योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ०३

विकिस्रोतः तः
Jump to navigation Jump to search


तृतीयः सर्गः ३

श्रीराम उवाच ।
महाकल्पान्तसर्गादौ प्रथमोऽसौ प्रजापतिः ।
स्मृत्यात्मा जायते मन्ये स्मृत्यात्मैव ततो जगत् ।। १
श्रीवसिष्ठ उवाच ।
महाप्रलयसर्गादावेवमेतद्रघूद्वह ।
स्मृत्यात्मैव भवत्यादौ प्रथमोऽसौ प्रजापतिः ।। २
तत्संकल्पात्मकजगत्स्मृत्यात्मैवमिदं ततः ।
भाति संकल्पनगरं स्थितं पूर्वं प्रजापतेः ।। ३
स्मृतिर्न संभवत्येव सर्गादौ परमात्मनः ।
जन्माभावात्कथं कुत्र नभसीव महाद्रुमः ।। ४
श्रीराम उवाच ।
न संभवति किं ब्रह्मन्सर्गादौ प्राक्तनी स्मृतिः ।
महाप्रलयसंमोहैर्नश्यति प्राक्स्मृतिः कथम् ।। ५
श्रीवसिष्ठ उवाच ।
ये महाप्रलये प्राज्ञाः सर्वे ब्रह्मादयः पुरा ।
किल निर्वाणमायातास्तेऽवश्यं ब्रह्मतां गताः ।। ६
प्राक्तनः कः स्मृतेः कर्ता तस्मात्कथय सुव्रत ।
स्मृतिर्निर्मूलतां याता स्मर्तुर्मुक्ततया यतः ।। ७
अतः स्मर्तुरभावेन स्मृतिर्वोदेति किं कथम् ।
अवश्यं हि महाकल्पे सर्वे मोक्षैकभागिनः ।। ८
नानुभूतेऽनुभूते च स्वतश्चिद्व्योम्नि या स्मृतिः ।
सा जगद्भूरिति प्रौढा दृश्या सास्त्येव चित्प्रभा ।। ९
भाति संवित्प्रभैवेयमनाद्यन्तावभासिनी ।
यत्तदेतज्जगदिति स्वयंभूरिति च स्थितम् ।। १०
अनादिकालसंसिद्धं यद्भानं ब्रह्मणो निजम् ।

स आतिवाहिको देहो विराजो जगदाकृतिः ।। ११
परमाणाविदं भाति त्रिजगत्सवनाभ्रखम् ।
देशकालक्रियाद्रव्यदिनरात्रिक्रमान्वितम् ।। १२
परमाणुः प्रविततस्तस्यास्ते तादृगेव च ।
भाति भासुरताकारि तादृग्गिरिकुलं पुनः ।। १३
तत्रापि तादृगाकारमेव प्रत्यनुसंततम् ।
दृश्यमाभाति भारूपमेतदङ्ग न वास्तवम् ।। १४
इत्यस्त्यन्तो नं सद्दृष्टेरसद्दृष्टेश्च वा क्वचित् ।
अस्यास्त्वभ्युदितं बुद्धं नाबुद्धं प्रति वानघ ।। १५
बुद्धं प्रतीदं ब्रह्मैव केवलं शान्तमव्ययम् ।
अबुद्धं प्रति बुद्ध्यैतद्भासुरं भुवनान्वितम् ।। १६
यथेदं भासुरं भाति जगदण्डकजृम्भितम् ।
यथा कोटिसहस्राणि भान्त्यन्यान्यप्यणावणौ ।। १७
यथा स्तम्भे पुत्रिकान्तस्तस्याः स्वाङ्गेषु पुत्रिका ।
तस्याश्च पुत्रिकास्त्यङ्गे तथा त्रैलोक्यपुत्रिका ।। १८
नाभिन्ना नापि संख्येया यथाद्रौ परमाणुकाः ।
तथा ब्रह्म बृहन्मेरौ त्रैलोक्यपरमाणवः ।। १९
सूर्याद्यंशुषु संख्यातुं शक्यन्ते लघवोऽणवः ।
उत्पद्यन्ते चिदादित्ये त्रैलोक्यपरमाणवः ।। २०
यथाणवो वहन्त्यर्कदीप्तिष्वप्सु रजःसु च ।
तथा वहन्ति चिद्व्योम्नि त्रैलोक्यपरमाणवः ।। २१
शून्यानुभवमात्रात्म भूताकाशमिदं यथा ।
सर्गानुभवमात्रात्म चिदाकाशमिदं तथा ।। २२
सर्गस्तु सर्गशब्दार्थतया बुद्धो नयत्यधः ।
स ब्रह्मशब्दार्थतया बुद्धः श्रेयो भवत्यलम् ।। २३
विज्ञानात्मा शासिता विश्वबीजं
ब्रह्मैवालं स्वं चिदाकाशमात्रम् ।
यस्माज्जातं यत्तदेवेति विद्या-
द्वेद्यं स्वान्तर्बोधसंबोधमात्रम् ।। २४

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे जगदानन्त्यवर्णनं नाम तृतीयः सर्गः ।। ३ ।।
4.4