योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ११

विकिस्रोतः तः
Jump to navigation Jump to search

एकादशः सर्गः ११

काल उवाच ।
अद्योद्दामतरङ्गौघभाङ्काररणितानिले ।
तीर एव तरङ्गिण्यास्तपस्तपति ते सुतः ।। १
जटावानक्षवलयी जितसर्वेन्द्रियभ्रमः ।
तत्र वर्षशतान्यष्टौ संस्थितस्तपसि स्थिरे ।। २
यदीच्छसि मुने द्रष्टुं तं स्वप्नाभं मनोभ्रमम् ।
तत्समुन्मील्य विज्ञाननेत्रमाशु विलोकय ।। ३
श्रीवसिष्ठ उवाच ।
इत्युक्ते जगदीशेन कालेन समदृष्टिना ।
मुनिः संचिन्तयामास ज्ञानाक्ष्णा तनयेहितम् ।। ४
ददर्श च मुहूर्तेन प्रतिभानवशादसौ ।
पुत्रोदन्तमशेषेण बुद्धिदर्पणबिम्बितम् ।। ५
पुनर्मन्दरसानुस्थां स्वस्थां कालाग्रसंस्थिताम् ।
समङ्गायास्तटादेत्य विवेश स्वतनुं भृगुः ।। ६
विस्मयस्मेरया दृष्ट्या कालमालोक्य कान्तया ।
वीतरागमुवाचेदं वीतरागो मुनिर्वचः ।। ७
भगवन्भूतभव्येश बाला वयमनुज्ज्वलाः ।
त्वादृशामेव धीर्देव त्रिकालामलदर्शिनी ।। ८
नानाकारविकाराढ्या सत्येवासत्यरूपिणी ।
विभ्रमं जनयत्येषा धीरस्यापि जगत्स्थितिः ।। ९
त्वमेव देव जानासि त्वदभ्यन्तरवर्ति यत् ।
रूपमस्या मनोवृत्तेरिन्द्रजालविधायकम् ।। 4.11.१०
मत्पुत्रस्यास्य भगवन्मृत्युः किल न विद्यते ।
तेनेमं मृतमालोक्य जातः संभ्रमवानहम् ।। ११
अक्षीणाजीवितं पुत्रं कालो मे नीतवानिति ।
नियतेर्वशतो देव तुच्छापीच्छा ममोदिता ।। १२
ननु विज्ञातसंसारगतयो वयमापदाम् ।
संपदां चैव गच्छामो हर्षामर्षवशं विभो ।। १३
अयुक्तकारिणि क्रोधः प्रसादो युक्तकारिणि ।
कर्तव्य इति रूढेयं संसारे भगवन् स्थितिः ।। १४
इदं कार्यमिदं नेति यावत्कार्यं जगद्भ्रमः ।
तस्यैतत्संपरित्यागो हेय एव जगद्गुरो ।। १५
केवलं तावकीं चिन्तामनालोक्य यदा वयम् ।
भगवन्भवते क्रुद्धा याताः स्मस्तेन बाध्यताम् ।। १६
त्वयेदानीमहं देव स्मारितस्तनयेहितम् । ।
समङ्गायास्तटे तेन दृष्टोऽयं तनयो मया ।। १७
मनो जगति भूतानां द्वे शरीरेऽत्र सर्वगम् ।
मन एव शरीरं हि येनेदं भाव्यते जगत् ।। १८
काल उवाच ।
सम्यगुक्तं त्वया ब्रह्मन् शरीरं मन एव च ।
करोति देहं संकल्पात्कुम्भकारो घटं यथा ।। १९ ।
करोत्यकृतमाकारं कृतं नाशयति क्षणात् । ।
संकल्पेन मनोमोहाद्बालो वेतालकं यथा ।। 4.11.२० ।
तथा च संभ्रमस्वप्नमिथ्याज्ञानादिभासुराः । ।
गन्धर्वनगराकारा दृष्टा मनसि शक्तयः ।। २१ ।
स्थूलदृष्टिदशां त्वेतामवलम्ब्य महामुने । ।
पुंसो मनः शरीरं च कायौ द्वाविति कथ्यते ।। २२
मनो मनननिर्माणमात्रमेतज्जगत्त्रयम् ।
न सन्नासदिव स्फारमुदितं नेतरन्मुने ।। २३ ।
चित्तदेहाङ्गलतया भेदवासनयेद्धया ।
द्विचन्द्रत्वमिवाज्ञानान्नानातेयं समुत्थिता ।। २४ । ।
भेदवासनया पश्यत्पदार्थनिचयं मनः । ।
भिन्नं पश्यति सर्वत्र घटावटपटादिकम् ।। २५ ।ऽ
कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः ।
भावयत्स्वविकल्पोत्थां याति संसारितां मनः ।। २६
मननं कृत्रिमं रूपं ममैतन्न यतोऽस्म्यहम् ।
इति तत्त्यागतः शान्तं चेतो ब्रह्म सनातनम् ।। २७
यथा प्रवितताम्भोधौ द्रुतां नैकतरङ्गिणि ।
शाम्यत्स्पन्दतयानेककल्लोलावलिशालिनि ।। २८
वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले ।
अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे ।। २९
ह्रस्वस्तरङ्गः स्वं रूपं भावयन्त्यस्वभावतः ।
ह्रस्वोऽस्मीति विकल्पेन करोति स्वेन भावनाम् ।।4.11.३०
दीर्घस्तरङ्गः स्वं रूपं भावयन्त्यस्वभावतः ।
दीर्घोऽस्मीति विकल्पेन करोति स्वेन भावनाम् ।।३१
ह्रस्वश्चैव परिभ्रष्टरूपोऽस्मीति तलातलम् ।
भावयन्भूतलं याति तादृग्भावनया स्वया ।। ३२
उत्पन्नश्च पलादूर्ध्वमुत्थितोऽस्मीति भावितः ।
सरश्मिरत्नजालस्तु शोभते दीप्तया श्रिया ।। ३३
तुषारकरबिम्बस्थः शीतलोऽस्मीति बिम्बति ।
सतटाचलदावाग्निप्रतिबिम्बो ज्वलद्वपुः ।। ३४
बिभेति बत दग्धोऽस्मीत्यात्तमौनश्च कम्पते ।
प्रतिबिम्बितवेलाद्रितटपक्षवनद्रुमः ।। ३५
महदारम्भसंरम्भसंयुक्तोऽस्मीति राजते ।
विशल्लोलानिलात्यन्तध्वस्तलोलशरीरकः ।। ३६
खण्डशः परियातोऽस्मीत्यात्तक्रन्द इवारवी ।
न चोर्मयस्ते जलधेर्व्यतिरिक्ताः पयोधरात् ।। ३७
नचैकं रूपमेतेषां किंचित्सन्नाप्यसन्मयम् ।
नचैते ह्रस्वदैर्घ्याद्या गुणास्तेषु न तेषु ते ।। ३८
नोर्मयः संस्थिता ह्यब्धौ न तत्तत्र न संस्थिताः ।
केवलं स्वस्वभावस्थसंकल्पविकलीकृताः ।। ३९
नष्टानष्टाः पुनर्जाता जाताजाताः पुनः पुनः ।
परस्परपरामर्शान्नान्यतामुपयान्त्यलम् ।। 4.11.४०
एकरूपाम्बुसामान्यमया एव निरामयाः ।
तथैवास्मिन्प्रवितते सिते शुद्धे निरामये ।। ४१
ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि ।
सर्वशक्तावनाद्यन्ते पृथग्वदपृथक्कृताः ।। ४२
संस्थिताः शक्तयश्चित्रा विचित्राचारचञ्चलाः ।
नानाशक्तिर्हि नानात्वमेति स्वे वपुषि स्थितिम्।। ४३
बृंहितं ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम् ।
स्त्रीपुमान्व्यङ्गरूपेण ब्रह्मेव परिवर्तते ।। ४४
कल्पनान्या जगन्नाम्नी नासीदस्ति भविष्यति ।
ब्रह्मणो जगतो भेदो मनागपि न विद्यते ।। ४५
संपूर्णं खल्विदं ब्रह्म जगद्ब्रह्मैव केवलम् ।
इति भावय यत्नेन ह्यन्यत्सर्वं परित्यज ।। ४६
नानारूपिण्येकरूपा वैरूप्यशतकारिणी ।
नियतिर्नियताकारा पदार्थमधितिष्ठति ।। ४७
जडाजडमुपादत्ते चित्तमायाति चिन्मये ।
वासनारूपिणी शक्तिः स्वस्थरूपा स्थितात्मनः ।। ४८
ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते ।
नानारूपैः प्रतिस्पन्दैः परिपूर्ण इवार्णवः ।। ४९
नानातां स्वयमादत्ते नानाकारविहारतः ।
आत्मैवात्मन्यात्मनैव समुद्राम्भ इवाम्भसि ।। 4.11.५०
व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा ।
व्यतिरिक्ता न विश्वेशात्समग्राः कल्पनास्तथा ।। ५१
शाखापुष्पलतापत्रफलकोरकयुक्तयः ।
यथैकस्मिंस्तथा बीजे सर्वदा सर्वशक्तिता ।। ५२
विचित्रवर्णता यद्वद्दृश्यते कठिनातपे ।
विचित्रशक्तिता तद्वद्देवेशे सदसन्मयी ।। ५३
विचित्ररूपोदेतीयमविचित्रात्स्थितिः शिवात् ।
एकवर्णात्पयोवाहाच्छक्रचापलता यथा ।। ५४
अजडाज्जडतोदेति जाड्यभावनहेतुका ।
ऊर्णनाभाद्यथा तन्तुर्यथा पुंसः सुषुप्तता ।। ५५
अचितश्चेतसः शक्तिं स्वबन्धायेच्छया शिवः ।
तनोति तान्तवं कोशं कोशकारकृमिर्यथा ।। ५६
स्वेच्छयात्मात्मनो ब्रह्मन्भावयित्वैष विस्मृतिम् ।
करोति कठिनं बन्धं कोशकारकृमिर्यथा ।। ५७
स्वेच्छयात्मात्मनो ब्रह्मन्भावयित्वा स्वकं वपुः ।
संसारान्मोक्षमाप्नोति स्वालानादिव वारणः ।। ५८
यथैव भावयत्यात्मा सततं भवति स्वयम् ।
तथैवापूर्यते शक्त्या शीघ्रमेव महानपि ।। ५९
भाविता शक्तिरात्मानमात्मतां नयति क्षणात् ।
अनन्तमखिलं प्रावृड्मिहिका महती यथा ।। 4.11.६०
या शक्तिरुदिता शीघ्रं याति तन्मयतामजः ।
य एवर्तुः स्थितिं यातस्तन्मयो भवति द्रुमः ।। ६१
न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः ।
बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः ।। ६२
नास्ति बन्धो न मोक्षोऽस्ति तन्मयस्त्विव लक्ष्यते ।
ग्रस्तं नित्यमनित्येन मायामयमहो जगत् ।। ६३
यदैव चित्तं कलितं किलानेनाकलात्मना ।
कोशकारवदात्मायमनेनावलितस्तदा ।। ६४
अन्योन्यरूपास्त्वत्यन्तं विकल्पितशरीरकाः ।
मनःशक्तय एतस्मादिमा निर्यान्ति कोटयः ।। ६५
तज्जास्तत्स्थाः पृथग्रूपाः समुद्रादिव वीचयः ।
तज्जास्तत्स्थाः पृथक्स्थाश्च चन्द्रादिव मरीचयः ।।६६
अस्मिन्स्पन्दमये स्फारे परमात्ममहाम्बुधौ ।
चिज्जले वितताभोगे चिन्मात्ररसमालिनि ।। ६७
काश्चित्स्थिरा ब्रह्मविष्णू काश्चिद्रुद्रत्वमागताः ।
काश्चित्पुरुषतां प्राप्ताः काश्चिद्देवत्वमागताः ।। ६८
[ लहर्यः प्रस्फुरन्त्येताः स्वभावोद्भावितात्मकाः ।
काश्चिद्यममहेन्द्रार्कवह्निवैश्रवणादिकाः ।।
घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश्चपलैषणाः ।
काश्चित्किंनरगन्धर्वविद्याधरसुरादिकाः ।।
उत्पतन्ति पतन्त्युग्रा लहर्यः परिवल्गिताः ।
काश्चित्किंचित्स्थिराकारा यथा कमलजादिकाः ।।
काश्चिदुत्पन्नविध्वस्ता यथा सुरनरादिकाः ।।]
कृमिकीटपतङ्गाहिगोमशाजगरादिकाः ।
काश्चित्तस्मिन्महाम्भोधौ स्फुरन्त्येतेम्बुबिन्दुवत्।।६९
काश्चिच्चला नरमृगगृध्रजम्बुलकादिकाः ।
स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्विव ।। 4.11.७०
सुदीर्घजीविताः काश्चित्काश्चिदत्यल्पजीविताः ।
अतुच्छकलनाः काश्चित्काश्चित्तुच्छशरीरकाः ।। ७१
संसारस्वप्नसंरम्भे काश्चित्स्थैर्येण भाविताः ।
सुविकल्पहताः काश्चिच्छङ्कन्ते सुस्थिरं जगत् ।। ७२
अल्पाल्पभावनाः काश्चिद्दैन्यदोषवशीकृताः ।
कृशोऽतिदुःखी मूढोऽहमितिदुःखैर्वशीकृताः ।।७३
काश्चित्स्थावरतां याताः काश्चिद्देवत्वमागताः ।
काश्चित्पुरुषतां प्राप्ताः काश्चिदर्णवतां गताः ।। ७४
काश्चित्स्थिता जगति कल्पशतान्यनल्पाः
काश्चिद्व्रजन्ति परमं पदमिन्दुशुद्धाः ।
ब्रह्मार्णवात्समुदिता लहरीविलोला-
श्चित्संविदो हि मननापरनामवत्यः ।। ७५
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने संसारप्रवृत्तिदर्शनं नामैकादशः सर्गः ।। ११ ।।