योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः ०८

विकिस्रोतः तः
Jump to navigation Jump to search


अष्टमः सर्गः
वाल्मीकिरुवाच ।
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमासीन्निश्चेष्टः सदैन्यं चेदमब्रवीत् ।। १
ऊनषोडशवर्षोऽयं रामो राजीवलोचनः ।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ।। २
इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो ।
तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ।। ३
इमे हि शूरा विक्रान्ता भृत्या मन्त्रविशारदाः ।
अहं चैषां धनुष्पाणिर्गोप्ता समरमूर्धनि ।। ४
एभिः सहैव वीराणां महेन्द्रमहतामपि ।
ददामि युद्धं मत्तानां करिणामिव केसरी ।। ५
बालो रामस्त्वनीकेषु न जानाति बलाबलम् ।
अन्तःपुरादृते दृष्टा नानेनान्या रणावनिः ।। ६
न शस्त्रैः परमैर्युक्तो न च युद्धविशारदः ।
नवास्त्रैः शूरकोटीनां तज्ज्ञः समरभूमिषु ।। ७
केवलं पुष्पखण्डेषु नगरोपवनेषु च ।
उद्यानवनकुञ्जेषु सदैव परिशीलनम् ।। ८
विहर्तुमेष जानाति सह राजकुमारकैः ।
कीर्णपुष्पोपहारासु स्वकास्वजिरभूमिषु ।। ९
अद्य त्वतितरां ब्रह्मन्मम भाग्यविपर्ययात् ।
हिमेनेव हि पद्माभः संपन्नो हरिणः कृशः ।। १०
नात्तुमन्नानि शक्नोति न विहर्तुं गृहावनिम् ।
अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् ।। ११
सदारः सहभृत्योऽहं तत्कृते मुनिनायक ।
शरदीव पयोवाहो नूनं निःसारतां गतः ।। १२
ईदृशोऽसौ सुतो बाल आधिनाऽथ वशीकृतः ।
कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः ।। १३
अपि बालाङ्गनासङ्गादपि साधो सुधारसात्।
राज्यादपि सुखायैव पुत्रस्नेहो महामते ।। १४
ये दुरन्ता महारम्भास्त्रिषु लोकेषु खेददाः ।
पुत्रस्नेहेन सन्तोऽपि कुर्वते तानसंशयम् ।। १५
असवोऽथ धनं दारास्त्यज्यन्ते मानवैः सुखम्।
न पुत्रो मुनिशार्दूल स्वभावो ह्येष जन्तुषु ।। १६
राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः ।
रामस्तान्योधयत्वित्थं युक्तिरेवातिदुःसहा ।। १७
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ।
जीवितुं जीविताकांक्षी च रामं नेतुमर्हसि ।। १८
नववर्षसहस्राणि मम जातस्य कौशिक ।
दुःखेनोत्पादितास्त्वेते चत्वारः पुत्रका मया ।। १९
प्रधानभूतस्तेष्वेव रामः कमललोचनः ।
तं विनेह त्रयोऽप्यन्ये धारयन्ति न जीवितम् ।। २०
स एव रामो भवता नीयते राक्षसान्प्रति ।
यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम् ।। २१
चतुर्णामात्मजानां हि प्रीतिरत्रैव मे परा ।
ज्येष्ठं धर्ममयं तस्मान्न रामं नेतुमर्हसि ।। २२
निशाचरबलं हन्तुं मुने यदि तवेप्सितम् ।
चतुरङ्गसमायुक्तं मया सह बलं नय ।। २३
किंवीर्या राक्षसास्ते तु कस्य पुत्राः कथं च ते ।
कियत्प्रमाणाः के चैव इति वर्णय मे स्फुटम् ।। २४
कथं तेन प्रकर्तव्यं तेषां रामेण रक्षसाम् ।
मामकैर्बालकैर्ब्रह्मन्मया वा कूटयोधिनाम् ।। २५
सर्वं मे शंस भगवन्यथा तेषां महारणे ।
स्थातव्यं दुष्टभाग्यानां वीर्योत्सिक्ता हि राक्षसाः।। २६
श्रूयते हि महावीर्यो रावणो नाम राक्षसः ।
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।। २७
स चेत्तव मखे विघ्नं करोति किल दुर्मतिः ।
तत्संग्रामे न शक्ताः स्मो वयं तस्य दुरात्मनः ।। २८
काले काले पृथग्ब्रह्मन्भूरिवीर्यविभूतयः ।
भूतेष्वभ्युदयं यान्ति प्रलीयन्ते च कालतः ।। २९
अद्यास्मिंस्तु वयं काले रावणादिषु शत्रुषु ।
न समर्थाः पुरः स्थातुं नियतेरेष निश्चयः ।। ३०
तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके ।
मम चैवाल्पभाग्यस्य भवान्हि परदैवतम् ।। ३१
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।
न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ।। ३२
महावीर्यवतां वीर्यमादत्ते युधि राक्षसः ।
तेन सार्धं न शक्ताः स्म संयुगे तस्य बालकैः ।। ३३
अयमन्यतमः कालः पेलवीकृतसज्जनः ।
राघवोऽपि गतो दैन्यं यतो वार्धकजर्जरः ।। ३४
अथवा लवणं ब्रह्मन्यज्ञघ्नं तं मधोः सुतम् ।
कथयत्वसुरप्रख्यं नैव मोक्ष्यामि पुत्रकम् ।। ३५
सुन्दोपसुन्दयोश्चैव पुत्रौ वैवस्वतोपमौ ।
यज्ञविघ्नकरौ ब्रूहि न ते दास्यामि पुत्रकम् ।। ३६
अथ नेष्यसि चेद्ब्रह्मंस्तद्धतोऽस्म्यहमेव ते ।
अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः ।। ३७
इत्युक्त्वा मृदु वचनं रघूद्वहोऽसौ
कल्लोले मुनिमतसंशये निमग्नः ।
नाज्ञासीत्क्षणमपि निश्चयं महात्मा
प्रोद्वीचाविव जलधौ स मुह्यमानः ।। ३८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे दशरथवाक्यं नामाष्टमः सर्गः ।। ८ ।।