योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः २१

विकिस्रोतः तः


एकविंशः सर्गः २१
श्रीराम उवाच ।
मांसपाञ्चालिकायास्तु यन्त्रलोलेऽङ्गपञ्जरे ।
स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनं । १
त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचनम् ।
समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ।। २
इतः केशा इतो रक्तमितीयं प्रमदातनुः ।
किमेतया निन्दितया करोति विपुलाशयः ।। ३
वासोविलेपनैर्यानि लालितानि पुनः पुनः ।
तान्यङ्गान्यङ्ग लुण्ठन्ति क्रव्यादाः सर्वदेहिनाम् ।। ४
मेरुश्रृंगतटोल्लासिगंगाजलरयोपमा ।
दृष्टा यस्मिन्स्तने मुक्ताहारस्योल्लासशालिता ।। ५
श्मशानेषु दिगन्तेषु स एव ललनास्तनः ।
श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ।। ५
रक्तमांसास्थिदिग्धानि करभस्य यथा वने ।
तथैवाङ्गानि कामिन्यास्तां प्रत्यपि हि को ग्रहः ।। ७
आपातरमणीयत्वं कल्पते केवलं स्त्रियाः ।
मन्ये तदपि नास्त्यत्र मुने मोहैककारणम् ।। ८
विपुलोल्लासदायिन्या मदमन्मथपूर्वकम् ।
को विशेषो विकारिण्या मदिरायाः स्त्रियास्तथा ।। ९
ललनालानसंलीना मुने मानवदन्तिनः ।
प्रबोधं नाधिगच्छन्ति दृढैरपि शमाङ्कुशैः ।। १०
केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः ।
दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ।। ११
ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः ।
स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ।। १२
विकीर्णाकारकबरी तरत्तारकलोचना ।
पुर्णेन्दुबिम्बवदना कुसुमोत्करहासिनी ।। १३
लीलाविलोलपुरुषा कार्यसंहारकारिणी ।
परं विमोहनं बुद्धेः कामिनी दीर्घयामिनी ।। १४
पुष्पाभिराममधुरा करपल्लवशालिनी ।
भ्रमराक्षिविलासाढ्या स्तनस्तबकधारिणी ।। १५
पुष्पकेसरगौराङ्गी नरमारणतत्परा ।
ददात्युन्मत्तवैवश्यं कान्ता विषलता यथा ।। १६
सत्कार्योच्छ्वासमात्रेण भुजङ्गदलनोत्कया ।
कान्तयोद्ध्रियते जन्तुः करभ्येवोरगो बिलात् ।। १७
कामनाम्ना किरातेन विकीर्णा मुग्धचेतसाम् ।
नार्यो नरविहंगानामङ्गबन्धनवागुराः ।। १८
ललनाविपुलालाने मनोमत्तमतंगजः ।
रतिशृङ्खलया ब्रह्मन्बद्धस्तिष्ठति मूकवत् ।। १९
जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् ।
पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ।। २०
मन्दुरं च तुरङ्गाणामालानमिव दन्तिनाम् ।
पुंसां मन्त्र इवाहीनां बन्धनं वामलोचना ।। २१
नानारसवती चित्रा भोगभूमिरियं मुने ।
स्त्रियमाश्रित्य संयाता परामिह हि संस्थितिम् ।। २२
सर्वेषां दोषरत्नानां सुसमुद्गिकयाऽनया ।
दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ।। २३
किं स्तनेन किमक्ष्णा वा किं नितम्बेन किं भुवा ।
मांसमात्रैकसारेण करोम्यहमवस्तुना ।। २४
इतो मांसमितो रक्तमितोऽस्थीनीति वासरैः ।
ब्रह्मन्कतिपयैरेव याति स्त्री विशरारुताम् ।। २५
यास्तात पुरुषैः स्थूलैर्ललिता मनुजैः प्रियाः ।
ता मुने प्रविभक्ताङ्ग्यः स्वपन्ति पितृभूमिषु ।। २६
यस्मिन्घनतरस्नेहं मुखे पत्राङ्कुराः स्त्रियः ।
कान्तेन रचिता ब्रह्मन्पीयते तेन जङ्गले ।। २७
केशाः श्मशानवृक्षेषु यान्ति चामरलेखिकाम् ।
अस्थीन्युडुवदाभान्ति दिनैरवनिमण्डले ।। २८
पिबन्ति पांसवो रक्तं क्रव्यादाश्चाप्यनेकशः ।
चर्माणि च शिवा भुङ्क्ते खं यान्ति प्राणवायवः ।। २९
इत्येषा ललनाङ्गानामचिरेणैव भाविनी ।
स्थितिर्मया वः कथिता किं भ्रान्तिमनुधावथ ।। ३०
भूतपञ्चकसंघट्टसंस्थानं ललनाभिधम् ।
रसादभिपतत्वेतत्कथं नाम धियान्वितः ।। ३१
शाखाप्रतानगहना कट्वम्लफलमालिनी ।
सुतालोत्तालतामेति चिन्ता कान्तानुसारिणी ।। ३२
कान्दिग्भूततया चेतो घनगर्धान्धमाकुलम् ।
परं मोहमुपादत्ते यूथभ्रष्टमृगो यथा ।। ३३
शोच्यतां परमां याति तरुणस्तरुणीपरः ।
निबद्धः करिणीलोलो विन्ध्यखाते यथा गजः ।। ३४
यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः ।
स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ।। ३५
आपातमात्ररमणेषु सुदुस्तरेषु
भोगेषु नाहमलिपक्षतिचञ्चलेषु ।
ब्रह्मन्रमे मरणरोगजरादिभीत्या
शाम्याम्यहं परमुपैमि पदं प्रयत्नात् ।। ३६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे स्त्रीजुगुप्सा नामैकविंशतितमः सर्गः ।। २१ ।।