योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः १४
चतुर्दशः सर्गः १४
श्रीवसिष्ठ उवाच ।
अथ कालभृगू देवौ मन्दराचलकन्दरात् ।
गन्तुं प्रवृत्ताववनौ समङ्गासरितस्तटम् ।। १
तौ शैलादवरोहन्तौ दृष्टवन्तौ महाद्युती ।
नवहैमलताजालकुञ्जसुप्तनभश्चरान् ।। २
वल्लीवलयदोलाभिः क्रीडतो गगनाङ्गणे ।
हरिणीमुग्धमुग्धाक्षिप्रेक्षितस्मारितोत्पलान् ।। ३
सिद्धानध्यासितोत्तुङ्गशिलाशकलविष्टरान् ।
धृताकारानिवोत्साहान्हेलादृष्टजगत्त्रयान् ।। ४
कृताजस्रपतत्पुष्पधारासारनिमज्जनान् ।
तालोत्तालकृतोद्धस्तहस्तान्हस्तिघटापतीन् ।। ५
मदावलेपनिद्रालून्मदान्मूर्तानिव स्थितान् ।
पुष्पकेसररक्ताङ्गपवनारुणवालधीन् ।। ६
चञ्चलाश्चमराश्चारून्भूभृन्मण्डलचामरान् ।
कृताजस्त्रपतत्पुष्पधारासारनिमज्जनान् ।। ७
किन्नरान्भूमखर्जूराञ्शाखासरलतां गतान् ।
परस्परफलाघातक्ष्वेडावर्जितकीचकान् ।।
धातुपाटलदुर्वक्रान्मर्कटान्नटनोत्कटान् ।
लतावितानसंछन्नसानूपवनमन्दिरान् ।। ९
सिद्धानमरनारीभिर्मन्दारकुसुमाहतान् ।
धातुपाटलनिर्द्वारपयोदपटसंवृतान् ।। १०
तटानजनसंसर्गान्बौद्धान्प्रव्रजितानिव ।
सरितः कुन्दमन्दारपिनद्धलहरीघटाः ।
सागरोत्कतयेवात्तमधुमासप्रसाधनाः ।। ११
पुष्पभारपिनद्धाङ्गान्वृक्षान्पवनकम्पितान् ।
क्षीबानिव मधुप्राप्तौ घूर्णान्मधुकरेक्षणान् ।। १२
शैलराजश्रियं स्फीतां पश्यन्तौ तावितस्ततः ।
प्राप्तवन्तौ वसुमतीं पुरपत्तनमण्डिताम् ।। १३
क्षणादवापतुस्तत्र पुष्पलोलतरङ्गिणीम् ।
समङ्गां सरितं साधु सर्वपुष्पमयीमिव ।। १४
ददर्शाथ तटे तस्मिन्कस्मिंश्चित्तनयं भृगुः ।
देहान्तरपरावृत्तं भावमन्यमुपागतम् ।। १५
शान्तेन्द्रियं समाधिस्थमचञ्चलमनोमृगम् ।
सुचिरादिव विश्रान्तं सुचिरश्रमशान्तये ।। १५
चिन्तयन्तमिवानन्ताश्चिरभुक्ताऽचिरोज्झिताः ।
संसारसागरगतीर्हर्षशोकनिरन्तराः ।। १७
नूनं निश्चलतां यातमतिभ्रमितचक्रवत् ।
अनन्तजगदावर्तविवर्तातिशयादिव ।। १८
एकान्तसंस्थितं कान्तं कान्त्येकाकिनमाश्रितम् ।
उपशान्तेहसंभग्नचित्तसंभ्रमसंगमम् ।। १९
निर्विकल्पसमाधिस्थं विरतं द्वन्द्ववृत्तितः ।
हसन्तमखिलां लोकगतिं शीतलया धिया ।। २०
विगताखिलवृत्तान्तं विगताशेषभोक्तृतम् ।
निरस्तकल्पनाजालमालम्बितमहापदम् ।। २१
अनन्तविश्रान्तितते पदे विश्रान्तमात्मनि ।
प्रतिबिम्बमगृह्णन्तं सितं मणिमिवास्थितम् ।। २२
हेयोपादेयसंकल्पविकल्पाभ्यां समुज्झितम् ।
संप्रबुद्धमतिं धीरं ददर्श तनयं भृगुः ।। २३
तमालोक्य भृगोः पुत्रं कालो भृगुमुवाच ह ।
वाक्यमब्धिध्वनिनिभं तव पुत्रस्त्वसाविति ।। २४
विबुध्यतामिति गिरा समाधेर्विरराम सः ।
भार्गवोऽम्भोदघोषेण शनैरिव शिखण्डभृत् ।। २५
उन्मील्य नेत्रे सोऽपश्यदन्ते कालभृगू प्रभू ।
समोदयाविवायातौ देवौ शशिदिवाकरौ ।। २६
कदम्बलतिकापीठादथोत्थाय ननाम तौ ।
समौ समागतौ कान्तौ विप्रौ हीरहराविव ।। २७
मिथःकृतसमाचाराः शिलायां समुपाविशन् ।
मेरुपृष्ठे जगत्पूज्या ब्रह्मविष्णुहरा इव ।। २८
अथ शान्तजपो राम स समङ्गातटे द्विजः ।
तावुवाच वचः शान्तममृतस्यन्दसुन्दरम् ।। २९
भवतोर्दर्शनेनाहमद्य निर्वृतिमागतः ।
सममागतयोर्लोके शीतलोष्णरुचोरिव ।। ३०
यो न शास्त्रेण तपसा न ज्ञानेनापि विद्यया ।
विनष्टो मे मनोमोहः क्षीणोऽसौ दर्शनेन वाम् ।।३१
न तथा सुखयन्त्यन्तर्निर्मलामृतवृष्टयः ।
यथा प्रहर्षयन्त्येता महतामेव दृष्टयः ।। ३२
चरणाभ्यामिमं देशं भवन्तौ भूरितेजसौ ।
कौ पवित्रितवन्तौ नः शशाङ्कार्काविवाम्बरम् ।। ३३
इत्युक्तवन्तं प्रोवाच भृगुर्जन्मान्तरात्मजम् ।
स्मरात्मानं प्रबुद्धोऽसि नाज्ञोऽसीति रघूद्वह ।। ३४
प्रबोधितोऽसौ भृगुणा जन्मान्तरदशां निजाम् ।
मुहूर्तमात्रं सस्मार ध्यानोन्मीलितलोचनः ।। ३५
अथासौ विस्मयात्स्मेरमुखो मुदितमानसः ।
वितर्कमन्थरां वाचमुवाच वदतां वरः ।। ३६
जगत्यविदितारम्भा नियतिः परमात्मनः ।
यद्वशादिदमाभोगि जगच्चक्रं प्रवर्तते ।। ३७
ममानन्तान्यतीतानि जन्मान्यविदितान्यपि ।
दशाफलान्यनन्तानि कल्पान्तकलितादिव ।। ३८
दृष्टाः कठिनसंरम्भा विभवोऽप्यर्जनभ्रमाः ।
विहृतं वीतशोकासु चिरं मेरुस्थलीषु च ।। ३९
पीतमामोदि मन्दारकेसरारुणितं पयः ।
मन्दाकिन्याः सकह्लारं तटीष्वमरभूभृतः ।। ४०
भ्रान्तं मन्दरकुञ्जेषु फुल्लहेमलतालिषु ।
मेरोः कल्पतरुच्छायापुष्पसुन्दरसानुषु ।। ४१
न तदस्ति न यद्भुक्तं न तदस्ति न यत्कृतम् ।
न तदस्ति न यद्दृष्टमिष्टानिष्टासु वृत्तिषु ।। ४२
ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमक्षतम् ।
विश्रान्तोऽथचिरं श्रान्तो गतो मे सकलो भ्रमः।।४३
उत्तिष्ठ तात गच्छामः पश्यामो मन्दरस्थिताम् ।
तां तनुं तावदाशुष्कां शुष्कां वनलतामिव ।। ४४
न समीहितमस्तीह नासमीहितमस्ति मे ।
नियते रचनां द्रष्टुं केवलं विहराम्यहम् ।। ४५
यदतिसुभगमार्यसेवितं त-
त्स्थिरमनुयामि यदेकभावबुद्ध्या ।
तदलमभिमता मतिर्ममास्तु
प्रकृतमिमं व्यवहारमाचरामि ।। ४६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे भा० भार्गवजन्मान्तरस्मरणवर्णनं नाम चतुर्दशः सर्गः ।।१४।।