योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः २३

विकिस्रोतः तः
Jump to navigation Jump to search


त्रयोविंशः सर्गः २३
श्रीराम उवाच ।
विकल्पकल्पनानल्पजल्पितैरल्पबुद्धिभिः ।
भेदैरुद्धुरतां नीतः संसारकुहरे भ्रमः ।। १
सतां कथमिवास्थेह जायते जालपञ्जरे ।
बाला एवात्तुमिच्छन्ति फलं मुकुरबिम्बितम् ।। २
इहापि विद्यते येषां पेलवा सुखभावना ।
आखुस्तन्तुमिवाशेषं कालस्तामपि कृन्तति ।। ३
न तदस्तीह यदयं कालः सकलघस्मरः ।
ग्रसते तज्जगज्जातं प्रोत्थाब्धिमिव वाडवः ।। ४
समस्तसामान्यतया भीमः कालो महेश्वरः ।
दृश्यसत्तामिमां सर्वां कवलीकर्तुमुद्यतः ।। ५
महतामपि नो देवः प्रतिपालयति क्षणम् ।
कालः कवलितानन्तविश्वो विश्वात्मतां गतः ।। ६
युगवत्सरकल्पाख्यैः किंचित्प्रकटतां गतः ।
रूपैरलक्ष्यरूपात्मा सर्वमाक्रम्य तिष्ठति ।। ७
ये रम्या ये शुभारम्भाः सुमेरुगुरवोऽपि ये ।
कालेन विनिगीर्णास्ते गरुडेनेव पन्नगाः ।। ८
निर्दयः कठिनः क्रूरः कर्कशः कृपणोऽधमः ।
न तदस्ति यदद्यापि न कालो निगिरत्ययम् ।। ९
कालः कवलनैकान्तमतिरत्ति गिरन्नपि ।
अनन्तैरपि लोकौघैर्नायं तृप्तो महाशनः ।। १०
हरत्ययं नाशयति करोत्यत्ति निहन्ति च ।
कालः संसारनृत्तं हि नानारूपं यथा नटः ।। ११
भिनत्ति प्रविभागस्थभूतबीजान्यनारतम् ।
जगत्यसत्तया बन्धाद्दाडिमानि यथा शुकः ।। १२
शुभाशुभविषाणाग्रविलूनजनपल्लवः ।
स्फूर्जति स्फीतजनताजीवराजीवनीगजः ।। १३
विरिञ्चिमूलब्रह्माण्डबृहद्देवफलद्रुमम् ।
ब्रह्मकाननमाभोगि परमावृत्य तिष्ठति ।। १४
यामिनी भ्रमरापूर्णा रचयन्दिनमञ्जरीः ।
वर्षकल्पकलावल्लीर्न कदाचन खिद्यते ।। १५
भिद्यते नावभग्नोऽपि दग्धोऽपि हि न दह्यते ।
दृश्यते नापि दृश्योऽपि धूर्तचूडामणिर्मुने ।। १६
एकेनैव निमेषेण किंचिदुत्थापयत्यलम् ।
किंचिद्विनाशयत्युच्चैर्मनोराज्यवदाततः ।। १७
दुर्विलासविलासिन्या चेष्टया कष्टषुष्टया ।
द्रव्यैकरूपकृद्रूपं जनमावर्तयन्स्थितः ।। १८
तृणं पांसुं महेन्द्रं च सुमेरुं पर्णमर्णवम् ।
आत्मंभरितया सर्वमात्मसात्कर्तुमुद्यतः ।। १९
क्रौर्यमत्रैव पर्याप्तं लुब्धतात्रैव संस्थिता ।
सर्वदौर्भाग्यमत्रैव चापलं वापि दुःसहम् ।। २०
प्रेरयँल्लीलयार्केन्दू क्रीडतीव नभस्तले ।
निक्षिप्तलीलायुगलो निजे बाल इवाङ्गणे ।। २१
सर्वभूतास्थिमालाभिरापादवलिताकृतिः ।
विलसत्येव कल्पान्ते कालः कलितकल्पनः ।। २२
अस्योड्डामरवृत्तस्य कल्पान्तेऽङ्गविनिर्गतैः ।
प्रस्फुरत्यम्बरे मेरुर्भूर्जत्वगिव वायुभिः ।। २३
रुद्रो भूत्वा भवत्येष महेन्द्रोऽथ पितामहः ।
शक्रो वैश्रवणश्चापि पुनरेव न किंचन ।। २४
धत्तेऽजस्रोत्थितोद्ध्वस्तान्सर्गानमितभास्वरान् ।
अन्यान्दधद्दिवानक्तं वीचीरब्धिरिवात्मनि ।। २५
महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् ।
देवासुरगणान्पक्वान्फलभारानिव स्थितः ।। २६
कालोऽयं भूतमशकघुंघुमानां प्रपातिनाम् ।
ब्रह्माण्डोदुम्बरौघानां बृहत्पादपतां गतः ।। २७
सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया ।
वपुर्विनोदयत्येकं क्रियाप्रियतमान्वितः ।। २८
अनन्तापारपर्यन्तबद्धपीठं निजं वपुः ।
महाशैलवदुत्तुङ्गमवलम्ब्य व्यवस्थितः ।। २९
क्वचिच्छयामतमःश्यामं क्वचित्कान्तियुतं ततम् ।
द्वयेनापि क्वचिद्रिक्तं स्वभावं भावयन् स्थितः ।। ३०
संलीनासंख्यसंसारसारया स्वात्मसत्तया ।
उर्व्येव भारघनया निबद्धपदतां गतः ।। ३१
न खिद्यते नाद्रियते नायाति न च गच्छति ।
नास्तमेति न चोदेति महाकल्पशतैरपि ।। ३२
केवलं जगदारम्भलीलया घनहेलया ।
पालयत्यात्मनात्मानमनहंकारमाततम् ।। ३३
यामिनीपङ्ककलितां दिनकोकनदावलीम् ।
मेघभ्रमरिकामात्मसरस्यारोपयन्स्थितः ।। ३४
गृहीत्वा कृपणः कृष्णां रजनीं जीर्णमार्जनीम् ।
आलोककनकक्षोदानाहरत्यभितो गिरिम् ।। ३५
संचारयन्क्रियाङ्गुल्या कोणकेष्वर्कदीपिकाम् ।
जगत्सद्मनि कार्पण्यात्क्व किमस्तीति वीक्षते ।। ३६
प्रेक्ष्याहर्विनिमेषेण सूर्याक्ष्णा पाकवन्त्यलम् ।
लोकपालफलान्यत्ति जगज्जीर्णवनादयम् ।। ३७
जगज्जीर्णकुटीकीर्णानर्पयत्युग्रकोटरे ।
क्रमेण गुणवल्लोकमणीन्मृत्युसमुद्गके ।। ३८
गुणैरापूर्यते यैव लोकरत्नावली भृशम् ।
भूषार्थमिव तामङ्गे कृत्वा भूयो निकृन्तति ।। ३९
दिनहंसानुसृतया निशेन्दीवरमालया ।
तारकेसरयाजस्रं चपलो वलयत्यलम् ।। ४०
शैलार्णद्युधराशृङ्गजगदूर्णायुसौनिकः ।
प्रत्यहं पिबते प्रेक्ष्य तारारक्तकणानपि ।। ४१
तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी ।
न तदस्ति न यस्यायं तुच्छातुच्छस्य तस्करः ।। ४२
कल्पकेलिविलासेन पिष्टपातितजन्तुना ।
अभावो भावभासेन रमते स्वात्मनात्मनि ।। ४३
कर्ता भोक्ताथ संहर्ता स्मर्ता सर्वपदं गतः ।। ४४
सकलमप्यकलाकलितान्तरं
सुभगदुर्भगरूपधरं वपुः ।
प्रकटयन्सहसैव च गोपयन्
विलसतीह हि कालबलं नृषु ।। ४५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कालापवादो नाम त्रयोविंशतितमः सर्गः ।। २३ ।।