योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः १६

विकिस्रोतः तः
Jump to navigation Jump to search


षोडशः सर्गः १६

श्रीवसिष्ठ उवाच ।
अथाक्षिप्य वचस्तस्य तनयस्य तथा भृगोः ।
उवाच भगवान्कालो वचो गम्भीरनिःस्वनः ।। १
काल उवाच ।
समङ्गातापसीमेतां तनुं संत्यज्य भार्गव ।
प्रविशेमां तनुं साधो नगरीमिव पार्थिवः ।। २
काले पूर्वजया तन्वा तपः कृत्वा तया पुनः ।
गुरुत्वमसुरेन्द्राणां कर्तव्यं भवतानघ ।। ३
महाकल्पान्त आयाते भवता भार्गवी तनुः।
अपुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत् ।। ४
जीवन्मुक्तपदं प्राप्तस्तन्वा प्राक्तनरूपया ।
महासुरेन्द्रगुरुतां कुर्वंस्तिष्ठ महामते ।। ५
कल्याणमस्तु वां यामो वयं त्वभिमतां दिशम् ।
न किंचिदपि यच्चित्तं यस्य नाभिमतं भवेष्पत् ।। ६
इत्युक्त्वा मुञ्चतोर्वाष्पं तयोः सोऽन्तरधीयत ।
तप्तांग्योरिव रोदस्योः सममंशुभिरंशुमान् ।। ७
गते तस्मिन्भगवति कृतान्ते भवितव्यताम् ।
विचार्य भार्गवोऽभेद्यां नियतेर्नियतां गतिम् ।। ८
कालकारणसंशुष्कां भाविपुष्पशुभोदयाम् ।
विवेश तां तनुं बालां सुलतामिव माधवः ।। ९
सा ब्राह्मणीतनुर्भूमौ विवर्णवदनाङ्गिका ।
पपात कम्पिता तूर्णं छिन्नमूला लता यथा ।। १०
तस्यां प्रविष्टजीवायां पुत्रतन्वां महामुनिः ।
चकाराप्यायनं मन्त्रैः स कमण्डलुवारिभिः ।। ११
सर्वा नाड्यस्ततस्तन्वास्तस्याः पूर्णा विरेजिरे ।
सरितः प्रावृषीवाम्बुपूरपूरितकोटराः ।। १२
नलिनी प्रावृषीवासौ मधाविव नवा लता ।
यदा पूर्णा तदा तस्याः प्रान्ताः पल्लविता बभुः ।। १३
अथ शुक्रः समुत्तस्थौ वहत्प्राणसमीरणः ।
रसमारुतसंयोगादापूर्ण इव वारिदः ।। १४
पुरोऽभिवादयामास पितरं पावनाकृतिम् ।
प्रथमोल्लासितो मेघः स्तनितेनेव पर्वतम् ।। १५
पिताथ प्राक्तनीं तन्वा आलिलिङ्गाकृतिं ततः ।
स्नेहार्द्रवृत्तिर्जलदश्चिरादद्रितटीमिव ।। १६
भृगुर्ददर्श सस्नेहं प्राक्तनीं तानवीं तनुम् ।
मत्तो जातेयमित्यास्थां हसन्नपि महामतिः ।। १७
मत्पुत्रोऽयमिति स्नेहो भृगुमप्यहरत्तदा ।
परमात्मीयता देहे यावदाकृतिभाविनी ।। १८
बभूवतुः पितापुत्रौ तावथान्योन्यशोभितौ ।
निशावसानमुदितावर्कपद्माकराविव ।। १९
चिरसंगमसंबद्धाविव चक्राह्वदम्पती ।
घनागमनसस्नेहौ मयूरजलदाविव ।। २०
चिरकालदृढोत्कण्ठौ तुल्ययोग्यतया तया ।
स्थित्वा तत्र मुहूर्तं तावथोत्थाय महामती ।। २१
समङ्गाद्विजदेहं तं भस्मसात्तत्र चक्रतुः ।
को हि नाम जगज्जातमाचारं नानुतिष्ठति ।। २२
एवं तौ कानने तस्मिन्पावने भृगुभार्गवौ ।
संस्थितौ तापसौ दीप्तौ दिवीव शशिभास्करौ ।। २३
चेरतुर्ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू ।
देशकालदशौघेषु सुसमौ सुस्थिरौ ततः ।। २४
अथासुरगुरुत्वं स शुक्रः कालेन लब्धवान् ।
भृगुरप्यात्मनो योग्ये पदेऽतिष्ठदनामये ।। २५
शुक्रोऽसौ प्रथममिति क्रमेण जात-
स्तस्मात्सत्परमपदादुदारकीर्तिः ।
स्वेनाशु स्मृतिपदविभ्रमेण पश्चा-
दन्येषु प्रविलुलितो दशान्तरेषु ।। २६

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे भार्गव शुक्रस्य पुनर्जीवनं नाम षोडशः सर्गः ।। १६ ।।