योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः १५

विकिस्रोतः तः
Jump to navigation Jump to search


पञ्चदशः सर्गः १५

श्रीवसिष्ठ उवाच ।
विचारयन्तस्तत्त्वज्ञा इति ते जागतीर्गतीः ।
समङ्गायास्तटात्तस्मात्प्रचेलुश्चञ्चलासवः ।। १
क्रमादाकाशमाक्रम्य निर्गत्याम्बुदकोटरैः ।
संप्रापुः सिद्धमार्गेण क्षणान्मन्दरकन्दरम् ।। २
अधित्यकायां तस्याद्रेरार्द्रपर्णावगुण्ठिताम् ।
ददर्श भार्गवः शुष्कां पूर्वजन्मोद्भवां तनुम् ।। ३
उवाचेदं च हे तात तन्वी तनुरियं हि सा ।
या त्वया सुखसंभोगैः पुरा समभिलालिता ।। ४
इयं सा मत्तनुर्यस्याः कर्पूरागुरुचन्दनैः ।
अङ्गमङ्गीकृतस्नेहा धात्री चिरमलेपयत् ।। ५
इयं सा मत्तनुर्यस्या मन्दारकुसुमोत्करैः ।
रचिता शीतला शय्या मेरूपवनभूमिषु ।। ६
इयं सा मत्तनुर्मत्तदेवस्त्रीगणलालिता ।
सरीसृपमुखक्षुण्णा पश्य शेते धरातले ।। ७
चन्दनोद्यानखण्डेषु मम तन्वा ययानया ।
चिरं विलसितं सेयं शुष्ककङ्कालतां गता ।। ८
सुराङ्गनाङ्गसंसर्गादुत्तुङ्गानङ्गभङ्गया ।
चेतोवृत्त्या रहितया तन्वाद्य मम शुष्यते ।। ९
तेषु तेषु विलासेषु तासु तासु दशासु च ।।
तथा तद्भावनाबन्धः कथं स्वस्थोऽसि देहक ।। १०
हा तनो शवनामासि तापसंशोषमागता ।
कङ्कालतां प्रयातासि मां भीषयसि दुर्भगे ।। ११
देहेनाहंविलासेषु येनैव मुदितोऽभवम् ।
कङ्कालतामुपगतात्तस्मादेव बिभेम्यहम् ।। १२
ताराजालसमाकारो यत्र हारोऽभवत्पुरा ।
ममोरसि निलीयन्ते तत्र पश्य पिपीलिकाः ।। १३
द्रवत्काञ्चनकान्तेन लोभं नीता वराङ्गनाः ।
येन मद्वपुषा तेन पश्य कङ्कालतोह्यते ।। १४
पश्य मे विततास्येन तापसंशुष्ककृत्तिना ।
मत्कङ्कालकुवक्रेण वित्रास्यन्ते वने मृगाः ।। १५
पश्यामि संशुष्कतया शवोदरदरी मम ।
प्रकाशार्कांशुजालेन विवेकेनेव शोभते ।। १६
मत्तनुः परिशुष्केयं स्थितोत्तानाचलोपले ।
वैराग्यं नयतीवात्मतुच्छत्वेनान्तरं सताम् ।। १७
शब्दरूपरसस्पर्शगन्धलोभाद्विमुक्तया ।
निर्विकल्पसमाध्येव तदेतच्छुष्यते गिरौ ।। १८
मुक्ताचित्तपिशाचेन नूनं सुखमिवास्थिता ।
तनुर्दैवतभङ्गेभ्यो न बिभेति मनागपि ।। १९
संशान्ते चित्तवेताले यामानन्दकलां तनुः ।
याति तामपि राज्येन जागतेन न गच्छति ।। २०
पश्य विश्रान्तसंदेहं विगताशेषकौतुकम् ।
निरस्तकलनाजालं सुखं शेते कथं वने ।। २१
चित्तमर्कटसंरम्भसंक्षुब्धः कायपादपः ।
तथा वेगेन चलति यथाऽऽमूलान्निकृन्तति ।। २२
चित्तानर्थविमुक्तोऽद्रौ गजाभ्रहरिविग्रहम् ।
नाद्य पश्यति मे देहः परानन्द इव स्थितः ।। २३
सर्वाशाज्वरसंमोहमिहिकाशरदागमम् ।
अचित्तत्वं विना नान्यच्छ्रेयः पश्यामि जन्तुषु ।। २४
त एव सुखसंभोगसीमान्तं समुपागताः ।
महाधिया शान्तधियो ये याता विमनस्कताम् ।। २५
सर्वदुःखदशामुक्तां संस्थितां विगतज्वराम् ।
दिष्ट्या पश्याम्यमननां वने तनुमिमामहम् ।। २६
श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ भार्गवेण तदा किल ।
सुबहून्युपभुक्तानि शरीराणि पुनःपुनः ।। २७
भृगुणोत्पादिते काये तत्तस्मिंस्तस्य किं पुनः ।
महानतिशयो जातः परिदेवनमेव वा ।। २८
श्रीवसिष्ठ उवाच ।
शुक्रस्य कलना राम यासौ जीवदशां गता ।
कर्मात्मिका समुत्पन्ना भृगोर्भार्गवरूपिणी ।। २९
सा हीदंप्रथमत्वेन समुपेत्य परात्पदात् ।
भूताकाशपदं प्राप्य वातव्यावलिता सती ।। ३०
प्राणापानप्रवाहेण प्रविश्य हृदयं भृगोः ।
क्रमेण वीर्यतामेत्य संपन्नौशनसी तनुः ।। ३१
विहितब्राह्मसंस्कारा तत्र सा पितुरग्रगा ।
कालेन महता प्राप्ता शुष्ककङ्कालरूपताम् ।। ३२
इदंप्रथममायाता यदासौ ब्रह्मणस्तनुः ।
अतस्तां प्रति शुक्रेण तदा तत्परिदेवितम् ।। ३३
वीतरागोऽप्यनिच्छोऽपि समङ्गाविप्ररूपवान् ।
स शुशोच तनुं शुक्रः स्वभावो ह्येष देहजः ।। ३४
ज्ञस्याज्ञस्य च देहस्य यावद्देहमयं क्रमः ।
लोकवद्व्यवहारोऽयं सक्त्यासक्त्याथवा सदा ।। ३५
ये परिज्ञातगतयो ये चाज्ञाः पशुधर्मिणः ।
लोकसंव्यवहारेषु ते स्थिता लोकजालवत् ।। ३६
व्यवहारे यथैवाज्ञस्तथैवाखिलपण्डितः ।
वासनामात्रभेदोऽत्र कारणं बन्धमोक्षदम् ।। ३७
यावच्छरीरं तावद्धि दुःखे दुःखं सुखे सुखम् ।
असंसक्तधियो धीरा दर्शयन्त्यप्रबुद्धवत् ।। ३८
सुखेषु सुखिता नित्यं दुःखिता दुःखवृत्तिषु ।
महात्मानो हि दृश्यन्ते दृश्य एवाप्रबुद्धवत् ।। ३९
सूर्यस्य प्रतिबिम्बानि क्षुभ्यन्ति न पुनः स्थिरम् ।
चलाचलतया तज्ज्ञो लोकवृत्तिषु तिष्ठति ।। ४०
अवस्थित इव स्वस्थः प्रतिबिम्बेषु भास्करः ।
संत्यक्तलोककर्मापि बुद्ध एवाप्रबुद्धधीः ।। ४१
मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियोऽपि हि ।
बद्धबुद्धीन्द्रियो बद्धो मुक्तकर्मेन्द्रियोऽपि हि ।। ४२
सुखदुःखदृशो लोके बन्धमोक्षदृशस्तथा ।
हेतुर्बुद्धीन्द्रियाण्येव तेजांसीव प्रकाशने ।। ४३
बहिर्लोकोचिताचारस्त्वन्तराचारवर्जितः ।
समो ह्यतीव तिष्ठ त्वं संशान्तसकलैषणः ।। ४४
सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता ।
कुरु कर्माणि कार्याणि नूनं देहस्य संस्थितिः ।। ४५
आधिव्याधिमहावर्तगर्तसंसारवर्त्मनि ।
ममतोग्रान्धकूपेऽस्मिन्मा पतातापदायिनि ।। ४६
न त्वं भावेषु नो भावास्त्वयि तामरसेक्षण ।
शुद्धबुद्धस्वभावस्त्वमात्मान्तः सुस्थिरो भव ।। ४७
त्वं ब्रह्म ह्यमलं शुद्धं त्वं सर्वात्मा च सर्वकृत् ।
सर्वं शान्तमजं विश्वं भावयन्वै सुखी भव ।। ४८
व्यपगतममतामहान्धकारः
पदममलं विगतैषणं समेत्य ।
प्रभवसि यदि चेतसो महात्मं-
स्तदतिधिये महते सते नमस्ते ।। ४९

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्र० भार्गवोपा० भार्गवपरिदेवनप्रसङ्गेनोपदेशकरणं नाम पञ्चदशः सर्गः ।।१५।।