योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः २९

विकिस्रोतः तः
Jump to navigation Jump to search


एकोनत्रिंशः सर्गः २९
श्रीराम उवाच ।
इति मे दोषदावाग्निदग्धे महति चेतसि ।
प्रस्फुरन्ति न भोगाशा मृगतृष्णाः सरःस्विव ।। १
प्रत्यहं याति कटुतामेषा संसारसंस्थितिः ।
कालपाकवशाल्लोला रसा निम्बलता यथा ।। २
वृद्धिमायाति दौर्जन्यं सौजन्यं याति तानवम् ।
करञ्जकर्कशे राजन्प्रत्यहं जनचेतसि ।। ३
भज्यते भुवि मर्यादा झटित्येव दिनं प्रति ।
शुष्केव माषशिम्बीका टङ्कारकरवं विना ।। ४
राज्येभ्यो भोगपूगेभ्यश्चिन्तावद्भ्यो मुनीश्वर ।
निरस्तचिन्ताकलिता वरमेकान्तशीलता ।। ५
नानन्दाय ममोद्यानं न सुखाय मम स्त्रियः ।
न हर्षाय ममार्थाशा शाम्यामि मनसा सह ।। ६
अनित्यश्चासुखो लोकस्तृष्णा तात दुरुद्वहा ।
चापलोपहतं चेतः कथं यास्यामि निर्वृतिम् ।। ७
नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् ।
यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम् ।। ८
किं मे राज्येन किं भोगैः किमर्थेन किमीहितैः ।
अहंकारवशादेतत्स एव गलितो मम ।। ९
जन्मावलिवरत्रायामिन्द्रियग्रन्थयो दृढाः ।
ये बद्धास्तद्विमोक्षार्थं यतन्ते ये त उत्तमाः ।। १०
मथितं मानिनीलोकैर्मनो मकरकेतुना ।
कोमलं खुरनिष्पेषैः कमलं करिणा यथा ।। ११
अद्य चेत्स्वच्छया बुद्ध्या मुनीन्द्र न चिकित्स्यते ।
भूयश्चित्तचिकित्सायास्तत्किलावसरः कुतः ।। १२
विषं विषयवैषम्यं न विषं विषमुच्यते ।
जन्मान्तरघ्ना विषया एकदेहहरं विषम् ।। १३
न सुखानि न दुःखानि न मित्राणि न बान्धवाः ।
न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः ।। १४
तद्भवामि यथा ब्रह्मन्पूर्वापरविदां वर ।
वीतशोकभयायासो ज्ञस्तथोपदिशाशु मे ।। १५
वासनाजालवलिता दुःखकण्टकसंकुला ।
निपातोत्पातबहुला भीमरूपाऽज्ञताटवी ।। १६
क्रकचाग्रविनिष्पेषं सोढुं शक्नोम्यहं मुने ।
संसारव्यवहारोत्थं नाशाविषयवैशसम् ।। १७
इदं नास्तीदमस्तीति व्यवहाराञ्जनभ्रमः ।
धुनोतीदं चलं चेतो रजोराशिमिवानिलः ।। १८
तृष्णातन्तुलवप्रोतं जीवसंचयमौक्तिकम् ।
चिदच्छाङ्गतया नित्यं विकसच्चित्तनायकम् ।। १९
संसारहारमरतिः कालव्यालविभूषणम् ।
त्रोटयाम्यहमक्रूरं वागुरामिव केसरी ।। २०
नीहारं हृदयाटव्यां मनस्तिमिरमाशु मे ।
केन विज्ञानदीपेन भिन्धि तत्त्वविदांवर ।। २१
विद्यन्त एवेह न ते महात्मन्
दुराधयो न क्षयमाप्नुवन्ति ।
ये सङ्गमेनोत्तममानसानां
निशातमांसीव निशाकरेण ।। २२
आयुर्वायुविघट्टिताभ्रपटलीलम्बाम्बुवद्भङ्गुरं
भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः ।
लोलायौवनलालनाजलरयश्चेत्याकलय्य द्रुतं
मुद्रैवाद्य दृढार्पिता ननु मया चित्ते चिरं शान्तये ।। २३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे सकलपदार्थानास्थाप्रतिपादनं नामैकोनत्रिशः सर्गः ।। २९ ।।