सामग्री पर जाएँ

यतीन्द्रमतदीपिका

विकिस्रोतः तः
यतीन्द्रमतदीपिका
[[लेखकः :|]]

यतीन्द्रमतदीपिका
अथ प्रथमोऽवतारः
मङ्गलाचरणम्
श्रीवेङ्कटेशं करिशैलनाथं श्रीदेवराजं घटिकाद्रिसिंहम्।
                                      कृष्णेन साकं यतिराजमीडे स्वप्ने च दृष्टान्मम देशिकेन्द्रान्।।१।।
                                        यतीश्वरं प्रणम्याहं वेदान्तार्य महागुरुम्।
                                        करोमि बालबोधार्थं यतीन्द्रमतदीपिकाम्।।२।।
                                                        तत्त्वैक्यस्य प्रतिज्ञा
श्रीमन्नारायण एव चिदचिद्विशिष्टोऽद्वैतं[1] तत्त्वम्, भक्तिप्रपत्तिभ्यां प्रसन्नस्स एवोपायः, अप्राकृतदेशविशिष्टस्स एव प्राप्यः इति वेदान्तवाक्यैः प्रतिपादयतां व्यासबोधयनगुहदेवभारूचिब्रह्मनन्दिद्रमिडाचार्यश्रीपराङ्कुशनाथयामुनमुनियतीश्र्वरप्रभृतीनां मतानुसारेण बालबोधनार्थ वेदान्तानुसारिणी यतीन्द्रमतदीपिकाख्या शारीरकपरिभाषा महाचार्यकृपावलम्बिना मया यथामति सङ्ग्रहेण प्रकाश्यते।
पदार्थसमुद्देशः
सर्वं पदार्थजातं प्रमाणप्रमेयभेदेन द्विधा भिन्नम्। प्रमाणानि त्रीण्येव। प्रमेयं द्विविधम्- द्रव्याद्रव्यभेदात्। द्रव्यं द्विविधम्-जडमजडं चेति। जडं च द्विविधम्- प्रकृतिः कालश्चेति। प्रकृतिश्चतुविंशतितत्त्वात्मिका।कालस्तु उपाधिभेदेन त्रिविधः। अजडं तु द्विविधम्- पराक् प्रत्यक् चेति। परागपि द्विधा- नित्यभूतिः धर्मभूतज्ञानं चेति। प्रत्यगपि द्विविधः जीवेश्वर भेदात्।जीवस्त्रिविधः -बद्धमुक्तनित्यभेदात्। बद्धोऽपि द्विविधः- बुभुक्षु मुमुक्षुभेदात्। बुभुक्षुर्द्विविध-अर्थकामपरो धर्मपरश्चेति। धर्मपरो द्विविधः -देवतान्तरपरो भगवत्परश्चेति। मुमुक्षुर्द्विविधः- कैवल्यपरो मोक्षपरश्चेति। मोक्षपरो द्विविधः-भक्तः प्रपन्नश्चेति। प्रपन्नश्च द्विविधः एकान्ती परमैकान्ती चेति। परमैकान्ती द्विविधः- दृप्तार्तभेदात्।
ईश्वरः पञ्धा-परव्यूहविभवान्तर्याम्यर्चावतारभेदात्।पर एकधा। व्यूहश्चतुर्धा- वासुदेवसङ्कर्षणप्रद्युम्नानिरूद्धभेदात्। केशवादि व्यूहान्तरमत्रैवान्तर्भवति। मत्स्यादयो विभवाः पुनरनन्ता। अन्तर्यामी प्रतिशरीरमवस्थितः। अर्चावतारस्तु श्रीरङ्गवेङ्कटाद्रिहस्तिगिरियादवाद्रिघटिकाचलादिषु सकलमनुज नयनविषयतां गतो मूर्तिविशेषः। अद्रव्यं तु सत्त्वरजस्तमशश्बदस्पर्शरूपरसगन्धसंयोगशक्तिभेदाद्दशधैव।
उद्दिष्टपदार्थानां लक्षणपरीक्षायाः प्रतिज्ञा
एवमुद्दिष्टानामुद्देशक्रमेण लक्षणपरीक्षे क्रियेते।
प्रमाणलक्षणम्
           तत्र- प्रमाकरणं प्रमाणम्। प्रमाणं लक्ष्यम्। प्रमाकरणत्वं लक्षणम्।
प्रमालक्षणम्
यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमा। प्रमा लक्ष्यम्। यथावस्थितव्यवहारानुगुणज्ञानत्वं लक्षणम्। ज्ञानं प्रमेत्युक्ते शुक्तिकायामिदं रजतमिति ज्ञानेऽतिव्याप्तिः। अत उक्तं व्यवहारानुगुणमिति। एवमपि तत्रैवातिव्याप्तिः- भ्रान्तिदशायामिदं रजतमिति व्यवह्नियमाणत्वात्। अत उक्तं यथावस्थितेति। यथावस्थितपदेन संशयान्यथाज्ञानविपरीतज्ञानव्यावृत्तिः। विशिष्टे (धर्मिणि) स्थाणुर्वा पुरुषो वेति ज्ञानम्। अन्यथाज्ञानं नाम धर्मविपर्यासः। यथा- कृर्तृत्वेन भासमाने आत्मनि कुयुक्तिभिः कर्तृत्वस्य भ्रान्तत्वोपपादनम्। विपरीतज्ञानं नाम धर्मिविपर्यासः। यथा- वस्तुनो वस्त्वन्तरज्ञानम्।
लक्षणस्य दोषत्रयम्
लक्षणस्य त्रीणि दूषणानि सन्ति-अव्याप्तिरतिव्याप्तिरसम्भवश्चेति। लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः। लक्ष्यादन्यत्र वर्तमानत्वमतिव्याप्तिः। लक्ष्ये क्वाप्यवर्तनमसम्भवः। यथा -जीवो गुणत्रयवश्यः इत्युक्ते अव्याप्तिः। ज्ञानगुणक इत्युक्ते अतिव्याप्तिः, चक्षुर्विषयो जीव इत्युक्तेऽसम्भव एव। अत्रोक्तदूषणत्रयाभावात् प्रमालक्षणं सुस्थम्।
करणपदार्थविवेचनम्
साधकतमं करणम्। अतिशयितं साधकं साधकतमम्। यस्मिन् सत्यविलम्बनेन (कार्यं) ज्ञानमुत्पद्यते तदतिशयितमित्युच्यते। तेन प्रमाकरणं प्रमाणमिति सिद्धम्।
धर्मराजाध्वरीन्द्रकृतप्रमालक्षणखण्डनम्
अनधिगतार्थगन्तृ प्रमाणमित्यादिकं तु तत्तद्वादिभिरेव निरस्तत्वादनादरणीयम्।
विशिष्टाद्वैताभिमतप्रमाणसंख्या
तानि प्रमाणानि प्रत्यक्षानुमानशब्दाख्यानि त्रीण्येव।
प्रत्यक्षप्रमाणलक्षणम्
तत्र साक्षात्कारिप्रमाकरणं प्रत्यक्षम्। अनुमानादिव्यावृत्त्यर्थं साक्षात्कारीति। दृष्टेन्द्रियजन्यव्यावृत्त्यर्थं प्रमेति।
प्रत्यक्षस्य निर्विकल्पकं सविकल्पकमिति भेदद्वयनिरूपणम्
तच्च प्रत्यक्षं द्विविधं- निर्विकल्पकसविकल्पकभेदात्। निर्विकल्पकं नाम गुणसंस्थानादिविशिष्ट प्रथमपिण्डग्रहणम्। सविकल्पकं तु सप्रत्यवमर्शं गुणसंस्थानादिविशिष्टद्वितीयादिपिण्डग्रहणम्। उभयमप्येतद्विशिष्ट विषयमेव। अविशिष्टग्रागिणो ज्ञानस्यानुपलम्भादनुपपत्तेश्च।
वस्तूनां ग्रहणप्रकारः
ग्रहणप्रकारस्तु- आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन। इन्द्रियाणां प्राप्य प्रकाशकारित्वनियमात्।अतो घटादिरूपार्थस्य चक्षुरादी-(चक्षूरूपे)न्द्रियस्य च सन्निकर्षे सति अयं घटः पट इति चाक्षूषज्ञानं जायते। एवं स्पार्शनप्रत्यक्षादयोऽपि।
सम्बन्धविचारः
द्रव्यग्रहणे संयोगस्सम्बन्धः। द्रव्यगतरूपादिग्रहणे समवायानङ्गीकारात् संयुक्ताश्रयणं सम्बन्धः।
प्रत्यक्षस्यावान्तरभेदाः
निर्विकल्पकसविकल्पकभिन्नं प्रत्यक्षं द्विविधम्- अर्वाचीनमनर्वाचीनं चेति। अर्वाचीनं पुनर्द्विविधम्- इन्द्रियसापेक्षं तदनपेक्षं चेति। तदनपेक्षं द्विविधम्- स्वयंसिद्धं दिव्यं चेति। स्वयंसिद्धं- योगजन्यम्, दिव्यं भगवत्प्रसादजन्यम्। अनर्वाचीनं तु, इन्द्रियानपेक्षं नित्यमुक्तेश्चरज्ञानम्। अनर्वाचीनं प्रसङ्गादुक्तम्। एवं साक्षात्कारिप्रमाकरणं प्रत्यक्षमिति सिद्धम्।
स्मृतेः प्रत्यक्षेऽन्तर्भावः
ननु यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमेत्युक्तम्, एवञ्च स्मृतेरपि यथावस्थितव्यवहारानुगुणज्ञानत्वेन प्रामाण्यात् स्मृतेरपि प्रमाणत्वेन परिगणनाच्च त्रीण्येव प्रमाणानीति कथं प्रतिपाद्यत इति चेत्; उच्यते स्मृतेः प्रामाण्याङ्गीकारेऽपि संस्कारसापेक्षत्वात्तस्याः प्रत्यक्षमूलत्वान्मूलभूते प्रत्यक्षेऽन्तर्भाव इति न पृथक्प्रमाणत्वकल्पनम्। अतः प्रमाणानि त्रीण्येवेति सम्भवति।
स्मृतिनिरूपणम्
स्मृतिर्नाम पूर्वानुभवजन्यसंस्कारमात्रजन्यं ज्ञानम्। तत्र चोद्बुद्धस्संस्कारो हेतुः। संस्कारोद्बोधश्च सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः, इत्युक्तप्रकारेण क्वचित्सदृशदर्शनाद्भवति, क्वचिददृष्टात्, क्वचिच्चिन्तया। आदिशब्देन साहचर्यस्यापि ग्रहणात् तेनापि भवति। सादृश्यजा यथा- देवदत्तयज्ञदत्तयोस्सदृशयोर्देवदत्तदर्शनेन यज्ञदत्तस्मृतिः। द्वितीया यथा-यादृच्छिककालान्तरदेशान्तरानुभूतश्रीरङ्गादिदिव्यदेशस्मृतिः। तृतीया यथा- चिन्त्यमाने सति श्रीवेङ्कटेशस्य कमनीयदिव्यमङ्गलविग्रहस्मृतिः। चतुर्थी तु- सहचरितयोर्देवदत्तयज्ञदत्ययोर्मध्येऽन्यतरदर्शनेन तदन्यतरस्मृतिः। सम्यगनुभूतस्य सर्वस्य स्मृतिविषयत्वनियमः। क्वचित्कालदैर्घ्यात् व्याध्यादिना वा संस्कारस्य प्रमोषात् स्मृत्यभावः।
प्रत्यक्षभिज्ञादीनां प्रत्यक्षेऽन्तर्भावप्रकारः
यथा स्मृतेः प्रत्यक्षेऽन्तर्भावः, एवं सोऽयं देवदत्त इति प्रत्यभिज्ञाया अपि प्रत्यक्षेऽन्तर्भावः। अस्मन्मते अभावस्य भावान्तररूपत्वात् तज्ज्ञानस्यापि प्रत्यक्षेऽन्तर्भावः। भूतले घटात्यन्ताभावो भूतलमेव। घटप्रागभावो नाम मृदेव। घटध्वंसश्च कपालमेव। प्रायः पुरूषेणानेन भवितव्यमित्येतदूहः। पुरः किंसंज्ञकोऽयं वृक्ष इत्यनध्यवसायो ज्ञानं संशय उक्तः। एतयोरपि प्रत्यक्षेऽन्तर्भावः। पुण्यपुरुषनिष्ठा प्रतिभाऽपि प्रत्यक्षेऽन्तर्गता।
यथार्थख्यातेः समर्थनम्
यथार्थ सर्वविज्ञानमिति वेदविदं मतम् इत्युक्तत्वात् भ्रमादिप्रत्यक्षादि ज्ञानं यथार्थमेव। अख्यात्यात्मख्यात्यनिर्वचनीयख्यात्यन्यथाख्यात्यसत्ख्यातिवादिनो निरस्य सत्ख्यातिपक्षस्वीकारात्। सत्ख्यातिर्नाम ज्ञानविषयस्य सत्यत्वम्। तर्हि भ्रमत्वं कथमिति चेत्, विषयव्यवहारबाधाद् भ्रमत्वम्। तदुपपादयामः। पञ्चीकरणप्रक्रियया पृथिव्यादिषु सर्वत्र सर्वभूतानां विद्यमानत्वाज्ज्ञानविषयस्य सत्यत्वम्। तत्र रजतांशभूयस्त्वज्ञानात् भ्रमनिवृत्तिः। स्वप्नादिज्ञानं तु सत्यमेव। तत्तत्पुरूषानुभाव्यतया तत्तत्कालावसानान् रथादीन् परमपुरुषः सृजतीति हि श्रुत्याऽवगम्यते। पीतश्शङ्ख इत्यादौ नयनवर्तिपित्तद्रव्यसम्भिन्ना नायनरश्मयश्शङ्खादिभिस्संयुज्यन्ते। तत्र पित्तगतपीतिमाभिभूतः शङ्खगतशुक्लिमा न गृह्यते। अतस्सुवर्णानुलिप्तशङ्खवत्पीतश्शङ्ख इति प्रतीयते।
सूक्ष्मत्वात्पीतिमा स्वनयननिष्क्रान्ततया स्वेनैव गृह्यते। न त्वन्यैः।जपाकुसुमसमीपवर्तिस्फटिकमणिरपि रक्त इति गृह्यते। तज्ज्ञानं सत्यमेव। मरीचिकायां जलज्ञानमपि पञ्चीकरणप्रक्रियया पूर्वोक्तवदुपपद्यते। पञ्ची करणप्रक्रिया तूत्तरत्र वक्ष्यते। दिग्भ्रमोऽपि तथैव। दिशि दिगन्तरस्य विद्यमानत्वात्, अवच्छेदकमन्तरेण दिगिति द्रव्यान्तरानङ्गीकाराच्च। अलातचक्रादौ तु अतिशैघ्र्यात् तदन्तरालाग्रहणात्तत्तद्देशसंयुक्ततत्तद्वस्तुन एव चक्राकारेण ग्रहणम्। तदपि सत्यमेव। दर्पणादिषु निजमुखादिप्रतीतिरपियथार्था। दर्पणादिप्रतिहतगतयो नायनरश्मयो दर्पणादिग्रहणपूर्वकं निजमुखादि गृह्णन्ति। तत्राप्यतिशैघ्र्यादन्तरालाग्रहणात्तथा प्रतीतिः। द्विचन्द्र ज्ञानादावप्यङ्गुल्यवष्टम्भतिमिरादिभिर्नायनतेजोगतिभेदेन सामग्रीभेदात् सामग्रीद्वयमन्योन्यनिरपेक्षं द्विचन्द्रगहणहेतुर्भवति। सामग्रीद्वयं पारमार्थिकम्। तेन द्विचन्द्रज्ञानं भवति ।अतः सर्वं विज्ञानं सत्यं सविशेषविषयञ्च। निर्विशेषवस्तुनोऽग्रहणात्।
प्रथमप्रत्यक्षेणापि भेदविशिष्टस्यैव वस्तुनो ग्रहणम्।
एवम्भूतं प्रत्यक्षं प्रथमतो (जात्यादिरूप) भेदविशिष्टमेव गृह्णाति। भेद इति व्यवहारे तु प्रतियोग्यपेक्षा, न तु स्वरूपे (ण) । तेनानवस्थाऽन्योन्याश्रयदोषोऽपि नास्ति। उपर्युपर्यपेक्षाऽनवस्था। परस्परापेक्षा
दशमस्त्वमसीति वाक्यजन्यज्ञानस्य प्रत्यक्षत्वनिरासः
ननु, दशमस्त्वमसीत्येतदपि प्रत्यक्षं किं न स्यादिति चेन्न। त्वमित्येतस्य प्रत्यक्षत्वेऽपि दशमोऽसीत्येतस्य वाक्यजन्यत्वात्। यदि दशमोऽसीत्यस्य (प्रत्यक्षत्वं) प्रत्यक्षविषयत्वं तर्हि धर्मवांस्त्वमसीत्येतस्यापि प्रत्यक्षत्वं स्यात्। अङ्गीकारेऽपिप्रसङ्गात्। अत एव तत्त्वमसीति वाक्यस्य नापरोक्षज्ञानजनकत्वम्।
प्रत्यक्षविषयेऽद्वैतिनां नैयायिकानाञ्च मतखण्डनम्
एतेन - प्रत्यक्षप्रमाकरणं प्रत्यक्षप्रमाणम्। प्रमा (चात्म) चात्र चैतन्यमेव। चैतन्यञ्च त्रिविधम्- अन्तः करणावच्छिन्नचैतन्यं , वृत्त्यवच्छिन्न चैतन्यं, विषयावच्छिन्नचैतन्यं चेति। यदा त्रयाणामैक्यं तदा साक्षात्कारः। तदपि निर्विशेषविषयमेव, अभेदमेव गृह्णातीत्यादिकुदृष्टिकल्पना निरस्ता। निर्विकल्पकं तु नामजात्यादियोजनाहीनं वस्तुमात्रावगाहि किञ्चिदिदमिति ज्ञानमिति नैयायिकानां मतमपि निरस्तम्।
नैयायिकानां बहिष्कारपक्षः
ननु ‘काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्’ इत्युक्तत्वात् कथं गौतममतनिरास इति चेत्, उच्यते; न खलु (नास्माभिः) कार्त्स्न्ये नास्य मतस्य निरासः क्रियते। यावदिह युक्तियुक्तं तावत्स्वीक्रियते, परकल्पिततटाकोपजीवनवत्। न खलु तटाकस्थपङ्कोऽपि स्वीक्रियते। अतः परमाणुकारणत्वम्, वेदपौरूषेयत्वम्, ईश्वरानुमानिकत्वम्, जीवविभुत्वम्, सामान्यविशेषणसमवायानां पदार्थत्वेन स्वीकारः, उपमानादेः पृथक् प्रमाणत्वकल्पनम्, सङ्ख्यापरिमाणपृथक्त्वविभागपरत्वापरत्वगुरूत्वद्रवत्वादीनां पृथग्गुणत्वल्पनम्, दिशोऽपि द्रव्यत्वकल्पनमित्यादिसूत्रकारादिविरूद्धप्रक्रिया नास्माभिः स्वीक्रियते। अविरूद्धानि तु स्वीक्रियन्त इति न विरोधः।
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां शरीरकपरिभाषायां प्रत्यक्षनिरूपणं नाम प्रथमोऽवतारः।।
अथ द्वितीयोऽवतारः
अनुमानलक्षणम् अनुमिति लक्षणञ्च
अथानुमानं निरूप्यते। व्याप्यत्वानुसन्धानात् व्यापकविशेषप्रमितिरनुमितिः। तत्करणमनुमानम्।तत्करणमनुमानम्। व्याप्यस्य- धूमस्य, अग्निव्याप्यत्वानुसन्धानात् व्यापकविशेषप्रमितिर्वह्निप्रमितिः।
व्याप्तिनिरूपणम्
अनधिकदेशकालनियमं (तं) व्याप्यम्। अन्यूनदेशकालवृत्ति व्यापकम्। तदिदमविनाभूतं व्याप्यम्, तत्प्रतिसम्बन्धि व्यापकमिति। तेन निरूपाधिकतया नियतसम्बन्धो व्याप्तिरित्युक्तं भवति। सेयं यत्र धूमस्तत्र वह्नि रिति व्याप्तिर्भूयोदर्शनेन गृह्यते। व्याप्तिर्द्विधा-अन्वयव्यतिरेकभेदात्। साधनविधौ साध्यविधिरूपेण प्रवृत्ता व्याप्तिरन्वयव्याप्तिः।यथा- यो यो धूमवान् स सोऽग्निमानिति। साध्यनिषेधे साधननिषेधरूपेण प्रवृत्ता व्याप्तिर्व्यतिरेकव्याप्तिः। यथा- योऽनग्निः स निर्धूम इति। सेयमुभय विधा व्याप्तिरूपाधिसम्भवे दुष्टा।
उपाधिनिरूपणम्
साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः। यथा- वह्निना धूमे साध्यमाने आर्द्रेन्धनसंयोग उपाधिः। मैत्रीतनयत्वेन श्यामत्वे साध्यमाने शाकपाकजत्वमुपाधिः। स चोपाधिर्द्विविधः- निश्चितः शङ्कितश्चेति। निश्चितो यथा-विप्रतिपन्ना सेवा दुःखहेतुः, सेवात्वात्, राजसेवावात् इत्यत्र पापारब्धत्वमुपाधिः। अयं चेश्वरसेवायां नास्तीति निश्चयादयं निश्चितोपाधिः। शङ्कितो यथा-विप्रतिपन्नो जीव एतच्छरीरावसाने मुक्तिमान्, निष्पन्नसमाधित्वात्, शुकादिवदित्यत्र कर्मात्यन्तपरिक्षय उपाधिः। स च निष्पन्नसमाधौ विप्रतिपन्ने जीवे अस्ति (वा) नास्तीति सन्दिग्धत्वावच्छङ्कितोपाधिः। अतो निरूपाधिकसम्बन्धवद्व्याप्यमिति सिद्धम्।
व्याप्यनिरूपणम्
व्याप्यं साधनम्, लिङ्गमित्यनर्थान्तरम्। तस्य द्वे रूपे- अनुमित्यङ्गभूते व्याप्तिः पक्षधर्मता चेति। पञ्च रूपाण्यपि सन्ति, तानि च- पक्ष (व्यापकत्वम्) धर्मत्वम, (सत्त्वम्), सपक्षे सत्त्वम् विपक्षाद्व्यवृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति। सिषाधयिषितधर्मविशिष्टो धर्मो पक्षः। यथा- अग्निमत्त्वादिसाधने पर्वतादिः। सिषाधयिषितधर्मसजातीयधर्मवान् सपक्षः। यथा- महानसादिः। साध्यतज्जातीयशून्यो विपक्षः। यथा- महाह्रदादिः। प्रबलप्रमाणेन पक्षे निश्चितसाध्याभाववत्त्वं बाधित- विषयत्वम्। यथा- महाह्रदो अग्निमानित्यादिः। तदभाववत्त्वमभाधित विषयत्वम्। समबलतया प्रतीयमानप्रमाणोपरोधाभावोऽसत्प्रतिपक्षत्वम्।
व्याप्यभेदौ
एवम्भूतं व्याप्यं द्विविधम्- अन्वयव्यतिरेकि- केवलान्वयिभेदात्। पूर्वोक्तपञ्चरूपोपपन्नं व्याप्यमन्वयव्यतिरेकि। यथा- पर्वतोऽग्निमान् धूमवत्त्वात्, यो यो धूमवान् स सोऽग्निमान्, यथा-महानसः। योऽनग्निस्स निर्धूमः, यथा- ह्रद इति। तादृशमेव विपक्षरहितं व्याप्यं केवलान्वयि। यथा- ब्रह्मशब्दवाच्यं वस्तुत्वात्, घटवत्। विपक्षाभावात् केवलान्वयि चतूरूपोपन्नम्। केवलव्यतिरेकिणि साध्यप्रसिद्धेः तद्व्यतिरेकव्याप्तिर्दुर्ग्रहा। अतः केवलव्यतिरेकिनिरासः। केवलान्वयिनि अन्वयव्यतिरेकिणि चात्यन्तातीन्द्रियार्थगोचरता निरस्ता।
४२.अनुमानस्य भेदद्वयम्
तदेतदनुमानं स्वार्थं परार्थं चेति द्विधा विभज्य केचिदाहुः। सर्वेषामेवानुमानानां स्वप्रतिसन्धानादिबलेन प्रवृत्ततया स्वव्यवहारमात्रहेतुत्वमिति स्वार्थानुमानमेवेत्यपरे।
अनुमानस्यावयवपञ्चकम्
तदेतदनुमानं स्वार्थं परार्थं चेति द्विधा विभज्य केचिदाहुः। सर्वेषामेवानुमानानां स्वप्रतिसन्धानादिबलेन प्रवृत्ततया स्वव्यवहारमात्रहेतुत्वमिति स्वार्थानुमानमेवेत्यपरे।
अनुमानस्यावयवपञ्चकम्
तदनुमानबोधकवाक्यं प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूपपञ्चावयवसंयुक्तम्। तत्र, साध्यवत्तया पक्षवचनं प्रतिज्ञा। यथा- पर्वतोऽग्निमानिति। लिङ्गस्य वचनं हेतुः, यथा- धूमवत्त्वादिति। व्याप्तिनिर्देशपूर्वकं दृष्टान्तवचनमुदाहरणम्। तद् द्विविधम्, अन्वयव्यतिरेकभेदात्। यथा-यो यो धूमवान् स सोऽग्निमान्, यथा महानस इत्यन्वयोदाहरणम्। योऽनग्निस्स निर्धूमः, यथा ह्रद- इति व्यतिरेकोदाहरणम् । दृष्टान्तावमर्शनेन व्याप्ततया पक्षे हेतूपसंहारवाक्यमुपनयः। सोऽपि द्विविधः, अन्वयव्यतिरेकभेदात्। तथा धूमवानित्यन्वयोपनयः। अयं च न तथा निर्धूम इति व्यतिरेकोपनयः। हेतुपूर्वकं पक्षे साध्योपसंहारवाक्यं निगमनम्। एतदपि द्विविधं तथैव। यथा- तस्मादसावग्निमानित्यन्वयेन निगमनम्। तस्मादयं निरग्निर्न भवतीति व्यतिरेकेण।
४४. अनुमानस्यावयवानां विषये दार्शनिकानां मतभेदप्रदर्शनम्
एवं पञ्चावयववादिनो नैयायिकाः। प्रतिज्ञाहेतूदाहरणरूपत्र्यवयववादिनो मीमांसकाः। उदाहरणोपनयरूपावयवद्वयवादिनस्सौगताः।अस्माकंत्वनियमः। क्वचित्पञ्चावयवाः, क्वचित् त्रयोऽवयवाः, क्वचिद् द्वाववयवौ। उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मतयोस्सिद्धत्वात्तावतैवानुमित्युपपत्तेः। मृदुमध्यमकठोरधियां विस्तरसङ्ग्रहाभ्यां व्यवहार उपपद्यत इत्यनियम एव । एवं पञ्चावयवयुक्तः सद्धेतुरेव वह्नयनुमापकः। सद्धेतुरित्युक्तत्वात् धूमसदृशधूलीपटलान्न वह्नयनुमितिः।
हेत्वाभासाः
अन्ये हेतुवदाभासमाना हेत्वाभासाः, ते चासिद्धविरूद्धानैकान्तिक प्रकरणसमकालात्ययापदिष्ट भेदात्पञ्चप्रकाराः। तत्रासिद्धस्त्रिविधःस्वरूपासिद्धः, आश्रयासिद्धो व्याप्यत्वासिद्धश्चेति। स्वरूपासिद्धो यथा- अनित्यो जीवनश्चाक्षुषत्वात्, घटवदिति। आश्रयासिद्धस्तु- व्यमारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् इति। व्योमारविन्दमाश्रयः, स चासिद्धः। व्याप्यत्वासिद्धो द्विविधः- एको व्याप्तिग्राहकप्रमाणाभावात्, अपरस्तु उपाधिसद्भावात्। आद्यो यथा- यत्सत् तत्क्षणिकमिति। क्षणिकत्वसत्त्वयोर्व्याप्तिग्राहकप्रमाणासिद्धेः। द्वितीयो यथा- अग्नीषोमीयहिंसा अधर्मसाधिका, हिंसात्वात् ऋतुबाह्यहिंसावदिति। अत्र निषिद्धत्वमुपाधिः।अतो हिंसात्वहेतुस्सोपाधिकः। साध्यविपरीतव्याप्तो हेतुर्विरूद्धः। तद्यथा- प्रकृतिर्नित्या, कृतकत्वात् कालवदिति। कृतकत्वहेतुः साध्याभावव्याप्तः। सव्यभिचारोऽनैकान्तिकः। स च द्विविधः- साधारणोऽसाधारणश्चेति। पक्षसपक्षविपक्षवृत्तिः साधारणानैकान्तिकः। यथा- शब्दो नित्यः, प्रमेयत्वात् कालवत्। असाधारणस्तु सपक्षविपक्षव्यावृत्तः। यथा- भूर्नित्या गन्धवत्त्वात्; व्योमवदिति। प्रकरणसमस्तु साध्यविपरीतसाधकहेत्वन्तरवान्। यथा-ईश्वरो नित्यः, अनित्यधर्मरहितत्वात्; ईश्वरो न नित्यः, नित्यधर्मरहितत्वादिति। अयमेव सत्प्रतिपक्षः। यस्य हेतोस्साध्याभाववान्पक्षः स कालात्ययापदिष्टः। स यथा-अग्निरनुष्णः, पदार्थत्वात् जलवत् । अयं च प्रत्यक्षेणैवोष्णत्वावधारणाद् बाधितः।
उपमानस्यानुमानादावन्तर्भावनिरूपणम्
एवमनुमाने निरूपिते उपमानादेरनुमानादावन्तर्भावः। यथा-अतिदेशवाक्यार्थस्मरणसहकृत सादृश्यविशिष्टपिण्डज्ञानमुपमानम्। गवयमजानानोऽपि यथा गौस्तथा गवय इति कुतश्चिदारण्यकाच्छुत्वा वनं गतो अतिदेशवाक्यार्थं स्मरन् यदा गौसादृश्यविशिष्टपिण्डं पश्यति, तदा तद्वाक्यार्थस्मरणसहकृतगोसादृश्यविशिष्टपिण्डज्ञानं ज्ञायते, तदुपमानमित्युच्यते। तस्य स्मरणरूपत्वात्प्रत्यक्षेऽन्तर्भावः, व्याप्तिग्रहापेक्षत्वादनुमानेऽन्तर्भावः, वाक्यजन्यत्वाच्छब्दे चान्तर्भाव ऊह्यः।
अर्थापत्त्यादिकस्यानुमानेऽन्तर्भावप्रकारः
अर्थापत्तिर्नाम दिवा अभुञ्जानस्य पुरूषस्य पीनत्वदर्शनाद् रात्रि भोजनं कल्प्यते। एतस्यानुमानेऽन्तर्भावः। तर्को नाम व्याप्याङ्गीकारेण व्यापकानिष्टप्रसञ्जनम्। तद्यथा- पर्वतो वह्निमान् धूमवत्त्वादित्यनुमाने, धूमोऽस्तु वह्निर्मास्तु इत्युक्ते, यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यादिति। एतस्य प्रमाणानुग्राहकत्वम्। तर्कानुगृहीतप्रमाणपूर्वकतत्त्वावधारण निश्चयः। वीतरागकथा वादः। पक्षद्वयसाधनवती विजिगीषुकथा जल्पः। स्वव्याप्तदूषणं जातिः। असदुत्तरं जातिरिति वा। पराजयहेतुर्निग्रहस्थानम्। इत्येतेषामनु मानाङ्गत्वादनुमानेऽन्तर्भावः। क्वचित् क्वचिन्नैयायिकमतानुसा (रेणोक्तम्) रिव्यवहारस्तु तन्मतानुसारेणोक्तः। अतो न विरोधः। इत्यनुमानं निरूपितम्।
इति श्रीवाधूलकूलतिलक- श्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां शारीरकपरिभाषायामनुमाननिरूपणं नाम द्वितीयोऽवतारः।।
अथ तृतीयोऽवतारः
अनुमाननिरूपणानन्तरं शब्दो निरूप्यते। अनाप्तानुक्तवाक्यजनिततदर्थ विज्ञानं शाब्दज्ञानम्। तत्करणं शब्दप्रमाणम्। अनाप्तानुक्तेत्युक्तत्वाद्वेदस्य पौरूषेयत्वमतनिरासः। कारणदोषबाधक प्रत्ययाभाववद्वाक्यं वा। सर्गादौ भगवान् चतुर्मुखाय पूर्वपूर्वक्रमविशिष्टान्वेदान् स्मृत्वा स्मृत्वा उपदिशतीत्युक्त्या वेदस्य नित्यत्वमषौरूषेयत्व च सिद्धमिति कारणदोषाभावो बाधकप्रत्ययाभावश्च।
सम्पूर्णस्य वेदस्य प्रामाण्यप्रतिपादनम्
ननु वेदवाक्यानां मीमांसकैः कार्यपरतयैव प्रामाण्यस्वीकारात् सिद्धब्रह्मपरवाक्यानां व्युत्पत्त्यसम्भवाच्च कथं प्रामाण्यमिति चेन्न। सिद्धब्रह्मपरवाक्यानामपि उपासनारूपकार्यान्वयस्वीकारात्। पिता ते सुखमास्ते इति लौकिकसिद्धपरवाक्यस्यापि बोधकत्वदर्शनात्। बालानां लोके मातापितृ प्रभृतिभिरम्बातातमातुलचन्द्रादीनङ्गुल्या निर्दिश्य तदभिधायिनः शब्दान् प्रयुञ्जानैः क्रमेण शब्दस्य बोधकत्वं सम्भवतीति नाप्रामाण्यशङ्कावकाशः। तर्हि अभिचारादिप्रतिपादकवेदांशस्य कथं प्रामाण्यमिति नाशङ्कीनायम्। तस्य दृष्टफलप्रदर्शनेनादृष्टस्वर्गादिफलकसाधनादौ प्रवृत्तिप्रयोजकत्वात्। यूपादित्यवाक्यं तु आदित्यवद्यूपप्रकाशनपम्। अतः कृत्स्नस्य वेदस्य प्रामाण्यम्।

वेदस्य विभागः
स वेदः कर्मब्रह्मप्रतिपादकपूर्वोत्तरभागाभ्यां द्विधा भिन्नः।आराधन कर्मप्रतिपादकं पूर्वकाण्डम्। आराध्यब्रह्मप्रतिपादकमुत्तरकाण्डम्। अत उभयोर्मीमांसयोरैकशास्त्र्यम्। भागद्वयात्मको वेद ऋग्यजुस्सामार्थवरूपेण चतुर्थोऽवस्थितः, पुनरनन्तप्रकारश्च। ऋगादिबहुप्रकारो वेदो मन्त्रार्थवाद विधिरूपेण त्रिविधः। अनुष्ठेयार्थप्रकाशको मन्त्रः। विध्यधीनप्रवृत्त्युत्तम्भक वाक्यविशेषोऽर्थवादः। हितानुशासनरूपं वाक्यमिह विधिः। स च त्रिविधः। अपूर्वपरिसङ्गख्यानियमभेदात्। ते पुनर्नित्यनैमित्तिककाम्यादिभेदात् बहुविधाः।। व्रीहीन्प्रोक्षतीति विधिरपूर्वविधिः (मनोमयत्वाद्युपासनविधिर्विशिष्टविधिः) । इमामगृभ्णन्नित्श्वरशनाविधिः परिसङ्ख्याविधिः। गुर्वविभगमनादिविधिर्नियमविधिः। सन्ध्योपासनादिविधिर्नित्यविधिः। जातेष्ट्यादिविधिर्नैमित्तिकविधिः। ज्योतिष्टोमादिविधिः काम्यविधिः।
५९. वेदाङ्गानि
एवं विध्यर्थवादमन्त्रात्मकस्य वेदस्य -छन्दः, कल्पः, शिक्षा, निरूक्तम्, ज्यौतिषम्, व्याकरणमित्येतान्यङ्गानि। छन्दोऽनुष्टुप् त्रिष्टबादिप्रतिपादन रूपम्। श्रौतस्मार्तप्रयोगप्रतिपादनपरः कल्पः। शिक्षा वर्णनिर्णयात्मिका। निरूक्तं (खा) अपूर्वार्थप्रतिपादकम्। ज्यौतिषम् अध्ययनतदर्थानुष्ठानकाल निर्णायकम्। व्याकरणं तु सुशब्दस्वरादिसमर्थनपरम्। एवं साङ्गस्य वेदस्य प्रामाण्यं सिद्धम्।
६०. स्मृत्यादीनां प्राणाण्यविवेचनम्
अथ श्रुत्यविरूद्धाचारव्यवहारप्रायश्चित्तादिप्रतिपादिका आप्तप्रणीता स्मृतिः प्रमाणम्। हिरण्यगर्भादीनामाप्तत्वेऽपि तेषां गुणत्रयवश्वत्वसम्भवात् तत्कर्तृकयोगकपिलादिस्मृतीनां मन्वादिस्मृत्यविरूद्धांशा एव प्रमाणम्। तत्त्वविपर्यासादिविरूद्धाशा न प्रमाणम्।
तत्त्वविपर्यासादिविरूद्धांशा न प्रमाणम्। वेदोपबृंहणरूपेतिहासपुराणयोरपि प्रामाण्यं स्वतस्मिद्धम्। तत्र भारतरामायणयोः क्वचित्क्वचिद्विरोधभानेऽपि तत्त्वांशे वेदान्तवाक्यवदविरोधो नेयः।
६२. सर्गादिपञ्चकप्रतिपादकपुराणेष्वपि सात्त्विकराजसतामसभेदभिन्नेषु तत्त्वांशे (विरोधाभावात्) विरूद्धांशो न प्रमाणम्, अन्यत्सर्व प्रमाणम्। पाशुपताद्यागमा अपि तथैव। आग्मदिव्यतन्त्रतन्त्रान्तरसिद्धान्तभेद भिन्नस्य श्रीपाञ्चरात्रागमस्य क्वचिदपि वेदविरोधाभावात् कार्त्स्न्येन प्रामाण्यम्। एवं वैखानसागमस्यापि। धर्मशास्त्रामपि तथैव। शाण्डिल्यपराशर भरद्वाजवसिष्ठहारीतादयो धर्मशास्त्रप्रणेतारः। शिल्पायुर्वेदगान्धर्वभरतागमादिकमप्युपयुक्तांशे तथैव। शिल्पो नाम कर्षणादिगोपुरप्राकारादिनिर्माण प्रतिपादकः। आयुर्वेदो वैद्यकम्। गान्धर्वो गानादिनिरूपकः। भरतागमोनृत्तादिविधायकः। पुनः चतुष्षष्टिकलारूपेण शास्त्रेषु तत्त्वोपायपुरूषार्थोपयुक्तानि प्रमाणानि।
सहस्रगीतिश्रीभाष्ययोः प्रामाण्यप्रतिपादनम्
बकुलाभरणादिदिव्यसूरिश्रीसूक्तयः कार्त्स्न्येन प्रमाणतराः। श्रीमद्रामानुजाचार्यप्रभृतिभिः प्रणीता श्रीभाष्यादिप्रबन्धाः प्रमाणतमाः।
वाक्यादिविचारः
पुरूषस्वातन्त्र्याधीनरचनाविशेषविशिष्टं पौरूषेयम्। एतेन काव्यनाटकालङ्कारादीनामपि लक्षणमुक्तं स्यात्। एवमाप्तेनोच्चारितान्याकाङ्क्षायोग्यतासन्निधिमल्लौकिकवाक्यान्यपि प्रमाणानि।यथा- नद्यास्तीरे पञ्चफलानि सन्तीत्यादीनि। एवं वैदिकलौकिकसाधारणं वाक्यं द्विविधम्- मुख्यवृत्तिगौणवृत्तिभेदात्। मुख्यवृत्तिरभिधावृतिः। यथा- सिंहशब्दस्य मृगेन्द्रे। साऽभिधावृत्तिर्योगरूढ्यादिभेदेन बहुविधा। मुख्यार्थबाधे सति तदासन्नेऽर्थे वृत्तिरौपचारिको। सा द्विविधा- लक्षणागौणीभेदात्। प्रथमा यथा- गङ्गायां घोष इत्यत्राधिकरण (त्व) स्य बाधात्तीरे लक्षणा। द्वितीया यथा- सिंहो देवदत्त इत्यत्र देवदत्ते शौर्यादिगुणयोगात्।एवं वैदिकलौकिकरूपं सर्वं वाक्यजातं सविशेषविषयकं भेदविषयकं च। शरीरवाचक शब्दानां यथा शरीरिणि पर्यवसानम्, एवं भगवच्छरीरभूतब्रह्मरूद्राग्नीन्द्रादिचिद्वाचकशब्दानां, तथा तच्छरीरभूतप्रकृतिकालाकाशप्राणाद्यचिद्वाचक शब्दानां यथा शरीरिणि पर्यवसानम्, एवं भगवच्छरीरभूतब्रह्मारूद्राग्नीन्द्रादिचिद्वाचकशब्दानां, तथा तच्छरीरभूतप्रकृतिकालाकाश प्राणाद्यचिद्वाचक शब्दानां च शरीरिणि परमात्मनि नारायणे पर्यवसानमुपपादयन्त्याचार्याः। वेदान्तज्ञानाद् व्युत्पत्तिः पूर्यत इत्युक्तम। नारायणस्य सर्वशब्दवाच्यत्वं सर्वशरीरकत्वमित्यादिकं तूपरि ईश्वरपरिच्छेदे प्रतिपादयामः। इति शब्दो निरूपितः।
इति श्रीवाधूलकुलतिलक- श्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां शारीरकपरिभाषायां शब्दनिरूपणं नाम तृतीयोऽवतारः।
अथ चतुर्थोऽवतारः
प्रमेयस्य द्रव्याद्रव्येतिभेदद्वयसमर्थनम्
प्रमाणनिरूपणानन्तरं प्रमेयं निरूप्यते। प्रकर्षेण मेयं प्रमेयम्। तच्च द्विविधम्- द्रव्याद्रव्यभेदात्। उपादानं द्रव्यम्। अवस्थाश्रय उपादानम्। ननु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्था इति मतान्तरस्थैः सप्तधा परिगणनात् कथं द्रव्याद्रव्यभेदेन द्विधा समर्थनमिति चेत्; उच्यते। उत्क्षेपणापक्षेपणाकुञ्चनप्रसारण गमन भेदात् कर्म पञ्चधाऽवस्थितमिति कल्पने गौरवात् चलनात्मकं कर्मेत्येकधैवोपपत्तेः, तस्यामि संयोगमादायैवोपपत्तेः। संस्थानमेव जातिरिति संस्थानातिरेकेण सामान्यानङ्गीकारात् । समवाये समवायान्तराङ्गीकारेऽनवस्थानातिरेकेण सामान्यानङ्गीकारात्। समवाये समवायान्तराङ्गीकारेऽनवस्थानात्, तस्यापि संयुक्तविशेषण (तयैवो) तामादायोपपत्तेः। जीवेश्वरयोरणुत्वविभुत्वादिविभाजकधर्ममन्तरेण ‘विशेष’ इति किञ्चित्पदार्थाङ्गीकारे गौरवात्। अतः कर्मसामान्य विशेषसमवायानां पृथक्पदार्थत्वेनानङ्गीकाराच्च द्रव्यमद्रव्यमिति द्विधा विभाग उपपद्यते। एतेनाभावस्सप्तमपदार्थ इत्यपि निरस्तम्। अभावस्य भावान्तररूपत्वात्। प्रागभावो नाम पूर्वावस्थापरम्परा, ध्वंस उत्तरावस्था परम्परा, अत्यन्तान्योन्याभावौ च धर्म्यन्तर (गतविशेष) स्वरूपावेव। एतस्य प्रत्यक्षेऽन्तर्भावः पूर्वमुक्तः। उपादानं द्रव्यमित्युक्तम्। गुणाश्रयो द्रव्यमित्यपि सामान्यलक्षणं सम्भवति।
तानि च द्रव्याणि षट्- प्रकृतिकालशुद्धसत्त्वधर्मभूतज्ञानजीवेश्वर भेदात्। तत्र, जडाजडरूपयोर्विभक्तयोर्मध्ये जडलक्षणमुच्यते। अमिश्रसत्त्व रहितं जडमिति।तद् द्विविधम्- प्रकृतिकालभेदात्।
प्रकृतिनिरूपणम्
 तत्र, सत्त्वरजस्तमोरूपगुणत्रयाश्रयरूपा प्रकृतिः। सा नित्या अक्षरा विद्यामायादिशब्दवाच्या च। तस्या भगवत्सङ्कल्पाधीनगुणवैषम्यात् कार्योन्मुखावस्था अव्यक्तशब्देनोच्यते। तस्मान्महानुत्पद्यते । स महान् सात्त्विकराजसतामसभेदात् त्रिधाऽस्थितः। महतोऽङ्कार उत्पद्यते। सोऽपि सात्त्विकाहङ्कारो राजसाहङ्कारस्तामसाहङ्कारश्चेति त्रिविधो भवति। एतेषां त्रयाणां वैकारिकस्तैजसो भूतादिरिति नामान्तराण्यपि सम्भवन्ति। तेषु वैकारिक इति प्रसिद्धात् जैजससंज्ञकराजसाहङ्कारसहकृतात्सात्त्विकाहङ्कारादेकादशेन्द्रियाणि जायन्ते।

इन्द्रियनिरूपणम्
(७३) सात्त्विकाहङ्कारोपादानकं द्रव्यमिन्द्रियमितीन्द्रियलक्षणम्। इन्द्रियं द्विविधम्- ज्ञानेन्द्रियं कर्मेन्द्रियं चेति। ज्ञानप्रसरणशक्तमिन्द्रियं ज्ञानेन्द्रियम्। तत् षोढा-मनः श्रोत्रचक्षुर्घ्राणरसनात्वग्भेदात्। स्मृत्यादिकरणमिन्द्रियं मनः। तच्च हृदयप्रदेशवर्ति बुद्ध्यहङ्कारचित्तादिशब्दवाच्यम्, बन्धमोक्षहेतु भूतं च।
शब्दादिपञ्चके शब्दमात्रग्रहणशक्तमिन्द्रियं श्रोत्रेन्द्रियम्, । तन्मनुष्यादीनां श्रवणकुहरवर्ति। द्विजिह्वादीनां नयनवर्ति। एवं रूपमात्रग्रहणशक्तमिन्द्रियं चक्षुः सर्वेषां नयनवर्ति। गन्धमात्रग्रहणशक्तमिन्द्रियं घ्राणेन्द्रियम्, नासाग्रवर्ति। (गजादेः कराग्रवर्ति) । रसमात्रग्रहणशक्तमिन्द्रियं रसनेन्द्रियम्, जिह्वाग्रवर्ति। स्पर्शमात्रग्रहणशक्तमिन्द्रियं त्वगिन्द्रियम्, सर्वशरीरवर्ति। नखदन्तकेशादिषु प्राणमान्द्यतारतम्यात्। स्पर्शानुपलम्भः श्रोत्रादीन्द्रियाणां भौतिकत्वप्रतिपादनं भूताप्यायितत्वेनौपचारिकम्। एतेषां विषय-
    सम्बन्धः क्वचित्संयोगः क्वचित्संयुक्ताश्रयणमिति वृद्धसम्प्रदायः। उच्चारणादिष्वन्यतमक्रियाशक्तत्वं कर्मेन्द्रियसामान्यलक्षणम्। तच्च वाक्यपाणि पादपायूपस्थभेदात् पञ्चधाऽवस्थितम्। वर्णोच्चारणकरणमिन्द्रियं वाक्। सा च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठनासामूर्धरूपस्थानाष्ट कवर्तिनी। (मूका) मृगादिष्वदृष्टविरहात्तदभावः। शिल्पकरणमिन्द्रियं पाणिः। स च मनुष्यादीनामङ्गुल्यग्रवर्ती। वारणादीनां नासाग्रवर्ती। सञ्चरणकरणमिन्द्रियं पादः। स च मनुष्यादीनां चरणवर्ती। भुजगपतगादीनामुरः पक्षादिवर्ती। मलादित्यागकरणमिन्द्रियं पायुः। स च तत्तदवयववर्ती। आनन्दविशेष- करणमिन्द्रियमुपस्थः। स च मेहनादिवर्ती। एतानीन्द्रियाण्यणूनि । परकाय प्रवेशे लोकान्तरगमनादिषु च जीवेन सह गच्छन्ति। इन्द्रियाणां मुक्तिदशायामप्राकृतदेशगमनासम्भवादिहैव यावत्प्रलयं स्थितिः। करणविधुरैरन्यैः परिग्रहो वा। कर्मेन्द्रियाणां शरीरनाशान्नाश इति पक्षस्तु भाष्यादिविरोधेन हेयः। एतेन पुरूषेन्द्रियं स्त्रीन्द्रियम् एकेन्द्रियवादः त्वगिन्द्रियैकत्वस्वीकार इत्यादिविमतपक्षा निरस्ताः।
७६. पञ्चतन्मात्राणां पञ्चभूतानाञ्च निरूपणम्
राजासाहङ्कारसहकृताद् भूतादिसंज्ञकतामसाहङ्काराच्छब्दादिपञ्च तन्मात्राणि आकाशादि पञ्च महाभूतानि चोत्पद्यन्ते। भूतानामव्यवहित सूक्ष्मावस्थाविशिष्ट द्रव्यं तन्मात्रम्। तदेव भूतोपादानम्। विशिष्टशब्दादि विषयाधिकरणं भूतम्। तन्मात्राणि- शब्दतन्मात्रं स्पर्शतन्त्रमात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति पञ्च। भूतानि च तथा- आकाशं वायुस्तेज आपः पृथिवीति भेदात्।
आकाशनिरूपणम्
तत्र तामसाहङ्काराकाशयोर्मध्यमावस्थाविशिष्टं द्रव्यं शब्दतन्मात्रम्। क्षीरदध्नोरन्तराल (ले कलिल) परिणामवत्। तस्मादाकाशो जायते। अस्पर्शवत्त्वे सति विशिष्टशब्दाधारत्वम्, श्रोत्राप्यायकत्वं चाकाशललक्षणम्। स च शब्दमात्रगुणक अवकाशहेतुः। नीलं नभ इति प्रतीतेः प्रत्यक्षः। पञ्चीकरणप्रकियया स सावयवो रूपवान् (रूपवाँश्च) इतेन आकाशस्याजन्यत्वनिरासः। सूर्यपरिस्पन्दयुक्ताकाशस्यैव (सूर्यपरिस्पन्धादिभिराकाशस्यैव) प्राच्यादिव्यवहारोपपत्तौ दिगिति न पृथग्द्रव्यकल्पनम्। दिक्सृष्टिस्त्वन्तरिक्षादिसृष्टिवदुपपद्यते।
८०. वायुनिरूपणम्
आकाशात् स्पर्शतन्मात्रम्। आकासवाय्वोर्मध्यमावस्थाविशिष्टं द्रव्यं स्पर्शतन्मात्रम्। तस्माद्वायुः। विशिष्टस्पर्शवत्त्वे सति रूपशून्यत्वम्, अस्मदादिस्पर्शनैकेन्द्रयग्राह्यद्रव्यत्वम्, अनुष्णाशीतविशिष्टस्पर्शवत्त्वे सति रूप शून्यत्वमित्यादिकं वायोर्लक्षणम्। तस्मिन् नानासलिलातपकुसुमादि (द्यवयव) योगात् शीतोष्णसौरभादिव्यपदेशः। स च त्वगिन्द्रियाप्यायकत्वेनोपकरोति। तस्य शब्दस्पर्शौ गुणौ। तत्र, शरीरधारणादिहेतुर्वायुविशेषः प्राणः। स च पञ्चप्रकारः। प्राणापानव्यानोदानसमानभेदात्। हृदि प्राणः, गुदेऽपानः, सर्वशरीरगो व्यानः, कण्ठे उदानः, नाभिदेशे समान इति नियमो जङ्गमेष्वेव। स्थावरेषु तु प्राण सम्बन्धस्वरूप एव। वायोः स्पार्शन प्रत्यक्षत्वेनानुमेयवादनिरासः।
तेजोनिरूपणम्
८३. वायुतेजसोर्मध्यमावस्थाविशिष्टं द्रव्यं रूपतन्मात्रम्। तस्मात्तेजः।
उष्णस्पर्शवत्त्वं भास्वररूपवत्त्वादिकं तु तेजो लक्षणम्। तस्य बहिः पचनादिहेतुत्वमग्निसूर्यात्मना, अन्तर्वैश्वानरसंज्ञकजाठराग्निरूपेण। दिवाभीता दिव्यतिरिक्तानां चाक्षुषज्ञाने आलोकद्वारा सहकारि च भवति। तच्चतुर्धा- भौमं दिव्यमुदर्यमाकरजं चेति । तत्र पार्थिवमात्रेन्धनं तेजो भौमं दीपादि। जलमात्रेन्धनं दिव्यं सूर्यादि। जलपार्थिवेन्धनमुदर्यं जाठ (रं) रादि। निरिन्धनं तेज आकरजं सुवर्णादि। सुवर्णस्य द्रव्यान्तरसंसर्गादुष्णस्पर्शाभावः। पुनस्सामान्येन प्रभा प्रभावांश्चेति विभक्तम्। आवरणसदसद्भावाधीनसङ्को चिविकासप्रसारितेजोविशेषः प्रभा। सा च अनेन प्रभायाः केवलगुणत्वमतनिरासः। प्रभाविशिष्टं तेजः प्रभावत्। तच्चतुर्विधमिति प्रतिपादितम्। तत्तेजः शब्दस्पर्शरूपगुणवच्च।
८६. अपां निरूपणम्
 तेजस्सलिलयोर्मध्यमावस्थाविशिष्टं द्रव्यं रसतन्मात्रम्। तस्मादापः। शीतस्पर्शवत्त्वं निर्गन्धत्वे सति विशिष्टरसवत्त्वमित्यादि अपां लक्षणम्। तासां शुक्लमधुरशीतैकस्वभावानाम् आश्रयादिसंसर्गभेदाद् रूपरसस्पर्श वैचित्र्यारोपः। ताः समुद्रसरिदादिरूपेण बहुप्रकाराः। शब्दस्पर्शरूपरसगुणाश्च । सेचनपिण्डीकरणादिहेतवश्च
पृथिवीनिरूपणण्।
अप्पृथिव्योर्मध्यावस्थाविशिष्टं द्रव्यं गन्धतन्मात्रम्। तस्मात् पृथिवी। विशिष्टगन्धवत्त्वम्, रसवत्त्वे सति अनुष्णाशीतस्पर्शवत्त्वमित्यादि पृथिवी लक्षणम्। सा सुरभिर्मधुरा कृष्णरूपानुष्णाशीतस्पर्शवती। पाकभेदात् (पाकजभेदात्तु) विचित्रवर्णगन्धरसा च ) मनोघ्राणाप्यायकत्वेनोप करोति। मृत्पाषाणान्नौषधादिबहुप्रकारवती। शब्दस्पर्शरूपरसगन्धगुणका धारणहेतुश्च। तमसः पृथिव्यामन्तर्भावः। तद्गुणकत्वात् तदवस्थान्तरत्वाद्वा। अत एव आलोकाभावमात्रं तमः, न द्रव्यान्तरमित्यादिपक्षा निरस्ताः।

८८. पञ्चीकरणप्रक्रियाया निरूपणम्।
भूतेषु सर्वत्र पञ्चीकरणप्रक्रियया शब्दादीनां गुणानामुपलम्भः। पञ्चीकरणप्रक्रिया तु, भगवान् भूतानि सृष्ट्वा एकैकमेव भूतं द्विधा कृत्वा द्वयोर्भागयोः स्वभागमेकं निधाय भागान्तरं चतुर्धा करोति। तान् चतुर्भागान् भूतान्तरेषु चतुर्षु योजयति। एवं सर्वेषु भूतेषु क्रियमाणेषु एकैकस्य भूतस्यार्धं स्वभागः, अर्धान्तरं चतुर्णां भूतानां भागसमुच्चयो भवति। तथा च स्वभागस्य भूयस्त्वात् , परभागस्याल्पीयस्त्वाच्च पृथिव्यादिव्यपदेशः। वेदे त्रिवृत्करणोपदेशस्तु पञ्चीकरणस्याप्युपलक्षणम्। भूतैस्साकं महदहङ्कारौ मिलित्वा सप्तीकरणमित्यप्याहुः। एतेषु चतुर्विशतिसङ्ख्याकेषु पञ्चभूतानि प्रकृतिमहदहङ्काराश्च शरीरोपादानानि ।एकादशेन्द्रियाणि प्रत्येकमसङ्ख्या-तानि प्रतिपुरूषं भिन्नानि आभारणार्पितरत्नानीव शरीरमाक्रम्य तिष्ठन्ति।
९०. शरीरलक्षणम्
शरीरं नाम चेतनं प्रत्याधेयत्वविधेयत्वशेषत्वनियमैरपृथक्सिसद्धो द्रव्य विशेष इत्येकं लक्षणम्। नियमेन यदाधेयम्, नियमेन यद्विधेयम्, नियमेन यच्छेषम्, तदिति लक्षणत्रयं वा योज्यम्। ईश्वरतज्ज्ञानव्यतिरिक्तद्रव्यमिति वा तटस्थलक्षणम्। एतेन चेष्टाश्रयश्शरीरम्। इन्द्रियाश्रयश्शरीरम्। भोगायतनं शरीरम्। शिरः पाणिपादादिमयं शरीरमित्यादीनि परोक्तानि शरीर लक्षणानि निरस्तानि।
९१.शरीरविभागः
शरीरं द्विविधम्- नित्यमनित्यमिति। तत्र नित्यं त्रिगुणद्रव्यकालजीव शुभाश्रयादिकमीश्वरशरीरम्। नित्यसूरीणां स्वाभाविकं गरूडभुजगादिरूपं च। अनित्यं द्विविधम्- अकर्मकृतं कर्मकृतं चेति। प्रथममीश्वरस्य महदादिरूपम्। तथाऽनन्तगरूडादीनां मुक्तानामीश्वरस्य च इच्छागृहीतं तत्तद्रूपम्। कर्मकृतमपि द्विविधम्- स्वसङ्कल्पकृतकर्मकृतं केवलकर्मकृतं चेति। पूर्वं महतां सौभरिप्रभृतीनाम्, इतरदन्येषाम्। पुनस्सामान्येन द्विविधम्- स्थावरजङ्गमभेदात्। स्थावराः शिलावृक्षगुल्मादयः। जङ्गमाश्चतुर्धा- देवमनुष्यतिर्यड्नारकिभेदात्। उद्भिज्जस्वेदजाण्डजजरायुजभेदा अपि विभाजक धर्माः। अयोनिजशरीराण्यपि सन्ति।
समष्टिसृष्टौ कारणकार्यभावनिरूपणण्
एवं पञ्चीकृतानां भूतानामेवाण्डोत्पादकत्वम्। अण्डोत्पादात्पूर्वसृष्टिस्समष्टिसृष्टिः। अनन्तरसृष्टिर्व्यष्टिसृष्टिः। महदादीनामुत्पत्तिर्नाम तालपलाशताटङ्कन्यायेनावस्थान्तरापत्तिरेव। सेनावनराश्यादिव्यवहारवत् पूर्वापरावस्थाविशेषसम्बन्धमात्रेण कार्यकारणभेदव्यवहारः। तत्र पूर्वावस्था प्रहाणेन विजातीयावस्थाप्राप्तौ तत्त्वान्तरव्यपदेशः पृथिवीपर्यन्त एव। इत्थम्, प्रकृतिमहदहङ्कारैकादशेन्द्रियतन्मात्रपञ्चकभूतपञ्चक विभागेन चतुर्विशतितत्त्वानि वर्णितानि। एतेन न्यूनाधिकसङ्ख्याकं तत्त्ववादिनो बाह्याः। पाशुपताश्च निरस्ताः परमाणुकारणत्ववादिनोऽपि निरस्ताः।
९६. जम्बूद्वीपवर्णनम्
प्रकृत्यादय ईश्वरस्य जीवस्य च भोग्यभोगोपकरणभोगस्थानानि च भवन्ति। भोग्यानि विषयाः। भोगोपकरणानि तु चक्षुरादिकरणानि। भोगस्थानानि चतुर्दशभुवनसहितान्यण्डजातानि। अण्डं नाम कपित्थफलाकारं पञ्चीकृतपञ्चभूतारब्धं प्राकृतं द्रव्यम्। तद्यथा- पद्माकारा भूः, कर्णिकाकारो मेरूः। मेरोर्दक्षिणतो त्रीणि। पुरतो भद्राश्ववर्षम्। पश्चात्केतुमालवर्षम्। मध्ये त्विलावृतम्।
९७. स्पद्वीपवत्याः पृथिव्या वर्णनम्
एवं नववर्षयुक्तं जम्बूद्वीपं लक्षयोजनविस्तीर्णं समपरिमाणेन लवण सिन्धुनाऽऽवृतम्। स सिन्धुर्द्विगुणेन सप्तवर्षात्मकेन प्लक्षद्वीपेन वेष्टितः। सोऽपीक्षुसमुद्रेण। सोऽब्धिश्शाल्मलिद्वीपेन। स पुनस्सुरासमुद्रेण। स कुशद्वीपेन। स सर्पिस्समुद्रेण। सोऽपि क्रौञ्चद्वीपेन। स वध्यर्मवेन।
सोऽपि शाकद्वीपेन। स च क्षीरार्णवेन । सोऽपि वर्षद्वयविभाजकवलयाकारमानसोत्तरपर्वतसहितेन पुष्करद्वीपेन। स शुद्धजलार्णवेन। एवं द्वीपानामुत्तरोत्तरद्वैगुण्यं द्रष्टव्यम्। प्लक्षद्वीपादयश्च (पञ्च) सप्तवर्षात्मकाः। स्पद्वीपात्मकोऽयं द्विगुणया काञ्चभूम्यावृतः। काञ्चनभूमिस्तु लोकालोकपर्वतेन। स पर्वतस्मसा, तमो गर्तोदकेन, ततोऽण्डकटाहः।
एवं भूमेरधोऽतलवितलनितलतलातलमहातलसुतलपातालभेदात् सप्तलोकाः। अधो नरकाः। ते च पापकर्मणां पापानुभवभूमयो रौरवाद्याः, मुख्यतया एवविंशतिप्रभेदाः। ततस्तमः, ततो गर्तोदकम्। ततोऽण्डकटाहः।
९८.भूमेरूर्ध्वभागस्य विस्तारस्य वर्णनम्
एवं भूमेरूपरि लक्षयोजनात्सूर्यमण्डलम्। तावदेव भुवर्लोकः। तदुपरि चन्द्रमण्डलम्। तस्मादुपर्युपरि नक्षत्रबुधशुक्राङ्गारकबृहस्पतिशनिसप्तर्षि मण्डलानि। तदुपरि ध्रुवः। सूर्यमण्डलमारभ्य ध्रुवलोकपर्यन्तं स्वर्लोकः। चतुर्दशलक्षोपरि कोटियोजनोच्छ्रायो महर्लोकः। तस्माद् द्विगुणो जनोलोकः। ततश्चतुर्गुणस्तपोलोकः। तस्माद् द्वादशकोट्युच्छ्रायस्सत्यलोकः। ततस्तमो गर्तोदकमण्डकटाहश्च।एवं तिर्यगूर्ध्वप्रमाणेन पञ्चाशत्कोटियोजनत्वं भूमेरूक्तं भवति। शतकोटियोजनविस्तर्णत्ववादो मानभेदेन। अण्डकटाहः कोटियोजनोच्छ्रायः।
चतुर्थावतारस्योपसंहारः
तदण्डं दशोत्तरावरणावृतम्। एतादृशान्यण्डान्यनन्तानि। जलबुद्बुदवद्युगपदीश्वरसृष्टानि।ईश्वरस्य चतुर्मुखपर्यन्ता सृष्टिरद्वारिका। तदनन्तरं सद्वारिकेति विवेकः। विस्तरस्तु पुराणरत्नादिषु द्रष्टव्यः। इति प्रकृतिर्निरूपिता।
इति श्रीवाधूलकुलतिलक -श्रीमन्महाचार्यप्रथमकृपापात्रेण श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां शारीरकपरिभाषायां प्रकृति निरूपणं नाम चतुर्थोऽवतारः।।
अथ पञ्चमोऽवतारः
कालनिरूपणम्
अथाचिद्विशेषः कालो निरूप्यते। कालो नाम गुणत्रयरहितो जडद्रव्य विशेषः। स च नित्यो विभुश्च। भूतभविष्यद्वर्तमानभेदेन त्रिविधः। युगपत्क्षिप्रचिरादिव्यपदेशहेतुः। निमेषकाष्ठा (तत्परा विनाडी) कला-घटिका मुहूर्त- दिवस -पक्ष -मास ऋत्वयन- संवत्सरादिव्यवहारहेतुश्च। मनुष्यमानेन मासः। पितृणां दिनम्। तेषाममावास्या मध्याह्नः। मनुष्यमानेन संवत्सरो देवानां दिनम्। तेषाममावास्या मध्याह्नः। रात्रिः ।एवं देवमानेन द्वादशवर्षसहस्रसङ्ख्याकं चतुर्युगमित्युच्यते। तत्र चतुस्सहस्रवर्षसङ्ख्याकं कृतयुगम्। तत्र पूर्णो धर्मः। त्रिसहस्रवर्षसङ्ख्याकं त्रिपाद्धर्मत्त्रेतायुगम्। द्विसहस्रवर्षपरिमितं (सार्धपादधर्मं) द्विपाद्धर्मवद् द्वापरम्। सहस्रवर्षसङ्ख्याकमेकपाद्धर्मयुतं कलियुगम्। एतेषां सन्धिर्द्विसहस्रसङ्ख्याकः। एवम्भूत चतुर्यगसहस्राणि बह्मणो दिवसप्रमाणम्। एवं रात्रिः।
१०२ ब्रह्मणोऽह्नो वर्णनम्
ब्रह्मणोऽह्नि चतुर्दश मनवःष तथेन्द्रास्सप्तर्षयश्च। एकैकमनोरेकस्पतति- चतुर्युगपरिमाणकालः। एवं ब्रह्ममानेन ब्रह्मणश्शतवर्षजीवित्वम्। एतत्सर्वं कालाधीनम्। एवं नित्यनैमित्तिकप्राकृतादिप्रलया अपि कालाधीनाः। कालस्य स्वकार्यं प्रति स्वस्योपादानत्वम। अखण्डकालो नित्यः। खण्डकालाः पुनरित्याः। एवम्भूतः काल ईश्वरस्य क्रीडापरिकरो भवति। लीलाविभूतावीश्वरः कालाधीन एव कार्यं करोति। नित्यविभूतौ तु कालस्य विद्यमानत्वेऽपि तस्य न स्वातन्त्र्यम्। केचित्काल एव नास्तीति वदन्ति। अन्ये तु तामसो महान् काल इति। उभयेषामागमबाधः प्रत्यक्षबाधश्च। षडिन्द्रियवेद्यः काल इत्याचार्याः। तेनानुमेयवादिनिरासः। इति कालो निरूपितः।
इति श्रीवाधूलकुलतिलक- श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां शारीरकपरिभाषायां कालनिरूपणं नाम पञ्चमोऽवतारः।।
अथ षष्ठोऽवतारः
नित्यविभूतेर्निरूपणम्

अथ नित्यविभूतिर्निरूप्यते।शुद्धसत्त्वधर्मभूतज्ञानजीवेश्वरसाधारणं लक्षणमजडत्वम्। अजडत्वं नाम स्वयम्प्रकाशत्वम्। तत्र शुद्धसत्त्वधर्मभूत ज्ञानसाधारणलक्षणं पराक्त्वे सति अजडत्वम्। तत्तु स्वयम्प्रकाशत्वे सति परस्मा एव भासमानत्वम्। शुद्धसत्त्वं नाम त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सत्त्ववत्वम्। निः शेषाविद्यानिवृत्तिदेशविजातीयान्यत्वं वा। सा विभूतिरूर्धर्वं प्रदेशेनानन्ता। अधः प्रदेशेन परिच्छिन्ना। अचेतना स्वयम्प्रकाशा च। आनन्दावहत्वादानन्दनात्मिका। पञ्चोपनिषन्मन्त्रप्रतिपाद्यतया पञ्चोपनिषदात्मिका। अप्राकृतपञ्चशक्तिमत्तया (मयतया) पञ्चशक्तिमयीति निगद्यते।

१०६. सा विभूतिरीश्वरस्य नित्यानां मुक्तानां चेश्वरसङ्गल्पाद् भोग्यभोगोपकरणभोगस्थानरूपा च भवति। भोग्यानीश्वरशरीरादीनि। भोगोपकरणानि चन्दनकुसुमवस्त्रभूषणायुधादीनि। भोगस्थानानि तु गोपुरप्राकारमण्डपविमानोद्यानपद्मिन्यादीनि। तत्रेश्वरस्य नित्यमुक्तानां च शरीराणि भगवन्नित्येच्छासिद्धानि। मुक्तानां शरीराणि तेषां पित्रादिसृष्टिर्युगपदनेक शरीरपरिग्रह इत्यादीनि भगवत्सङ्कल्पादेव भवन्ति। भगवतो व्यूहविभवार्चावतारशरीराण्यप्राकृतानि। अर्चावतारेषु । प्राकृताप्राकृतसंसर्गः कथमिति न शङ्कनीयम्। श्रीरामकृष्णाद्यवतारशरीरवदिति प्रमाणानुसारेण परिहारो द्रष्टव्यः।
नित्यविभूतेर्दिव्यत्वप्रतिपादनम्।
मुक्तानां (शरीरपरिग्रहादिस्तु) शरीरादिपरिग्रहस्तु वसन्तोत्सव वेषपरिग्रहादिवत् स्वामिनो मुखविकासहेतुत्वात्कैङ्कर्यमेव। ईश्वरशरीरस्य षाड्गुण्यप्रकाशकत्वात् षाड्गुण्यमिति व्यवहारः। नित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनमार्दवार्जवादयो दिव्य मङ्गलविग्रहगुणाः। तस्य व्यापकत्वं गीतासु प्रसिद्धम्। मुक्तस्य शरीरं नास्तीति वचनं तु कर्मकृतशरीराभावपरम्। तत्रेन्द्रियादीनां नित्यत्वादत एव कार्यकारणभावाभावात् प्राकृतवन्न तत्त्वान्तरव्यपदेशः। एतेन तत्र शरीरादिकं नास्तीति मतनिरासः। तमसः परस्तादित्युक्त्या प्रकृत्येकदेशवादनिरासः। अप्राकृतशब्दस्पर्शरूपरसगन्धाश्रयत्वादाकाशव्यावृत्तिः। ज्ञानात्मकत्वप्रतिपादनात् जडमिति मतनिरासः।
१११. भगवतो दिव्यमङ्गलविग्रहस्य सर्वाश्रयत्वप्रतिपादनम्
भगवतोऽप्राकृतदिव्यमङ्गलविग्रहस्यास्त्रभूषणाध्यायोक्तं स (र्वतत्त्वो) र्वापाश्रयत्वम्। तद्यथा- पुरूषस्य कौस्तुभाकारत्वम्। प्रकृतेः श्रीवत्सरूपत्वम्। महतो गदारूपत्वम्। सात्त्विकाहङ्कारस्य शङ्खरूपत्वम्। तामसाहङ्कारस्य शार्ङ्गरूपत्वम्। ज्ञानस्यासिरूपत्वम्। अज्ञानस्य तदावारकरूपत्वम्। मनसश्चक्रत्वम्। ज्ञानेन्द्रियकर्मेन्द्रियाणां शररूपत्वम्। सूक्ष्मस्थूल भूतानां वनमालाकारत्वम्। अत्र
चेतश्चक्रति चेतनासिरमतिस्तत्संवृतिर्मालिका
      भूतानि स्वगुणैरहङ्कृतियुगं शङ्खेन शार्ङ्गायते।
बाणाः खानि दशापि कौस्तुभमणिर्जीवः प्रधानं पुनः
श्रीवत्सं कमलापते ! तव गदामाहूर्महान्तं बुधाः।।
इति सङ्गृह्योक्तं पद्यमनुसन्धेयम्। सा विभूतिरामोदप्रमोदसम्मोदवैकुण्ठाख्यरूपेण चतुर्विधा। पुनरनन्ता त्रिपाद्विभूतिपरमपदपरमव्योम परमाकाशामृतनाकाप्राकृतलोकानन्दलोकवैकुण्ठायोध्यादि शब्दवाच्या च। तस्यां विभूतौ द्वादशावरणोपेतमनेकगोपुरप्राकारैरावृतं वैकुण्ठं नाम नगरम्। तत्रानन्दनामको दिव्यालयः। तदन्तो रत्नमयानेकस्तम्भसहस्त्रैर्विरचिता महामणिमण्डपाख्या सभा। तस्यां सहस्रफणामणितेजोविराजितोऽनन्तः। तस्मिन् धर्मादिमयदिव्यसिंहासनम्। तदुपरि चामरहस्ताभिर्बिमलादिभिः सेव्यमानमष्टदलात्मकं पद्म। तदुपरि प्रकृष्टविज्ञानधामा शेषः। तदुपरि वाचः परं महदद् भुतम्। एवं नित्यविभूतिस्सङ्ग्रहेण निरूपिता।
 इति श्रीवाधूलकुलतिलक - श्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां शारीरकपरिभाषायां नित्य विभूतिनिरूपणं नाम षष्ठोऽवतारः।।
अथ सप्तमोऽवतारः
धर्मभूतज्ञानस्य लक्षणादिकम्
अथ क्रमप्राप्तं धर्मभूतानां निरूप्यते। संवित् स्वयम्प्रकाशत्वे सत्यचेतनद्रव्यत्वे सति सविषयत्वम् (स्वयम्प्रकाशाचेतनद्रव्यत्वे सति विषयित्वम्) विभुत्वे सति प्रभावद् द्रव्यत्वे सति विषयित्वम्) विभुत्वे सति प्रभावद् द्रव्यगुणात्मकत्वम्, अर्थप्रकाशो बुद्धिरित्यादि तल्लक्षणम्।तद्धर्मभूतज्ञानम् ईश्वरस्य नित्यानां च सर्वदा नित्यमेव विभु च। बद्धानां तिरोहितम्। मुक्तानां पूर्वं तिरोहितमनन्तरमाविर्भूतम्।ननु ज्ञानस्य नित्यत्वे ज्ञानमुत्पन्नम्, ज्ञानं नष्टमिति व्यवहारः कथमिति चेत्: तदुच्यते। ज्ञानस्य सङ्कोचविकासावस्थामादाय तत्सम्भवात्। दृतेः पादाद्यथोदकं क्षरति। तथा ज्ञानमपीन्द्रियद्वारा निस्सृत्यार्थेन सन्निकृष्यते। अहिकुण्डलवत्सङ्कोचविकासौ।
११९. सर्वं ज्ञानं स्वतः प्रमाणं स्वप्रकाशञ्च
सर्वं ज्ञानं स्वत एव प्रमाणम्। स्वयम्प्रकाशं च। विप्रतिपन्ना संवित्स्वगतव्यवहारं प्रति स्वाधीनकिञ्चित्कारा। स्वसजातीयसम्बन्धानपेक्षव्यवहारहेतुत्वात्। अर्थेन्द्रियदीपादिवत्। न च चक्षुरालोकयोस्सजातीयत्वं, आहङ्कारिकतैजसयोर्भेदात् (द् भेदः)। अनेन ज्ञानस्य क्षणिकत्वम्, त्रिक्षणावस्थायित्वम्, प्रातिभासिकवद्वयावहारिकस्यापि मिथ्यात्वम्, परतः प्रामाण्यम् , ज्ञानस्यैवात्मत्वमित्यादिपक्षा निरस्ताः। स्तम्भः स्तम्भः स्तम्भ इत्यादिधाराबाहिकज्ञानं त्वेकमेव।
ज्ञानस्य नित्यत्वेऽजागरादिदशानामुपपादनम्
ननु , आगमबलात् ज्ञानस्य नित्यत्वाङ्गीकारे कथं जागरसुषुप्त्यादिभेद सिद्धिरिति चेन्न। यथा दाहकस्य वह्नेर्दाह्यसन्निधौ मण्यादिप्रतिबन्धकाद्दाहाभावः, तद्वत् ज्ञानतिरोधायकतमोविशेषसन्निधानाभ्यां स्वापादिसिद्धिः। पुंसत्त्वादिवच्च। पुंस्त्वादिकं तु बाल्ये तिरोहितं यौवने आविर्भवति। यो यदाश्रितस्वभाव, स तस्य गुण इति गुणलक्षणलक्षितत्वाद् ज्ञानं गुणः; विशेषणादिवत्,।
ज्ञानस्य द्रव्यत्वसमर्थनम्
यत्स्सङ्कोचविकासावस्थावत् अतो द्रव्यमपि भवति। आत्मगुणभूतस्य ज्ञानस्य द्रव्यत्वं कथमिति न शङ्कनीयम्। प्रभावदेकस्यैव द्रव्यत्वगुणत्वयोर्विरोधाभावात्। अवस्थाश्रयो द्रव्यमिति हि द्रव्यलक्षणम्। स्वाश्रयादन्यत्र वर्तमानत्वमपि प्रभावदुपपद्यते। प्रयोगश्च, गुणभूता बुद्धिर्द्रव्यम्.प्रसरणादिमत्त्वात्। प्रभावत्। ज्ञानं द्रव्यम्, संयोगादृष्टान्यत्वे सति भावना कारणत्वात्, आत्मवदिति। मुक्तज्ञानस्य युगपदनन्तदेशसंयोगो नयनसूर्योदितेजोवत् सम्भवति।
१२८. ज्ञानम्, मतिः प्रज्ञा संविद् धिषणा धीर्मनीषा शेमुषी मेधा बुद्धिरित्येवमादयश्शब्दा ज्ञानपर्यायाः। बुद्धिरेवोपाधि भेदात्सुखदुःखेच्छाद्वेषप्रयत्नरूपा। सुखादे (स्वजनकतया) र्जनकतयाऽभ्युपगतज्ञानातिरेके प्रमाणा भावात्। इच्छामि द्वेष्मीति व्यवहारस्य स्मरामीत्यादिवत् ज्ञानविशेषेणोपपत्तेः।
१२९. ननु कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीर्धीर्भोरित्ये तत्सर्वं मन एवेत्युक्तम्, ज्ञानरूपत्वं कथमिति चेन्न; ज्ञानस्य मनस्सहकारित्वनियमात् मन एवेत्युपचारादुक्तमिति न विरोधः। एवं प्रत्यक्षानुमाना गमस्मृतिसंशयनिर्णयविपर्ययभ्रमविवेकव्यवसाहमोहरागद्वेषमदमात्सर्यधैर्य चापल्यदम्भलोभकोधदर्पस्तम्भद्रोहिभिनिवेशनिर्वेदानन्दादयः सुमतिर्दुर्मतिः प्रतीस्तुष्टिः पुष्टिरून्नति श्रान्तिः कीर्तिर्विरक्तो रतिर्मैत्री दया मुमुक्षा लज्जातितिक्षा विचारणा विजिगिषा मुदिता क्षमा चिकीर्षा जुगुप्सा भावना कुहनाऽसूया जिघांसा तष्णा दुराशा वासना दुर्वासना चर्चा भक्तिः प्रपत्तिः रित्येवमादयश्च जीवात्मगुणा अनन्ता धर्मभूतज्ञानावस्थाविशेषा एव। एवं, ज्ञानशक्तिबलैश्वर्यवीर्यतेजस्सौशील्यवात्सल्यमार्दवार्जवसौहार्दसाम्य कारूण्यमाधुर्यगाम्भीयौदार्य चातुर्यस्थैर्यशैर्यपराक्रमादयो भगवतोऽनन्त कल्याणगुणा ज्ञानाशक्त्योर्विततिभूताः।
भगवतः कल्याणगुणानां स्वरूपनिरूपणम्
तत्र ज्ञानं नाम सर्वसाक्षात्काररूपम्। शक्तिः अघटितघटनासामर्थ्यम्। बलं धारणसामर्थ्यम्। ऐश्वर्यं नियमनसामर्थ्यम्। वीर्यमविकारित्वम्।तेजः पराभिभवनसामर्थ्यम्। महतो मन्दैस्सह नीरन्ध्रेण संश्लेषस्सौशील्यम्। वात्सल्यं दोषेऽपि गुणत्वबुद्धिः। दोषादर्शित्वं वा। आश्रितविरहासहत्वं मार्दवम्। मनोवाक्कायैकरूपत्वमार्जवम्। स्वसत्तानपेक्षतद्रक्षापरत्वं सौहार्दम्। अभिजनवृत्तगुणाद्यनपेक्षया सर्वाश्रयणीयत्वं साम्यम्। स्वार्थनिरपेक्ष (स्वप्रयोजनमनपेक्ष्य) परदुःखनिराचिकीर्षा कारूण्यम्। परदुःखासहिष्णुत्वं (परदुःखदुःखित्वं) वा । क्षीरवदुपायभावेऽपि स्वादुत्वं माधुर्यम्। भक्तानुग्रहवदान्यत्वादेरामूलतो दुरवगाहत्वं गाम्भीर्यम्। अपरिमितं ( प्रभूतं) दत्वाप्यतृप्तत्वमौदार्यम्। आश्रितदोषगोपनं चातुर्यम्। अकम्पनीयत्वं स्थैर्यम्। अभग्नप्रतिज्ञत्वं धैर्यम्। परबलप्रवेशसामर्थ्यं शौर्यम्। तन्निराकरणं पराक्रमः। इत्याद्यूह्यम्।
१३६. ज्ञानविशेषभूतयोर्भक्तिप्रपत्त्योः स्वरूपं किञ्चिदुच्यते। भक्तिप्रपत्तिभ्यां प्रसन्न (भक्तिप्रपती व्याजीकृत्य) ईश्वर एव मोक्षं ददाति। अतस्तयोर्मोक्षोपायत्वम्। (भक्त्यपृथक्सिद्धानां) मोक्षोपायत्वेनोक्तानां कर्मयोग ज्ञानयोगप्रभृतीनां भक्तिद्वारैव साधनत्वम् (तत्तत्पुरूषविवक्षयोपायत्वम्)
कर्मयोगस्वरूपनिरूपणम्
 १३७ कर्मयोगो नाम, उपदेशाज्जीवपरयाथार्थ्यज्ञानवता शक्त्यनुसारेण फलसङ्गरहितानिषिद्धकाम्यनित्यनैमित्तिकरूपपरिगृहीतकर्मविशेषः। स तु देवार्चनातपस्तीर्थयात्रादानयज्ञादिभेद भिन्नः। अयं तु जीवगतकल्मषापनयनद्वारा ज्ञानयोगमुत्पाद्य तद्द्वारा (वा साक्षाद्वा) भवत्युत्पादको भवति
१३८ ज्ञानयोगस्य स्वरूपनिरूपणम्
ज्ञानयोगो नाम्, कर्मयोगान्निर्मलान्तः करणस्येश्वरशेषत्वेन प्रकृतिवियुक्तस्वात्मचिन्ताविशेषः। तस्य साक्षाद्भक्त्युपयोगः। एवं साधनान्तराणामपि (स्वातन्त्र्यम्) भक्त्युपयोगित्वं (च) यथाप्रमाणमूह्यम्।
भक्तियोगस्य स्वरूपनिरूपणम्
भक्तियोगो नाम, यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिरूपाष्टाङ्गयुक्तस्तैलधारावदविच्छिस्मृति सन्तानरूपः। स च विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षरूपसाधनसप्तकजन्यः। तत्र विवेको नाम, जात्याश्रयमिमित्तादुष्टादन्नात्कायशुद्ध। विमोक्तः कामानभिष्वङ्गः। अभ्यासः पुनः पुनरालम्बनसंशीलनम्। शक्तितः पञ्चमहायज्ञाद्यनुष्ठानं क्रिया। सत्यार्जवदयापदानाहंसादीनि कल्याणानि। अनवसादौ दैन्याभावः।
अनुद्धर्षस्तुष्ट्यभावः। अतिसन्तोषश्च विरोधीत्यर्थः।एवं साधनसप्तकानुगृहीता भक्तिर्दर्शनसमानाकारा अन्तिमप्रत्ययावधिका च भवति स चान्तिमप्रत्ययः एतच्छरीरावसाने शरीरान्तरावसाने वा भवति। वेदनध्यानोपासनादिशब्दवाच्या च भक्तिः परभक्तिपरज्ञानपरमभक्तिरूपक्रमवती प्रपत्यङ्गिका च। सा द्विविधा- साधनभक्तिफलभक्तिभेदात्। उक्तसाधन जन्या साधनभक्तिः। फलभक्तिस्तु, ईश्वरकृपाजन्या श्रीपराङ्कुशनाथादि निष्ठा। मद्भक्तजनवात्सल्यमित्यादिषु स्तुतिनमस्कारादिषु च भक्तिशब्द प्रयोग औपचारिकः।
१४५ वेदान्तेषु ध्यानस्यैव विधानमिति प्रतिपादनम्
ननु वेदान्तेषु श्रवणमननयोरपि विधानात्कथं ध्यानमेव विधीयत इति चेत्; उच्यते। अधीतसाङ्गवेदः पुरूषः प्रयोजनवदर्थावबोधोत्वदर्शनात् तन्निर्णयाय स्वयमेव श्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वादनुवादः।श्रवण - प्रतिष्ठार्थत्वान्मननस्याप्यनुवादः। तस्माद् ध्यानमेव विधीयते इति न विरोधः।
विद्याभेदाद्भक्तिभेदः
ध्यानशब्दवाचद्या भक्तिर्विद्याभेदाद् बहुविधा भवति। ताश्च विद्याद्विविधाः- ऐहिकफला मुक्तिफलाश्चेति। तत्रैहिकफला उद्गीथविद्यादयः।मुक्तिफलास्तु, अन्तरिक्षविद्यान्तरादित्यविद्या दहरविद्या भूमविद्या सद्विद्यामधुविद्योपकोसलविद्याशाण्डिल्यविद्या पुरूषविद्या प्रतर्दनविद्या वैश्वानरविद्या पञ्चाग्निविद्या, इत्यादिका ब्रह्मविधाः।
न्यासविद्याया वर्णनम्
न्यासविद्या प्रपत्तिः।सा च अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम्। तदेकोपायतायाच्ञा प्रपत्तिश्शरणगतिरित्युक्ता आनुकूल्यस्य सङ्कल्पः प्राति कूल्यस्य वर्जनम्। रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा। आत्मनिक्षेपः आत्मनिक्षेप कार्पण्यमित्यङ्गपञ्चकयुक्ता एतद्देहावसाने मोक्षप्रदा। अन्तिमप्रत्ययनिरपेक्षा सकृत्कर्तव्या न्यासश्शरणागतिर्तयादिशशब्दवाच्या ज्ञानविशेषरूपा। एषा गुरूमुखाद्रहस्याधिशास्त्रेषु सत्सम्प्रदायपूर्वकं ज्ञातव्येतीहि बालबोधनार्थप्रवृत्ते ग्रन्थे न प्रकाश्येति विरम्यते।
मोक्षोपायविषयकमतान्तरनिरासाः
१५७ भक्तिप्रपत्त्योरेव मोक्षसाधनत्वेन स्वीकारात् परोक्तोपायनिरासः। यथा वेदबाह्यानां मध्ये केषाञ्चिन्मते देहातिरिक्तात्मनोऽनङ्गीकारात् मोक्षप्रवृति रेव न सम्भवति। अन्येषां मते ज्ञानस्य क्षणिकत्वात्तस्यैवात्मत्वात्कस्य प्रवृत्तिः। सन्तानस्येति चेन्न, अन्यं प्रत्यन्येन हि यत्नो न कार्यः, इति न प्रवृत्तिः। अपरेषां मते (धर्माधर्मा) सत्त्वासत्त्वादि सप्तभङ्गीरीत्याने कान्तवादान्न प्रवृत्तिः। वैशेषिकादिपक्षे पाषाणकल्पमोक्षे प्रवृत्तिः कस्यापि न सम्भवति। साङ्ख्यादिपक्षेष्वीश्वरानङ्गीकारात् पुरूषस्य वा प्रकृतेर्वा मोक्ष इति संशयान्न प्रवृत्तिः। मायिमते व्यावहारिकवाक्यस्य पारमार्थिकाभेद ज्ञानाजनकत्वान्न प्रवृत्तिः। भास्करयादवोक्तकर्मज्ञान समुच्चयवादोऽप्युक्तन्यायेन निरस्तः। शैवमते तु पशुपतेः प्राप्यत्वस्वीकाराद्वेदविरूद्ध भस्मधारणादेः साधनत्वेन स्वीकाराच्च तन्निरासः। एवं मतिर्निरूपिता।

इति श्रीवाधूलकुलतिलक- श्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतीपिकायां शारीरकपरिभाषायां बुद्धि (धर्मभूतज्ञान) निरूपणं नाम सप्तमोऽवतारः।
अथाष्टमोऽवतारः
अथ जीवो निरूप्यते।प्रत्यक्त्वचेतनत्वात्मत्वकर्तृत्वादीनि ईश्वरजीव साधारणलक्षणानि। प्रत्यक्त्वं नाम स्वस्मै स्वयमेव भासमानत्वम्। चेतनत्वं नाम ज्ञानाश्रयत्वम्। आत्मत्वं शरीरप्रतिसम्बन्धित्वम्। कर्तृत्वं सङ्कल्पज्ञानाश्रयत्वम्। एवं सामान्यलक्षणलक्षितस्य जीवस्य विशेषलक्षणान्युच्यन्ते।अणुत्वे सति चेतनत्वम्, स्वतः शेषत्वे सति चेतनत्वम्। एवमाधेयत्व- विधेयत्व पराधीनकर्तृत्व परतन्त्रत्वादिकमूह्यम्।
जीवस्य देहेन्द्रियादिभ्यो भिन्नत्वसाधनम्
स च देहेन्द्रियमनः प्राणधीभ्यो विलक्षणः। यथा मम शरीरमिति प्रतीत्या देहाद्वयावृत्तः। एवं चक्षुषा पश्यामि, श्रोत्रेन्द्रियेण श्रृणोमि, वाचावदामीत्यादिप्रत्ययात् बाह्येन्द्रियेभ्यो व्यावृत्तः। मनसा जानामीति मनसो ज्ञानकरणत्वप्रतीतेः, मम प्राणा इति व्यतिरेकोक्त्या जानाम्यहमिति प्रतीत्या च मनः प्राणज्ञानेभ्यो व्यावृत्तः।
आत्मनः अणुपरिमाणकत्वसमर्थनम्
स चाणुपरिमाणः। अत्क्रान्त्यादिश्रवणात्प्रमाणानुसाराच्च। अणुत्वे युगपदनेकविषानुभवः कथमिति न शङ्कनीयम्। धर्मभूतज्ञानव्याप्त्योपपत्तेः। एतेनैव सौभरिप्रभृतीनां मुक्तानां च युगपदनेकशरीरपरिग्रहोऽपि सम्भवति।
१७४ स च नित्यः। पूर्वानुभूतार्थप्रतिसन्धानात्। नित्यश्चेज्जीव उत्पन्नो जीवो नष्ट इति प्रतीतिः कथमिति चेन्न , जीवस्य देहसम्बन्ध उत्पत्तिः। तद्वियोगोनाश इति प्रतिपादनात्। जीवस्वरूपं नित्यमेव।
१७५ स च प्रतिशरीरं भिन्नः। एकपरिमाणेषु सर्वेषु घटेष्वेको घट इति प्रतीतिवद् व्रीहिराशौ चैको व्रीहिरिति प्रतीतिवच्च ज्ञानैकाकारतया एकत्व व्यवहारः, न तु स्वरूपैक्यम्। प्रमाणविरोधात् । स्वतस्सुखी उपाधिवशात्संसारः। अयं च कर्ता भोक्ता शरीरं च भवति। प्रकृत्यपेक्षया शरीरी।ईश्वरापेक्षया शरीरं च। अस्य प्रत्यक्षश्रुतिभ्यां स्वयम्प्रकाशत्वं च सिद्धम्। प्रयोगश्च, आत्मा स्वयम्प्रकाशः ज्ञानत्वात्। धर्मभूतज्ञानवदिति। ज्ञानत्वाणुत्वामलत्वादय एतस्य स्वरूपनिरूपकधर्माः।
आत्मविषये मतान्तरनिरासः
१७९ एतेन ज्ञानस्य (क्षणिकत्वात्) क्षणिकसन्तानरूप आत्मेति बौद्धपक्षः, भूतचतुष्टयात्मकत्वाद्देहस्य देहावधिक आत्मेति चार्वाकपक्षः, गजदेहे गजपरिमाणः पिपीलिकादेहे पिपीलिकापरिमाणः, अतो देहपरिमाण आत्मेति जैनपक्षः, कर्तृत्व भोक्तृत्वादिकं प्रकृतेरेव, न तु पुरूषस्येति साङ्ख्यपक्षः, ब्रह्मांशो जीव इति यादवपक्षः, सोपाधिकब्रह्मखण्डो जीव इति भास्करपक्षः, अविद्यापरिकल्पितैकजीववादपक्षः, अन्तः करणावच्छिन्नानेकजीववादपक्षः, इत्येवमादयो विरूद्धपक्षा निरस्ताः। विभुत्ववादपक्षोऽपि।
१८५ ननु जीवस्य विभुत्वानङ्गीकारेऽदृष्टजनितदेशान्तरफलोपलब्धिः कथमिति चेन्न, जीवस्य सम्बन्धाभावेऽपि अदृष्टवशा (दुपपत्तेः) दुपपद्यते। अदृष्टं नाम, भगवत्प्रीतिजनकजीवकर्तृककर्म विशेषजन्यो ज्ञानविशेषः। स विशेषो भगवत्सङ्कल्प एव विभुस्वरूपं भगवन्तमाश्रितः। अतः फलोपलब्धिरिति न विरोधः।
१८६ जीव विभागः
स जीवस्त्रिविधः- बद्धमुक्तनित्यभेदात्।
तत्र बद्धा नाम, अनुवृत्तसंसाराश्चतुर्दशभुवनाण्डकटाहर्तिनो ब्रह्मादि कीटपर्यन्ताश्चेतनविशेषाः। श्रीमतो नारायणस्य नाभिकमलादुत्पन्नो ब्रह्मा। ब्रह्मणो रूद्रः, पुनर्ब्रह्मणो सनकादियोगिनो नारदादिदेवर्षयो वसिष्ठादि ब्रह्मर्षयः पुलस्त्यमरीचिदक्षकश्यपादिनवप्रजापतयश्च बभूवुः। तेभ्यो देवा दिक्पालकाश्चतुर्धशेन्द्राश्चतुर्दशमनवोऽसुराः पितरस्सिद्धगन्धर्वकिन्नर किम्पुरूषविद्याधरादयो वसवो रूद्रा आदित्या आश्विनौ दानवयक्षराक्षस पिशाचगुह्यकादयश्च। एवं देवयोनयो बहुविधाः। मनुष्या अपि ब्राह्मण क्षत्रियवैश्यशूद्रादिजाति भेदाद् बहुविधाः। तिर्यञ्चोऽपि पशुमृगपक्षिसरीसृप पतङ्गकीटादिभेदाद् बहुविधाः। स्थावरा अपि वृक्षगुल्मलतावीरूत्तृणादि भेदाद् बहुविधाः। वृक्षादीनां जलाहरणाद्युयुक्तकिञ्चिज्ज्ञानसम्बन्धोऽस्त्येव। अप्राणवत्सु स्वल्पा सेत्युक्तत्वात्। अतो देवमनुष्यतिर्यवस्थावरभेदभिन्ना बद्धाः। एते पुनर्जरायुजाण्डजोद्भिज्जस्वेदजाश्च भवन्ति। देवमनुष्या जरा युजाः। तेषु ब्रह्मरूद्रादयस्सनकादयश्च सीताद्रौपदीधृष्टद्युम्नप्रभृतयो भूत वेतालादयश्चायोनिजाः। तिर्यगादयश्च जरायुजा अण्डजास्स्वेदजाश्च भवन्ति। स्थावरादय उद्भिज्जाः। एवम्भूता बद्धा बीजाङ्कुरन्यायेन विषमप्रवाहतयाऽनादिकाल प्रवृत्ताविद्याकर्मवासनारूचिप्रकृतिसम्बन्धैश्चक्रवत्परिवर्तमानैर्गर्भ जन्मबाल्ययौवनजागरस्वप्नसुषुप्तिमूर्च्छाजरामरणस्वर्गनरकगमनादिविविध विचित्रावल्खावन्तोऽनाद्यनन्तप्रकारातिदुस्सहतापत्रयाभितप्ताः। स्वतः प्राप्त भगवदनुभविच्छेदवन्तश्च।
१९१ शास्त्रवश्यजीवानां विभागः
ते द्विविधाः-शास्त्रवश्यास्तदवश्याश्च। तयोर्मध्ये करणायत्तज्ञानानां बद्धानां शास्त्रवश्यतास्ति। तिर्यक्वस्थावरादीनां तन्नास्ति। शास्त्रवश्या द्विविधाः- बुभुक्षवो मुमुक्षवश्चेति। तत्र, बुभुक्षवस्त्रैवर्गिकपुरूषार्थनिष्ठाः। ते च द्विविधाः - अर्थ कामपरा धर्मपराश्चेति। केवलार्थकामपरा देहात्माभिमानिनः। धर्मपराश्च अलौकिकश्रेयस्साधनं धर्मः, चोदनालक्षणोऽर्थो धर्म इति धर्मलक्षणलक्षितयज्ञदानतपस्तीर्थयात्रादिनिष्ठाः। ते च देहातिरिक्तात्माभिमानिनः परलोकोऽस्तीति ज्ञानवन्तः। धर्मपरा द्विविधाः -देवतान्तरपरा भगवत्पराश्चेति। देवतान्तरपरा ब्रह्मरूद्राग्नीन्द्राद्याराधनपराः।भगवत्परास्तु आर्तो जिज्ञासुरर्थार्थीत्युक्ताधिकारिणः। आर्तो भ्रष्टैश्वर्यकामः। अर्थार्थी अपूर्वैश्वर्यकामः। मुमुक्षवो द्विविधाः- कैवल्यपरा मोक्षपराश्चेति। कैवल्यं नाम ज्ञानयोगात्प्रकृतिवियुक्तस्वात्मानुभवरूपम्। सोऽनुभवोऽर्चिरादिमार्गे परमपद गतवत एव क्वचित्कोणे पति (वियु) त्यक्तपत्नीन्यायेन भगवदनुभवव्यतिरिक्तस्वात्मानुभव इत्याङुः। केचित् अर्चिरादि मार्गेण गतस्यापुनरावृत्तिश्रवणात् प्रकृतिमण्डल एव क्वचिद्देशे स्वात्मानुभव इत्याहुः।
१९६. मोक्षपराणां मुमुक्षूणां भेदाः
 मोक्षपराश्च द्विविधाः- भक्ताः प्रपन्नाश्चेत।भक्ताः पुनरधीतसाङ्गसशिरस्कवेदाः पूर्वोतरमीमासापरिचयाच्चिदचिद्वि लक्षणानवघिकातिशया नन्दरूपं निखिलहेयप्रत्यनीकं समस्तकल्याणगुणात्मकं ब्रह्मावधार्य तत्प्राप्त्युपायभूतां साङ्गां भक्ति स्वीकृत्य तया मोक्षं प्राप्तुकामाः। भक्तावधिकारः त्रैवर्णिकानामेव। देवादीनामप्यस्ति। अर्थित्वसामर्थ्ययोस्सम्भवात्। न शूद्राणामधिकारः। अपशूद्राधिकरणविरोधात् । भक्तिस्वरूं तु बुद्धिपरिच्छेदे प्रतिपादितम्। भक्ता द्विविधाः- साधनभक्तिनिष्ठा व्यासादयः। साध्यभक्तिनिष्ठास्साध्यभक्तिनिष्ठाश्चेति। साधनभक्तिनिष्ठा व्यासादयः । साध्यभक्तिनिष्ठा नाथादयः।
१९९.
आकिञ्चन्यानन्यगतित्वधर्मविशिष्टो भगवन्तमाश्रितः प्रपन्नः। सद्विविधः-त्रैवर्गिकपरो मोक्षपरश्चेति। त्रैवर्गिकपरो नाम, भगवत एव धर्मार्थिकामाभिलाषी। मोक्षपरस्तु सत्सङ्गत्या नित्यानित्यपरवस्तुविवेके सति संसारे निर्वेदाद्वैराग्ये उत्रन्ने मोक्षेच्छायां जातायां तत्सिद्धयर्थम् आचार्यो वेदसम्पन्न इत्याद्याचार्यलक्षणलक्षितं गुरूं संश्रित्य तद्द्वारा पुरूषकारभूतां श्रियं प्रपद्य भक्त्याद्युपायान्तरेषु अशक्तोऽत एवाकिञ्चोऽनन्यगतिः श्रीमन्नारायणचरणावेवोपायत्वेन स्वीकरोति। (यः) स प्रपन्नः। प्रपत्तिस्सर्वाधिकारा। प्रपन्नो द्विविधः- एकान्ती परमैकान्ती चेति। यो मोक्षफलेन साकं फलान्तराण्यपि भगवत एवेच्छति स एकान्ती।देवतान्तर शून्य इत्यर्थः। भक्तिज्ञानाभ्यामन्यत्फलं भगवतोऽपि नेच्छति यः स परमैकान्ती। स द्विविधः- दृप्तार्तभेदात्। अवश्यमनुभोक्तव्यमिति प्रारब्धकर्मानुभवन्नेतद्देहावसानसमयमी (ये मोक्षमपे) क्षमाणो दृप्तः दृप्तः। जाज्वल्यमानाग्निमध्यस्थतेरिव संसारस्थितेरतिदुस्सहत्वात्प्रपत्त्युत्तरक्षण एव मोक्ष काम आर्तः।
२०४ मुक्तो नाम, उपायपरिग्रहानन्तरं नित्यनैमित्तकभगवदाज्ञानुज्ञाकैङ्कर्यरूपाणि कर्माणि स्वयम्प्रयोजनतया कुर्वन, भगवद्भागवताचार्यापरांश्च वर्जयन्, देदावसानकाले सुकृतदुष्टकृते मित्रामित्रयोर्निक्षिपन् वाङ्मनसीत्यादि प्रकारेण हार्दे परमात्मनि विश्रम्य मुक्तिद्वारभूतसुषुम्नानाडीं प्रविश्य तया ब्रह्मारन्ध्रान्निष्क्रम्य हार्देन साकं सूर्यकिरणद्वाराऽग्निलोकं गत्वा दिनपूर्वपक्षोत्तरायणसंवत्सराद्यभिमानिदेवताभिर्वायुना च पथि सत्कृतः, सूर्यमण्डलं भित्त्वा (नभोरन्ध्र) रथचक्ररन्ध्रद्वारा सूर्यलोकं गत्वाऽनन्तरं चन्द्रविद्युद्वरूणेन्द्रप्रजापतिभिर्मार्गिप्रदर्शिभिरातिवाहिकैर्गणैस्सह सोपचारं तत्तल्लोकानतीत्य प्रकृतिवैकुण्ठसीमापरिच्छेदिकां विरजां तीर्त्वा सूक्ष्मशरीरं विहाय अमानवकरस्पर्शादप्राकृतदिव्य (मङ्गल-) विग्रहयुक्तश्चतुर्भुजो ब्रह्मालङ्कारेणालङ्कृतः, इन्द्रप्रजापतिसंज्ञकनगरद्वारपालाभ्यनुज्ञया श्रीवैकुण्ठाख्यं दिव्य नगरं प्रविश्य पताकालङ्कृतदीर्घप्राकारसहितगोपुरमतीत्य ऐरम्यदाख्यामृत सरस्सोमसवनाख्याश्वत्थं च दृष्ट्वा; शतं मालाहस्ता इत्याद्युक्तपञ्चशत दिव्याप्सरोगणैरूपचरितो ब्रह्मगन्धादिभिरलङ्कृतस्तत्रत्यानन्दगरूड विष्वक्से नादीन् प्रणम्य तैर्बहुमतो महामणिमण्डपमासाद्य पर्यङ्कसमीपे स्वाचार्यान् प्रणम्य पर्यङ्कसमीपं गत्वा तत्र धर्माधिपीठोपरि कमले अनन्ते विमलादि भिश्चामरहस्ताभिस्सेव्यमानं श्रीभूमिनीलासमेतं शङ्खचक्रादिदिव्यायुधोपेतं जाज्वल्यमानकिरीटमुकुटचूडावतंसमकरकुण्डलग्रैवेयकहारकेयूरकटक श्रीवत्सकौस्तुभमुक्तादामोदरबन्धन पीताम्बरकाञ्चीगुणनुपुराद्यपरिमितदिव्यभूषणैर्भूषितमपरिमितोदारकल्याणगुणसागरं भगवन्तं दृष्ट्वा तत्पादारविन्दयुगलं शिरसा प्रणम्य पादेन पर्यङ्कमारूह्य तेन स्वाङ्के स्थापितः कोऽस्तीति पृष्टो ब्रह्मप्रकारो (ब्रह्मपरिकरो) (ब्रह्मप्रकाशो) ऽस्मीति उक्त्वा तेन कटाक्षितः तदनुभवजनितप्रहर्षप्रकर्षात्सर्वदेशसर्वकालसर्वावस्थोचितसर्वकैङ्क्यैकरतिराविर्भूतगुणाष्टकः उत्तरावधिरहितब्रह्मानुभववान् यः स मुक्त इत्युच्यते। मुक्तस्य ब्रह्मसाम्यापत्तिश्रुतिस्तु भोगसाम्यमाह, जगद्व्यापारवर्जनस्य प्रतिपादनात्। तस्य नानात्वं सर्वलोकसञ्चरणं च सम्भवति।
२१५ ननु मुक्तस्यानावृत्तिप्रतिपादनात् अस्मिन् लोके सञ्चारः कथमिति न शङ्कनीयम्। कर्मकृतस्यैव निषेधात्। स्वेच्छया सञ्चरणस्योपपत्तेः। अतो मुक्तो भगवत्सङ्कल्पायत्तः स्वेच्छया च सर्वत्र सञ्चरति।
नित्या नाम कदाचिदपि भगवदभिमतविरूद्धाचरणाभावेन ज्ञानसङ्कोच प्रसङ्गरहिता अनन्तगरूडविष्वक्सेनादयः। एतेषामवतारास्तु भगवदवतारवत् स्वेच्छयैव। एवं बद्धमुक्तनित्यभेदभिन्नो जीवो निरूपितः।
             इति श्रीवाधूलकुलतिलक- श्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां
                    यतीन्द्रमतदीपिकायां शारीरकपरिभाषायां जीवनिरूपणं नामाष्टमोऽवतारः।
अथ नवमोऽतारः
अथेश्वरी निरूप्यते। सर्वेश्वरत्वं, सर्वशेषित्वम्, सर्वकर्मसमाराध्यत्वम्, सर्वकर्मफलप्रदत्वम्, सर्वाधारत्वम्, सर्वकार्योत्पादकत्वम्, (सर्वशब्दवाच्यत्वम्,), स्वज्ञानस्वेतरसमस्तद्रव्य शरीरित्वमित्यादीनीश्वरलक्षणानि।
ईश्वरस्य जगत्कारणत्वसमर्थनम्
अयमीश्वरस्सूक्ष्मचिदचिद्विशिष्टवेषेण जगदुपादनकारणं भवति, सङ्कल्पविशिष्टवेषेण निमित्तकारणं, कालाद्यन्तर्यामिवेषेण सहकारिकारणं च। कार्यरूपेण विकारयोग्यं वस्तूपादानकारणम्। कार्यतया परिणामयितृ निमित्तकारणम्। कार्योत्पत्त्युपकरणं वस्तु सहकारि। यद्वा उत्तरोत्तरावस्थाविशिष्टस्वरूपापेक्षया तदनुगुणनियतपूर्वभाव्यवस्थाविशिष्टं यत्तदुपादानम्। यथा- घटत्वावस्थाविशिष्टमृद् द्रव्यापेक्षया पिण्डत्वावस्थाविशिष्टं तदेव द्रव्यम्। परिणामौन्मुख्यातिरिक्ताकारेणापेक्षितं कारणं निमित्तकारणम्। अस्मिन्पक्षे सहकारिकारणस्य निमित्तेऽन्तर्भावः। एवं त्रिविधकारण पक्षे कारणद्वयपक्षे च कारणलक्षणलक्षितत्वादखिलजगत्कारणत्वं भगवतो नारायणस्यैव सम्भवति।
२२२ नारायणे जगत्कारणत्वस्य पर्यवसानप्रतिपादनम्
ननु, कथं नारायणे कारणत्वप्रयवसानमिति चेत्, उच्यते; न्यायसहकृत वेदान्तवाक्यविचारेणैवं पर्यवस्यति। तद्यथा- आदौ तावत्, प्रकृतेर्जगत्कारणत्वं नोपपद्यते। ई (ईक्षितृत्वा) क्षत्याद्यभावात्। छान्दोग्ये तावत् सगाताशप्राण शब्दवाच्यानां जगत्कारणत्वं प्रतीयते। वाजसनेयके ब्रह्मशब्द वाच्यस्य जगत्कारणत्वं प्रतीयते। सर्वशाखाप्रत्ययन्यायेन कारणतवाक्याना मेकविषयत्वे प्रतिपादयितव्ये छागपशुन्यायेन सामान्यवाचकानां सदादि शब्दानां विशेषे ब्रह्मणि पर्यवसानं वक्तव्यम्। एवमुक्तन्यायेन ब्रह्मशब्दस्य तैत्तिरीयोक्तात्मशब्दवाच्ये पर्यवसाने, आत्मशब्दवाच्यः कः? इत्याकाङ्क्षायां श्रुतिप्रसिद्ध इन्द्रो वा, तथा प्रसिद्धोऽग्निर्वा, उपास्यत्वेन प्रसिद्धस्सूर्यो वा, कारणत्वेनोक्तस्सोमो वा; अभीष्टप्रदत्वेनोक्तः कुबेरो वा, यमो वा, वरूणो वेति संशये एतेषां कर्मवश्यत्व- परिच्छिन्नैश्वर्यवत्त्व- संहार्यत्वश्रवणान्नैते जगत्कारणभूताः। किन्तु श्वेताश्वतरे शिवस्य कारणत्वं भासते। एवमथर्वशिखायां शम्भुशब्दवाच्यस्य ध्येयत्वं च भासते। तथैवाथर्वशिरसि रूद्रशब्दवाच्यस्य सर्वात्मकत्वमुच्यते। तैत्तिरीये हिरण्यगर्भस्य जगत्कारणत्वं प्रतीयते। अत्रापि सामान्यविशेषन्यायात् शिवशम्भुरूद्रशब्दानां हिरण्यगर्भ शब्दवाच्ये विशेषे पर्यवसानं युज्यते।
 शिवशब्दस्य ‘शिवमस्तु सर्वजगताम् शिवं कर्मास्तु, शिवास्ते सन्तु पन्थानं, इत्यादिभिर्मङ्गलवाचित्वम्, रूद्रशब्दस्याग्निवाचकत्वम्। एवं महेश्वरशम्भ्वादिसामान्यशब्दा अप्यवयवशक्त्या चतुर्मुखे पर्यवस्यन्ति। कारणवाचिशिवादिशब्दानां मुख्यवृत्त्या रूद्रपरत्वं किं न स्यादिति न शङ्कनीयम,। रूद्रस्य चतुर्मुखादुत्पत्तिश्रवणात् अनपहतपाप्मत्व किं श्रवणाच्च न रूद्रस्य कारणत्वम्। अतो हिरण्यगर्भप्रजापतिस्वयम्भ्वादिशब्द वाच्ये चतुर्मुखे शिवादिशब्दाः पर्यवस्यन्ति। एवं महोपनिषन्नारायणोपनिषत्सुबालोपनिषन्मैत्रायणीयपूरुषसूक्तानारायणानुवाकान्तर्यामिब्राह्मणादिषु नारायणस्यैव परमकारणत्व- सर्वशब्दवाच्यत्व -मोक्षप्रदत्वं जगच्छरीरकृत्वादिप्रतिपादनात्, स्वयम्भुहिरण्यगर्भप्रजापतिब्दानां नारायणे र्यवसानं युक्तमिति नारायण एवाखिलजगत्कारणं सर्वविविद्यावेद्यश्च।
२२८ ननु, (न तु) अन्तरादित्यविद्या रूद्रपरेति शङ्का (नु) न कर्तव्या।तस्या विष्णुपरत्वस्यैव बहुप्रमाणसिद्धत्वात्। (‘हरस्स्मरहरोभर्ग’ इत्यकारान्त एव रूद्रपरः) भर्गशब्दस्य सकारान्तत्वप्रतिपादनाच्च। तर्हि दहरविद्यायामाखाशब्दवाच्यनारायणान्तर्यामितया रूद्रस्य प्रतिपादनात् दहर विद्या रूद्रपरेति न शङ्कनीयम्। नारायणान्तर्वर्तिगुणजातस्यैवोपास्यत्वेन तत्राभिधानात्। एवं सर्वविद्यास्वप्यूह्यम्। अतस्समस्तकल्याणगुणात्मकः प्रकृतिपुरूषाभ्यां भिन्नस्तद्विशिष्टः परम्ब्रह्म नारायण एव जगत्कारणम्।
२३० ननु, अद्वैतश्रुत्या ब्रह्मैकमेव सत्यं निर्गुणं च। तदन्यत् ज्ञातृज्ञेयादिकं तस्मिन्नेव परिकल्पितं सर्वं मिथ्या। ब्रह्म अविद्यया संसरति। तत्त्वमसीत्याद्यभेदज्ञानं तन्निवर्तकम्। तस्मात् निर्विशेषचिन्मात्रे ब्रह्मणि वेदान्तानां तात्पर्यमिति मतान्तरस्थैः प्रतिपादनात् कथं नारायणे तात्पर्यं, तस्य समस्त कल्याणगुणात्मकत्वादिकथनं चेति चेत्, उच्यते; कारणत्वप्रतिपादक श्रुतिभिर्नारायणस्य कारणत्वे सिद्धे भेदाभेदश्रुत्योर्घटकश्रुत्या विषयभेदेन विरोधे परिहृते, निर्गुणप्रतिपादकश्रुतीनां हेयगुणनिषेधकत्वात्, ज्ञातृज्ञेयादि कल्पकाविद्याया एवाप्रामाणिकत्वाद् ब्रह्मकार्यस्य सत्यत्वात्, अविद्यया संसारे जीवगतदोषाणां ब्रह्मण्यपि सम्भवात्, तन्निवर्तकान्तरस्य वक्तुमशक्यत्वात्,। अतोऽद्वैतवादस्यासम्भवान्न निर्विशेषचिन्मात्रब्रह्मसिद्धिः। अतो नारायणस्यैव जगत्कारणथ्वमोक्षप्रदत्वादिगुणयोगस्सम्भवतीति सविशेषमेव ब्रह्म। सूक्ष्मचिदचिद्विशिष्टं ब्रह्म कारणम्, स्थूलचिदचिद्विशिष्टं ब्रह्म कार्यमिति कारणादनन्यत्कार्यमिति विशिष्टाद्वैतवेदान्तिनां सम्प्रदायः।
२३८ एवमीश्वराङ्गीकारात् निरीश्वरसांख्यमीमांसकादिमतनिरासः। एतस्यै वोपादानत्वस्वीकारात् योगपाशुपतनैयायिकमतनिरासः। तैर्निमित्तकारण मात्रेश्वराङ्गीकारात्।।ईश्वरस्य कार्यं प्रत्युपादानत्वनिमित्तत्ववत्कर्तृत्व प्रेरककत्वनियन्तृत्वप्र( शासि) काशयितृत्वानुमन्तृत्वसहकारित्वोदासीनत्वादिकमप्युपपद्यते। बाल्ययौवनावस्थादयो दोषा यथा शरीरगता न तु शरीरिणी जीवे। एवं चिदचिच्छरीरिणः परमात्मनोऽपीति न निर्विकारश्रुतिविरोधः। नियमेन तदाधेयत्व-- विधेयत्व- शेषत्वादेः शरीरलक्षणस्य जगति विद्यमानत्वाज्जगच्छरीर ईश्वरस्तद्गतदोषैरसंसृष्टश्च।
२४१ स चेश्वरो विभुस्वरूपश्च। विभुत्वं नाम व्यापकत्वम्। तच्चेश्वरस्य त्रिधा- स्वरूपतो, धर्मभूतज्ञानतो विग्रहतश्च। स चानन्त इत्युच्यते। अनन्तो नाम त्रिविधपरिच्छेदरहितः। त्रिविधपरिछ्छेदस्तु-देशतः, कालतो वस्तु तश्च। सत्यत्वज्ञानत्वानन्दत्वामलत्वादय ईश्वरस्य स्वरूपनिरूपकधर्माः। ज्ञानशक्त्यादयस्तन्निरूपितस्वरूपधर्माः। सर्वज्ञत्वसर्वशक्तित्वादयः सृष्टयुपयुक्तधर्माः। वात्सल्यसौशील्यसौभ्यादय आश्रयणोपयुक्तधर्माः। कारूण्यादयो रक्षणोपयुक्तधर्माः।एतेषां स्वरूपं बुद्धिपरिच्छेदे निरूपितमिति नेहाप्रपञ्च्यते।
२४४ अयमीश्वरः अण्डसृष्ट्यनन्तरं चतुर्मुखदक्षकालादिष्वन्तर्यामित्या स्थित्वा सृष्टिं करोति। विष्णववताररूपेण मनुकालाद्यन्तर्यामिरूपेण च स्थित्वारक्षको भवति। रूद्रकालान्तकादीनामन्तर्यामितया संहारमपि करोति। अतः सृष्टिस्थितिसंहारकर्ता चेति।
२४७ एवम्प्रकार ईश्वरः परव्यूहविभवान्तर्याम्यर्चावताररूपेण पञ्चप्रकारः।
  तत्र परो नाम त्रिपाद्विभूतौ कुमुदकुमुदाक्षपुण्डरीकवामनशङ्कुकर्णसर्प (र्व) नेत्रसुमुखसुप्रतिष्ठितादिभिर्दिव्यायुधभूषणपरिजनपरिच्छदान्वितैर्दिव्य नगरपालकैः परिरक्षिते श्रीमद्वैकुण्ठाख्ये पुरे चण्डप्रचण्डभद्रसुभद्रजयविजयधातृविधातृ प्रभृतिभिर्द्वारपालकैरूपेति श्रीमद्दिव्यालयो श्रीमहामणिमण्डपे धर्माद्यष्टपादविरचितसिंहासेन शेषपर्यङ्कचतुर्भुजदिव्यमङ्गलविग्रहविशिष्टः श्रीभूनीलादिसहितः शङ्खचक्रादिदिव्यायुधोपेतः किरीटादिदिव्यभूषणभूषितः अनन्तगरूडविष्वक्सेनादिभिर्नित्यैस्सामगानपरैरन्यैर्मुक्तैश्चानुभूयमानो ज्ञानशक्त्याद्यनन्तकल्याण गुणगणविशिष्टः परब्रह्मपरवासुदेवादिशब्द वाच्यो नारायणः।
२४९ ईश्वरस्य व्यूहरूपस्य वर्णनम्
 व्यूहो नाम, पर एवोपासनार्थं जगत्सृष्टयाद्यर्थं च वासदेवसङ्कर्षणः प्रद्युम्नानिरूद्धभेदेन चतुर्धाऽवस्थितः। तत्र
षाड्गुण्यपरिपूर्णो वासुदेवः। ज्ञानबलाभ्यां सङ्कर्षणः। ऐश्वर्यवीर्याभ्यां प्रद्युम्नः। शक्तितेजोभ्यामनिरूद्ध इति गुणविभागः। एतेषु चतुर्षु प्रत्येकं त्रयस्त्रयोऽवतीर्णाः केशवादयो व्यूहान्तराणि द्वादश द्वादशमासानां द्वादशादित्यानाञ्चाधिदैवतानि। ऊर्ध्वपुण्ड्रेषु च तेषामवस्थापनं विधीयते। तत्र कनकप्रभः केश्वश्चतुश्चक्रधरः। श्यामो नारायणश्चतुश्शङ्खःधरः। मणिप्रभाऽऽभो माधवश्चतुर्गदः। चन्द्राभो गोविन्दश्चतुश्शार्ड्गः। पद्मकिञ्जल्कसन्निभो विष्णुश्चतुर्हलः। अब्जाभो मधुसूदनश्चतुर्मुसलः। अग्निवर्णस्त्रिविक्रमश्चतुःखङ्गः। बालसूर्याभो वामनश्चतुर्वज्रधरः। पुण्डरीकाभः श्रीधरश्चतुः पट्टीसधरः। तडित्प्रभो हृषीकेशश्चतुर्मुद्गरधरः। सूर्याभः पद्मनाभः पञ्चायुधधरः। इन्द्रगोपनिभो दामोदरश्चतुष्पाशधरः।
२५३ ईश्वरस्य विभवरूपस्य वर्णनम्
विभवो नाम तत्तत्सजातीयरूपेणाविर्भावः। स प्रसिद्धिप्राधान्येन दशधा। ते च मत्स्यकूर्मादयोऽवतारविशेषाः। तत्र वेदापहारिदैत्यनिरासपूर्वकं ब्रह्मणे वेदप्रमाणप्रदानार्थमवतीर्णो मत्स्यावतारः। देवानामजरा मरणहेतुभूतामृतोत्पादनमन्दराधारत्वेनावतीर्णः कूर्मावतारः। संसारसागर निमग्नजनोद्धरणकामः (भूम्युद्धरणार्थं) स्वमहिषोमुद्धर्तुमवतीर्णो वराहावतारः। आश्रितरक्षणार्थं महासुरगृहस्तम्भोद्भूतो नरसिंहावतारः। त्रिविक्रमो भूत्वा स्वपादारविन्दोद्भवेन जलेन जगत्पापापहरणेन जगद्रक्षणार्थमवतीर्णो वामनावतराः। दुष्टक्षत्रियनिरसनार्थमवतीर्णः परशुरामावतारः। शरणागतरक्षणधर्मसंस्थापनार्थमवतीर्णो (श्रीरामः) (रामचन्द्रः) रामावतारः। प्रलम्बादिनिरसनार्थमवतीर्णो बलभद्रावतारः। मोक्षोपाय प्रदानार्थमवतीर्णः (श्रीकृष्णः) कृष्णावतारः। अधर्मिष्ठान्निरस्य पूर्णधर्म प्रवर्तनार्थ (र्थकलिनिर्मोचनार्थ) मवतीर्णः कल्क्यवतारः। एवं दशावतारेष्वप्येकैकावतारोऽनन्तप्रकारः। पद्मनाभादयोऽपि षट्त्रिंशदवताराः सन्ति। पुनर्दधिभक्तहयग्रीवनरनारायणादयोऽपि। एवमेते मुख्यगौणपूर्णाशावेशाख्यावान्तरभेदेन बहुप्रकाराः। तेषूपास्यानुपास्यविभागो द्रष्टव्यः। अवताराणामिच्छैव हेतुः। न तु कर्म। प्रयोजनं तु दुष्टनिरासपूर्वकसाधुपरित्राणमेव।
२५५ अन्तर्यामित्वं नाम स्वर्गनरकाद्यनुभवदशायामपि जीवात्मनः सुह्रत्त्वेन योगिभिर्द्रष्टव्यतया हृदयप्रदेशावस्थितरूपम्। जीवेन साकं विद्यमानोऽपि तद्गतदोषैरसंस्पृष्टो वर्तते।
ईश्वरस्य अर्चावताररूपस्य वर्णनम्
 अर्चावतारो नाम देशकालविप्रकर्षरहित आश्रिताभिमतद्रव्यादिकं शरीरतया स्वीकृत्य तस्मिन्नप्राकृतशरीरविशिष्टस्सन्नर्चकपराधीनस्नान भोजनासनशयनस्थितिः सर्वसहिष्णुः परिपूर्णो गृहग्रामनगरप्रशस्तदेशशैलादिषु वर्तमानो मूर्तिविशेषः। स च स्वयंव्यक्तदैवसैद्धमानुषभेदाच्चतुर्विधः। एवमुक्तासु पञ्चावस्थास्वपि श्रीविशिष्ट एव भगवान् वर्तत इति श्रुत्यादिप्रमाणसिद्धोऽर्थःष एतेनाकायनोक्तनिः श्रीकवादनिरासः। एवमीश्वरो निरूपितः।
इति श्रीवाधूलकुलतिलक- श्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां शारीरकपरिभाषायामीश्वरनिरूपणं नाम नवमोऽवतारः।
(२५९) अथ दशमोऽवतारः
एवं द्रव्यनिरूपणानन्तरं क्रमप्राप्तसद्रव्यं निरूप्यते। संयोगरहित मद्रव्यम्। तदद्रव्यं च सत्त्वरजस्तमांसि शब्दस्पर्शरूपरसगन्धास्संयोगश्शक्तिरिति दशप्रकारमेव।
तत्र प्रकाशसुखलाघवादिनिदानमतीन्द्रियं शक्त्याद्यतिरिक्तमद्रव्यं सत्त्वम्। तद्द्विविधम्- शुद्धसत्त्वं मिश्रसत्त्वं चेति। रजस्तमश्शून्यद्रव्य- वृत्तिसत्त्वं शुद्धसत्त्वम्।तन्नित्यविभूतौ।उपचारात्तत्प्रवर्तकेश्वरे च। रजस्तमस्सहवर्तिसत्त्वं मिश्रसत्त्वम्। तत्त्रीगुणे तत्सम्बन्धिनि जीवे चोपचारात्। रागतृष्णालोभप्रवृत्त्यादिनिदानमतीन्द्रियं शक्त्याद्यतिरिक्तमद्रव्यं रजः। प्रमादमोहादिनिमित्तमतीन्द्रियं शक्त्याद्यतिरिक्तमद्रव्यं तमः। त्रीण्यप्येतानि यावत्प्रकृतिव्याप्तानिः: प्रकृतिवश्यपुरूष सम्बद्धान्यनित्यानि, नित्यसन्तानानि, प्रलयदशायां समानि, सृष्टयादौ विषमाणि, सृष्टिस्थितिसंहारोपयुक्तानि, ईश्वरसङ्कल्पादिसहकारिभेदात्परस्पराभिभवोद्भवकराणीत्येतानि साधारणानि। सत्त्वगुणस्तु सम्यज्ज्ञानरूपसुखादिहेतुर्मोक्षप्रदश्च। रजोगुणस्तु रागाद्यात्मकः कर्मसङ्गी दुःखादिहेतुः। स्वर्गाद्यामुष्मिकप्रदश्च। तमोगुणस्तु अज्ञानरूपालस्यादिहेतुर्नरप्रदश्च। अतस्सत्त्वादयो गुणा न द्रव्यरूपाः।
२६३ शब्दनिरूपणम्
अस्मदादिश्रोत्रग्राह्यः पञ्चभूतवर्ती शब्दः। स च द्विविधः- वर्णात्मकोऽवर्णात्मकश्चेति। अकचटतपयादिपञ्चाशदक्षरात्मको वर्णात्मकः। एवम्भूतश्शब्दः श्रोत्रेन्द्रियेण गृह्यते। श्रोत्रेन्द्रियगमनाद्वा व्यञ्जकवाय्वागमनाद्वाशब्दग्रहः।
ननु श्रुत्या शब्दस्य द्रव्यत्वं प्रतीयते, अद्रव्यत्वं कथमिति चेन्न। अकारादेः प्रणवोत्पादकत्वं वाच्यद्वारा सम्भवतीति परिहारादद्रव्यत्वमुपपद्यते।
(२६७) स्पर्शनिरूपणम्
अस्मदादिस्पर्शनेन्द्रियग्राह्यविजातीयव्यावृत्तोद्रव्यं स्पर्शः। स च त्रिविधः- शीतोष्णानुभयात्मकभेदात्।
अप्सु शीतस्पर्शः। तेजस्युष्णस्पर्शः।क्षितिपवनयोरनुष्णाशीतस्पर्शः। पुनद्विविधः- पाकजोऽपाकजश्चेति। पृथिव्यां पूर्वः। इतरेषु त्रिषु परः। तत्रामृतगरलतुलोपलगोब्राह्मणचण्डालादिस्पर्शविशेषाः पाकजभेदाः।
२६८ रूपनिरूपणम्
अस्मदादिचक्षुरिन्द्रियैकग्राह्यविजातीयव्यावृत्तमद्रव्य रूपम्। तच्चतुर्धासितरक्तपीतकृष्णभेदात्। तत्र सलिलकलधौतशङ्खशुक्तिशशाङ्कादीनां रूप विशेषास्सितभेदाः। हुतवहजपादाडिमबन्धुजीवविद्रुमपद्मरागादीनां रूप विशेषा रक्तभेदाः। काञ्चनहरितालहरिद्रादीनां रूपविशेषाः पीतभेदाः। मरकतमधुकरजलधरतिमिरतमालदूर्वादीनां रूपविशेषाः कृष्णभेदाः। पीतिमानमपि रक्तावान्तरभेदं केचिदिच्छन्ति श्रुत्यनुसारात्। प्रकारान्तरेण रूपं द्विविधम्- भास्वराभास्वरभेदात्। तेजोगतं भास्वरम्। क्षितिसल्लिलगतमभास्वरम्। एवं चत्वार्येव रूपाणि। एतेन चित्रं नाम पञ्चमं रूपमिति मतनिरासः। अत एव चित्ररसगन्धस्पर्शानामपि निरासः।
२७१ अस्मदादिरसनेन्द्रियग्राह्यविजातीयेतरो रसः। स षोढा- मधुराम्ललवणतिक्तकटूकषायभेदात्। तत्रेक्षुक्षीरगुडादिरसा मधुरभेदाः। चूतचिञ्चामलकादिरसा आम्लभेदाः। सैन्धवोषरविकारादिरसा लवणभेदाः। किम्पाकनिम्बादिरसास्तिक्तभेदाः। शुण्ठीमरीचसर्षपादिरसाः कटुभेदाः। हरीतकीविभीतकीचूताङ्कुरादिरसाः कषायभेदाः।
अस्मदादिघ्राणग्राह्यविजातीयेतरो गन्धः। स द्विविधः- सुरभिरसुरभिश्च। पाटीरमृगमदधुसृणचम्पकादिगन्धास्सुरभिभेदाः। पूतिविस्रादि गन्धास्त्वसुरभिभेदाः। अयं च गन्धः पृथिव्येकवर्ती पाकभेदाद्भिन्नः। पवन सल्लिलादिषु गन्धोपलब्धिः पार्थिवसंसर्गात् अयो दहतितिवदौपचारिकी। पञ्चीकरणप्रक्रियया सर्वभूतेष सर्वगुणानां विद्यमानत्वेऽपि प्राधान्याभिप्रायेणोक्तमिति न विरोधः। पाकाद् गुणान्तरोत्पत्तिः स्वाश्रये। स्वाश्रयनाशा भावादेवोपपत्तेः पीलु (पाकवादि) पाकादिमतनिरासः।
२७४ संयोग -निरूपणम्
संयुक्तप्रत्ययनिमित्तं संयोगः। स च सामान्यगुणः षड्द्रव्यवर्ती। अस्य च स्वाभावसादेश्यमुपलभ्यमानमंशप्रयुक्ततया न विरोधावहम्। स च कार्याकार्यभेदाद् द्विबिधः। पूर्वः परिमितानामुभयप्रेरणात्, यथा मेषयोर्मल्लयोर्वा। क्वचिदन्यतरप्रेरणात्; यथा स्थाणुश्येनयोस्संयोगः। केचित्संयोगजसंयोगमपि वदन्ति, हस्तपुस्तकसंयोगात्कायपुस्तकसंयोग इति। तन्न। हस्तपुस्तकसंयोगेनैवोपपत्तेः। एतेन विभागजविभागोऽपि निरस्तः। विभागोऽपि संयोगाभाव एव न पृथगुणः। अकार्यसंयोगस्तु विभुद्रव्ययोः। अज द्रव्यसंयोगः श्रुत्याऽङ्गीक्रियते। अनुमानादप्यजद्रव्यसंयोगसिद्धिः। यथा विभुद्रव्यं विभुद्रव्यसंयोगवद् द्रव्यसंयोगसिद्धिः। यथा विभुद्रव्यं विभुद्रव्यसंयोगवद् द्रव्यत्वात् घटवत् तथा विभुद्रव्यमीश्वर संयुक्तम्, द्रव्यत्वात् घटवत्। ईश्वरः कालादिसंयोक्तो द्रव्यत्वाद् घटवत् इत्यादिभिर्विभुसंयोगस्सिद्धः।
अथ शक्तिः। सर्वकारणानां कारणत्वनिर्वाहकः कश्चिदद्रव्यविशेषः शक्तिः। तर्कागमाभ्यां तत्सिद्धिः। प्रतिबन्धकमणिमन्त्रादिसन्निधौ स्वरूपसहकारिवैकल्याभावेऽपि यदुपरोधाद्दहनो न दहति सा ह्यतीन्द्रिया शक्तिः। अयस्कान्तादिषु तत्प्रसिद्धिः। सा शक्तिः षड् द्रव्यवर्तिनी। भगवन्निष्ठत्वं पुराणरत्नादिषु प्रसिद्धम्। एवं सर्वत्रापि शक्तिनामकधर्मविशेषसिद्धिः।
२७८ वैशेषिकाभिमतदशगुणेषु चतुर्विशतिगुणानामन्तर्भावः
ननु, चतुर्विंशतीप्रकारा गुणा इत्युक्तत्वात् कथं दशैवेति निर्दिश्यते इति चेत्। उच्यते। जीत्वात्मगुणविशेषाणां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां षण्णां ज्ञानविततिरूपत्वेन ज्ञानेऽन्तर्भावस्योक्तत्वात्। धर्माधर्मयोरपीश्वरप्रतीत्य प्रीतिरूपत्वेनेश्वरज्ञानेऽन्तर्भावात्। भावनाख्यसस्कारस्य ज्ञानविशेषरूपत्वात्। वेगो (त्पतन) त्पादकहेतोरेव वेगाख्यसंस्कारोपपत्तेः, संयोगमादायस्थितस्थापकस्यापि सम्भवात्, शब्दस्पर्शरूपरसगन्धानां पञ्चानां प्रत्यक्षसिद्धत्वेनाङ्गीकारात्। विभागपृथक्त्वयोरपि संयोगाभावमादायोपपत्तेः। परत्वापरत्वयोर्देशकालसंयोगविशेषमादायोपपत्तेः संख्यापरिमाणद्रवत्वस्नेहानां तत्तद् द्रव्यस्वरूपमादायोपपत्तेः। गुरूत्वस्य शक्त्यन्तर्भावस्य वक्तुमुचितत्वाच्च दशैवेति सुष्ठूक्तम्।
२८३ तेषां तेषां गुणानां ते ते धर्मिणः
तत्र सत्त्वरजस्तमांसि प्रकृतिगुणाः तत्सम्बन्धि जीवगुणाश्च। सत्त्वरूपं ज्ञानं सात्त्विकः काल इत्यादिप्रतीतिरूपाधिवशादौपचारिकी। शब्दादयः पञ्च प्रकृतिकार्यपञ्चमहाभूतगुणत्वेन प्रसिद्धाः। शुद्धसत्त्वं तु त्रिपाद्विभूत्यां, तत्प्रवर्तकेश्वरे च। सॆयोगशक्तिरूपौ गुणौ षड्द्रव्यसाधारणाविति विवेकः। इत्यद्रव्यं निरूपितम्।
इति श्रीवाधूलकुलतिलक- श्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां शारीरकपरिभाषायामद्रव्य निरूपणं नाम दशमोऽवतारः।


"https://sa.wikisource.org/w/index.php?title=यतीन्द्रमतदीपिका&oldid=402778" इत्यस्माद् प्रतिप्राप्तम्