योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः १८
अष्टादशः सर्गः १८
श्रीवसिष्ठ उवाच ।
सर्वसंसृतिखण्डेषु भूतबीजकलात्मनः ।
तन्मात्रप्रतिभासस्य प्रतिभासेन भिन्नता ।। १
प्रवृत्तिर्वा निवृत्तिर्वा तन्मात्रावृत्तिपूर्वकम् ।
सर्वस्य जीवजातस्य सुषुप्तत्वादनन्तरम् ।। २
प्रवृत्तिभाजो ये जीवास्ते तन्मात्रप्रदर्शिनः ।
तन्मात्रैकतया सर्गान्मिथः पश्यन्ति कल्पितान् ।। ३
तन्मात्रैक्यप्रणालेन चित्राः सर्गजलाशयाः ।
परस्परं संमिलन्ति घनतां यान्ति चाभितः ।। ४
केचित्पृथक्स्थितिगताः पृथगेव लयं गताः ।
केचिन्मिथः संमिलिता जगद्गुञ्जा स्थिताक्षता ।। ५
जगद्रुञ्जासहस्राणि यत्रासंख्यान्यणावणौ ।
अपरस्परलग्नानि काननं ब्रह्म नाम तत् ।। ६
मिथः संमिलनेनैता घनतां समुपागताः ।
यद्यद्यत्र यथा रूढं तत्तत्पश्यति नेतरत् ।। ७
वर्तमानं मनोराज्यं नैष्फल्यं समुपागता ।
सा कृत्तिर्मनसो ज्ञेया तस्य जीवपरम्परा ।। ८
परस्परं संमिलतां सर्गाणां रूढभाविनाम् ।
देहसत्ता भृशं रूढा देहाभावस्तु विस्मृतिः ।। ९
देहत्वपरिरूढत्वाच्चिद्धेम्ना विस्मृतात्मना ।
मिथ्यानुभूताऽविद्या तु शुद्धा कटकतामिता ।। १०
यथा शुद्धः प्राणमरुत्परप्राणादिवेदनात् ।
वेत्ति वेद्यं मनोराज्यं तथा सर्गान्तराश्रयम् ।। १५
सर्वेषां जीवराशीनामात्मावस्थात्रयं श्रितः ।
जाग्रत्स्वप्नसुषुप्त्याख्यमत्र देहो न कारणम् ।। १२
एवमात्मनि जीवत्वे सत्यवस्थात्रयात्मनि ।
नचाम्भसीव वीचित्वमस्मिन्कचति देहता ।। १३
चित्कलापदमासाद्य सुषुप्तान्तपदस्थितम् ।
बुद्धो निवर्तेते जीवो मूढः सर्गे प्रवर्तते ।। १४
द्वयोरेकस्वरूपैव स्वसौहार्दनिदर्शनात् ।
अज्ञः सुषुप्तोऽसंबुद्धो जीवः कश्चित्स सर्गभाक्।।१५
सर्वगत्वाच्चितः कश्चित्परसर्गेण नीयते ।
सर्गे सर्गे पृथग्रूपं सन्ति सर्गान्तराण्यपि ।। १६
तेष्वप्यन्तस्थसर्गौघाः कदलीदलपीठवत् ।
सर्वसर्गान्तरादूरं पत्रपीवरवृत्तिमत् ।। १७
स्वभावशीतलं ब्रह्म कदलीदलमण्डपः ।
कदल्यामन्यता नास्ति यथा पत्रशतेष्वपि ।। १८
ब्रह्मतत्त्वेऽन्यता नास्ति तथा सर्गशतेष्वपि ।
बीजमेव रसात्फुल्लं भूत्वा बीजं पुनर्भवेत् ।। १९
तथा ब्रह्म मनो भूत्वा बोधाद्ब्रह्म परं भवेत् ।
रसकारणकं बीजं फलभावेन जृम्भते ।। २०
ब्रह्मकारणको जीवो जगद्रूपेण जृम्भते ।
रसस्य कारणं किं स्यादिति वक्तुं न युज्यते ।। २१
ब्रह्मणः कारणं किं स्यादिति वक्तुं न युज्यते ।
स्वभावो निर्विशेषत्वात्परो वक्तुं न युज्यते ।। २२
नाकारणे कारणादि परे वस्त्वादिकारणे ।
विचारणीयः सारो हि किमसारविचारणैः ।। २३
बीजं जहद्बीजवपुः फलीभूतं विलोक्यते ।
ब्रह्माजहन्निजवपुः फलं बीजे च संस्थितम् ।। २४
बीजस्याकृतिमत्सर्वं तेनानाकृतिमत्पदम् ।
न युज्यते समीकर्तुं तस्मान्नास्त्युपमा शिवे ।। २५
स्वमेव जायतेऽस्वाभं न च तज्जायतेऽन्यदृक् ।
अतो न जातं नाजातं विद्धि ब्रह्म नभो जगत् ।। २६
दृश्यं पश्यन्स्वमात्मानं न द्रष्टा संप्रपश्यति ।
प्रपञ्चाक्रान्तसंवित्तेः कस्योदेति निजा स्थितिः ।। २७
मृगतृष्णाजलभ्रान्तौ सत्यां कैव विदग्धता ।
विदग्धतायां सत्यां तु कैवासौ मृगतृष्णिका ।। २८
आकाशविशदो द्रष्टा सर्वाङ्गोऽपि न पश्यति ।
नेत्रं निजमिवात्मानं दृशीभूतमहो भ्रमः ।। २९
आकाशविशदो द्रष्टा सर्वाङ्गोऽपि न पश्यति ।
तेषां निजमिवात्मानं दृशीभूतमिवाभ्रमः ।। ३०
आकाशविशदं ब्रह्म यत्नेनापि न लभ्यते ।
दृश्ये दृश्यतया दृष्टे त्वस्य लाभः सुदूरतः ।। ३१
तादृग्भावस्वरूपेण विना यत्र न दृश्यते ।
तत्रापि दूरोदस्तैव द्रष्टुः सूक्ष्मस्य दृश्यता ।। ३२
दृश्यं च दृश्यते तेन द्रष्टा राम न दृश्यते ।
द्रष्टैव संभवत्येको नतु दृश्यमिहास्ति हि ।। ३३
द्रष्टा सर्वात्मको दृश्ये स्थितश्चेत्कैव द्रष्टृता ।
सर्वशक्तिमता राज्ञा यद्यत्संपद्यते यथा ।। ३४
तत्तथानुभवत्याशु स एवोदेति तत्तथा ।
यथा मधुरसोल्लासः खण्डो भवति भासुरः ।। ३५
रसतामजहच्चैव फलपुष्पलतोन्नतः ।
चिदुल्लासस्तथा जीवो भूयो भवति देहकः ।। ३६
चिन्मात्रतां तामजहदेव दर्शनदृक्मयम् ।
अन्तःस्वानुभवश्चैव जगत्स्वप्नं प्रपश्यति ।। ३७
अहंतादिरसे भौमे खण्डकत्वमिवात्मनि ।
नानाखण्डसहस्रौघैरद्वितीयैर्निजात्मनः ।। ३८
यथोदेति रसो भौमश्चित्तथोदेत्यसंभ्रमम् ।
चिद्रसोल्लासवृक्षाणां कचतामात्मनात्मनि ।। ३९
दृश्यशाखाशताड्यानामिह नान्तोऽवगम्यते ।
खण्डः प्रत्येकमेवायं यथा रसचमत्कृतिम् ।। ४०
स्वादयत्येवमेषा चित्पृथक्पश्यति संस्थितिम् ।
या योदेति यथा यस्या जीवशक्तेः स्वसंसृतिः ।। ४१
तां तां तथैति सा स्वात्मचिद्रूपभुवनस्थितिम् ।
जीवसंसृतयः काश्चिन्प्रमिलन्ति परस्परम् ।। ४२
स्वयं विहृत्य संसारे शाम्यन्ति चिरकालतः ।
सूक्ष्मया परया दृष्ट्या त्वं पश्य ज्ञानचेतसा ।। ४३
जगज्वालसहस्राणि परमाण्वन्तरेष्वपि ।
चित्ते नभसि पाषाणे ज्वालायामनिले जले ।। ४४
सन्ति संसारलक्षाणि तिले तैलमिवाखिले ।
सिद्धिमेति यदा चेतस्तदा जीवो भवेच्चितिः ।। ४५
शुद्धा च सा सर्वगता तेन तन्मेलनं मिथः ।
सर्वेषां पद्मजादीनां स्वसत्ताभ्रमरूपकः ।। ४६
जगद्दीर्घमहास्वप्नः सोऽयमन्तः समुत्थितः ।
स्वप्नात्स्वप्नान्तरं यान्ति काश्चिद्भूतपरम्पराः ।। ४७
तेनोपलम्भः कुड्यादावसौ दृढतरः स्थितः ।
यद्यत्र चिद्भावयति तत्तत्राशु भवत्यलम् ।। ४८
तया स्वप्नेऽपि यदृष्टं तत्काले सत्यमेव तत् ।
चिदणोरन्तरे सन्ति समस्तानुभवाणवः ।। ४९
[ यथा बीजान्तरे पत्रलतापुष्पफलाणवः ।
परमाणुजगत्यन्तर्मन्ये चित्परमाणवः ।
लीनमाकाशमाकाशे द्वैतैक्यभ्रममुत्सृज ।। ५०
देशकालक्रियाद्रव्यैः स्वैरेवाणुभिरेव चित् ।
अणूननुभवत्यन्तरितराणि नसंभवात् ।। ५१
स्वयं सर्गस्य कचितः स्वप्ने चिदणुखण्डकः ।
ब्रह्मादेः कीटनिष्ठस्य देहदृष्ट्यानुभावितः ।। ५२
कचितं किंचिदेवेह वस्तुतस्तु न किंचन ।
स्वयं सत्यं स्वादयन्ते द्वैतं चित्परमाणवः ।। ५३
स्वयं प्रकचति स्फारदेहश्चिदणुखण्डकः ।
नेत्रादिकुसुमद्वारैः संविदामोदमुद्गिरन् ।। ५४
संपश्यतितरां कश्चिद्वहीरूपेण चिद्धटः ।
सर्वगत्वादनाशित्वादृश्यबीजस्य वै चितेः ।। ५५
अन्तरेवाखिलं कश्चित्पश्यत्यविमलं जगत् ।
तत्रातिकालकलनादुन्मज्जति निमज्जति ।। ५६
स्वप्नात्स्वप्नान्तरं तत्र तथा पश्यन्पुनःपुनः ।
मिथ्या वटेषु लुठति शिलेव शिखरच्युता ।। ५७
केचित्संमिलिताः केचिदात्मन्येवाभ्रमे स्थिताः ।
मग्नाः स्वसंवित्प्रसरे स्फुरन्तो देहखण्डकाः ।। ५८
स्वयमन्तः प्रपश्यन्ति ये जगज्जीवविभ्रमम् ।
तैस्तैः कैश्चित्ततं दृश्यमसत्स्वप्नवदाश्रितम् ।। ५९
सर्वात्मत्वात्स्वभावस्य तद्दृश्यं सत्यमात्मनि ।
सर्वगं विद्यते यत्र तत्र सर्वमुदेति हि ।। ६०
जीवान्तः प्रतिभासस्य सर्वस्य पुनरन्तरे ।
जीवखण्ड उदेत्युच्चैस्तस्यान्तरितरोऽपि च ।। ६१
जीवान्तर्जायते जीवस्तस्यान्तरपि जीवकः ।
सर्वत्र रम्भादलवज्जीवो जीवान्तरेव हि ।। ६२
दृश्यबुद्धिपरावृत्तौ सममेतदनन्तरम् ।
हेम्नीव कटकादित्वं परिज्ञातं विनश्यति ।। ६३
विचारो यस्य नोदेति कोऽहं किमिदमित्यलम् ।
तस्यान्तर्न विमुक्तोऽसौ दीर्घो जीवज्वरभ्रमः ।। ६४
विचारः सफलस्तस्य विज्ञेयो यस्य सन्मतेः ।
दिनानुदिनमायाति तानवं भोगगृध्रता ।। ६५
यथा देहोपयुक्तं हि करोत्यारोग्यमौषधम् ।
तथेन्द्रियजयेऽभ्यस्ते विवेकः फलितो भवेत् ।। ६६
विवेकोऽस्ति वचस्येव चित्रेऽग्निरिव भास्वरः ।
यस्य तेनापरित्यक्ता दुःखायैवाविवेकिता ।। ६७
यथा स्पर्शेन पवनः सत्तामायाति नो गिरा ।
तथेच्छातानवेनैव विवेकोऽस्य विबुध्यते ।। ६८
चित्रामृतं नामृतमेव विद्धि
चित्रानलं नानलमेव विद्धि ।
चित्राङ्गना नूनमनङ्गनेति
वाचा विवेकस्त्वविवेक एव ।। ६९
पूर्वं विवेकेन तनुत्वमेति
रागोऽथ वैरं च समूलमेव ।
पश्चात्परिक्षीयत एव यत्नः
स पावनो यत्र विवेकितास्ति ।। ७०
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे जीवनखण्डकावतारो नामाष्टादशः सर्गः ।। १८ ।।