योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः १२

विकिस्रोतः तः
Jump to navigation Jump to search


द्वादशः सर्गः १२
वाल्मीकिरुवाच ।
इति पृष्टो मुनीन्द्रेण समाश्वस्य च राघवः ।
उवाच वचनं चारु परिपूर्णार्थमन्थरम् ।। १
श्रीराम उवाच ।
भगवन्भवता पृष्टो यथावदधुनाऽखिलम् ।
कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः ।। २
अहं तावदयं जातो निजेऽस्मिन्पितृसद्मनि ।
क्रमेण वृद्धिं संप्राप्तः प्राप्तविद्यश्च संस्थितः ।। ३
ततः सदाचारपरो भूत्वाहं मुनिनायक ।
विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम्।। ४
एतावताथ कालेन संसारास्थामिमां हरन् ।
समुद्भूतो मनसि मे विचारः सोऽयमीदृशः ।। ५
विवेकेन परीतात्मा तेनाहं तदनु स्वयम् ।
भोगनीरसया बुद्ध्या प्रविचारितवानिदम् ।। ६
किंनामेदं बत सुखं येयं संसारसंततिः ।
जायते मृतये लोको म्रियते जननाय च ।। ७
अस्थिराः सर्व एवेमे सचराचरचेष्टिताः ।
आपदां पतयः पापा भावा विभवभूमयः ।। ८
अयःशलाकासदृशाः परस्परमसङ्गिनः ।
श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ।। ९
मनःसमायत्तमिदं जगदाभोगि दृश्यते ।
मनश्चासदिवाभाति केन स्म परिमोहिताः ।। १०
असतैव वयं कष्टं विकृष्टा मूढबुद्धयः ।
मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ।। ११
न केनचिच्च विक्रीता विक्रीता इव संस्थिताः ।
बत मूढा वयं सर्वे जानाना अपि शाम्बरम् ।। १२
किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः ।
मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ।। १३
आ ज्ञातं बहुकालेन व्यर्थमेव वयं वने ।
मोहे निपतिता मुग्धाः श्वभ्रे मुग्धा मृगा इव ।। १४
किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् ।
यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ।। १५
एवं विमृशतो ब्रह्मन्सर्वेष्वेव ततो मम ।
भावेष्वरतिरायाता पथिकस्य मरुष्विव ।। १६
तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति ।
किमिदं जायते भूयः किमिदं परिवर्धते ।। १७
जरामरणमापच्च जननं संपदस्तथा ।
आविर्भावतिरोभावैर्विवर्धन्ते पुनःपुनः ।। १८
भोगैस्तैरेव तैरेव तुच्छैर्वयममी किल ।
पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ।। १९
अचेतना इव जनाः पवनैः प्राणनामभिः ।
ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ।। २०
शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया ।
जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ।। २१
संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् ।
निजलोकभयादेव गलद्वाष्पं न रोदिमि ।। २२
शून्या मन्मुखवृत्तीस्ताः शुष्करोदननीरसाः ।
विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ।। २३
भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् ।
दारिद्र्येणेव सुभगो दूरे संसारचेष्टया ।। २४
मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणावलिम् ।
दुःखजालं प्रयच्छन्ति विप्रलम्भपराः श्रियः ।। २५
चिन्तानिचयचक्राणि नानन्दाय धनानि मे ।
संप्रसूतकलत्राणि गृहाण्युग्रापदामिव ।। २६
विविधदोषदशापरिचिन्तनै-
र्विततभङ्गुरकारणकल्पितैः ।
मम न निर्वृतिमेति मनो मुने
निगडितस्य यथा वनदन्तिनः ।। २७
खलाः कालेकाले निशि निशितमोहैकमिहिका-
गतालोके लोके विषयशतचौराः सुचतुराः ।
प्रवृत्ताः प्रोद्युक्ता दिशिदिशि विवेकैकहरणे
रणे शक्तास्तेषां क इव विदुषःप्रोज्झ्य सुभटाः ।। २८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे प्रथमपरितापो
नाम द्वादशः सर्गः ।। १२।।