योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः ०१

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)
सर्गः ०१
अज्ञातलेखकः
सर्गः २ →

श्रीः ।

यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च ।
यत्रैवोपशमं यान्ति तस्मै सत्यात्मने नमः ।। १
ज्ञाता ज्ञानं तथा ज्ञेयं द्रष्टा दर्शनदृश्यभूः ।
कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञस्यात्मने नमः ।। २
स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेऽवनौ ।
सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ।। ३
सुतीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः ।
अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ।। ४
सुतीक्ष्ण उवाच।
भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित ।
संशयोऽस्ति महानेकस्त्वमेतं कृपया वद ।।५
मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् ।$
उभयं वा विनिश्चित्य एकं कथय कारणम् ।। ६
अगस्तिरुवाच ।
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ।। ७
केवलात्कर्मणो ज्ञानान्नहि मोक्षोऽभिजायते ।
किंतूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ।। ८
अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते ।
कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोऽधीतवेदकः ।। ९
अग्निवेश्यस्य पुत्रोऽभूद्वेदवेदाङ्गपारगः ।
गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ।। १०
तस्थावकर्मकृत्तूष्णीं संशयानो गृहे तदा ।
अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ।। ११
प्राह एतद्वचो निन्द्यं गुरुः पुत्रं हिताय च ।
अग्निवेश्य उवाच ।
किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ।। १२
अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद ।
कर्मणोऽस्मान्निवृत्तेः किं कारणं तन्निवेद्यताम् ।। १३
कारुण्य उवाच ।
यावज्जीवमग्निहोत्रं नित्यं संध्यामुपासयेत्।
प्रवृत्तिरूपो धर्मोऽयं श्रुत्या स्मृत्या च चोदितः १४
न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा ।
त्यागमात्रेण किंत्वेके यतयोऽश्नन्ति चामृतम् ।। १५
इति श्रुत्योर्द्वयोर्मध्ये किं कर्तव्यं मया गुरो ।
इति संदिग्धतां गत्वा तूष्णींभूतोऽस्मि कर्मणि १६
अगस्तिरुवाच ।
इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः ।
तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ।। १७
अग्निवेश्य उवाच ।
शृणु पुत्र कथामेकां तदर्थं हृदयेऽखिलम् ।
मत्तोऽवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ।। १८
सुरुचिर्नाम काचित्स्त्री अप्सरोगणउत्तमा ।
उपविष्टा हिमवतः शिखरे शिखिसंवृते ।। १९
रमन्ते कामसंतप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ।। २०
दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा ।
तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ।। २१
सुरुचिरुवाच ।
देवदूत महाभाग कुत आगम्यते त्वया ।
अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ।। २२
देवदूत उवाच ।
साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते ।
अरिष्टनेमी राजर्षिर्दत्त्वा राज्यं सुताय वै ।। २३
वीतरागः स धर्मात्मा निर्ययौ तपसे वनम् ।
तपश्चरत्यसौ राजा पर्वते गन्धमादने ।। २४
कार्यं कृत्वा मया तत्र तत आगम्यतेऽधुना ।
गन्तास्मि पार्श्वे शक्रस्य तं वृत्तान्तं निवेदितुम् २५
अप्सरा उवाच ।
वृत्तान्तः कोऽभवत्तत्र कथयस्व मम प्रभो ।
प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ।। २६
देवदूत उवाच ।
शृणु भद्रे यथावृत्तं विस्तरेण वदामि ते ।
तस्मिन्राज्ञि वने तत्र तपश्चरति दुस्तरम् ।। २७
इत्यहं देवराजेन सुभ्रूराज्ञापितस्तदा ।
दूत त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम्।। २८
अप्सरोगणसंयुक्तं नानावादित्रशोभितम्।
गन्धर्वसिद्धयक्षैश्च किन्नराद्यैश्च शोभितम् ।। २९
तालवेणुमृदङ्गादि पर्वते गन्धमादने ।
नानावृक्षसमाकीर्णे गत्वा तस्मिन्गिरौ शुभे ।। ३०
अरिष्टनेमिं राजानं दूतारोप्य विमानके ।
आनय स्वर्गभोगाय नगरीममरावतीम् ।। ३१
दूत उवाच ।
इत्याज्ञां प्राप्य शक्रस्य गृहीत्वा तद्विमानकम् ।
सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ।। ३२
आगत्य पर्वते तस्मिन्राज्ञो गत्वाऽऽश्रमं मया ।
निवेदिता महेन्द्रस्य सर्वाज्ञाऽरिष्टनेमये ।। ३३
इति मद्वचनं श्रुत्वा संशयानोऽवदच्छुभे ।
राजोवाच ।
प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि ।। ३४
गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः ।
ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येऽहं यथारुचि ।।३५
दूत उवाच ।
स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् ।
उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ।। ३६

मध्यमेन तथा मध्यः स्वर्गो भवति नान्यथा ।
कनिष्ठेन तु पुण्येन स्वर्गो भवति तादृशः ॥ ३७
परोत्कर्षासहिष्णुत्वं स्पर्धा चैव समैश्च तैः ॥
कनिष्ठेषु च संतोषो यावत्पुण्यक्षयो भवेत् ॥ ३८
क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः ॥
इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥ ३९
इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत ।
राजोवाच ।
नेच्छामि देवदूताहं स्वर्गमीदृग्विधं फलम् ॥ ४०
अतः परं महोग्रं च तपः कृत्वा कलेवरम् ।
त्यक्ष्याम्यहमशुद्धं हि जीर्णां त्वचमिवोरगः ॥ ४१
देवदूत विमानेदं गृहीत्वा त्वं यथागतः ॥
तथा गच्छ महेन्द्रस्य संनिधौ त्वं नमोऽस्तु ते ॥ ४२
देवदूत उवाच ।
इत्युक्तोऽहं गतो भद्रे शक्रस्याग्रे निवेदितुम ।
यथावृत्तं निवेद्याथ महदाश्चर्यतां गतः ॥ ४३
पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा ॥
इन्द्र उवाच ।
दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् ॥ ४४
वाल्मीकेर्ज्ञाततत्त्वस्य स्वबोधार्थं विरागिणम्।
संदेशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥४५
महर्षे त्वं विनीताय राज्ञेऽस्मै वीतरागिणे।
नस्वर्गमिच्छते तत्त्वं प्रबोधय महामुने ॥४६
तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् ।
इत्युक्त्वा देवराजेन प्रेषितोऽहं तदन्तिके ॥४७
मयागत्य पुनस्तत्र राजा वल्मीकजन्मने ।
निवेदितो महेन्द्रस्य राज्ञा मोक्षस्य साधनम् ॥४८
ततो वल्मीकजन्मासौ राजानं समपृच्छत ॥
अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥४९
राजोवाच ।
भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेय विदांवर ।
कृतार्थोऽहं भवद्दृष्ट्या तदेव कुशलं मम ॥ ५०
भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद ॥
संसारबन्धदुःखार्तेः कथं मुञ्चामि तद्वद ॥५१
वाल्मीकिरुवाच ।
श्रृणु राजन्प्रवक्ष्यामि रामायणमखण्डितम् ।
श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥५२
वसिष्ठरामसंवादं मोक्षोपायकथां शुभाम ।
ज्ञातस्वभावो राजेन्द्र वदामि श्रूयतां बुध ॥ ५३
राजोवाच । । م= * عی
को रामः कीदृशः कस्य बद्धो वा मुक्त एव वा ।
एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥ ५४ ।।
वाल्मीकिरुवाच । ।
शापव्याजवशादेव राजवेषधरो हरिः ।
आहृताज्ञानसंपन्नः किंचिज्ज्ञोऽसौ भवत्प्रभुः ॥ ५५
राजोवाच ।
चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे।
शापस्य कारणं ब्रूहि कः शप्ता चेति मे वद ॥ ५६
वाल्मीकिरुवाच ।
सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि ।
वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः ॥ ५७
ब्रह्मणा पूजितस्तत्र सल्यलोकनिवासिभिः ।
विना कुमारं तं दृष्ट्रा ह्युवाच प्रभुरीश्वरः ॥ ५८
सनत्कुमार स्तब्धोऽसि निष्कामो गर्वचेष्टया ।
अतस्त्वं भव कामार्तः शरजन्मेति नामतः ॥ ५९
तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् ॥
किंचित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि।।६०
भृगुर्भार्यां हतां दृष्ट्रा ह्युवाच क्रोधमूर्च्छितः ॥
विष्णो तवापि भार्याया वियोगो हि भविष्यति ६१
वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् ।
अतस्त्वं स्त्रीवियोगं तु वचनान्मम यास्यसि ॥ ६२
भार्या हि देवदत्तस्य पयोष्णीतीरसँस्थिता ।
नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥ ६३
तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः ॥
तवापि भार्यया सार्धं वियोगो हि भविष्यति ॥ ६४
भृगुणैवं कुमारेण शापितो देवशर्मणा ।
वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥ ६५||
एतत्ते कथितं सर्वे शापव्याजस्य कारणम् ॥
इदानीं वच्मि तत्सर्वे सावधानमतिः शृणु ॥ ६६
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वत्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे सूत्रपातनको नाम प्रथमः सर्गः ॥ १ ॥

टीकाकारस्य कथनम्[सम्पाद्यताम्]

श्रीमहागणपतिचरणारविन्दाभ्यां नमः ।
ॐ नमो ब्रह्मणे ब्रह्मविद्भ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो
वसिष्ठविश्वामित्रव्यासवाल्मीकिशुकादिभ्यः श्रीणमभद्राय च ।
अजमजरमनाद्यनन्तमन्तर्निजसुखबोधसदद्वितीयपूर्णम् ।
शिवमखिलहृदि स्फुरत्स्वमायाविकसितविश्वविलासमानताः स्मः १
स्मृतिफलितसमस्ताभीष्टमुद्यद्दिनेश-
प्रतिभटनिजशोभाशान्तविघ्नान्धकारम् ।
कमपि शिवभवान्योरङ्कसौभाग्यमन्तः
सुरमणिमवलम्बे चारु लम्बोदराख्यम् ।। २ ।।
मुग्धस्मिताञ्चितमनोज्ञमुखेन्दुबिम्बं
स्निग्धामृतप्रतिमचारुकृपाकटाक्षम् ।
अग्रेसरैरनुसृतं मुनिभिर्मुनीनां
न्यग्रोधमूलवसतिं गुरुमाश्रयामः ।। ३ ।।
त्रिभुवनावनकृत्यकृतोदयः सदभयामलबोधसुखाद्वयः ।
सुजनहृद्गिरिगह्वरकेसरी शरणमस्तु सदा नरकेसरी ।। ४ ।।
दक्षे वराक्षवलयावभयं च वामे
या पुस्तकं च दधती विधिनेत्रपेया ।
सा शारदाब्जनयना शरदिन्दुशोभा
भासा स्वया हरतु मे हृदयान्धकारम् ।। ५ ।।
ये नेत्राणि हरस्य यैर्जगदिदं प्रद्योतितं चेष्टते
यत्रैवायतते श्रुतिस्मृतिनुतो धर्मः सशर्मोदयः ।
ये कालं कलयन्ति ये च परमस्वज्योतिरात्मोपमा-
स्तेसूर्येन्द्वनला भवन्तु हृदि मे बोधाब्जिनीभानवः ।।६।।
वक्त्रेन्दुभिर्दिक्षु तमो हरद्भिर्वेदार्थसारामृतमुद्गिरन्तम् ।
वाणीभुजाश्लिष्टममीष्टसिद्ध्यै तं ब्रह्मविद्यादिगुरुं प्रपद्ये ।। ७ ।।
यद्वाक्यामृतपायिनां प्रतिपदं सत्यं सुधा नीरसा
यद्वाक्यार्थविचारणादभिमतः स्वर्गोऽपि कारागृहम् ।
यद्वाणीविशदात्मपूर्णमनसां तुच्छं जगत्तूलव-
त्तस्मै श्रीगुरवे वसिष्ठमुनये नित्यं नमस्कुर्महे ।। ८ ।।
यस्यार्षं प्रथिता जगत्त्रयहिता सा वेदमाता परा
यश्चक्रे तपसा वशे सुरगणानन्यत्सिसृक्षुर्जगत् ।
तं बोधाम्बुनिधिं तपस्विमुकुटालंकारचिन्तामणिं
विश्वामित्रमुनिं शरण्यमनघं भूयो नमस्याम्यहम् ।। ९ ।।
श्रुत्या ब्रह्मैव रामः प्रकटितमहिमा येन तस्मै वसिष्ठो
यः सीतां ब्रह्मविद्यामिव सदसि पुनः सत्यशुद्धां किलादात् ।
यद्वाणी मोहमूलं शमयति जगदानन्दसंदोहदोग्ध्री
तस्मै वाल्मीकये श्रीगुरुतमगुरवे भूरिभावैर्नताः स्मः ।।१०।।
पूर्णानन्दस्वभावः स्वजनहितकृते माययोपात्तकायः
कारुण्यादुद्दिधीर्षुर्जनमनवरतं मोहपङ्के निमग्नम् ।
आविश्यान्तर्वसिष्ठं बहिरपि कलयञ्शिष्यभावं वितेने
यः संवादेन शास्त्रामृतजलधिममुं रामचन्द्रं प्रपद्ये ।। ११ ।।
विद्याभिः सह विश्रुता श्रितवती येषां मुखं भारती
सत्त्वोत्कर्षसमाधिभि स्थिरमहो तद्ब्रह्म येषां हृदि ।
पादाम्भोरुहमाश्रिताश्च सततं तीर्थैः समं संपदः
श्रीसर्वज्ञसरस्वतीतिविदिताञ्श्रीमद्गुरूंस्तान्भजे ।। १२ ।।
श्रीः संश्रितैव चरणौ हृदयं च राम-
श्चन्द्रो मुखं गुणभरेण सरस्वती च ।
येषामतस्तदभिधाङ्कितनामधेयान्
श्रीमद्गुरून्गुरुतरान्प्रणतोऽस्मि नित्यम् ।। १३ ।।
तापध्वस्तिव्यापृतकारुण्यकटाक्षान्
व्याख्यावाणीनिर्वृतसर्वाग्निशरण्यान् ।
श्रीमद्रामानन्दमुनीनद्भुतचर्या-
नार्यान्नित्यं देशिकवर्यान्प्रणतोऽस्मि ।। १४ ।।
विश्वेशोऽपि हरिः शरण्यचरणो यान्मानयन्सौहृदा-
च्छान्तान्नित्यमनुव्रजामि रजसा पूयेय चेत्यब्रवीत् ।
यत्पूजां विदधे श्रुतिर्मतिमतां सर्वेष्टसिद्ध्यै सदा
जीवन्मुक्तसुखात्मपूर्णमनसस्तान्ब्रह्मनिष्ठान्भजे ।। १५ ।।
कृतिभिरसुकराः क्व प्रबन्धाः क्व च वत बालिशबुद्धिरेप जन्तु. ।
तदपि विरचनेऽत्र सद्गुरूणा सदयनिरीक्षणमेव मेऽवलम्ब १६
अशेषविद्याम्बुविपारगाणामपास्तरागादिमनोमलानाम्
कृपानिधीनां कृतिना ममास्मिन्सतां पदाब्जस्मरणं सहाय. ।।१७।।
यत्कृपालेशमात्रेण तीर्णोऽस्मि भवसागरम् ।
श्रीमद्गङ्गाधरेन्द्राख्यन्श्रीगुरूंस्तान्सदा भजे ।। १८ ।।
आनन्दबोधयतिना श्रीमद्गुरुवचोमृतैः ।
वासिष्ठार्थप्रकाशोऽयं यथामति वितन्यते ।। १९ ।।
प्रशंसन्तु स्वैरं मतिभिरथ निन्दन्तु सुधियः
प्रवृत्तिर्मे यस्मान्न भवति जनाराधनकृते ।
अनेन व्याजेनामृतरसवसिष्ठोक्तिभरिते
विहर्तुं वाञ्छामि प्रतिदिवसमानन्दजलधौ ।। २० ।।
यथामति बुभुत्सुभ्यः साहाय्यं सकटेष्विव ।
दुरूहश्लोकभावेषु दर्शयिष्ये परिश्रमम् ।। २१ ।।
स्थितमेकरसे युक्त्या नानारसविजृम्भणम् ।
वासिष्ठं रोचयत्वेतत्सुभोज्यं लवणं यथा ।। २२ ।।
अप्यल्पमतिदुर्वोधं स्फुटं व्याख्यास्यते पदम् ।
द्विस्त्रिर्व्याख्यातपूर्वं तु दुरूहमपि मोक्ष्यते ।। २३ ।।
अनन्यर्श्मयाख्यातं ग्रन्थं मे व्याचिकीर्पतः ।

[सम्पाद्यताम्]

$आधुनिक भौतिक विज्ञाने ज्ञान एवं कर्मस्य स्थाने स्थैतिक एवं गतिज ऊर्जायाः अस्तित्वमस्ति। ज्ञान एवं कर्मस्यातिरिक्तं इच्छाशक्तिरपि भवति यस्य भौतिक विज्ञाने कोपि अस्तित्वं नास्ति।

ज्ञान-कर्मोपरि अन्य पौराणिक संदर्भाः