योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः १९

विकिस्रोतः तः
Jump to navigation Jump to search


एकोनविंशः सर्गः १९
श्रीराम उवाच ।
लब्ध्वापि तरलाकारे कार्यभारतरंगिणि ।
संसारसागरे जन्म बाल्यं दुःखाय केवलम् ।। १
अशक्तिरापदस्तृष्णा मूकता मूढबुद्धिता ।
गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रवर्तते ।।
रोषरोदनरौद्रासु दैन्यजर्जरितासु च ।
दशासु बन्धनं बाल्यमालानं करिणामिव ।। ३
न मृतौ न जरारोगे न चापदि न यौवने ।
ताश्चिन्ताः परिकृन्तन्ति हृदयं शैशवेषु याः ।।
तिर्यग्जातिसमारम्भः सर्वैरेवावधीरितः ।
लोलो बालसमाचारो मरणादपि दुःखदः ।।
प्रतिबिम्बघनाज्ञानं नानासंकल्पपेलवम् ।
बाल्यमालूनसंशीर्णमनः कस्य सुखावहम् ।।
जलवह्नयनिलाजस्रजातभीत्या पदे पदे ।
यद्भयं शैशवेऽबुद्ध्या कस्यापदि हि तद्भवेत् ।। ७
लीलासु दुर्विलासेषु दुरीहासु दुराशये ।
परमं मोहमाधत्ते बालो बलवदापतन् ।। ८
विकल्पकल्पितारम्भं दुर्विलारसं दुरास्पदम् ।
शैशवं शासनायैव पुरुषस्य न शान्तये ।। ९
ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः ।
ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः ।। १०
बाल्यं रम्यमिति व्यर्थबुद्धयः कल्पयन्ति ये ।
तान्मूर्खपुरुषान्ब्रह्मन्धिगस्तु हृतचेतसः । ११
यत्र दोलाकृति मनः परिस्फुरति वृत्तिषु ।
त्रैलोक्याऽभव्यमपि तत्कथं भवति तुष्टये ।। १२
सर्वेषामेव सत्त्वानां सर्वावस्थाभ्य एव हि ।
मनश्चञ्चलतामेति बाल्ये दशगुणं मुने ।। १३
मनः प्रकृत्यैव चलं बाल्यं च चलतां वरम् ।
तयोः संश्लिष्यतोस्त्राता क इवान्तः कुचापले ।। १४
स्त्रीलोचनैस्तडित्पुञ्जैर्ज्वलाजालैस्तरङ्गकैः ।
चापलं शिक्षितं ब्रह्मञ्छैशवाक्रान्तचेतसः ।। १५
शैशवं च मनश्चैव सर्वास्वेव हि वृत्तिषु ।
भ्रातराविव लक्ष्येते सततं भङ्गुरस्थिती ।। १६
सर्वाणि दुःखभूतानि सर्वे दोषा दुराधयः ।
बालमेवोपजीवन्ति श्रीमन्तमिव मानवाः ।। १७
नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि ।
प्राप्नोति तदसौ याति विषवैषम्यमूर्च्छनाम् ।। १८
स्तोकेन वशमायाति स्तोकेनैति विकारिताम् ।
अमेध्य एव रमते बालः कौलेयको यथा ।। १९
अजस्रवाष्पवदनः कर्दमाक्तो जडाशयः ।
वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशः शिशुः ।। २०
भयाहारपरं दीनं दृष्टादृष्टाभिलाषि च ।
लोलबुद्धि वपुर्धत्ते बाल्यं दुःखाय केवलम् ।। २१
स्वसंकल्पाभिलषितान्भावानप्राप्य तप्तधीः ।
दुःखमेत्यबलो बालो विनिष्कृत्त इवाशये ।। २२
दुरीहालब्धलक्षाणि बहुवक्रोल्बणानि च ।
बालस्य यानि दुःखानि मुने तानि न कस्यचित् ।। २३
बालो बलवता स्वेन मनोरथविलासिना ।
मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थली ।। २४
विद्यागृहगतो बालो परामेति कदर्थनाम् ।
आलान इव नागेन्द्रो विषवैषम्यभीषणाम् ।। २५
नानामनोरथमयी मिथ्याकल्पितकल्पना ।
दुःखायात्यन्तदीर्घाय बालता पेलवाशया ।। २६
संहृष्टो भुवनं भोक्तमिन्दुमादातुमम्बरात् ।
वाञ्छते येन मौर्ख्येण तत्सुखाय कथं भवेत् ।। २७
अन्तश्चित्तेरशक्तस्य शीतातपनिवारणे ।
को विशेषो महाबुद्धे बालस्योर्वीरुहस्तथा ।। २८
उड्डीतुमभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः ।
भयाहारपरा नित्यं बाला विहगधर्मिणः ।। २९
शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा ।
जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् ।। ३०
सकलदोषदशाविहताशयं
शरणमप्यविवेकविलासिनः ।
इह न कस्यचिदेव महामुने
भवति बाल्यमलं परितुष्टये ।। ३१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे बाल्यजुगुप्सानामैकोनविंशः सर्गः ।। १९ ।।