योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः १०

विकिस्रोतः तः
Jump to navigation Jump to search


दशमः सर्गः
वाल्मीकिरुवाच ।
तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् ।
संप्रहृष्टमना राममाजुहाव सलक्ष्मणम् ।। १
दशरथ उवाच ।
प्रतिहार महाबाहुं रामं सत्यपराक्रमम् ।
सलक्ष्मणमविघ्नेन पुण्यार्थं शीघ्रमानय ।। २
इति राज्ञा विसृष्टोऽसौ गत्वान्तःपुरमन्दिरम् ।
मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ।। ३
देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे ।
विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ।। ४
आगच्छामि क्षणेनेति वक्ति ध्यायति चैकतः ।
न कस्यचिच्च निकटे स्थातुमिच्छति खिन्नधीः ।। ५
इत्युक्तस्तेन भूपालस्तं रामानुचरं जनम् ।
सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् ।। ६
कथं कीदृग्विधो राम इति पृष्टो महीभृता ।
रामभृत्यजनः खिन्नो वाक्यमाह महीपतिम् ।। ७
देहयष्टिमिमां देव धारयन्त इमे वयम् ।
खिन्नाः खेदे परिम्लानतनौ रामे सुते तव ।। ८
रामो राजीवपत्राक्षो यतःप्रभृति चागतः ।
सविप्रस्तीर्थयात्रायास्ततःप्रभृति दुर्मनाः ।। ९
यत्नप्रार्थनयास्माकं निजव्यापारमाह्निकम् ।
सोऽयमाम्लानवदनः करोति न करोति वा ।। १०
स्नानदेवार्चनादानभोजनादिषु दुर्मनाः ।
प्रार्थितोऽपि हि नातृप्तेरश्नात्यशनमीश्वरः ।। ११
लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गणे ।
नच क्रीडति लीलाभिर्धाराभिरिव चातकः ।। १२
माणिक्यमुकुलप्रोता केयूरकटकावलिः ।
नानन्दयति तं राजन्द्यौः पातविषयं यथा ।। १३
क्रीडद्वधूविलोकेषु वहत्कुसुमवायुषु ।
लतावलयगेहेषु भवत्यतिविषादवान् ।। १४
यद्द्रव्यमुचितं स्वादु पेशलं चित्तहारि च ।
बाष्पपूर्णेक्षण इव तेनैव परिखिद्यते ।। १५
किमिमा दुःखदायिन्यः प्रस्फुरन्तीः पुराङ्गनाः ।
इति नृत्तविलासेषु कामिनीः परिनिन्दति ।। १६
भोजनं शयनं यानं विलासं स्नानमासनम् ।
उन्मत्तचेष्टित इव नाभिनन्दत्यनिन्दितम् ।। १७
किं संपदा किं विपदा किं गेहेन किमिङ्गितैः ।
सर्वमेवासदित्युक्त्वा तूष्णीमेकोऽवतिष्ठते ।। १८
नोदेति परिहासेषु न भोगेषु निमज्जति ।
न च तिष्ठति कार्येषु मौनमेवावलम्बते ।। १९
विलोलालकवल्लर्यो हेलावलितलोचनाः ।
नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ।। २०
एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च ।
रतिमायात्यरण्येषु विक्रीत इव जन्तुषु ।। २१
वस्त्रपानाशनादानपराङ्मुखतया तया ।
परिव्राड्धर्मिणं भूय सोऽनुयाति तपस्विनम् ।। २२
एक एव वसन्देशे जनशून्ये जनेश्वर ।
न हसत्येकया बुद्ध्या न गायति न रोदिति ।। २३
बद्धपद्मासनः शून्यमना वामकरस्थले ।
कपोलतलमाधाय केवलं परितिष्ठति ।। २४
नाभिमानमुपादत्ते न च वाञ्छति राजताम् ।
नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु ।। २५
न विद्मः किमसौ याति किं करोति किमीहते ।
किं ध्यायति किमायाति कथं किमनुधावति ।। २६
प्रत्यहं कृशतामेति प्रत्यहं याति पाण्डुताम्।
विरागं प्रत्यहं याति शरदन्त इव द्रुमः ।। २७
अनुयातौ तथैवैतौ राजञ्छत्रुघ्नलक्ष्मणौ ।
तादृशावेव तस्यैव प्रतिबिम्बाविव स्थितौ ।। २८
भृत्यै राजभिरम्बाभिः संपृष्टोऽपि पुनः पुनः ।
उक्त्वा न किंचिदेवेति तूष्णीमास्ते निरीहितः ।। २९
आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः ।
इति पार्श्वगतं भव्यमनुशास्ति सुहृज्जनम् ।। ३०
नानाविभवरम्यासु स्त्रीषु गोष्ठीगतासु च ।
पुरस्थितमिवास्नेहो नाशमेवानुपश्यति ।। ३१
नीतमायुरनायासपदप्राप्तिविवर्जितैः ।
चेष्टितैरिति काकल्या भूयोभूयः प्रगायति ।। ३२
सम्राड्भवेति पार्श्वस्थं वदन्तमनुजीविनम् ।
प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः ।। ३३
न प्रोक्तमाकर्णयति ईक्षते न पुरोगतम् ।
करोत्यवज्ञां सर्वत्र सुसमेत्यापि वस्तुनि ।। ३४
अप्याकाशसरोजिन्या अप्याकाशमहावने ।
इत्थमेतन्मन इति विस्मयोऽस्य न जायते ।। ३५
कान्तामध्यगतस्यापि मनोऽस्य मदनेषवः ।
न भेदयन्ति दुर्भेद्यं धारा इव महोपलम्।। ३६
आपदामेकमावासमभिवाञ्छसि किं धनम् ।
अनुशिष्येति सर्वस्वमर्थिने संप्रयच्छति ।। ३७
इयमापदियं संपदित्येवं कल्पनामयः ।
मनसोऽभ्युदितो मोह इति श्लोकान्प्रगायति ।। ३८
हा हतोऽहमनाथोऽहमित्याक्रन्दपरोऽपि सन् ।
न जनो याति वैराग्यं चित्रमित्येव वक्त्यसौ ।। ३९
रघुकाननशालेन रामेण रिपुघातिना ।
भृशमित्थं स्थितेनैव वयं खेदमुपागताः ।। ४०
न विद्मः किं महाबाहो तस्य तादृशचेतसः ।
कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् ।। ४१
राजानमथवा विप्रमुपदेष्टारमग्रतः ।
हसत्यज्ञमिवाव्यग्रः सोऽवधीरयति प्रभो ।। ४२
यदेवेदमिदं स्फारं जगन्नाम यदुत्थितम् ।
नैतद्वस्तु नचैवाहमिति निर्णीय संस्थितः ।। ४३
नारौ नात्मनि नो मित्रे न राज्ये न च मातरि ।
न संपदा न विपदा तस्यास्था न विभो बहिः ।। ४४
निरस्तास्थो निराशोऽसौ निरीहोऽसौ निरास्पदः ।
न मूढो न च मुक्तोऽसौ तेन तप्यामहे भृशम् ।। ४५
किं धनेन किमम्बाभिः किं राज्येन किमीहया ।
इति निश्चयवानन्तः प्राणत्यागपरः स्थितः ।। ४६
भोगेऽप्यायुषि राज्येषु मित्रे पितरि मातरि ।
परमुद्वेगमायातश्चातकोऽवग्रहे यथा ।। ४७
इति तोके समायातां शाखाप्रसरशालिनीम् ।
आपत्तामलमुद्धर्तुं समुदेतु दयापरः ।। ४८
तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् ।
संसारजालमाभोगि प्रभो प्रतिविषायते ।। ४९
ईदृशः स्यान्महासत्त्वः क इवास्मिन्महीतले ।
प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ।। ५०
मनसि मोहमपास्य महामनाः
सकलमार्तितमः किल साधुताम् ।
सफलतां नयतीह तमो हरन्
दिनकरो भुवि भास्करतामिव ।। ५१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवविषादो नाम दशमः सर्गः ।।१० ।।