योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः ०११

विकिस्रोतः तः
Jump to navigation Jump to search


एकादशः सर्गः ११

श्रीवसिष्ठ उवाच ।
एतत्ते कथितं सर्व ज्ञानावतरणं भुवि ।
मया स्वमीहितं चेव कमलोद्भवचेष्टितम् ।। १
तदिदं परमं ज्ञानं श्रोतुमद्य तवानघ ।
भृशमुत्कण्ठितं चेतो महतः सुकृतोदयात् ।। २
श्रीराम उवाच ।
कथं ब्रह्मन्मगवतो लोके ज्ञानावतारणे ।
सर्गादनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः ।। ३
श्रीवसिष्ठ उवाच ।
परमे ब्रह्मणि ब्रह्मा स्वभाववशतः स्वयम् ।
जातः स्पन्दमयो नित्यमूर्मिरम्बुनिधाविव ।। ४
दृष्ट्वैवमातुरं सर्ग सर्गस्य सकलां गतिम् ।
भूतभव्यभविष्यस्थां दश परमेश्वरः ।। ५
सक्रियाक्रमकालस्य कृतादेः क्षय आगते ।
मोहमालोच्य लोकानां कारुण्यमगमत्प्रभुः ।। ६
ततो मामीश्वरः सृष्ट्वा ज्ञानेनायोज्य चासकृत् ।
विससर्ज महीपीठं लोकस्याज्ञानशान्तये ।। ७
यथाहं प्रहितस्तेन तथान्ये च महर्षयः ।
सनत्कुमारप्रमुखा नारदाद्याश्च भूरिशः ।। ८
क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च ।
मनोमोहामयोन्नद्धमुद्धर्तुं लोकमीरिताः ।। ९
महर्षिभिस्ततस्तैस्तैः क्षीणे कृतयुगे पुरा ।
क्रमात्क्रियाक्रमे शुद्धे पृथिव्या तनुतां गते ।। १०
क्रियाक्रमविधानार्थं मर्यादानियमाय च ।
पृथग्देशविभागेन भूपालाः परिकल्पिताः ।। ११
बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ ।
धर्मकामार्थसिद्ध्यर्थं कल्पितान्युचितान्यथ ।। १२
कालचक्रे वहत्यस्मिंस्ततो विगलिते क्रमे ।
प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे ।। १३
द्वन्द्वानि संप्रवृत्तानि विषयार्थे महीभुजाम् ।
दण्ड्यतां संप्रयातानि भूतानि भूवि भूरिशः ।। १४
ततो युद्ध विना भूपा मही पालयितुं क्षमाः ।
न समथोस्तदा याताः प्रजाभिः सह दैन्यताम् ।। १५
तेषां दैन्यापनोदार्थं सम्यग्दृष्टिक्रमाय च ।
ततोऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः ।। १६
अध्यात्मविद्या तेनेयं पूर्व राजसु वर्णिता ।
तदनु प्रसृता लोके राजविद्येत्युदाहृता ।। १७
राजविद्या राजगुह्यमध्यात्मज्ञानमुत्तमम् ।
ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः ।। १८
अथ राजस्वतीतेषु बहुष्वमलकीर्तिषु ।
अस्माद्दशरथाद्राम जातोऽद्य त्वमिहावनौ ।। १९
तव चातिप्रसन्नेऽस्मिञ्जातं मनसि पावनम् ।
निर्निमित्तमिदं चारु वैराग्यमरिमर्दन ।। २०
सर्वस्यैव हिं सर्वस्य साधोर्रांपे विवेकिनः ।
निमित्तपूर्वं वैराग्यं जायते राम राजसम् ।। २१
इदं त्वपूर्वमुत्पन्न चमत्कारकरं १------ ।
तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम् ।। २२
बीभत्सं विषयं दृष्ट्वा कौ नाम न विरज्यते ।
सतामुत्तमवैराग्य विवेकादेव जायते ।। २३
ते महान्तौ महाप्राज्ञा निमित्तेन विनैव हि ।
वैराग्यं जायते येषां तेषां ह्यमलमानसम् ।। २४
स्वविवेकचमत्कारपरामर्शविरक्तया ।
राजते हि धिया जन्तुर्युवेव वरमालया ।। २५
परामृश्य विवेकेनसंसाररचनामिमाम् ।
वैराग्यं येऽधिगच्छन्ति त एव पुरुषोत्तमाः ।। २६
स्वविवेकवशादेव विचार्येदं पुनःपुनः ।
इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात् ।। २७
श्मशानमापद दैन्यं दृष्ट्वा को न विरज्यते ।
तद्वैराग्यं परं श्रेयः स्वतो यदभिजायते ।। २८
अकृत्रिमविरागत्वं महत्त्वमलमागतः ।
योग्योऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम् ।। २९
प्रसादात्परमेशस्य नाथस्य परमात्मनः ।
त्वादृशस्य शुभा बुद्धिर्विवेकमनुधावति ।। ३०
क्रियाक्रमेण महता तपसा नियमेन च ।
दानेन तीर्थयात्राभिश्चिरकालं विवेकतः ।। ३१
दुष्कृते क्षयमापन्ने परमार्थविचारणे ।
काकतालीययोगेन बुद्धिर्जन्तोः प्रवर्तते ।। ३२
क्रियापरास्तावदलं चक्रावर्तिभिरावृताः ।
भ्रमन्तीह जना यावन्न पश्यन्ति परं पदम् ।। ३३
यथाभूतमिदं दृष्ट्वा संसारं तन्मयीं धियम् ।
परित्यज्य परं यान्ति निरालाना गजा इव ।। ३४
विषमेयमनन्तेह राम संसारसंसृतिः ।
देहयुक्तो महाजन्तुर्विना ज्ञानं न पश्यति ।। ३५
ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् ।
महाधियः समुत्तीर्णा निमेषेण रघूद्वह ।। ३६
तामिमां ज्ञानयुक्तिं त्वं संसाराम्भोधितारिणीम् ।
शृणुष्वावहितो बुद्ध्या नित्यावहितया तया ।। ३७
यस्मादनन्तसंरम्भा जागत्यो दुःखभीतयः ।
चिरायान्तर्दहन्त्येता विना युक्तिमनिन्दिताम् ।। ३८
शीतवातातपादीनि द्वन्द्वदुःखानि राघव ।
ज्ञानशक्तिं विना केन सह्यतां यान्ति साधुषु ।। ३९
आपतन्ति प्रतिपदं यथाकालं दहन्ति च ।
दुःखचिन्ता नरं मूढं तृणमग्निशिखा इव ।। ४०
प्राज्ञं विज्ञातविज्ञेयं सम्यग्दर्शनमाधयः ।
न दहन्ति वनं वर्षासिक्तमग्निशिखा इव ।। ४१
आधिव्याधिपरावर्ते संसारमरुमारुते ।
क्षुभितेऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत् ।। ४२
तत्त्वं ज्ञातुमतो यत्नाद्धीमानेव हि धीमता ।
प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितम् ।। ४३
प्रामाणिकस्य पृष्टस्य वक्तुरुत्तमचेतसः ।
यत्नेन वचनं ग्राह्यमंशुकेनेव कुङ्कुमम् ।। ४४
अतत्त्वज्ञमनादेयवचनं वाग्विदां वर ।
यः पृच्छति नरं तस्मान्नास्ति मूढतरोऽपरः ।। ४५
प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः ।
नानुतिष्ठति यो वाक्य नान्यस्तस्मान्नराधमः ।। ४६
अज्ञतातज्ज्ञते पूर्व वक्तुर्निर्णीय कार्यतः ।
यः करति नरः प्रश्नं प्रच्छकः स महामतिः ।। ४७
अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः ।
अधम प्रच्छकः स स्यान्न महार्थस्य भाजनम् ।। ४८
पूर्वापरसमाधानक्षमबुद्धावनिन्दिते ।
पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि ।। ४९
प्रामाणिकार्थयोग्यत्वं प्रच्छकस्याविचार्य च ।
यो वक्ति तमिह प्राज्ञाः प्राहुर्मूढतरं नरम् ।। ५०
त्वमतीव गुणश्लाघी प्रच्छको रघुनन्दन ।
अहं च वक्तुं जानामि समो योगोऽयमावयों' ।। ५१
यदहं वच्मि तद्यत्नात्त्वया शब्दार्थकोविद ।
एतद्वस्त्विति निर्णीय हृदि कार्यमखण्डितम् ।। ५२
महानसि विरक्तोऽसि तत्त्वज्ञोऽसि जनस्थितौ ।
त्वयि चोक्तं लगत्यन्तः कुङ्कुमाम्बु यथांशुके ।। ५३
उक्तावधानपरमा परमार्थविवेचिनी ।
विशत्यर्थं तव प्रज्ञा जलमध्यमिवार्कभाः ।। ५४
यद्यद्वच्मि तदादेयं हृदि कार्य प्रयत्नतः ।
नोचेत्प्रष्टव्य एवाहं न त्वयेह निरर्थकम् ।। ५५
मनो हि चपलं राम संसारवनमर्कटम् ।
संशोध्य हृदि यत्नेन श्रोतव्या परमार्थगीः ।। ५६
अविवेकिनमज्ञानमसज्जनरतिं जनम् ।
चिरं दूरतरे कृत्वा पूजनीया हि साधवः ।। ५७
नित्यं सज्जनसंपर्काद्विवेक उपजायते ।
विवेकपादपस्यैव भोगमोक्षौ फले स्मृतौ ।। ५८
मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः ।
शमो विचारः संतोषश्चतुर्थः साधुसंगमः ।। ५९
एते सेव्याः प्रयत्नेन चत्वारौ द्वौ त्रयोऽथवा ।
द्वारमुद्धाटयन्त्येते मोक्षराजगृहे तथा ।। ६०
एकं वा सर्वयत्नेन प्राणांस्त्यक्त्वा समाश्रयेत् ।
एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं यतः ।। ६१
सविवेको हि शास्त्रस्य ज्ञानस्य तपसः श्रुतेः ।
भाजनं भूषणाकारो भास्करस्तेजसामिव ।। ६२
घनतषपयातं हि प्रज्ञामान्द्यमचेतसाम् ।
याति स्थावरतामम्बु जाड्यात्पाषाणतामिव ।। ६३
त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः ।
विकासितान्तःकरणः स्थितः पद्म इवोदये ।। ६४
इमां ज्ञानगिरं श्रोतुमवबोद्धं च सन्मते ।
अर्हस्युद्धतकर्णस्त्वं जन्तुर्वीणास्वनं यथा ।। ६५
वैराग्याभ्यासयोगेन समसौजन्यसंपदाम् ।
अर्जनां कुरुतां राम यत्र नाशो न विद्यते ।। ६६
शास्त्रसज्जनसंसर्गपूर्वकैः सतपोदमैः ।
आदौ संसारमुऽक्त्यर्थ प्रज्ञामेवाभिवर्धयेत् ।। ६७
एतदेवास्य मौर्यस्य परमं विद्धि नाशनम् ।
यदिदं प्रेक्ष्यते शास्त्रं किंचित्संस्कृतया धिया ।। ६८
संसारविषवृक्षोऽयमेकमास्पदमापदाम् ।
अज्ञं संमोहयेन्नित्यं मौर्ख्य यत्नेन नाशयेत् ।। ६९
दुराशासर्पगत्येन मौर्ख्येण हृदि वल्गता ।
चेतः संकोचमायाति चर्माग्नाविव योजितम् ।। ७०
प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति ।
दृगिवेन्दौ निरम्भोदे सकलामलमण्डले ।। ७१
पूर्यापविचारार्थश्चास्त्वातुर्यशालिनी ।
सविकासा मतिर्यस्य स पुमानिह कथ्यते ।। ७२
विकसितेन सितेन तमोमुचा
वरविचारणशीतलरोचिषा ।
गुणवता हृदयेन विराजसे
त्वममलेन नभः शशिना यथा ।। ७३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे वकृप्रच्छकलक्षणं नामैकादशः सर्गः ।। ११ ।।