योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः ३०

विकिस्रोतः तः
Jump to navigation Jump to search


त्रिंशः सर्गः ३०
श्रीराम उवाच।
एवमभ्युत्थितानर्थशतसंकटकोटरे ।
जगदालोक्य निर्मग्नं मनो मननकर्दमे ।। १
मनो मे भ्रमतीवेदं संभ्रमश्चोपजायते ।
गात्राणि परिकम्पन्ते पत्राणीव जरत्तरोः ।। २
अनाप्तोत्तमसंतोषधैर्योत्सङ्गाकुला मतिः ।
शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा ।। ३
विकल्पेभ्यो लुठन्त्येताश्चान्तःकरणवृत्तयः ।
श्वभ्रेभ्य इव सारङ्गास्तुच्छालम्बविडम्बिताः ।। ४
अविवेकास्पदा भ्रष्टाः कष्टे रूढा न सत्पदे ।
अन्धकूपमिवापन्ना वराकाश्चक्षुरादयः ।। ५
नावस्थितिमुपायाति न च याति यथेप्सितम् ।
चिन्ता जीवेश्वरायत्ता कान्तेव प्रियसद्मनि ।। ६
जर्जरीकृत्य वस्तूनि त्यजन्ती विभ्रती तथा ।
मार्गशीर्षान्तवल्लीव धृतिर्विधुरतां गता ।। ७
अपहस्तितसर्वार्थमनवस्थितिरास्थिता ।
गृहीत्वोत्सृज्य चात्मानं भवस्थितिरवस्थिता ।। ८
चलिताचलितेनान्तरवष्टम्भेन मे मतिः ।
दरिद्रा छिन्नवृक्षस्य मूलेनेव विडम्ब्यते ।। ९
चेतश्चञ्चलमाभोगि भुवनान्तर्विहारि च ।
न संभ्रमं जहातीदं स्वविमानमिवामराः ।। १०
अतोऽतुच्छमनायासमनुपाधि गतभ्रमम् ।
किं तत्स्थितिपदं साधो यत्र शोको न विद्यते ।। ११
सर्वारम्भसमारूढाः सुजना जनकादयः ।
व्यवहारपरा एव कथमुत्तमतां गताः ।। १२
लग्नेनापि किलाङ्गेषु बहुधा बहुमानद ।
कथं संसारपङ्केन पुमानिह न लिप्यते ।। १३
कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः ।
महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः ।। १४
लोभयन्तो भयायैव विषयाभोगभोगिनः ।
भङ्गुराकारविभवाः कथमायान्ति भव्यताम् ।। १५
मोहमातङ्गमृदिता कलङ्ककलितान्तरा ।
परं प्रसादमायाति शेमुषीसरसी कथम् ।। १६
संसार एव निवहे जनो व्यवहरन्नपि ।
न बन्धं कथमाप्नोति पद्मपत्रे पयो यथा ।। १७
आत्मवत्तृणवच्चेदं सकलं कलयञ्जनः ।
कथमुत्तमतामेति मनोमन्मथमस्पृशन् ।। १८
कं महापुरुषं पारमुपायातं महोदधेः ।
आचारेणानुसंस्मृत्य जनो याति न दुःखिताम्।। १९
किं तस्यादुचितं श्रेयः किं तत्स्यादुचितं फलम् ।
वर्तितव्यं च संसारे कथं नामासमञ्जसे ।। २०
तत्त्वं कथय मे किंचिद्येनास्य जगतः प्रभो ।
वेद्मि पूर्वापरं धातुश्चेष्टितस्यानवस्थितेः ।। २१
हृदयाकाशशशिनश्चेतसो मलमार्जनम् ।
यथा मे जायते ब्रह्मंस्तथा निर्विघ्नमाचर ।। २२
किमिह स्यादुपादेयं किंवा हेयमथेतरत् ।
कथं विश्रान्तिमायातु चेतश्चपलमद्रिवत् ।। २३
केन पावनमन्त्रेण दुःसंसृतिविषूचिका ।
शाम्यतीयमनायासमायासशतकारिणी ।। २४
कथं शीतलतामन्तरानन्दतरुमञ्जरीम् ।
पूर्णचन्द्र इवाक्षीणां भृशमासादयाम्यहम् ।। २५
प्राप्यान्तः पूर्णतां पूर्णो न शोचामि यथा पुनः ।
सन्तो भवन्तस्तत्त्वज्ञास्तथेहोपदिशन्तु माम् ।। २६
अनुत्तमानन्दपदप्रधान-
विश्रान्तिरिक्तं सततं महात्मन् ।
कदर्थयन्तीह भृशं विकल्पाः
श्वानो वने देहमिवाल्पजीवम् ।। २७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे प्रयोजनकथनं नाम त्रिंशः सर्गः ।। ३० ।।