मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ११

विकिस्रोतः तः

वाजपेयः

1.11.1 अनुवाकः1
देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं पुनातु वाचस्पतिर्वाचमद्य स्वदातु नः ॥
वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।
विश्वं ह्यस्यां भुवनं आविवेश तस्यां देवः सविता धर्मं साविषत् ॥
अप्स्वन्तरमृतमप्सु भेषजमपाम् उत प्रशस्तिषु ।
अश्वा भवत वाजिनः ॥
वायुर्वा त्वा मनुर्वा त्वा गन्धर्वाः सप्तविंशतिः ।
ते अग्रे अश्वमयुञ्जंस्ते अस्मिन् जवं आदधुः ॥
अपां नपादाशुहेमन् य ऊर्मिः प्रतूर्तिः ककुभ्वान् वाजसाः ।
तेन वाजं सेषं ॥
देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकं रुहेयम् ॥
देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर्वाजिनो वाजजितो वाजं जेष्म ॥

1.11.2 अनुवाकः2
वाजं वाजिनो जयताध्वानं स्कभ्नुवन्तो योजना मिमानाः ॥
काष्ठां गच्छत ॥
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद् युयवन्नमीवाः ॥
वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
सहस्रसा मेधसाता सनिष्यवो महो ये धना समिथषु जभ्रिरे ॥
एष स्य वाजि क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिपक्ष आसन् ।
क्रतुं दधिक्रामनु संसनिष्यदत् पथां अङ्कांस्यन्व् आपनीफणत् ॥
उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः ।
श्येनस्येव द्रवतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः ॥

1.11.3 अनुवाकः3
आ मा वाजस्य प्रसवो जगम्यादा मा द्यावापृथिवी विश्वशंभूः ।
आ मा गन्त पितरो विश्वरूपा आ मा सोमो अमृतत्वेन गम्यात् ॥
इन्द्राय वाचं वदते, न्द्राय वाचं संवदत , इन्द्रं वाजं जापयत , इन्द्र वाजं जय, इयं वः सा सत्या संवागभूद्याम् इन्द्रेण समदध्व,मजीजपत वनस्पतया , इन्द्राय वाचं विमुच्यध्वं , वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागं अवजिघ्रतं , वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागे निमृज्येथां , स्वो रोहावेहि स्वो रोहावेहि स्वो रोहावा , आयुर्यज्ञेन कल्पते , प्राणो यज्ञेन कल्पते , चक्षुर्यज्ञेन कल्पते , श्रोत्रं यज्ञेन कल्पते , मनो यज्ञेन कल्पते , वाग् यज्ञेन कल्पते , ब्रह्मा यज्ञेन कल्पते , पृष्ठं यज्ञेन कल्पते , स्वर्यज्ञेन कल्पते , यज्ञो यज्ञेन कल्पते , वाजाय स्वाहा , प्रसवाय स्वाहा , अपिजाय स्वाहा , क्रतवे स्वाहा , अहर्पतये स्वाहा , वाक्पतये स्वाहा, वसवे स्वाहा , स्वर्मूर्धा वैयशनो व्यश्यन्न् आन्यो ्ऽन्यो ् भौवनो , भुवनस्य पतयेऽधिपतये स्वाहा , अन्नाय त्वा , वाजाय त्वा , वाजजित्यायै त्वा , इषे त्वा , ऊर्जे त्वा , रय्यै त्वा , पोषाय त्वा , स्वर्देवा अगाम , अमृता अभूम , प्रजापतेः प्रजा अभूम ॥

1.11.4 अनुवाकः4
अग्ने अछा वदेह नः प्रत्यङ् नः सुमना भव ।
प्र नो यच्छ विशस्पते धनदा असि नस्त्वं ॥
प्र नो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः ।
प्र देवाः प्रोत सूनृता प्र वाग् देवी ददातु नः ॥
अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय ।
वाचं विष्णुं सरस्वतीं सवितारं च वाजिनं ॥
सोमं राजानं वरुणमग्निमन्वारभामहे ।
आदित्यान् विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥
इन्द्रवायू सुसंदृशा सुहवेह हवामहे ।
यथा नः सर्वा इज्जनः संगमे सुमना असत् ॥
वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमं राजानं ओषधीष्वप्सु ।
स विराजं पर्येतु प्रजानन् प्रजां पुष्टिं वर्धयमानो अस्मे ॥
वाजस्येमां प्रसवः शिश्रिये दिवं स ओषधीः समनक्तु घृतेन ।
ता अस्मभ्यं मधुमतीर्भवन्तु वयं राष्ट्रे जागृयामा पुरोहिताः
वाजस्येदं प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः ।
अदित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नियच्छतु ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेण बृहस्पतिं साम्राज्यायाभिषिञ्चामि , इन्द्रं साम्राज्यायाभिषिञ्चामि , उपयामगृहीतोऽसि , दृषदं त्वा नृषदमायुषदमिन्द्राय जुष्टं गृह्णामि , एष ते योनिः , इन्द्राय त्वा , उपयामगृहीतोऽसि , पृथिवीषदं त्वान्तरिक्षसदं नाकसदमिन्द्राय जुष्टं गृह्णामि , एष ते योनिः , इन्द्राय त्वा , उपयामगृहीतोऽसि , अप्सुषदं त्वा घृतसदं भूतसदमिन्द्राय जुष्टं गृह्णामि , एष ते योनिः , इन्द्राय त्वा , उपयामगृहीतोऽसि , ग्रह विश्वजनीन नियन्तर्विप्रायाम ते ॥
यास्तिस्रः प्रथमजा दिव्यः कोशः समुक्षितः ।
तासां विशिश्नानामिषं ऊर्जं समग्रभम् ॥
इन्द्राय त्वा जुष्टं गृह्णामि , एष ते योनिः , इन्द्राय त्वा , उपयामगृहीतोऽसि ॥
अपां रसं उद्वयसं सूर्याञ् शुक्रं समाभृतम् ।
अपां रसस्य यो रसस्तं ते गृभ्णाम्य् उत्तमम् ॥
इन्द्राय त्वा जुष्टं गृह्णामि , एष ते योनिर् , इन्द्राय त्वा ॥
कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
इहेहैषां कृणुत भोजनानि ये बर्हिषा नम उक्तिं न जग्मुः ॥
उपयामगृहीतोऽसि , प्रजापतये त्वा जुष्टं गृह्णामि , एष ते योनिः , प्रजापतये त्वा ॥
अया विष्ठा , प्रजापतये त्वा ॥


1.11.5 अनुवाकः5
देवा वै नाना यज्ञानपश्यन् , अथ वा एतं सर्वेऽपश्यन् , तस्मिन् वा अयतन्त , तस्मिन्न् आजिमयु, स्तं बृहस्पतिरुदजयत् , बृहस्पतिर्वै देवानां पुरोहितो , यद्वै पुरोहितो ब्राह्मणं शृणोति , तद् राज्ञे, तेनेन्द्रमयाजयत् , स स्वाराज्यमगच्छत् , स एष स्वाराज्यो यज्ञः , स्वाराज्यं गच्छति य एतेन यजते , यद् बृहस्पतिरुदजयत्तस्माद् ब्राह्मणो यजेत , यदिन्द्रमयाजयंस्तस्माद् राजन्यो , देवा वै नाना यज्ञानाहरन् , इमं अहमिमं त्वं इति , अथ वा एतं प्रजापतिर् आहरत् , तस्मिन् वा अपित्वमैच्छन्त , तेभ्यश्छन्दांस्युज्जितीः प्रायच्छत् , अथ वा एतेन प्रजापतिरयजत , स स्वाराज्यमगच्छत् , स एष स्वारज्यो यज्ञः , स्वाराज्यं गच्छति य एतेन यजते , अन्नं वै वाज, स्तद्य एवं विद्वानन्नमत्ति वाजयति ह वा एनं अन्नमद्यमानं , सोमो वै वाजपेय, स्तद्य एवं विद्वान् त्सोमं पिबति वाजं ह गच्छति , यावन्तो हि देवाः सोममपिबंस्ते वाजमगच्छन् , तस्मात्सर्वः सोमं पिपासति, वाजं ह गच्छति , वाग् घि वाजस्य प्रसवः , सा वै वाक् सृष्टा चतुर्धा व्यभवत् , एषु लोकेषु त्रीणि तुरीयाणि , पशुषु तुरीयम् , या पृथिव्यां साग्नौ सा रथन्तरे , यान्तरिक्षे सा वाते सा वामदेव्ये, या दिवि सा बृहति सा स्तनयित्नौ , अथ पशुषु , ततो या वागत्यरिच्यत तां ब्राह्मणे नि अदधु, स्तस्माद् ब्राह्मण उभयीं वाचं वदति यश्च वेद यश्च न , या बृहद्रथन्तरयोर्यज्ञादेनं तयागच्छति , या पशुषु तय ऋतेयज्ञं , तद्य एवं वेदाह वा एनं अप्रतिक्शातं गच्छति , यावती वाक् तां हि वेद , वाचा हि दीयते, वाचा प्रदीयते, यो गाथानाराशँसीभ्यां सनोति न तस्य प्रतिगृह्य, मनृतेन हि स तत्सनोति, न मत्तस्य, यदा हि तस्य मदो व्येत्यथ तं तत्तपति ॥

1.11.6 अनुवाकः6
सप्तदश वा एते द्वया ग्रहाः प्राजापत्याः , सप्तदशः पुरुषः प्राजापत्य, श्चत्वार्यङ्गानि शिरोग्रीवमात्मा, वाक् सप्तमी, दश प्राणा , अङ्गे'ङ्गे वै पुरुषस्य पाप्मोपश्लिष्टो , यद्व्यतिषजन् ग्रहान् गृह्णाति , अङ्गादङ्गाद् एवैनं पाप्मनो मुञ्चति , श्रीर्वै सोमः , पाप्मा सुरोपयामा , आगते काले प्राञ्चः सोमैरुत्क्रामन्ति, प्रत्यञ्चः सुरोपयामैः , पाप्मनैवैनं विपुनन्ति , तस्मादाहु, र्वाजपेययाज्येव पूत इति, पाप्मना ह्येनं विपुनन्ति, देव सवितः प्रसुव यज्ञं, प्रसुव यज्ञपतिं भगायेति, परुषि परुषि जुहोति , उत्सन्नयज्ञो वा एष , को ह तद् वेद यदेतस्य क्रियते यन् न , सर्वत्वायैव प्रसवाय , वाजस्य नु प्रसवे मातरं महीमि, ति रथं उपावहरति , इयं वा अदितिर , नयैवैनं प्रसूतं सवित्रा चोपावहरति वाजस्योज्जित्यै , अप्स्वन्तरमृतमप्सु भेषजं इत्यश्वान् त्स्नपयन्ति , अप्सुजा वा अश्वा , स्वादेवैनान्योनेर्जनयन्ति , वायुर्वा त्वा मनुर्वा त्वेति युनक्ति, न वा एतन्मनुष्या योक्तुमर्हन्ति , देवताभिरेवैनान् युनक्ति , अपां नपादाशुहेम, न्निति रराटानि प्रतिमार्ष्टि , पूर्वमेव यजुरुदितमनु वदति, दुन्दुभीन् निह्रादयन्ति , वाग् वा एषैकारण्यं प्राविशत् , तामेवोज्जयति , अथो या वनस्पतिषु वाक् तामेवावरुन्धेग् , सप्तदशः सर्वो भवति , प्रजापतिर्वै सप्तदशः , प्रजापतिमेवाप्नोति , उत्सन्नयज्ञो वा एष , संवत्सराद्वा अध्य् उत्सन्नयज्ञोऽवरुध्यते , संवत्सरादेवैनं अध्याप्त्वावरुन्धेत् ॥


1.11.7 अनुवाकः7
देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकं रुहेयमिति ब्रह्मा रथचक्रं सर्पति , सवितृप्रसूत एव वज्रं सर्पति वाजस्योज्जित्यै , अथो प्रजापतिर्वै ब्रह्मा यज्ञस्य , प्रजापतिरेवैनं वज्रादधि प्रसुवति वाजस्योज्जित्यै , साम गायते , सत्यं वै साम , सत्येनैवोज्जयति , उज्जितिर्वाजयति , अन्नं वै वाजो , अन्नाद्यस्योज्जित्यै , देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर्वाजिनो वाजजितो वाजं जेष्मेति रथमभ्यातिष्ठति , सवितॄप्रसूत एव रथमभ्यातिष्ठति वाजस्योज्जित्यै , वाजिनां ऋचोऽन्वाह वाजस्योज्जित्यै , आजिं धावन्ति वाजस्योज्जित्यै , अनुदिष्टै रथैर् धावन्ति , दक्षिणयैव स्वर्गं लोकं एति, यदनुदिष्टै रथैर् धावन्ति दक्षिणया वा एतद्यजमानः सह स्वर्गं लोकं एति , अथैष नैवारः सप्तदशशरावो , देवा ओषधीषु पक्वास्वाजिमयु, स्ता बृहस्पतिरुदजयत् , स एतान् निवारान् न्यवृणीत , तन् निवाराणां निवारत्वं , बृहस्पतिर्वै ता उदजयत् , तं एव भागिनं करोति अहिंसायै, तमधश्चात्वालं हरन्ति , इह वा असा आदित्य आसीत् , तं इतोऽध्यमुं लोकमहरन् तद्यतोऽध्यमुं लोकमहरन् यच् चात्वालेऽवदधति यजमानं एव स्वर्गं लोकं हरन्ति , आ मा वाजस्य प्रसवो जगम्यादि, ति रथेषु पुनरासृतेषु जुहोति, यमेव वाजमुदजैषुस्तमात्मन् धत्ते , अजीजपत वनस्पतया , इन्द्राय वाचं विमुच्यध्वमि, ति रथविमोचनीयं जुहोति , यजुषैव युज्यन्ते, यजुषा विमुच्यन्ते, वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागं अवजिघ्रतमि, ति भागिना एवैना अक, र्वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागे निमृज्येथामि, ति सर्वान् एवैनान् प्रीणाति , अर्धवशां च सुरोपयामांश्च हरन्ति य आजिं धावन्ति , तेभ्यो यमेव वाजमुदजैषुस्तं परिक्रीणीते, मधुष्ठालं ब्रह्मणे , ब्रह्मण एव तेन परिक्रीणीते , ककुभो राजपुत्रः प्राश्नाति , वीर्यं वै ककुप् , वीर्यमेवात्मन् धत्ते ॥

1.11.8 अनुवाकः8
स्वो रोहावेहि, स्वो रोहावेहि, स्वो रोहावेति , स्वर्वा एतद् रोक्ष्यन् पत्न्या संवदते , अथो अन्वारंभो वा एष यज्ञस्य , पत्न्या सह स्वर्गे लोके भवतो , आयुर्यज्ञेन कल्पते, प्राणो यज्ञेन कल्पता, इति एतावान् वै पुरुषो , यावान् एव पुरुषस्तमाप्नोति , स सर्वो भूत्वा स्वर्गं लोकं एति, दर्भमयं वासो भवति पवित्रत्वाय , गौधूमं चषालं , प्राजापत्या वै गोधूमा, अर्धं प्रत्यासामोषधीनां सहैवान्नाद्येनामुं लोकं एति , वाजाय स्वाहा प्रसवाय स्वाहेति , त्रयोदश वा एता आहुतय, स्त्रयोदश मासाः संवत्सरः , संवत्सरं वावास्मा एतदुपदधाति स्वर्गे लोके , तस्मिन्न् एव प्रतितिष्ठति , अन्नाय त्वा, वाजाय त्वा, वाजजित्यायै त्वे,त्यूषपुटैरर्पयन्ति , प्राजापत्या वा ऊषाः, श्वः श्वो भूयांसो भवन्ति , अन्नाद्येनैवैनं अर्पयन्ति , एति वा एषोऽस्माल्लोकाद् योऽमुं लोकं एति , यद् ऊषपुटैरर्पयन्ति तेनास्माल्लोकान् नैति , तेनास्मिंल्लोके धृतो , हिरण्यमभ्यवरोहति , तेजो वै हिरण्यम् , तेजस्येव प्रतितिष्ठति , बस्ताजिनं अभ्यवरोहति , पशवो वै बस्ताजिनं , पशुष्वेव प्रतितिष्ठति , अन्नस्यान्नस्य जुहोति वाजप्रसव्याभि , रन्नं वै वाजो , अन्नाद्यस्यावरुद्ध्यै , उभयं ग्राम्यं चारण्यं च जुहोति , उभयस्यान्नाद्यस्यावरुद्यै ् , औदुम्बरेण स्रुवेण जुहोति , ऊर्ग् वा उदुम्बर , ऊर्जोऽवरुद्यैद् , सप्तभिर्जुहोति , सप्त वै छन्दांसि , छन्दोभिरेवास्मा अन्नाद्यमवरुन्धेवर , अथ वाग् वै छन्दांसि वाचैवास्मा अन्नाद्यं प्रयच्छति ॥

1.11.9 अनुवाकः9
अथैतेऽतिग्राह्या , यदेवादः परमन्नाद्यमनवरुद्धं तस्यैतेऽवरुद्यै े गृह्यन्ते , अथैते पशवा आलभ्यन्ते यज्ञक्रतूनामवरुद्यैन् , यदाग्नेयो अग्निष्टोमं तेनावरुन्धेअन, यदैन्द्राग्न उक्थ्यं तेन , यदैन्द्रो वृष्णिः षोडशिनं तेन , यत् सारस्वती मेषी यदेवादः सप्तदशं स्तोत्रमनाप्तमनवरुद्धं तदेवैतयाप्नोति तदवरुन्धेते , अथैषा वशा , देवाश्च वा असुराश्चास्पर्धन्त , नेमे देवा आसन् नेमेऽसुरा, स्ते देवा एतां वशामपश्यन् , तया लोकं द्वितीयमवृञ्जतासुरलोकं , यस्यावद्यति स देवलोको, यस्य नावद्यति सोऽसुरलोक, स्तं लोकं एवैतया द्वितीयं यजमानो वृङ्क्ते भ्रातृव्यलोकं एव, सारस्वत्यन्येषामुत्तमा भवति, सारस्वत्यन्येषां प्रथमा , वाग् वै सरस्वती, वाचा यज्ञः संततो , वाचैव यज्ञं संतनोति , यद्वै यज्ञस्य विद्वान् न करोति यच् चाविद्वानन्तरेति तच्छिद्रम् , तद्वाचैव सरस्वत्या कल्पयति , अनिरुक्तः प्रातःसवः , प्रजापतिमेव तेनाप्नोति , वियोनिर्वै वाजपेयः प्राजापत्यः, स निरुक्तसामा , यदनिरुक्तः प्रातःसवो तेन सयोनि रथन्तरं साम भवति आशीया, उज्जित्यै , अथो इयं वै रथन्तरम् , अस्यां एव सूयते , वाजवतीर्माध्यंदिने पवमाने भवन्ति , अन्नं वै वाजो , अन्नाद्यस्यावरुद्यैर् , चित्रवतीरार्भवे पवमाने भवन्ति स्वर्गस्य लोकस्य समष्ट्यै , शिपिविष्टवतीषु स्तुवते , एषा वै प्रजापतेः पशुष्ठास्तनूर्यञ् शिपिविष्टं , तस्माञ् शिपिविष्टवतीषु स्तुवत , आष्ट्रादंष्ट्रम् उत्तमं उक्थानां भवति , उत्तरे एव स्तोत्रे अभिसंतनोति , यद्वै यज्ञस्यातिरिच्यतेऽमुं तं लोकमभ्यतिरिच्यते , बृहत् त्वेवामुं लोकमाप्तुमर्हति , इन्द्रियं वै वीर्यं बृहद् , यद् बृहता स्तुवते , इन्द्रिये वा एतद्वीर्ये ततो यज्ञस्य यजमानः प्रतितिष्ठति ॥

1.11.10 अनुवाकः10
अग्निरेकाक्षरां उदजयद, श्विनौ द्व्यक्षरां विष्णुस्त्र्यक्षरां , सोमश्चतुरक्षरां, सविता पञ्चाक्षरां, पूषा षडक्षरां, मरुतः सप्ताक्षरां, बृहस्पतिरष्टाक्षरां, मित्रो नवाक्षरां, वरुणो दशाक्षरा, मिन्द्रा एकादशाक्षरां, विश्वे देवा द्वादशाक्षरां, वसवो त्रयोदशाक्षरां, रुद्राश्चतुर्दशाक्षरा, मादित्याः पञ्चदशाक्षरामदितिः षोडशाक्षरां, प्रजापतिः सप्तदशो , अग्निरेकाक्षरया वाचं उदजयदश्विनौ द्व्यक्षरया प्राणापाना उदजयतां, विष्णुस्त्र्यक्षरया त्रीणिमांल्लोकान् उदजयत्, सोमश्चतुरक्षरया चतुष्पदः पशून् उदजयत्सविता पञ्चाक्षरया पञ्च दिशा उदजयत्, पूषा षडक्षरया षड् ऋतून् उदजय, न्मरुतः सप्ताक्षरया सप्तपदां शक्वरीम् उदजयन् , बृहस्पतिरष्टाक्षरयाष्टौ दिशा उदजय, च्चतस्रो दिशश्चतस्रोऽकुशलीर् मित्रो नवाक्षरया नव प्राणान् उदजयद्, वरुणो दशाक्षरया विराजं उदजय, दिन्द्रा एकादशाक्षरया त्रिष्टुभम् उदजयद्विश्वे देवा द्वादशाक्षरया जगतीम् उदजयन्वसवस्त्रयोदशाक्षरया त्रयोदशं मासं उदजयन्, रुद्राश्चतुर्दशाक्षरया चतुर्दशं मासं उदजयन्नादित्याः पञ्चदशाक्षरया पञ्चदशं मासं उदजयन्नदितिः षोडशाक्षरया षोडशं मासं उदजयत्, प्रजापतिः सप्तदशो , अग्निरेकाक्षरयोदजयन्माम् इमां पृथिवी, मश्विनौ द्व्यक्षरया प्रमामन्तरिक्षं, विष्णुस्र्त्र्यक्षरया प्रतिमां स्वर्गं लोकं, सोमश्चतुरक्षरयाश्रीवीर्नक्षत्राणि, सविता पञ्चाक्षरयाक्षरपङ्क्तिम् उदजयद्, या ह्यक्षरपङ्क्तिः सा पङ्क्ति, श्चतुर्धा ह्येतस्याः पञ्च पञ्चाक्षराणि, पूषा षडक्षरया गायत्रीम् उदजयच्चतुर्धा ह्येतस्याः षट् षडक्षराणि, मरुतः सप्ताक्षरयोष्णिहं उदजयंश् चतुर्धा ह्येतस्याः सप्त सप्ताक्षराणि, बृहस्पतिरष्टाक्षरयानुष्टुभम् उदजयच्चतुर्धा ह्येतस्या अष्टा अष्टा अक्षराणि मित्रो नवाक्षरया बृहतीम् उदजयच्चतुर्धा ह्येतस्या नव नवाक्षराणि, वरुणो दशाक्षरया विराजं उदजयच्चतुर्धा ह्येतस्या दश दशाक्षराणी, न्द्रा एकादशाक्षरया त्रैष्टुभम् उदजयच्चतुर्धा ह्येतस्य एकादशैकादशाक्षराणि, विश्वे देवा द्वादशाक्षरया जगतीम् उदजयंश्, चतुर्धा ह्येतस्या द्वादश द्वादशाक्षराणि, वसवो त्रयोदशाक्षरया त्रयोदशं मासं उदजयन्, रुद्राश्चतुर्दशाक्षरया चतुर्दशं मासं उदजयन्नादित्याः पञ्चदशाक्षरया पञ्चदशं मासं उदजय, न्नदितिः षोडशाक्षरया षोडशं मासं उदजयत् , प्रजापतिः सप्तदशो , अग्नया एकाक्षरया छन्दसे स्वाहाश्विभ्यां द्व्यक्षराय छन्दसे स्वाहा, विष्णवे त्र्यक्षराय छन्दसे स्वाहा, सोमाय चतुरक्षराय छन्दसे स्वाहा, सवित्रे पञ्चाक्षराय छन्दसे स्वाहा, पूष्णे षडक्षराय छन्दसे स्वाहा, मरुद्भ्यः सप्ताक्षराय छन्दसे स्वाहा, बृहस्पतयेऽष्टाक्षराय छन्दसे स्वाहा, मित्राय नवाक्षराय छन्दसे स्वाहा, वरुणाय दशाक्षराय छन्दसे स्वाहे, न्द्रायैकादशाक्षराय छन्दसे स्वाहा, विश्वेभ्यो देवेभ्यो द्वादशाक्षराय छन्दसे स्वाहा, वसुभ्यो त्रयोदशाक्षराय छन्दसे स्वाहा, रुद्रेभ्यश्चतुर्दशाक्षराय छन्दसे स्वाहा,ऽदित्येभ्यः पञ्चदशाक्षराय छन्दसे स्वाहा ऽदित्यै षोडशाक्षराय छन्दसे स्वाहा प्रजापतिः सप्तदशः ॥

इति प्रथमकाण्डे वाजपेयाभिधान एकादशः प्रपाठकः।।

इति प्रथमकाण्डं समाप्तम्।।