योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः १६

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीराम उवाच ।
दोषैर्जर्जरतां याति सत्कार्यादार्यसेवनात् ।
वातान्तःपिच्छलववच्चेतश्चलति चञ्चलम् ।। १
इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति ।
दूराद्दूरतरं दीनं ग्रामे कौलेयको यथा ।। २
न प्राप्नोति क्वचित्किंचित्प्राप्तैरपि महाधनैः ।
नान्तः संपूर्णतामेति करण्डक इवाम्बुभिः ।। ३
नित्यमेव मुने शून्यं कदाशावागुरावृतम् ।
न मनो निवृतिं याति मृगो यूथादिव च्युतः ।। ४
तरङ्गतरलां वृत्तिं दधदालूनशीर्णताम् ।
परित्यज्य क्षणमपि हृदये याति न स्थितिम् ।। ऽ
मनो मननविक्षुब्धं दिशो दश विधावति ।
मन्दराहननोद्धूतं क्षीरार्णवपयो यथा ।। ६
कल्लोलकलितावर्तं मायामकरमालितम् ।
न निरोद्धुं समर्थोऽस्मि मनोमयमहार्णवम् ।। ७
भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातमचिन्तयन् ।
मनोहरिणको ब्रह्मन्दूरं विपरिधावति ।। ८
न कदाचन मे चेतः स्वामालूनविशीर्णताम् ।
त्यजत्याकुलया वृत्त्या चञ्चलत्वमिवार्णवः ।। ९
चेतश्चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् ।
धृतिं बध्नाति नैकत्र पञ्जरे केसरी यथा ।। 1.16.१०
मनो मोहरथारूढं शरीरात्समतासुखम् ।
हरत्यपहतोद्वेगं हंसः क्षीरमिवाम्भसः ।। ११
अनल्पकल्पनातल्पे विलीनाश्चित्तवृत्तयः ।
मुनीन्द्र न प्रबुध्यन्ते तेन तप्येऽहमाकुलः ।। १२
क्रोडीकृतदृढग्रन्थितृष्णासूत्रे स्थितात्मना ।
विहगो जालकेनेव ब्रह्मन्बद्धोऽस्मि चेतसा ।। १३
संततामर्षधूमेन चिन्ताज्वालाकुलेन च ।
वह्निनेव तृणं शुष्कं मुने दग्धोऽस्मि चेतसा ।। १४
क्रूरेण जडतां यातस्तृष्णाभार्यानुगामिना ।
शवं कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मि चेतसा ।। १५
तरङ्गतरलास्फालवृत्तिना जडरूपिणा ।
तटवृक्ष इवौघेन ब्रह्मन्नीतोऽस्मि चेतसा ।। १६
अवान्तरनिपाताय शून्ये वा भ्रमणाय च ।
तृणं चण्डानिलेनेव दूरे नीतोऽस्मि चेतसा ।। १७
संसारजलधेरस्मान्नित्यमुत्तरणोन्मुखः ।
सेतुनेव पयःपूरो रोधितोऽस्मि कुचेतसा ।। १८
पातालाद्गच्छता पृथ्वीं पृथ्व्याः पातालगामिना ।
कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा ।। १९
मिथ्यैव स्फाररूपेण विचाराद्विशरारुणा ।
बालो वेतालकेनेव गृहीतोऽस्मि कुचेतसा ।। 1.16.२०
वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः ।
वज्रादपि दृढो ब्रह्मन्दुर्निग्रहमनोग्रहः ।। २१
चेतः पतति कार्येषु विहगः स्वामिषेष्विव ।
क्षणेन विरतिं याति बालः क्रीडनकादिव ।। २२
जडप्रकृतिरालोलो विततावर्तवृत्तिमान् ।
मनोऽब्धिरहितव्यालो दूरं नयति तात माम् ।। २३
अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ।
अपि वह्न्यशनात्साधो विषमश्चित्तनिग्रहः ।। २४
चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् ।
तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ।। २५
चित्तादिमानि सुखदुःखशतानि नून-
मभ्यागतान्यगवरादिव काननानि ।
तस्मिन्विवेकवशतस्तनुतां प्रयाते
मन्ये मुने निपुणमेव गलन्ति तानि ।। २६
सकलगुणजयाशा यत्र बद्धा महद्भि-
स्तमरिमिह विजेतुं चित्तमभ्युत्थितोऽहम् ।
विगतरतितयान्तर्नाभिनन्दामि लक्ष्मीं
जडमलिनविलासां मेघलेखामिवेन्दुः ।। २७

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे वैराग्यचित्तदौरात्म्यं नाम षोडशः सर्गः ।। १६ ।।