योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः ११

विकिस्रोतः तः
Jump to navigation Jump to search


एकादशः सर्गः ११
विश्वामित्र उवाच ।
एवं चेत्तन्महाप्राज्ञा भवन्तो रघुनन्दनम् ।
इहानयन्तु त्वरिता हरिणं हरिणा इव ।। १
एष मोहो रघुपतेर्नापद्भ्यो न च रागतः ।
विवेकवैराग्यवतो बोध एव महोदयः ।। २
इहायातु क्षणाद्राम इह चैव वयं क्षणात् ।
मोहं तस्यापनेष्यामो मारुतोऽद्रेर्घनं यथा ।। ३
एतस्मिन्मार्जिते युक्त्या मोहे स रघुनन्दनः ।
विश्रान्तिमेष्यति पदे तस्मिन्वयमिवोत्तमे ।। ४
सत्यतां मुदितां प्रज्ञां विश्रान्तिमपतापताम् ।
पीनतां वरवर्णत्वं पीतामृत इवैष्यति ।। ५
निजां च प्रकृतामेव व्यवहारपरम्पराम् ।
परिपूर्णमना मान्य आचरिष्यत्यखण्डितम् ।। ६
भविष्यति महासत्त्वो ज्ञातलोकपरावरः ।
सुखदुःखदशाहीनः समलोष्टाश्मकाञ्चनः ।। ७
इत्युक्ते मुनिनाथेन राजा संपूर्णमानसः ।
प्राहिणोद्राममानेतुं भूयो दूतपरम्पराम् ।। ८
एतावताथ कालेन रामो निजगृहासनात् ।
पितुः सकाशमागन्तुमुत्थितोऽर्क इवाचलात् ।। ९
वृतः कतिपयैर्भृत्यैर्भ्रातृभ्यां च जगाम ह ।
तत्पुण्यं स्वपितुः स्थानं स्वर्गं सुरपतेरिव ।। १०
दूरादेव ददर्शासौ रामो दशरथं तदा ।
वृतं राजसमूहेन देवौघेनेव वासवम् ।। ११
वसिष्ठविश्वामित्राभ्यां सेवितं पार्श्वयोर्द्वयोः ।
सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन मालितम् ।। १२
चारुचामरहस्ताभिः कान्ताभिः समुपासितम् ।
ककुब्भिरिव मूर्ताभिः संस्थिताभिर्यथोचितम् ।। १३
वसिष्ठविश्वामित्राद्यास्तथा दशरथादयः ।
ददृशू राघवं दूरादुपायान्तं गुहोपमम् ।। १४
सत्त्वावष्टब्धगर्भेण शल्येनेव हिमाचलम् ।
श्रितं सकलसेव्येन गम्भीरेण स्फुटेन च ।। १५
सौम्यं समं शुभाकारं विनयोदारमानसम् ।
कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम् ।। १६
समुद्यद्यौवनारम्भं वृद्धोपशमशोभनम् ।
अनुद्विग्नमनानन्दं पूर्णप्रायमनोरथम् ।। १७
विचारितजगद्यात्रं पवित्रगुणगोचरम् ।
महासत्त्वैकलोभेन गुणैरिव समाश्रितम् ।। १८
उदारमार्यमापूर्णमन्तःकरणकोटरम्।
अविक्षुभितया वृत्त्या दर्शयन्तमनुत्तमम्।। १९
एवङ्गुणगणाकीर्णो दूरादेव रघूद्वहः ।
परिमेयस्मिताच्छाच्छस्वहाराम्बरपल्लवः ।। २०
प्रणनाम चलच्चारुचूडामणिमरीचिना ।
शिरसा वसुधाकम्पलोलदेवाचलश्रिया ।। २१
एवं मुनीन्द्रे ब्रुवति पितुः पादाभिवन्दनम्।
कर्तुमभ्याजगामाथ रामः कमललोचनः ।। २२
प्रथमं पितरं पश्चान्मुनी मान्यैकमानितौ ।
ततो विप्रांस्ततो बन्धूंस्ततो गुरुगणान्सुहृत् ।। २३
जग्राह च ततो दृष्ट्या मनाङ्मूर्ध्ना तथा गिरा ।
राजलोकेन विहितां तां प्रणामपरम्पराम् ।। २४
विहिताशीर्मुनिभ्यां तु रामः सुसममानसः ।
आससाद पितुः पुण्यं समीपं सुरसुन्दरः ।। २५
पादाभिवन्दनपरं तमथासौ महीपतिः ।
शिरस्यभ्यालिलिङ्गाशु चुचुम्ब च पुनःपुनः ।। २६
शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा ।
आलिलिङ्ग घनस्नेहो राजहंसोऽम्बुजे यथा ।। २७
उत्सङ्गे पुत्र तिष्ठेति वदत्यथ महीपतौ ।
भूमौ परिजनास्तीर्णे सोंऽशुकेऽथ न्यविक्षत ।। २८
राजोवाच ।
पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम् ।
जडवज्जीर्णया बुद्ध्या खेदायात्मा न दीयताम् ।। २९
वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता ।
पदमासाद्यते पुण्यं न मोहमनुधावता ।। ३०
तावदेवाऽऽपदो दूरे तिष्ठन्ति परिपेलवाः ।
यावदेव न मोहस्य प्रसरः पुत्र दीयते ।। ३१
श्रीवसिष्ठ उवाच ।
राजपुत्र महाबाहो शूरस्त्वं विजितास्त्वया ।
दुरुच्छेदा दुरारम्भा अप्यमी विषयारयः ।। ३२
किमतज्ज्ञ इवाज्ञानां योग्ये व्यामोहसागरे ।
विनिमज्जसि कल्लोलबहुले जाड्यशालिनि ।। ३३
विश्वामित्र उवाच
चलन्नीलोत्पलव्यूहसमलोचनलोलताम् ।
ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि ।। ३४
किंनिष्ठाः के च ते केन कियन्तः कारणेन ते ।
आधयः प्रविलुम्पन्ति मनो गेहमिवाखवः ।। ३५
मन्ये नानुचितानां त्वमाधीनां पदमुत्तमम् ।
आपत्सु चाऽप्रयोज्यं ते निहीना अपि चाधयः ।। ३६
यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघ ।
सर्वमेव पुनर्येन भेत्स्यन्ते त्वां तु नाधयः ।। ३७
इत्युक्तमस्य सुमते रघुवंशकेतु-
राकर्ण्य वाक्यमुचितार्थविलासगर्भम् ।
तत्याज खेदमभिगर्जति वारिवाहे
बर्ही यथा त्वनुमिताभिमतार्थसिद्धिः ।। ३८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवसमाश्वासनं नामैकादशः सर्गः ।। ११ ।।