योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः १७

विकिस्रोतः तः
Jump to navigation Jump to search


सप्तदशः सर्गः १७

श्रीराम उवाच ।
भगवन्भृगुपुत्रस्य प्रतिभासानुभूतितः ।
यथैषा सफला जाता तथान्यस्य न किं भवेत् ।। १
श्रीवसिष्ठ उवाच ।
इयं प्रथममुत्पन्ना सा तनुर्ब्रह्मणः पदात् ।
शुद्धा जातिर्भार्गवस्य नान्यजन्मकलङ्किता ।। २
सर्वैषणानां संशान्तौ शुद्धचित्तस्य या स्थितिः ।
तत्सत्यमुच्यते सैषा विमला चिदुदाहृता ।। ३
मनोनिर्मलसत्त्वात्म यद्भावयति यादृशम् ।
तत्तथाशु भवत्येव यथावर्तो भवेत्पयः ।। ४
यथा भृगुसुतस्यैव विभ्रमः प्रोत्थितः स्वयम् ।
प्रत्येकमप्येवमेव दृष्टान्तोऽत्र भृगोः सुतः ।। ५
बीजस्याङ्कुरपत्रादि स्वं चमत्कुरुते यथा ।
सर्वेषां भूतसङ्घानां भ्रमखण्डास्तथैव हि ।। ६
यदिदं दृश्यते विश्वमेवमेवाखिलं जगत् ।
प्रत्येकमुदितं मिथ्या मिथ्यैवास्तमुपैति च ।। ७
नास्तमेति नचोदेति जगत्किंचन कस्यचित् ।
भ्रान्तिमात्रमिदं मायामुग्धेव परिजृम्भते ।। ८
यथा संप्रतिभासस्थः स्वयं संसारखण्डकः ।
तथा तेषां सहस्राणि मिथ्या दृष्टानि सन्ति हि ।। ९
स्वप्नसंकल्पनगरव्यवहाराः परस्परम्।
पृथग्यथा न दृश्यन्ते तथैते संसृतिभ्रमाः ।। १०
एवं नगरवृन्दानि नभस्संकल्परूपिणि ।
सन्ति तानि न दृश्यन्ते मिथ्याज्ञानदृशं विना ।। ११
पिशाचयक्षरक्षांसि सन्त्येवंरूपकाणि ह ।
संकल्पमात्रदेहानि सुखदुःखमयानि च ।। १२
एवमेव वयं चेमे संपन्ना रघुनन्दन ।
स्वसंकल्पात्मकाकारा मिथ्यासत्यत्वभाविनः ।। १३
एवंरूपैव हि परे विद्यते सर्गसंततिः ।
न वास्तवी वस्तुता तु संस्थितैवमवस्तुनि ।। १४
प्रत्येकमुदितं विश्वमेवमेव मुधैव हि ।
वनगुल्मकरूपेण वसन्तैकरसो यथा ।। १५
प्रथमोऽयं स्वसंकल्पः प्रथामभ्यागतो यथा ।
तथातिपरमार्थेन दृष्टेनेत्थं विभाव्यते ।। १६
प्रत्येकमुदितं चित्तं स्वस्वभावोदरस्थितम् ।
इदमित्थं समारम्भं जगत्पश्यन्विनश्यति ।। १७
प्रतिभासवशादस्ति नास्ति वस्त्ववलोकनात्।
दीर्घस्वप्नो जगज्जालमालानं चित्तदन्तिनः ।। १८
चित्सत्तैव जगत्सत्ता जगत्सत्तैव चित्तकम् ।
एकाभावाद्वयोर्नाशः स च सत्यविचारणात् ।। १९
शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः ।
प्रमार्जनादिव मणेर्मलिनस्येह युक्तितः ।। २०
चिरमेकदृढाभ्यासाच्छुद्धिर्भवति चेतसः ।
अनाक्रान्तस्य संकल्पैः प्रतिभोदेति चेतसः ।। २१
सुवर्णं न स्थितिं याति मलवत्यंशुके यथा ।
एका दृष्टिः स्थितिं याति न म्लाने चित्तके तथा ।। २२
श्रीराम उवाच ।
प्रतिभासात्मनि जगत्येते कालक्रियाक्रमाः ।
सोदयास्तमया जाताः कथं शुक्रस्य चेतसः ।। २३
श्रीवसिष्ठ उवाच ।
यादृग्जगदिदं दृष्टं शुक्रेण पितृशास्त्रतः ।
तादृक्कस्य स्थितं चित्ते मयूराण्डे मयूरवत् ।। २४
स्वभावकोशस्थमिदं तदेतेन क्रमोदितम् ।
बीजेनाङ्कुरपत्रादिलतापुष्पफलं यथा ।। २५
जीवो यद्बासनाबद्धस्तदेवान्तः प्रपश्यति ।
स्वरूपं चात्र दृष्टान्तो दीर्घस्वप्नस्त्विदं जगत् ।। २६
प्रत्येकमुदितो राम नूनं संसृतिखण्डकः ।
रात्रौ सैन्यनरस्वप्नजालवत्स्वात्मनि स्फुटः ।। २७
श्रीराम उवाच ।
एष संसृतिखण्डोत्थो मिथः स मिलति स्वयम् ।
नो वा मिलति तन्मे त्वं यथावद्वक्तुमर्हसि ।। २८
श्रीवसिष्ठ उवाच ।
मलिनं हि मनोऽवीर्यं न मिथः श्लेषमर्हति ।
अयोऽयसि च संतप्ते शुद्धे तप्तं तु लीयते ।। २९
चित्ततत्त्वानि शुद्धानि संमिलन्ति परस्परम् ।
एकरूपाणितोयानि यान्त्यैक्यंनाविलानि हि ।। ३०
शुद्धिर्हि चित्तस्य विवासनत्व-
मभूतसंवेदनमेकरूपम् ।
तस्याशु शुद्ध्या भवति प्रबुद्ध-
स्तन्मात्रयुक्त्या परसंगमेति ।। ३१

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थि० भार्गवोपाख्याने मनोराज्यसंमेलनं नाम सप्तदशः सर्गः ।। १७ ।।