्ग यत् ।। १५
व्यवहारी यदा कायो मनसा कर्मणा गिरा ।
भवेत्तदा मरुन्नुन्नो जीवधातुः प्रसर्पति ।। १६
तस्मिन्प्रसर्पत्यङ्गेषु सर्वा संविदुदेति हि ।
दृष्टत्वात्प्रैति चित्ताख्यमन्तर्लीनजगद्भ्रमम् ।। १७
ईक्षणादिषु रन्ध्रेषु प्रसरन्ती बहिर्मयम् ।
नानाकारविकाराढ्यं रूपमात्मनि पश्यति ।। १८
स्थिरत्वात्तत्तथैवाथ जाग्रदित्यवगम्यते ।
जाग्रत्क्रम इति प्रोक्तः सुषुप्तादिक्रमं श्रृणु ।। १९
मनसा कर्मणा वाचा यदा क्षुभ्यति नो वपुः ।
शान्तात्मा तिष्ठति स्वस्थो जीवधातुस्तदा त्वसौ।।२०
समतामागतैर्वातैः क्षोभ्यते न हृदम्बरे ।
निर्वातसदने दीपो यथाऽऽलोकैककारकः ।। २१
ततः सरति नाङ्गेषु संवित्क्षुभ्यति तेन नो ।
न चेक्षणादीन्यायाति रन्ध्राण्यायाति नो बहिः ।। २२
जीवोऽन्तरेव स्फुरति तैलसंविद्यथा तिले ।
शीतसंविद्धिम इव स्नेहसंविद्यथा घृते ।। २३
जीवाकारा कला काचिच्चितिः स्वच्छतयात्मनि ।
दशामायाति सौषुप्तिं सौम्यवातां विचेतनाम् ।। २४
ज्ञात्वा वैचित्युपरते साम्यं व्यवहरन्नपि ।
जाग्रत्स्वप्नसुषुप्तेषु संबुद्धस्तुर्यवान्स्मृतः ।। २५
सुषुप्ते सौम्यतां यातैः प्राणैः संचाल्यते यदा ।
स जीवधातुः सा संवित्ततश्चित्ततयोदिता ।। २६
स्वान्तःसंस्थजगज्जालं भावाभावैः क्रमभ्रमैः ।
पश्यति स्वान्तरेवाशु स्फारं बीज इव द्रुमम् ।। २७
जीवधातुर्यदा वातैः किंचित्संक्षुभ्यते भृशम् ।
ततोऽस्म्यहं सुप्त इति पश्यत्यात्मनि खे गतिम् ।। २८
यदाम्भसा प्लाव्यतेऽसौ तदा वार्यादिसंभ्रमम् ।
अन्तरेवानुभवति स्वामोदं कुसुमं यथा ।। २९
यदा पित्तादिनाक्रान्तस्तदा ग्रीष्मादिसंभ्रमम् ।
अन्तरेवामुभवति स्फारं बहिरिवाखिलम् ।।
रक्तापूर्णो रक्तवर्णान्देशान्कालान्बहिर्यथा ।
पश्यत्यनुभवात्मत्वात्तत्रैव च निमज्जति ।। ३१
सेवते वासनां यां तां सोऽन्तः पश्यति निद्रितः ।
पवनक्षोभितो रन्ध्रैर्बहिरक्षादिभिर्यथा ।। ३२
अनाक्रान्तेन्द्रियच्छिद्रो यतः क्षुब्धोऽन्तरेव सः ।
संविदानुभवत्याशु स स्वप्न इति कथ्यते ।। ३३
समाक्रान्तेन्द्रियच्छिद्रो यः क्षुब्धो वायुना यदा ।
परिपश्यति तज्जाग्रदित्याहुर्मुनिसत्तमाः ।। ३४
इति विदितवता त्वयाधुनान्तः
प्रथितमहामतिनेह सत्यताख्या ।
असति जगति नैव भावनीया
मृतिहतिसंहृतिदोषभावनी या ।। ३५

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० स्थितिप्रकरणे जाग्रत्स्वप्नसुषुप्तितुरीयस्वरूपविचारो नामैकोनविंशः सर्गः ।। १९ ।।