यज्ञाधिकारः/द्विपञ्चाशोऽध्यायः

विकिस्रोतः तः
← एकपञ्चाशोऽध्यायः यज्ञाधिकारः
द्विपञ्चाशोऽध्यायः
[[लेखकः :|]]


.यज्ञाधिकार परिशिष्टकम्।
--------------------------
(259 श्लोकस्यानन्तर।ग। आदर्शेधृतः अधिकः पाठः प्रकरणासंस्पर्शी।)
इति श्री वैखानसे ( स्फोटाकादिप्रवेशे।इति स्यात्) यज्ञाधिकारे उत्सव प्रायश्चित्तादिबिम्बपतन
अथ पञ्च चत्वारिंशोऽध्यायः।
अतः परं प्रवक्ष्यामि महोत्पातविधिं शृणु
ग्रामे वा नगरे चैव पत्तने च तथैव च। 1
देवालय सबास्थाने राजधान्यां विशेषतः
भूकम्पे च तथा चैव आकाशे गर्जिते सति 2
महावाते महावर्षे सर्वत्राशनिपातने
देवतारोदने चैव वान्धकारनिरन्तरे 3
तद्दिक्समाकुले प्रोप्ते उपलैः पांसुवर्षणे
( स्फोटाकादिप्रवेशे। इति स्यात्) स्फोटकाद्यैः प्रविष्टे ज्वररोगादि संङ्कुले 4
 एतेष्वपि च सर्वेषु एकं वा बहु वा भवेत्
महात्पातमिदं प्रोक्तं सकृदुत्पादकं तथा 5
एवमादौ तु सम्प्राप्ते राज्ञो विपदमादि शेत्
परिचक्रभये क्षोभे व्यादि (धौ) दुर्भिक्ष एवच 6
अनावष्टौ ज्वरोत्पत्तौ सर्वेषां दुःख एवच
यक्ष राक्षसपैशाचगन्धर्वब्रह्मराक्षशाः 7
 प्रविश्य देशं सर्वत्रनाशं कुर्वन्तुते सदा
त्समात्सर्वप्रयत्नेन सान्तिकर्म समाचरेत् 8
तथिवारमुहूर्त ञ्च वर्जयित्वा विचक्षणः
सर्वमानेषु कर्तव्यं षण्मासावधिकेऽन्तरे 9
मास विंशति पक्ष ञ्च षोडश द्वादशाथवा
नवाहं वाऽथ सप्ताहं पञ्चाहं वा तधैव च 10
मूर्धाभिषि राज्ञः वातरोगादि सङ्कुले
वातरोगादिशान्त्यर्थं समस्तदुरुतापहं 11
दीर्घायुरभिवृद्ध्यिर्थं पुष्ट्यर्थ ञ्च समाचरेत्
आरम्भकालात्पूर्वस्मि न्नङ्कुरानर्पयेद्बुधः 12
अङ्कुरार्पणकादूर्ध्वं द्रव्याण्यपि समाहरेत्
ग्रामवीथ्यन्तरे चैव आलयात्पुरतोऽपि वा 13
विष्ण्वालये च कर्तव्यं वदीतीरे विशेषतः
यागशाला ञ्च कृत्वैव शय्यावेदिं प्रकल्पयेत् 14
पञ्चाग्नीन् परितः कृत्वा पौण्डकीर तथैव च
उत्तरे वास्तुशान्त्यर्थं कुण्डं श्रामणकं चरेत् 15
चतुर्ध्वारसमायुक्तं नानालङ्कार भूषितम्
परतस्तु प्रापां कृत्वा द्वारमेकं प्रकल्पयेत् 16


तद्देशस्याष्टदिग्भागे कुण्डमौपसनीयकम्
सर्वेष्वेव तु कुण्डेषु आघार ञ्च समाचरेत् 17
वास्तुहोमं तथा कृत्वा पर्यग्निं तत्र तत्र वै
इन्द्रादिष्वष्टकुण्डेषु इन्द्रादीन् देवता यजेत् 18
तत्तद्दैवत्यमन्त्रैश्च समितन्नादिभिः क्रमात्
अष्टोत्तरसहस्रं वा शतमष्टोत्तर न्तु वा 19
इन्द्रादिनाममन्त्रेण आज्येनाष्टोत्तरं शतम्
स्रवानग्नीन् त्समाप्यैव यागशालां प्रविश्य च 20
वास्तुहोमं ततः कृत्वा पर्यग्निकरणं चरेत्
ब्रह्मसूक्तं ततो हुत्वा रुद्रसूक्तं तथैवल च 21
विष्णुसूक्त ततो हुत्वा आज्येनैव सहस्रकम्
वैखानसेन सूत्रेण विषेकादि क्रियान्वितम् 22
आचार्यं वरयेत्पूर्वमृत्विग्भिश्च सहैवतु
षेडश द्वादशाष्टौवा श्रोत्रियान्मन्त्रपारगान् 23
दैविकोक्तविधानेन अङ्कुरादींश्च कारयेत्
पश्चादग्निं विसृज्यैव आघारं पुनराचरेत् 24
त्रियम्बकेन मन्त्रेण व्याहृत्यन्तं पृथक् पृथक्
मृत्युर्नश्यत्यायुषम्मे जुहुयाद्वर्धतामिति ? 25
आयुतं जुहुयाद्यद्वा अष्टोत्तर सहस्रकम्
तिलेनाज्यैन हविषा अन्यद्रव्येण कारयेत् 26
आघारं गार्हपत्याग्नौ (हुत्वाऽग्निं) वर्दयेद्बुधः
गार्हपत्यात्प्रणीतेषु अग्नि ष्वाघारमाचरेत्। 27
पौण्डरीके समागत्य परिषिच्य च पावकम्
सप्तद्रव्यसमायुक्तं महाशान्तिं यजेत्क्रमात् 28
अतिशान्तिं ततो हुत्वा सर्वशान्तिं तथैव च
प्रभूतशान्तिं हुत्वैव केवलं शान्तिमाचरेत् 29
आयुताहुतिपक्षेण श्रीशताष्टकमाचरेत्
पश्चादद्भुतशान्ति ञ्च तत्तदग्नौ विधीयते 30
वसोर्धारां हुनेत्पश्चा त्सभ्यकुण्डे विशेषतः
महाशान्त्यादिकं हुत्वा सप्ताहं सवनत्रयम् 31
सुदृढं कुम्भमादाय तन्तुना परिवेष्टयेत्
'शुची वे हव्य' मन्त्रेण कुर्यात्कुम्भनिष्चनम् 32
षड्भारव्रीहिभिश्चैव तदर्धैस्तण्डलैस्तिलैः
वेद्या उपरि संस्तीर्य वेद्यूर्ध्ये सादयेद्घटम् 33
'भूर' सीति च मन्त्रेण कुम्भमन्तः प्रधूपयेत्
'वारीश्चतस्र' इत्युक्त्वा पूरयेद्गन्धवारिणा 34
नानाविधैश्च पद्यैश्च ? वस्त्रयुग्मेन वेष्टयेत्
'नमस्सुलोम' मन्त्रेण पल्लवाद्यैर्विभूष्य च 35


नवरत्नं विनिक्षिप्य सुवर्णं तत्र निक्षिपेत्
दशनिष्कप्रणाणेन विष्णुरूपं क्रियाद्बुधः 36
चतुरङ्गुलमायामं चतुरङ्गुलविस्तृतम्
श्री भूम्यैश्च तदर्देन सुवर्णेनैव कारयेत् 37
तत्तन्मन्त्रं समुच्चार्य कुम्भमध्ये विनिक्षिपेत्
श्रीवत्सं पूर्णकुम्भं भेरीमादर्शनं तथा 38
मत्स्य युग्माङ्कुशं शङ्खमावर्तं चाष्टमङ्गलम्
शङ्खचक्रदाशार्ज्ञण्य सिरायुधपञ्चकम् 39
गुरु़डं गजरूप ञ्च कूर्णरूपं तथैव च
मेघविद्युल्लताश्पैव वर्णचिह्नानि कारयेत् 40
नवाष्ट सप्तकं वापि पञ्चनिष्कमथापि वा
निष्काहीनसुवर्णेन प्रतिमाश्च पृथक् पृथक् 41
श्रीवत्सादीने सर्वाणि कुम्भमद्ये विनिक्षिपेत्
कुम्भमध्ये स्थितं तोयं तोयमध्ये तु पङ्कजं 42
पङ्कजस्य च मध्ये तु ध्यायेन्नारायणं हरिं
श्री भूमिसहितं ध्यात्वा अर्चयेदष्टविग्रहैः 43
अपक्वानि च सर्वाणि ताम्बूल ञ्च निवेदयेत्
वैष्णवं विष्णुसूक्त ञ्च पुरुषसूक्तं तदैव च 44
श्री सूक्त ञ्च ततो हुत्वा भूसूक्त ञ्च ततः परम्
एकाक्षरादिसूक्त ञ्च पञ्चशान्तिं जपेत्क्रमात् 45
ऋत्विग्भ्यश्च सहाऽचार्यो जपेत्सूक्तान् त्समाहितः
प्रातः स्नानविधानेन स्नाकर्म समाचरेत् 46
विष्ण्वालयं समागत्य देवेशमनुमान्य च
कलशैःस्नापयेद्विष्णुं यथाविभव विस्तरम् 47
आचार्यः शरसा कुम्भं धृत्वा विष्ण्वालयं पुनः
प्रदक्षिणद्वयं कृत्वा गर्भागारे निवेशयेत् 48
पूर्वोक्तैनैव सूक्तेन प्रोक्षयेद्विष्णुमव्ययम्
तच्छिष्टेनोदकेनैव भूमिं प्रोक्ष्य ततः परम् 49
राजानं ञ्च समाहूय आशीर्वादपुरस्सरम्
ब्राह्मणान् भोजयित्वैव आशीर्वादपुरस्सरम् 50
(दशदानं ततः कृत्वा आज्यावेक्षण मेव च
फलदानादिकं सर्वं यथाकल्पं समाचरेत्) 51
आचार्य ञ्च समादाय वस्त्राभरणकुण्डलैः
हेमयज्ञोपवीताद्यै र्भूषणैरपि भूष्य च 52
अष्टोत्तरसहस्रं वा तदर्धं निष्कमेव च
चतुश्शत ञ्च विष्काणां दद्यादाचार्य दक्षिणाम् 53
आचार्यस्य चतुर्थांशमृत्विग्भ्यश्च
एवं यः कुरुते भक्त्या ह्यक्षयं श्रियमाप्नुयात् 54


पुत्रार्थी लभथे पुत्रान् जयाधीन् लभते जयम्
राज्यार्थी राज्यमाप्नोति शान्तिश्चैव भविष्यति 55
इहैव धनवान् श्रीमान् दीर्घ मायुरवाप्नुयात्
इति श्री वैखानसे यज्ञाधिकारे भूकम्पादिदोषप्रायश्चित्त
महात्पातशान्तिविधिर्नाम चतुश्चत्वारिंशोऽध्यायः
अथ पञ्च चत्वारिंसोऽध्ययः
अतः परं प्रवक्ष्यामि महाशान्तिविधिं परम्
सर्वदोषोपनशमनं सर्वाध्वरफालावहम् 1
सर्वाभीष्टप्रदं श्रेष्टं सर्वाशुभविनाशनम्
आयुरारोग्यदं कर्तुः शान्तिषुष्टि सुखप्रदम् 2
महादोषेषु सर्वत्र महाशान्तिर्विधीयते
आयाभिमुखे कुर्यात्पौण्डरीकं सलक्षणम् 3
दक्षिण स्यामथाग्नेय्यां पचनालय एववा
अलङ्कृत्य चतुर्दिक्षु पूर्णकुम्भाङ्कुरध्वजैः 4
कदलीक्रमुक्तैश्पैव मुक्तादामवलम्बकैः
मासं पक्ष ञ्च सप्ताहं पञ्चाहं त्रियहन्तु वा 5
एकाहं वाऽथ सङ्कल्प्य दोषाणां गुरुलाघवम्
ज्ञात्वा तदनुरूपाणि दिनानि जुहुयात्क्रमात् 6
आघरान्ते सुहोतव्ये सूक्ते वैष्णवपौरुषे
रुद्रसूक्तं ततो हुत्वा विश्वजित्सूक्तमेव च 7
पारमात्मिकमीङ्काराद्यष्टाशीतिं हुने त्तथा
श्री सूक्तं रात्रिसूक्त ञ्च सूक्तं सारस्वतं तथा 8
जुहुयात्सर्वदैवत्यं पञ्चवारुण संयुतम्
मूलहोमं ततो हुत्वा धातादीन् जुहुयात्क्रमात् 9
'नमो वाचे' समुच्चार्य 'शन्नो वात' इतीर्य च
'नारायणाय वि' द्मेति तथा षड्भिश्च वैष्णवैः 10
आज्येन साज्यचारुणा समिधा च घृताक्तया
सक्तुलाजतिलापूपै र्घुतमिश्रैर्यथा क्रमम् 11
संस्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत्
त्रिकालमुत्तमो होमो रात्रिहीनस्तु मध्यमः 12
आज्येन साज्यचरुणा मध्यमे जुहुयात्क्रमात्
अधमं तकेवलाज्यैन मध्याह्ने जहुया त्ततः 13
उत्तमे स्नपनं नित्यं मद्यमे केवलार्चनम्
अधमे केवलं होम इति पूर्वजशासनम् 14
रक्षेदग्निमविच्छिन्नं यावत्कर्मावसानकम्
क्रमण्यस्मिन् समाप्ते तु कृत्वा विप्रांश्च बोजयेत 15
दद्यादाचार्यपूर्वोभ्यो दक्षिणां देवसन्निधौ
'यद्देवा दिद्वयं सूक्त' टमायुष्टे ' त्यादिसूक्तकम् 16


तत्तत्सूक्त ञ्च हुत्वैव अतिशान्तिरिति स्मृतं
अतिशान्ति ञ्च हुत्वैव सर्वसम्पत्करं परम् 17
पुत्रश्रीर्विजयं तस्य आयुरारोग्यवर्धनं
नवग्रहाधि दैवत्यं हुत्वा चे दद्भुताह्वया 18
वेद्याः पश्चिमदिग्भागे तण्डुलं ? (मण्डलं) तत्र कारयेत्
नवभागं विभज्यैव आदित्यादीन्त्स मर्चयेत् 19
प्रदद्यात्पायसादीनि ताम्बूलाचामने तथा
मुखन्तमाचरेत्पश्चा द्गार्ह पत्यादिवह्निषु 20
वह्नावाहवनीये तु शशिशुक्रौ यजेद्बुधः
अन्वाहार्ये ततः पश्चाद्राहुमङ्गारकं तथा 21
गार्हपत्ये यजेत्पश्चा त्तथा केतुं शनैश्चरम्
आवसध्ये तथा हुत्वा बुध ञ्चैव बृहस्पतिम् 22
सवितारं यजेत्सभ्ये समिदन्नादिभिः क्रमात्
अष्टोत्तरशतं वापि सप्तविंशति मेववा 23
अर्कादिसमिधश्चापि कुशान्तं समिधः क्रमात्
नवहं वाऽथ सप्ताहं पञ्चाहं त्रियहन्तु वा 24
एकाहं वा प्रकुर्वीत रात्रौ नाद्भुतमाचरेत्
कृता चेदद्भुताशान्ति र्त्यन्तदुरुतापहा 25
इति श्री वैखानसे यज्ञाधिकारे महाशान्त्यद्भुतशान्तिविधिर्नाम पञ्चशोऽध्यायः
 पञ्च चत्वारिंशोऽध्यायः
अतः परं प्रवक्ष्यामि सर्वशान्तिविधिं परं
पौण्डरीकं परिस्तीर्य परिषिच्य च पावकम् 1
प्राजापत्य ञ्च विच्छिन्नं स्वष्टकृदृद्धि संयुतम्
एतादिषोडशं हुत्वा जयादि ञ्च तथैव च 2
विष्णुसूक्त ञ्च हुत्वैव वैष्णवान्तं क्रमाद्‌यजेत्
अष्टाक्षरेण मन्त्रेण अष्टोत्तरसहस्रकं 3
सर्वेष्वेवाग्नि कुण्डेषु हुनेदाज्येन बुद्धिमान्
द्वारिष्टं हुनेत्पश्चात्स र्वारिष्टविनाशनं 4
त्रपौत्रप्रदं श्रेष्ठमायुर्वृद्धिकरं भवेत्
भूतशान्तिरित्युक्ता सर्वत्रापि च वैष्णवं 5
न्दाहुती च विच्छिन्नं गायत्री वैष्णवी तथा
'शन्नो मित्र' इति हुत्वा तथा विष्णोर्निकादिभिः 6
वैष्णवं शततो हुत्वा पौण्डरीके यजेत्क्रमात्
प्रभूतशान्तिं हुत्वैव सर्वशान्तिकरं भवेत् 7
सामान्य ञ्च तदा हुत्वा सभ्युकुण्डे विशेषतः
'हिरण्यशृङ्ग' मारभ्य 'पुना ' त्वन्तं तथैव च 8
द्वादशाषअटाक्षराभ्या ञ्च सहस्पराहुति संयुतम्
आज्येन जुहुयाद्विद्वान् सक्तुलाजा दिकैर्विना 9


एवं यः कुरुते भक्त्या विष्णोर्ध्यान परायणः
कृत्वा तु केवलां शान्तिमभीष्टं फलमश्नुते 10
अब्जं श्वेतं घृतं ग्राह्यं कापिलेन तथाव च
आल्पुत्याप्लुत्य जुहुयाद्विष्णुगायत्रिया तथा 11
रक्ताब्जं बिल्वपत्रं वा श्वेताब्जानामलाभके
अष्टोत्तरसहस्रं वा शतमष्टोत्तरन्तु वा 12
हुतमेव तु सम्प्रोक्तं शियश्शा न्तिरुदाहृता
श्री शान्ति ञ्च ततो हुत्वा श्रियं पुष्टि ञ्च विन्दति 13
अतः परं प्रवक्ष्यामि पुष्कलामाहूतिं क्रमात्
पद्माग्नि ञ्च परिस्तीर्य परषेचने माचरेत् 14
शर्कराज्य समायुक्तं मधुक्षीर समन्वितम्
वैष्णवं विष्णुसूक्त ञ्च पौरुषं सूक्तमेव च 15
श्री सूक्तमपि भूसूक्तं सूक्तमेकाक्षरादिकम्
जप्त्वातु विष्णुगायत्रीं देवीं ध्यात्वा हुनेद्बुधः 16
पुष्कलामाहुतिं हुत्वा सुप्रीतो भगवान् हरिः
पुत्रश्रियं जयं तस्य आयुरारोग्य वर्धनम् 17
श्री शताष्टकशान्ति न्तु खिले प्रोक्तवदाचरेत्
प्रज्वाल्य सभ्युकुण्ड ञ्च वसोर्धारां यजेत्क्रमात् 18
जुहुं गृहीत्वा हस्तेन पूर्वोक्ताज्यं प्रगृह्य च़
आचार्यः प्राङ्मुखस्तिष्ठन् धारया च यजेत्क्रमात् 19
वैष्णवं विष्णुसूक्त ञ्च पौरुषं सूक्तमेव च
श्री भूसूक्तन्ततो जप्त्वा अतोदेवादि वैष्णवम् 20
एकाक्षरादिसूक्त ञ्च गायत्रीं वैष्णवीं तथा
एतैस्तु सप्तभिः सूक्तैश्चतुरावर्त्य हूयताम् 21
एवं क्रतुमश्क्तश्चेत् सकृत्वा तत्र कारयेत्
वसोर्धारां यजित्वैव वसुधामखिलं लभेत् 22
अशनीपातादिकं सर्वशान्तये भवति ध्रुवम्
राजराष्ट्राभिवृद्धिश्च भुवि शान्तिं समाचरेत् 23
ब्राह्मणान् भोजयेन्नित्यं यावत्कर्म समापनम्
अर्चनादीनि सर्वाणि नैवेद्यानि तथैव च 24
स्नपनादीनि सर्वाणि पीठे अभ्युक्षणं चरेत्
एक (वं ?) द्वादशावर्षाणि एतत्पीठोक्तसन्निधौ 25
इति श्री वैखानसे षट चत्वारिंशोऽध्यायः।
अथ सप्तचत्वारिंशोऽध्यायः
अथ गुप्तं प्रवक्ष्यामि रक्षार्थाय द्रुवादिषु
कलहे रुदिरस्रावे राष्ट्रग्रामदि सङ्कुले 1
गर्भालयादि सर्वत्र कवाटं बन्धयेद्धृढम्
अथ वाऽ भिमुखद्वारा शिला वा चेष्टकापि वा 2


निश्छिद्रं बन्धयेद्विद्वानि सुधया लेपनं चरेत्
यावत्कालं भयं नास्ति तावदर्चन माचरेत् 3
सुकाले तान्विसृज्यैवे कवाटोद्घाटनं चरेत्
बेरशुद्धिं ततः कृत्वा प्रोक्षयेत्पञ्च गव्यकैः 4
अद्भुतं शान्तिमारभ्य सप्ताहं जुहुयाद्बुधः
पश्चात्प्रतिष्ठां कृत्वा तु गुरवे दक्षिणां ददेत् 5
एवं यः कुरुते भक्त्या विष्णोः सायुज्यमाप्नुयात्
अतः परं प्रवक्ष्यामि ग्रामशान्ति धीयते 6
मासमेकं सुसन्त्यज्य अन्यमासं गतं यदि
वास्तुशुद्धिं ततः कृत्वा वेदपारायणं चरेत् 7
देवस्य स्नपनं कृत्वा चैकाहं चोत्सवं चरेत्
द्विमासे द्विगुणं प्रोक्तं त्रिमासे त्रिगुणं चरेत् 8
एवमेव विधानेन तु प्रायश्चित्तं विधीयते
संवत्सरे त्वतीते तु प्रोयश्चित्तं विधीयते 9
ग्राममध्ये प्रपां कृत्वा पुण्याहमपि वाचयेत्
वास्तुशुद्धिं ततः कृत्वा पुण्याहमपि वाचयेत् 10
अष्टानां लोकपालानां मन्त्राणि च सुहूयताम्
शान्तिहोम समायुक्तं परमात्मिक संयुतम् 11
यद्देवादींश्च हुत्वा तु ईङ्कारादिश्च हूयते
वैष्णवं ब्राह्म संयुक्तं रौद्रं विष्णोर्नुकादिभिः 12
एवं हुत्वा चतुर्दिक्षु वेदनध्यापयेत्क्रमात्
देवस्य स्नपनं कृत्वा कलशैस्तु शताष्टकैः 13
हविर्भिस्सन्निवेद्यैव प्रभूतम्बलि माचरेत्

  • * * * * 14

एवं नित्यं प्रकुर्वीत पक्षं सप्ताहमेव वा
अन्यैस्तु ब्राह्मणान् बोज्य 15
गुरवे दक्षिणां ददेत्
हिरण्यदानं गोदानं तिलदानं 16
न्तं वर्ध
ब्राह्मणानुज्ञयापि च 17
द्विवर्षे द्विगुणं प्रोक्तं त्रिवर्षे त्रिगुणं चरेत्

  • * * * 18

एवं दशवर्षयेत्
त्रिलेखासहिते 19
सभासथानेषु शालासु तद्देवायतनेषु च
मसुररिक्त च ! तदपोह्यैव कारयेत् 20

  • * *

देवं स्नापयित्वा विचक्षणः 21


विद्वान् ब्राह्मं रौद्रं सुहूयताम्
आज्येन जुहुयाद्विद्विन् व्याहृत्यन्तं प्रतिप्रति 22
सप्तभिः कलशैर्देवं स्नापयित्वा विचक्षणः
त्ततः 23
देव हविर्भः सम्पूज्य एकहं चोत्सवं चरेत्
तदग्निं परिषिच्यैव ऐन्द्रमाग्ने संयुतम् 24
अग्नीषोमीय संयुक्तमोजो
पि समिद्भिश्च सुहूयते 25
एवमेव प्रकारेण महोत्पातं प्रतिप्रति
रक्तस्त्रीणं समुत्पन्ने ग्रामेषु नगरेषु च 26
सादकेन च
तटाके च मठे चैव कूपे कोष्ठे तथैव च 27
वालुकैर्व्रीहिभिर्वापि अग्निकुण्ड ञ्च कारयेत्
त्रिलेखासहिते कुण्टे 28
श्वमत्व न्तप्त समिन्यग्रोध संयुते ?
प्लक्षैरश्वद्थकै रेव अपामार्गैः सुदूर्वकैः 29
तिलतैलेन मसुर आज्येन चरुणापि च
प़ञ्चवारुणपर्यन्तं मूलहोम ञ्च हूयते 30
यद्देवादींश्च हुत्वा तु ईङ्कारादिं तथैव च
पारमात्मिक संयुक्तं ब्राह्मं सनरवैष्णवम् 31
दग्देवाना 32

  • * * * *

समादाय परिस्तीर्य पावकम् 33

  • * * * * *

लेन मधुना सम्यक् विष्णुसूक्तं सुहूयते 34
कलशैः स्नापयेद्देवमधि वासन संयुतम्
पूर्ववत्न्सपनं कृत्वा पश्चा चारभेत् 35
खनित्वा तत्प्रदेश न्तु पञ्चगव्यैश्च सेचयेत्
वालुकाभिश्च सम्पूर्ण पुण्याहमपि वाचयेत् 36
खनन कृत्वा तु ब्राह्मणान् भोजये त्ततः
एकाहं द्वियहं त्र्यहं प़्चाहमाचरेत् 37
अग्रे भूतबलि दद्यात्तिल चूर्ण समायुतम्
लाजापूप समयुक्त पञ्च समायुतम् 38
सन्धौ सन्धौ क्षि पेद्विद्विन् कण्ठकाह?Rळ संयुतम्
चत्वेरेषु त्रिकोणेषु शृङगाटेषु तथैव च 39
चत्वरे विष्णुभूतानां रौद्राणा ञ्च त्रिकोणके
शृङ्गारे ब्राह्मभूतानां तत्तन्नाम्ना बलिं ददेत् 40
आचार्यं पूजयित्वा तु वस्त्राभरण कुण्डलैः


शिष्यानपि यथायोगं पूजयित्वा विधिनतः 41
शिवारुते तथा मध्ये च गच्छति
चैत्यवृक्षे सभास्ताने देवतायतनेषु च 42
चतुर्णां ? रथवीथीनां वानरो दृश्यते यदि
दग्ध्वा चे देव सद्यः शान्तिं समाचरेत् 43
वास्तुसुद्धिं ततः कृत्वा पुण्याहमपि वाचयेत्
तत्त त् स्थानेषु सर्वेषु प्रोक्षयेत्पञ्चगव्यकैः 44
पूर्ववत्कुण्डसंस्कारमाघारं पूर्ववच्चरेत्
अर्ष ञ्च भौतिक ञ्चैव वैष्णवं ब्राह्म संयुतम् 45
पञ्चवारुणपर्यन्तं व्याहृत्यन्तं सुहूयताम्
सप्तभिः कलशैर्देवं स्नापयित्वा यथा क्रमम् 46
ब्राह्मणान् भोजयित्वा तु दक्षिणा ञ्च स्वशक्तितः
नगरे राज च देवतायनेषु च 47
पत्तने कुटिके चैव देवागारे सुहूयताम्
शान्तिहोममिति प्रोक्तं केवलं जपेत् 48
वैष्णवं पौरुषं सूक्तं ब्राह्ममैन्द्रं सवारुणम्
द्विर ? शान्तिरिति पोर्क्त

  • * * * * 49

अतः परं प्रवक्ष्यामि रक्तस्त्रीणा न्तु लक्षणम्
ब्रह्मस्थाने तदुत्पत्तौ परं भयमवाप्नुयात् 50
रौद्रौ तु दृश्यते कृ कारये त्ततः
आग्नेय्यामतिदृश्येत तरितः शुभं भवेत् 51
मेतु दर्शनीयं स्याद्यमस्धाने प्ररोपणे
नैर् ऋत्यां यदि दृश्येत सस्यानां नाशमादिशेत् 52
वर्षश्चापि तथा व स्यात्सर्वशास्त्रेषु निश्चयः
वारुण्या ञ्च तथोत्पन्ने श्रीर्न तिष्ठति तद्गृहे 53
वायव्या ञ्च तदुत्पन्ने कन्या गच्छति तद्गहे
सौम्ये तु दृश्यते यत्र गृहं शून्यं भवेद्ध्रुवम् 54
ऐशान्ये दृश्यते यत्र परदेशगतं सुहृत्
द्वेरे तु दृश्यते यत्र गृहं त्यजति तद्गृहात् 55
घृतकुम्भस्य पृष्ठे ते दृश्यन्ते जन्तवो यदि
पशूनां मुनिरुक्प ञ्च ! शोरैश्चापि भयं भवेत् 56
भक्तौ तु दृश्यते यत्र निस्त्रीकारं सुखं भवेत्
शय्यास्थाने तु दृश्यन्ते प्राणाकशयनाधिपाः 57
धान्य ण्डमूले तु दृश्यन्ते जन्तनो यदि
गृहिणी सा स्वयमेव भविष्यति 57
नष्टानामेतदेकं विधीयते
उत्पन्नस्थानमा


  • * * * * 60

गृहे चेद्गृहशान्ति ञ्च अन्यत्वेहं समाचरेत्
एवं यः कुरुते भक्त्या विष्णोर्लोकं स गच्छति 61
इति श्रीवैखानसे गप्तोद्धृतग्रामशान्ति विधिर्नाम सप्तचत्वारिंसोऽध्यायः।
अथाष्टचत्वारिंशोऽध्यायः।
दुर्गाकल्पं विशेषेण प्रवक्ष्यामि तपोधनाः
मार्गशीर्षस्य मासे तु आर्द्राया मर्चयेत्पुनः 1
तद्दिनात्पूर्वतो वापि नवमे सप्तमे ऽपि वा
पञ्चमे ऽपि ततः पश्चात्र्तिय हे वाऽपि कारयेत् 2
दुर्गाबिम्बं समादाय स्नानवेद्यां प्रवेशयेत्
सप्तभिः कलशैःस्नाप्य शुद्दोदैरभि षेचयेत् 3
संस्थाप्य विष्टरे देवीमर्चयित्वाऽष्ट विग्रहैः
हविर्भिः सन्निवेद्यैन मुखवासं निवेदयेत् 4
एकेनैव विधानेन उत्सवारम्भमाचरेत्
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं पुनः 5
आस्थाने स्थाप्य तद्देवीं स्नाप्याभ्यर्च्य विशेषतः
शालितण्डुलमादाय द्विद्रोणादप्यहीनतः 6
मरीचिजीकघृतं ना?Rळिकेर फलं ततः
गु?Rळेन सह सम्मिश्र्य तण्डुलं प्रमुखे न्यसेत् 7
तन्निवेद्य यथामार्गं हविर्भः सन्निवेदयेत्
नया चन्दनं दत्वा मुखवासं निवेदयेत् 8
तण्डुलादीन् समादाय तद्भक्तेभ्यः प्रदीयताम्
वे सान्तकम् 9
समाप्तिदिवसे देवीं समभ्यर्च्य विशेषतः
सप्तमातॄः ततस्सप्त समभ्यर्च्य निवेदयेत् 10
तत्त द्धस्ते सुवर्णेन सोदकं दक्षिणां ददेत्
हिरण्यं मुखवास ञ्च ब्राह्मणेभ्यः प्रदीयताम् 11
सर्वेषामपि देवानां वास्तुगानं सुपूजयेत्
पश्चाद्देवीं निवेद्यैव बहुभिःपायसादिभिः 12
मुखवासं निवेद्यैव गुरवे दक्षिणां ददेत्
जीवस्थाने प्रतिष्टाप्य पुष्पा़ञ्जलि मथाचरेत् 13
बिम्बाभावे पटे लेख्यामाचरेद्विधि पूर्वकम्
स्नपन ञ्चैव कृत्वाऽग्रे प्रोक्षणैः प्रोक्षणं चरेत् 14
एवं समर्चयेद्देवीं देशशान्तिकरं भवेत्
इति श्री वैखानसे दुर्गाकल्प विधिर्नाम अष्टचत्वारिंशोऽध्यायः
अथौकोन चत्वारिंशोऽध्यायः
अतः परं प्रवक्ष्यामि ग्रामान्ते तु समर्चनम्
कौतुकं स्नपन ञ्चैव नित्यनैमित्तिकेषु च 1


द्वितीयावर्णादर्वाक् कारयेदिति शासनम्
औत्सवं बलिबेर ञ्च योजनान्ते समाचरेत् 2
मोहादज्ञानतो वाऽपि
 राजराष्ट्रं विनश्यैव ग्रामनाशं भविष्यति 3
तस्माच्छान्ति ञ्च कृत्वा तु पुनः कर्म समाचरेत्
परचक्रभय ञ्चैव राष्ट्रग्रामदि सङ्कुले 4
कौतुकादीन् समादाय सुदेशे स्थाप्य चार्चयेत्
पश्चात्सुकाले देवेशं पूर्वस्थाने निवेशयेत् 5
तद्दोषमनार्थाय पक्षं सप्ताहमेव वा
अद्भुतां शान्तिमाचर्य पश्चात् स्थापनमाचरेत् 6
एकमासे प्रकुर्वीत द्विमासे द्विगुणं भवेत्
त्रिमासे त्रिगुणं प्रोक्तं चतुर्थे चतुराचरेत् 7
वत्सरान्ते सुकाल ञ्चे न्मासशान्ति ञ्च कारयेत्
कर्षणादि पुनस्सर्वमाचरेदिति शासनम् 8
राजराष्ट्राभिवृद्धिश्च ग्रामशान्तिकरं भवेत्
------------
ततः कोशान्तराण्यनु सरस्यसमग्रा च।