योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः ३१

विकिस्रोतः तः
Jump to navigation Jump to search


एकत्रिंशः सर्गः ३१
श्रीराम उवाच ।
प्रोच्चवृक्षचलत्पत्रलम्बाम्बुलवभङ्गुरे ।
आयुषीशानशीतांशुकलामृदुनि देहके ।। १
केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे ।
वागुरावलये जन्तोः सुहृत्सुजनसंगमे ।। २
वासनावातवलिते कदाशातडिति स्फुटे ।
मोहोग्रमिहिकामेघे घनं स्फूर्जति गर्जति ।। ३
नृत्यत्युत्ताण्डवं चण्डे लोले लोभकलापिनि ।
सुविकासिनि सास्फोटे ह्यनर्थकुटजद्रुमे ।। ४
क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि ।
अश्रान्तस्यन्दसंचारे कुतोऽप्युपरिपातिनि ।। ५
क उपायो गतिः का वा का चिन्ता कः समाश्रयः ।
केनेयमशुभोदर्का न भवेज्जीविताटवी ।। ६
न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।
सुधियस्तुच्छमप्येतद्यन्नयन्ति न रम्यताम् ।। ७
अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः ।
कथं सुस्वादुतामेति नीरसो मूढतां विना ।। ८
आशाप्रतिविपाकेन क्षीरस्नानेन रम्यताम् ।
उपैति पुष्पशुभ्रेण मधुनेव वसुंधरा ।। ९
अपमृष्टमलोदेति क्षालनेनामृतद्युतिः ।
मनश्चन्द्रमसः केन तेन कामकलङ्कितात् ।। १०
दृष्टसंसारगतिना दृष्टादृष्टविनाशिना ।
केनेव व्यवहर्तव्यं संसारवनवीथिषु ।। ११
रागद्वेषमहारोगा भोगपूगा विभूतयः ।
कथं जन्तुं न बाधन्ते संसारार्णवचारिणम् ।। १२
कथं च धीरवर्याग्नौ पततापि न दह्यते ।
पावके पारदेनेव रसेन रसशालिना ।। १३
यस्मात्किल जगत्यस्मिन्व्यवहारक्रिया विना ।
न स्थितिः संभवत्यब्धौ पतितस्याजला यथा ।। १४
रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता ।
कृशानोर्दाहहीनेव शिखा नास्तीह सत्क्रिया ।। १५
मनोमननशालिन्याः सत्ताया भुवनत्रये ।
क्षयो युक्तिं विना नास्ति ब्रूत तामलमुत्तमाम् ।। १६
व्यवहारवतो युक्त्या दुःखं नायाति मे यया ।
अथवा व्यवहारस्य ब्रूत तां युक्तिमुत्तमाम् ।। १७
तत्कथं केन वा किं वा कृतमुत्तमचेतसा ।
पूर्वं येनैति विश्रामं परमं पावनं मनः ।। १८
यथा जानासि भगवंस्तथा मोहनिवृत्तये ।
ब्रूहि मे साधवो येन नूनं निर्दुःखतां गताः ।। १९
अथवा तादृशी युक्तिर्यदि ब्रह्मन्न विद्यते ।
न वक्ति मम वा कश्चिद्विद्यमानामपि स्फुटम् ।। २०
स्वयं चैव न चाप्नोमि तां विश्रान्तिमनुत्तमाम् ।
तदहं त्यक्तसर्वेहो निरहंकारतां गतः ।। २१
न भोक्ष्ये न पिबाम्यम्बु नाहं परिदधेऽम्बरम् ।
करोमि नाहं व्यापारं स्नानदानाशनादिकम् ।। २०
न च तिष्ठामि कार्येषु संपत्स्वापद्दशासु च ।
न किंचिदपि वाञ्छामि देहत्यागादृते मुने ।। २३
केवलं विगताशङ्को निर्ममो गतमत्सरः ।
मौन एवेह तिष्ठामि लिपिकर्मस्विवार्पितः ।। २४
अथ क्रमेण संत्यज्य प्रश्वासोच्छ्वाससंविदः ।
संनिवेशं त्यजामीममनर्थं देहनामकम् ।। २५
नाहमस्य न मे नान्यः शाम्याम्यस्नेहदीपवत् ।
सर्वमेव परित्यज्य त्यजामीदं कलेवरम् ।। २६
श्रीवाल्मीकिरुवाच ।
इत्युक्तवानमलशीतकराभिरामो
रामो महत्तरविचारविकासिचेताः ।
तूष्णीं बभूव पुरतो महतां घनानां
केकारवं श्रमवशादिव नीलकण्ठः ।। २७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवप्रश्रो नामैकत्रिंशः सर्गः ।। ३१ ।।