योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः ०९

विकिस्रोतः तः
Jump to navigation Jump to search


नवमः सर्गः ९
वाल्मीकिरुवाच ।
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलेक्षणम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ।। १
करिष्यामीति संश्रुत्य प्रतिज्ञां हातुमर्हसि ।
स भवान्केसरी भूत्वा मृगतामिव वाञ्छसि ।। २
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ।
न कदाचन जायन्ते शीतांशोरुष्णरश्मयः ।। ३
यदि त्वं न क्षमो राजन्गमिष्यामि यथागतम् ।
हीनप्रतिज्ञ काकुत्स्थ सुखी भव सबान्धवः ।। ४
वाल्मीकिरुवाच ।
तस्मिन्कोपपरीतेऽथ विश्वामित्रे महात्मनि ।
चचाल वसुधा कृत्स्ना सुरांश्च भयमाविशत् ।। ५
क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् ।
धृतिमान्सुव्रतो धीमान्वसिष्ठो वाक्यमब्रवीत् ।। ६
वसिष्ठ उवाच ।
इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः ।
भवान्दशरथः श्रीमांस्त्रैलोक्यगुणभूषितः ।। ७
धृतिमान्सुव्रतो भूत्वा न धर्मं हातुमर्हसि ।
त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः ।। ८
स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि ।
मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि ।। ९
करिष्यामीति संश्रुत्य तत्ते राजन्नकुर्वतः ।
इष्टापूर्तं हरेद्धर्मं तस्माद्रामं विसर्जय ।। १०
इक्ष्वाकुवंशजातोऽपि स्वयं दशरथोऽपि सन् ।
न पालयसि चेद्वाक्यं कोऽपरः पालयिष्यति ।। ११
युष्मदादिप्रणीतेन व्यवहारेण जन्तवः ।
मर्यादां न विमुञ्चन्ति तां न हातुं त्वमर्हसि ।। १२
गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा ।
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।। १३
एष विग्रहवान्धर्म एप वीर्यवतां वरः ।
एष बुद्ध्याऽधिको लोके तपसां च परायणम् ।। १४
एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे ।
नैतदन्यः पुमान्वेत्ति न च वेत्स्यति कश्चन ।। १५
न देवा नर्षयः केचिन्नासुरा न च राक्षसाः ।
न नागा यक्षगन्धर्वाः समेताः सदृशा मुनेः ।। १६
अस्त्रमस्मै कृशाश्वेन परैः परमदुर्जयम् ।
कौशिकाय पुरा दत्तं यदा राज्यं समन्वगात् ।। १७
ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः ।
एनमन्वचरन्वीरा दीप्तिमन्तो महौजसः ।। १८
जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे ।
तयोस्तु यान्यपत्यानि शतं परमदुर्जयम् ।। १९
पञ्चाशतं सुताञ्जज्ञे जया लब्धवरा पुरा ।
वधार्थं सुरसैन्यानां ते क्षमाः कामचारिणः ।। २०
सुप्रभा जनयामास पुत्रान्पञ्चाशतं परान् ।
संघर्षान्नाम दुर्धर्षान्दुराकारान्वलीयसः ।। २१
एवंवीर्यो महातेजा विश्वामित्रो जगन्मुनिः ।
न रामगमने बुद्धिं विक्लवां कर्तुमर्हसि ।। २२
अस्मिन्महासत्त्वतमे मुनीन्द्रे
स्थिते समीपे पुरूषस्य साधो ।
प्राप्तेऽपि मृत्यावमरत्वमेति
मा दीनतां गच्छ यथा विमूढः ।। २३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे वसिष्ठसमाश्वासनं नाम नवमः सर्गः ।। ९ ।।