योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः १७

विकिस्रोतः तः
Jump to navigation Jump to search


सप्तदशः सर्गः
श्रीराम उवाच ।
हार्दान्धकारशर्वर्या तृष्णयेह दुरन्तया ।
स्फुरन्ति चेतनाकाशे दोषकौशिकपङ्कतयः ।। १
अन्तर्दाहप्रदायिन्या समूढरसमार्दवः ।
पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया ।। २
मम चित्तमहारण्येव्यामोहतिमिराकुले ।
शून्ये ताण्डविनी जाता भृशमाशापिशाचिका ।। ३
वचोरचितनीहारा काञ्चनोपवनोज्ज्वला ।
नूनं विकासमायाति चिन्ताचणकमञ्जरी ।। ४
अलमन्तर्भ्रमायैव तृष्णातरलिताशया ।
आयाता विषमोल्लासमूर्मिरम्बुनिधाविव ।। ५
उद्दामकल्लोलरवा देहाद्रौ वहतीह मे ।
तरङ्गतरलाकारा तरत्तृष्णातरङ्गिणी ।। ६
वेगं सरोद्धुमुदितो वात्ययेव जरत्तृणम् ।
नीतः कलुषया क्वापि तृष्णया चित्तचातकः ।। ७
यां यामहमतीवास्थां संश्रयामि गुणश्रियाम् ।
तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ।। ८
पयसीव जरत्पर्णं वायाविव जरत्तृणम् ।
नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् ।। ९
गन्तुमास्पदमात्मीयमसमर्थधियो वयम् ।
चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ।। १०
तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा ।
यथा दाहोपशमनमाशंके नामृतैरपि ।। ११
दूरं दूरमितो गत्वा समेत्य च पुनःपुनः ।
भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी ।। १२
जडसंसर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा ।
क्षुब्धा ग्रन्थिमती नित्यमारघट्टाग्ररज्जुवत् ।। १३
अन्तर्ग्रथितया देहे सर्वदुश्छेदयाऽनया ।
रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः ।। १४
पुत्रमित्रकलत्रादितृष्णया नित्यकृष्टया ।
खगेष्विव किरात्येदं जालं लोकेषु रच्यते ।। १५
भीषयत्यपि धीरं मामन्धयत्यपि सेक्षणम् ।
खेदयत्यपि सानन्दं तृष्णाकृष्णेव शर्वरी ।। १६
कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी ।
दशत्यपि मनाक्स्पृष्टा तृष्णा कृष्णेव भोगिनी ।। १७
भिन्दती हृदयं पुंसां मायामयविधायिनी ।
दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ।। १८
तन्द्रीतन्त्रीगणैः कोशं दधाना परिवेष्टितम् ।
नानन्दे राजते ब्रह्मंस्तृष्णा जर्जरवल्लकी ।। १९
नित्यमेवातिमलिना कटुकोन्माददायिनी ।
दीर्घतन्त्री घनस्नेहा तृष्णा गह्वरवल्लरी ।। २०
अनानन्दकरी शून्या निष्फला व्यर्थमुन्नता ।
अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ।। २१
अनावर्जितचित्तापि सर्वमेवानुधावति ।
न चाप्नोति फलं किंचित्तृष्णा जीर्णेव कामिनी ।। २२
संसारवृन्दे महति नानारससमाकुले ।
भुवनाभोगरङ्गेषु तृष्णा जरठनर्तकी ।। २३
जराकुसुमितारूढा पातोत्पातफलावलिः ।
संसारजंगले दीर्घे तृष्णा विषलता तता ।। २४
यन्न शक्रोति तत्रापि धत्ते ताण्डवितां गतिम् ।
नृत्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी ।। २५
भृशं स्फुरति नीहारे शाम्यत्यालोक आगते ।
दुर्लङ्घयेषु पदं धत्ते चिन्ता चपलबर्हिणी ।। २६
जडकल्लोलबहुला चिरं शून्यान्तरान्तरा ।
क्षणमुल्लासमायाति तृष्णा प्रावृट्तरङ्गिणी ।। २७
नष्टमुत्सृज्य तिष्ठन्तं तृष्णा वृक्षमिवापरम् ।
पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी ।। २८
पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते ।
चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी ।। २९
इदं कृत्वेदमायाति सर्वमेवासमञ्जसम् ।
अनारतं च यतते तृष्णा चेष्टेव दैविकी ।। ३०
क्षणमायाति पातालं क्षणं याति नभस्थलम् ।
क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ।। ३१
सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा ।
अन्तःपुरस्थमपि या योजयत्यतिसंकटे ।। ३२
प्रयच्छति परं जाड्यं परमालोकरोधिनी ।
मोहनीहारगहना तृष्णा जलदमालिका ।। ३३
सर्वेषां जन्तुजातानां संसारव्यवहारिणाम् ।
परिप्रोतमनोमाला तृष्णा बन्धनरज्जुवत् ।। ३४
विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः ।
शून्या शून्यपदा तृष्णा शक्रकार्मुकधर्मिणी ।। ३५
अशनिर्गुणसस्यानां फलिता शरदापदाम् ।
हिमं संवित्सरोजानां तमसां दीर्घयामिनी ।। ३६
संसारनाटकनटी कार्यालयविहंगमी ।
मानसारण्यहरिणी स्मरसंगीतवल्लकी ।। ३७
व्यवहाराब्धिलहरी मोहमातङ्गश्रृङ्खला ।
सर्गन्यग्रोधसुलता दुःखकैरवचन्द्रिका ।। ३८
जरामरणदुःखानामेका रत्नसमुद्गिका ।
आधिव्याधिविलासानां नित्यं मत्ता विलासिनी ।। ३९
क्षणमालोकविमला सान्धकारलवा क्षणम् ।
व्योमवीथ्युपमा तृष्णा नीहारगहना क्षणम् ।। ४०
गच्छत्युपशमं तृष्णा कायव्यायामशान्तये ।
तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ।। ४१
तावन्मुह्यत्ययं मूको लोको विलुलिताशयः ।
यावदेवानुसंधत्ते तृष्णा विषविषूचिका ।। ४२
लोकोऽयमखिलं दुःखं चिन्तयोज्झितयोज्झति ।
तृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि कथ्यते ।। ४३
तृणपाषाणकाष्ठादिसर्वमामिषशङ्कया ।
आददाना स्फुरत्यन्ते तृष्णा मत्स्यी ह्रदे यथा ।। ४४
रोगार्तिरङ्गनातृष्णा गम्भीरमपि मानवम् ।
उत्तानतां नयन्त्याशु सूर्यांशव इवाम्बुजम् ।। ४५
अन्तःशून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः ।
मुक्तामणिप्रिया नित्यं तृष्णा वेणुलता इव ।। ४६
अहो बत महच्चित्रं तृष्णामपि महाधियः ।
दुच्छेदामपि कृन्तन्ति विवेकेनामलासिना ।। ४७
नासिधारा न वज्रार्चिर्न तप्तायःकणार्चिषः ।
तथा तीक्ष्णा यथा ब्रह्मंस्तृष्णेयं हृदि संस्थिता ।। ४८
उज्ज्वलाऽसिततीक्ष्णाग्रा स्नेहदीर्घदशा परा ।
प्रकाशा दाहदुःस्पर्शा तृष्णा दीपशिखा इव ।। ४९
अपि मेरुसमं प्राज्ञमपि शूरमपि स्थिरम् ।
तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ।। ५०
संस्तीर्णगहना भीमा घनजालरजोमयी ।
सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहातटी ।। ५१
एकैव सर्वभुवनान्तरलब्धलक्ष्या
दुर्लक्ष्यतामुपगतैव वपुःस्थितैव ।
तृष्णा स्थिता जगति चञ्चलवीचिमाले
क्षीरोदकाम्बुतरले मधुरेव शक्तिः ।। ५२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तृष्णाभंगो नाम सप्तदशः सर्गः ।। १७ ।।