याज्ञवल्क्यस्मृतिः/आचाराध्यायः/राजधर्मप्रकरणम्

विकिस्रोतः तः
Jump to navigation Jump to search
← ग्रहशान्तिप्रकरणम् याज्ञवल्क्यस्मृतिः
राजधर्मप्रकरणम्
याज्ञवल्क्यः

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः । । १.३०९ । ।

अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् । । १.३१० । ।

स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः । । १.३११ । ।

स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिरान्शुचीन् ।
तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् । । १.३१२ । ।

पुरोहितं प्रकुर्वीत दैवज्ञं उदितोदितम् ।
दण्डनीत्यां च कुशलं अथर्वाङ्गिरसे तथा । । १.३१३ । ।

श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव च र्त्विजः ।
यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् । । १.३१४ । ।

भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च ।
अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् । । १.३१५ । ।

अस्कन्नं अव्यथं चैव प्रायश्चित्तैरदूषितम् ।
अग्नेः सकाशाद्विप्राग्नौ हुतं श्रेष्ठं इहोच्यते । । १.३१६ । ।

अलब्धं ईहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् । । १.३१७ । ।

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपति परिज्ञानाय पार्थिवः । । १.३१८ । ।

पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।
अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः । । १.३१९ । ।

प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् । । १.३२० । ।

रम्यं पशव्यं आजीव्यं जाङ्गलं देशं आवसेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये । । १.३२१ । ।

तत्र तत्र च निष्णातानध्यक्षान्कुशलान्शुचीन् ।
प्रकुर्यादायकर्मान्त व्ययकर्मसु चोद्यतान् । । १.३२२ । ।

नातः परतरो धर्मो नृपाणां यद्रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा । । १.३२३ । ।

य आहवेषु वध्यन्ते भूम्यर्थं अपराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा । । १.३२४ । ।

पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् ।
राजा सुकृतं आदत्ते हतानां विपलायिनाम् । । १.३२५ । ।

तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् ।
न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् । । १.३२६ । ।

कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् ।
व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः । । १.३२७ । ।

हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् ।
पश्येच्चारांस्ततो दूतान्प्रेषयेन्मन्त्रिसंगतः । । १.३२८ । ।

ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् । । १.३२९ । ।

संध्यां उपास्य शृणुयाच्चाराणां गूढभाषितम् ।
गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायं एव च । । १.३३० । ।

संविशेत्तूर्यघोषेण प्रतिबुध्येत्तथैव च ।
शास्त्राणि चिन्तयेद्बुद्ध्या सर्वकर्तव्यतास्तथा । । १.३३१ । ।

प्रेषयेच्च ततश्चारान्स्वेष्वन्येषु च सादरान् ।
ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः । । १.३३२ । ।

दृष्ट्वा ज्योतिर्विदो वैद्यान्दद्याद्गां काञ्चनं महीम् ।
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च । । १.३३३ । ।

ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता । । १.३३४ । ।

पुण्यात्षड्भागं आदत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् । । १.३३५ । ।

चाटतस्करदुर्वृत्त महासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः । । १.३३६ । ।

अरक्ष्यमाणाः कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः ।
तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् । । १.३३७ । ।

ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् ।
साधून्सम्मानयेद्राजा विपरीतांश्च घातयेत् । । १.३३८ । ।

उत्कोचजीविनो द्रव्य हीनान्कृत्वा विवासयेत् ।
सद्दानमानसत्कारान्श्रोत्रियान्वासयेत्सदा । । १.३३९ । ।

अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्धयेत् ।
सोऽचिराद्विगतश्रीको नाशं एति सबान्धवः । । १.३४० । ।

प्रजापीडनसंतापात्समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणांश्चादग्ध्वा न निवर्तते । । १.३४१ । ।

य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने ।
तं एव कृत्स्नं आप्नोति परराष्ट्रं वशं नयन् । । १.३४२ । ।

यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशं उपागतः । । १.३४३ । ।

मन्त्रमूलं यतो राज्यं तस्मान्मन्त्रं सुरक्षितम् ।
कुर्याद्यथास्य न विदुः कर्मणां आफलोदयात् । । १.३४४ । ।

अरिर्मित्रं उदासीनोऽनन्तरस्तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः । । १.३४५ । ।

उपायाः साम दानं च भेदो दण्डस्तथैव च ।
सम्यक्प्रयुक्ताः सिध्येयुर्दण्डस्त्वगतिका गतिः । । १.३४६ । ।

संधिं च विग्रहं यानं आसनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् । । १.३४७ । ।

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः । । १.३४८ । ।

दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता ।
तत्र दैवं अभिव्यक्तं पौरुषं पौर्वदेहिकम् । । १.३४९ । ।

केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः । । १.३५० । ।

यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति । । १.३५१ । ।

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः । । १.३५२ । ।

स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गं उच्यते । । १.३५३ । ।

तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा । । १.३५४ । ।

स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना ।
सत्यसंधेन शुचिना सुसहायेन धीमता । । १.३५५ । ।

यथाशास्त्रं प्रयुक्तः सन्सदेवासुरमानवम् ।
जगदानन्दयेत्सर्वं अन्यथा तत्प्रकोपयेत् । । १.३५६ । ।

अधर्मदण्डनं स्वर्ग कीर्तिलोकविनाशनम् ।
सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् । । १.३५७ । ।

अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् । । १.३५८ । ।

यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् ।
इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः । । १.३५९ । ।

इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् । । १.३६० । ।

कुलानि जातीः श्रेणीश्च गणान्जानपदानपि ।
स्वधर्माच्चलितान्राजा विनीय स्थापयेत्पथि । । १.३६१ । ।

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते । । १.३६२ । ।

गौरस्तु ते त्रयः षट्ते यवो मध्यस्तु ते त्रयः ।
कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश । । १.३६३ । ।

पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ।
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते । । १.३६४ । ।

शतमानं तु दशभिर्धरणैः पलं एव तु ।
निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः । । १.३६५ । ।

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस्तदर्धं अधमः स्मृतः । । १.३६६ । ।

धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे । । १.३६७ । ।

ज्ञात्वापराधं देशं च कालं बलं अथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् । । १.३६८ । ।