सामग्री पर जाएँ

मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ०९

विकिस्रोतः तः

चतुर्होतारः

1.9.1 अनुवाकः1
चित्तिः स्रुक् , चित्तमाज्यं , वाग् वेदिरा, धीतं बर्हिः, केतो अग्नि,र्विज्ञातमग्नीत् , वाचस्पतिर् होता , मन उपवक्ता , प्राणो हविः , सामाध्वर्युरि , न्द्रं गच्छ स्वाहा, पृथिवी होता , द्यौरध्वर्युस्त्व,ष्टाग्नीत् , मित्र उपवक्ता , वाचस्पते वाचो वीर्येण संभृततमेनायक्षसे, यज्ञपतये वार्यमा स्वस्क,र्वाचस्पतिः सोममपात् , जजनदिन्द्रमिन्द्रियाय , सोमः सोमस्य पिबतु , शुक्रः शुक्रस्य पिबतु , श्रातास्त इन्द्र सोमा वातापयो हवनश्रुतो , अग्निर् होता , अश्विनाध्वर्यू , रुद्रो अग्नीत् , बृहस्पतिरुपवक्ता , वाचस्पते हिन्विधे नामन् विधेम ते नाम, विधेस्त्वमस्माकं नाम, वाचस्पतिः सोममपात् , आस्मासु नृम्णं धात् , सोमः सोमस्य पिबतु , शुक्रः शुक्रस्य पिबतु , श्रातास्त इन्द्र सोमा वातापयो हवनश्रुतो , महाहविर् होता , सत्यहविरध्वर्युर, चित्तपाजा अग्नीत् , अचित्तमना उपवक्ता , अनाधृष्यश्चाप्रतिधृष्यश्चाभिगरौ , अयास्य उद्गाता , विधे नामन् विधेम ते नाम , विधेस्त्वमस्माकं नाम , मा देवानां तन्तुश्छेदि मा मनुष्याणां , नमो मात्रे पृथिव्यै ॥

1.9.2 अनुवाकः2
अग्निर्यजुर्भिः , सविता स्तोमै , रिन्द्र उक्थामदै , र्बृहस्पतिश्छन्दोभिर , दितिरपश्च बर्हिश्च , आदित्या आज्यै , र्मरुतः सदोहविर्धानै , र्विष्णुर् दीक्षातपोभ्यां , मित्रावरुणौ धिष्ण्यैर , श्विना आशिरा, त्वष्टा समिधा , पूषा स्वाहाकारै , र्वाग् वायोः पत्नी , पथ्या पूष्णः, पृथिव्यग्नेः , सेनेन्द्रस्य , धेना बृहस्पते , र्गायत्री वसूनां , त्रिष्टुब् रुद्राणां , जगत्यादित्याना, मनुष्टुब् मित्रस्य, विराड् वरुणस्य, पङ्क्तिर् विष्णो , र्दीक्षा सोमस्य ॥

1.9.3 अनुवाकः3
प्रजापतिर्वा एक आसीत् , सोऽकामयत, यज्ञो भूत्वा प्रजाः सृजेयेति , स दशहोतारं यज्ञमात्मानं व्यधत्त , स चित्तिं स्रुचं अकुरुत, चित्तमाज्यं , वाचं वेदिमा,ऽधीतं बर्हिः , स दशधात्मानं विधाय मिथुनं कृत्वायतनमैच्छत्, स वै त्रिवृत एव प्राणानायतनं अचायत् , तैः प्रजा असृजत , ऊर्ध्व उदतृणत् पूर्वपक्षः पञ्चदश, स्तेन देवानसृजत, ते देवा ऊर्ध्वा आप्यायन्त , ऊर्ध्व आप्यायते य एवं वेद , अवाङ् अवातृणदपरपक्षः पञ्चदश, स्तेनासुरानसृजत , तेऽसुरा अवाञ्चः प्राध्वंसन्त , प्रास्य भ्रातृव्यो ध्वंसते य एवं वेद, दिवा देवानसृजत नक्तमसुरान् , ते देवाः शुक्ला अभवन् कृष्णा असुराः, सत्येन देवानसृजतानृतेनासुरान् , ते देवाः सत्यमभवन् , अनृतमसुराः , दक्षिणेन हस्तेन देवानसृजत सव्येनासुरान् , ते देवा वीर्यवन्तोऽभवन् मृद्धा असुरा,स्ततो देवा अभवन् परासुरा,स्तद्य एवं वेद भवत्यात्मना, परास्य भ्रातृव्यो भवति , सोऽमन्यत , क्व होष्यामीति, स तदेव नाविन्दत् प्रजापतिर् यत्राहोष्यन् , नो अस्यान्यद्धोत्वमासीत् प्राणात् , स वा इन्द्रमेवान्तरात्मनायतनं अचायत् , स इन्द्रं गच्छ स्वाहेत्यपानत् वीर्यं वै प्राणो वीर्यमिन्द्रो , वीर्य एव वीर्यमजुहोत् ॥


1.9.4 अनुवाकः4
ते वै चतुर्होतारो न्यसीदन् त्सोमगृहपतया, इन्द्रं जनयिष्यामा इति पृथिवी होतासीद् , द्यौरध्वर्युस्त्वष्टाग्नी,न्मित्र उपवक्ता ते वा एतौ ग्रहा अगृह्णत, वाचस्पते वाचो वीर्येण संभृततमेनायक्षसे , यज्ञपतये वार्यमा स्वस्करिति , त एकविंशमायतनमचायन् , तेनेन्द्रमजनयन् , त इन्द्रं जनयित्वाब्रुवन् , स्वरयामेति, ते वै पञ्चहोतारो न्यसीदन् वरुणगृहपतयो , अग्निर् होतासीत् , अश्विनाध्वर्यू , रुद्रो अग्नीद् , बृहस्पतिरुपवक्ता , यदश्विनेति , तेन पञ्चहोता , ते वा एतौ ग्रहा अगृह्णत , वाचस्पते हिन्विधे नामन् विधेम ते नाम , विधेस्त्वमस्माकं नामेति , ते त्रिणवमायतनं अचायन् , तं सेतुं कृत्वा स्वरायन् , तेन पशूनसृजन्त , तान् देवताभ्योऽनयन् यमायाश्वमनयन् , तस्यार्धमिन्द्रियस्यापाक्रामत् , स एतं प्रतिग्रहमपश्यत् ॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि , यमाय त्वा मह्यं वरुणो ददाति , सोऽमृतत्वमशीय , मयो दात्रे भूयात् , मयो मह्यं प्रतिग्रहीत्रे ॥ इति सोऽर्धमिन्द्रियस्योपाधत्त , अर्धमिन्द्रियस्योपधत्ते य एवं विद्वानश्वं प्रतिगृह्णाति , अथ योऽविद्वान् प्रतिगृह्णात्यर्धमस्येन्द्रियस्यापक्रामति , रुद्राय गामनयन् , तस्य तॄतीयमिन्द्रियस्यापाक्रामत् , स एतं प्रतिग्रहमपश्यत् ॥ रुद्राय त्वा मह्यं वरुणो ददाति , सोऽमृतत्वमशीय , मयो दात्रे भूयान् , मयो मह्यं प्रतिग्रहीत्रे ॥ इति स तॄतीयमिन्द्रियस्योपाधत्त , तॄतीयमिन्द्रियस्योपधत्ते य एवं विद्वान् गां प्रतिगृह्णाति , अथ योऽविद्वान् प्रतिगृह्णाति तॄतीयमस्येन्द्रियस्यापक्रामति , अग्नये हिरण्यमनयन् , तस्य चतुर्थमिन्द्रियस्यापाक्रामत् , स एतं प्रतिग्रहमपश्यत् ॥ अग्नये त्वा मह्यं वरुणो ददाति , सोऽमृतत्वमशीय , मयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे ॥ इति स चतुर्थमिन्द्रियस्योपाधत्त , चतुर्थमिन्द्रियस्योपधत्ते य एवं विद्वान् हिरण्यं प्रतिगृह्णाति , अथ योऽविद्वान् प्रतिगृह्णाति चतुर्थमस्येन्द्रियस्यापक्रामति , बृहस्पतये वासोऽनयन् , तस्य पञ्चमं इन्द्रियस्यापाक्रामत् , स एतं प्रतिग्रहमपश्यत् ॥ ग्नास्त्वाकृन्तन्नपसोऽतन्वत , धियोऽवयन् , बृहस्पतये त्वा मह्यं वरुणो ददाति , सोऽमृतत्वमशीय , मयो दात्रे भूयान् , मयो मह्यं प्रतिग्रहीत्रे ॥ इति स पञ्चमं इन्द्रियस्योपाधत्त , पञ्चमं इन्द्रियस्योपधत्ते य एवं विद्वान् वासः प्रतिगृह्णाति , अथ योऽविद्वान् प्रतिगृह्णाति पञ्चमं अस्येन्द्रियस्यापक्रामति , उत्तानायाङ्गिरसायाप्राणदनयं, स्तस्य षष्ठमिन्द्रियस्यापाक्रामत् , स एतं प्रतिग्रहमपश्यत् ॥ उत्तानाय त्वाङ्गिरसाय मह्यं वरुणो ददाति , सोऽमृतत्वमशीय , मयो दात्रे भूयान् , मयो मह्यं प्रतिग्रहीत्रे ॥ इति स षष्ठमिन्द्रियस्योपाधत्त , षष्ठमिन्द्रियस्योपधत्ते य एवं विद्वानप्राणत् प्रतिगृह्णाति , अथ योऽविद्वान् प्रतिगृह्णाति षष्ठमस्येन्द्रियस्यापक्रामति ॥ क इदं कस्मा अदात् , कामः कामायादात् , कामो दाता , कामः प्रतिग्रहीता , कामाय त्वा प्रतिगृह्णामि , कामैतत्ते ॥
इति समुद्रो वै कामो , दक्षिणा कामो , दक्षिणयैव दक्षिणां प्रतिगृह्णाति , यो वै तां देवतां वेद याग्रे दक्षिणामनयद् दक्षिणीयो ह भवति , नयति दक्षिणां ॥

1.9.5 अनुवाकः5
ते वै स्वर्यन्तोऽब्रुवन् , अतो नो यूयं प्रयच्छत , केनायतनेनात्रैव वेत्स्यथेत्यब्रुवन् , ते वै सप्तहोतारो न्यसीदन्नर्यमगृहपतयो , महाहविर् होतासीत् , सत्यहविरध्वर्युर , चित्तपाजा अग्नीत् , अचित्तमना उपवक्ता , अनाधृष्यश्चाप्रतिधृष्यश्चाभिगरा , अयास्य उद्गाता , ते वा एतं ग्रहमगृह्णत , विधे नामन्विधेम ते नाम , विधेस्त्वमस्माकं नामेति , ते त्रयस्त्रिंशमायतनं अचायन् , तेनेदं समतन्वन् ,
सप्तहोत्रा च वा इदं संततं त्रयस्त्रिंशेन च , यदिदं देवमनुष्या अन्योऽन्यस्मै संप्रयच्छंते , प्राणो वै दशहोता , चक्षुश्चतुर्होता , श्रोत्रं पञ्चहोता , वाक् चात्मा च सप्तहोता , अग्निहोत्रं वै दशहोता , दर्शपूर्णमासौ चतुर्होता , चातुर्मास्यानि पञ्चहोता , सौम्योऽध्वरः सप्तहोता , आयुषे कमग्निहोत्रं हूयते , सर्वमायुरेति य एवं वेद , चक्षुषे कं दर्शपूर्णमासा इज्येते , न चक्षुषो गृहे य एवं वेद , श्रोत्राय कं चातुर्मास्यानीज्यन्ते , न श्रोत्रस्य गृहे य एवं वेद , वाचे चात्मने च कं सौम्योऽध्वर इज्यते , न वाचो नात्मनो गृहे य एवं वेद , प्रजापतिर्वै दशहोता , एकः सन् भूयिष्ठभाग् व्याहृतीनां , एकः सन् भूयिष्ठो भवति य एवं वेद , तेजसे कं पूर्णमा इज्यते , सौम्यो वै ब्राह्मणो देवतया गायत्रछन्दा , गायत्रोऽग्निः , स्वे वावास्मा एतद्देवते सप्रस्थे अक, र्नास्यान्यो योगक्षेमस्येशे , आयुषे कममावास्येज्यते , समीव वा एष आभ्रियते , सर्वमायुरेति य एवं वेद , स्वर्गाय लोकाय कं सौम्योऽध्वर इज्यते , एति स्वर्गं लोकं य एवं वेद , दशहोत्राग्निहोत्रमुन्नीतमभिमृशेत् , दशहोत्रा वै देवा अग्निहोत्रमसृजन्त , प्रजातमेनत् सृष्टमालब्ध , चतुर्होत्रा दर्शपूर्णमासा अभिमृशेत् , चतुर्होत्रा वै देवा दर्शपूर्णमासा असृजन्त , प्रजाता एनौ सृष्टा आलब्ध , पञ्चहोत्रा चातुर्मास्यानि अभिमृशेत् , पञ्चहोत्रा वै देवाश्चातुर्मास्यानि असृजन्त , प्रजातानि एनानि सृष्टान्यालब्ध , सप्तहोत्रा सौम्यमध्वरम् अभिमृशेत् , सप्तहोत्रा वै देवाः सौम्यमध्वरम् असृजन्त , प्रजातं एनं सृष्टमालब्ध , दशहोतारं वदेत् पुरस्तात् सामिधेनीनां , प्रजापतिर्वै दशहोता , यज्ञमुखं सामिधेन्यो , मिथुनं वावास्यैतद्यज्ञमुखे दधाति , चतुर्होतारं वदेत् पुरस्तात् प्रयाजानां , चतुर्होत्रा वै देवा इन्द्रमजनयन् , इन्द्रं वावास्यैतद्यज्ञेऽजीजनत् , सेन्द्रेण यज्ञेन यजते , पञ्चहोतारं वदेत् पुरस्ताद्धविषां, पञ्चहोत्रा वै देवाः पशूनसृजन्त , परासुरानभावयन् , पशून् एव सृजते, परा भ्रातृव्यं भावयति , सप्तहोतारं वदेत् पुरस्तादनुयाजानां, सप्तहोत्रा वै देवाः स्वरायन् , स्वरेवैति , दशहोतारं वदेत् पुरस्ताद् बहिष्पवमानस्य , प्रजापतिर्वै दशहोता , यज्ञमुखं बहिष्पवमानं , मिथुनं वावास्यैतद्यज्ञमुखे दधाति , चतुर्होतारं वदेत् पुरस्तादाज्यानां , पञ्चहोतारं वदेत् पुरस्तान्माध्यंदिनस्य पवमानस्य, सप्तहोतारं वदेत् पुरस्तादार्भवस्य पवमानस्य , सप्तहोत्रा वै देवाः स्वरायन् , स्वरेवैति, यो वै चतुर्होतॄननुसवनं तर्पयितव्यान् वेद तॄप्यति प्रजया च पशुभिश्च , एते वै चतुर्होतारोऽनुसवनं तर्पयितव्या, यद् ब्राह्मणा बहुविदस्तान् एव तर्पयति, त एनं तृप्ताः प्रजया च पशुभिश्च तर्पयन्ति ॥

1.9.6 अनुवाकः6
यः प्रजया पशुभिर्न प्रजायेत स द्वादशाहानि बरासीं परिधाय तप्तं पिबन्नधः शयीत , तपो वै तप्त्वा प्रजापतिर् विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश्च प्राजायत , अविहितो हि वा एषोऽमिथुनो , अथैष न प्रजायते , तत्तप एव तप्त्वा विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश्च प्रजायते , प्रजापतिर्वै दशहोता , ज्यायान्वै प्रजापतिर् होमात् , तस्मात्तन् न जुह्वति , प्राण्यापानेत् , अपानं एव प्राणं जुहोति , संग्रामिणं चतुर्होत्रा याजयेत् , चतुर्गृहीतमाज्यं कृत्वा चतुर्होतारं व्याचक्षीत , पूर्वेण ग्रहेणार्धं जुहुयादुत्तरेणार्धम् , चतुर्होत्रा वै देवा इन्द्रमजनयन् , यतरस्मिन् खलु वै संग्राम इन्द्रो भवति स जयति , इन्द्रं वावास्यैतत् संग्रामेऽजीजनत् , जयति संग्रामं , प्रजाकामं चतुर्होत्रा याजयेत् , चतुर्गृहीतमाज्यं कृत्वा चतुर्होतारं व्याचक्षीत , पूर्वेण ग्रहेणार्धं जुहुयादुत्तरेणार्धम् , चतुर्होत्रा वै देवा इन्द्रमजनयन् , प्रजामस्मै जनयति , नेव त्वपरोऽनुजायते , तेजस्वीव तु भवति , सर्वेण ह्येनमिन्द्रियेण जनयति , पशुकामं पञ्चहोत्रा याजयेत् , चतुर्गृहीतमाज्यं कृत्वा पञ्चहोतारं व्याचक्षीत , पूर्वेण ग्रहेणार्धं जुहुयादुत्तरेणार्धम् , पञ्चहोत्रा वै देवाः पशूनसृजन्त , पशून् एव सृजते , भ्रातृव्यवन्तं पञ्चहोत्रा याजयेत् , चतुर्गृहीतमाज्यं कृत्वा पञ्चहोतारं व्याचक्षीत , पूर्वेण ग्रहेणार्धं जुहुयादुत्तरेणार्धम् , पञ्चहोत्रा वै देवाः असुरान् पराभावयन् , परा पाप्मानं भ्रातृव्यं भावयति , स्वर्गकामं पञ्चहोत्रा याजयेत् , चतुर्गृहीतमाज्यं कृत्वा पञ्चहोतारं व्याचक्षीत , पूर्वेण ग्रहेणार्धं जुहुयादुत्तरेणार्धम् , पञ्चहोत्रा वै देवाः स्वरायन् , स्वरेवैति , यो यज्ञस्य संस्थामनु पापीयान्मन्येत तं सप्तहोत्रा याजयेत् , सप्तहोत्रा वै देवा इदं समतन्वन् , समतत ताजक् , तादृङ् पुनर्भवति यादृक् सन् यजते ॥

1.9.7 अनुवाकः7
ब्रह्मवादिनो वदन्ति , यदेको यज्ञश्चतुर्होताथ कस्मात्सर्वे चतुर्होतार उच्यन्ता इति , चत्वारो वा एते यज्ञा, स्तेषां चत्वारो होतारस्त,च्चतुर्होतृणां चतुर्होतृत्वं , चतुर्णामेकः संवत्सरं नाश्नीयात् , तद् व्रतं , अन्नं वै चतुर्होतारो , अन्नवान् भवति य एवं वेद , अथ यमनूचानं सन्तं नोपनमेत् सोऽरण्यं परेत्य ब्राह्मणं उपद्रष्टारं कृत्वा चतुर्होतॄन् व्याचक्षीत , ब्रह्मणो वा एतदुदरणं यच्चतुर्होत्रारो , ब्राह्मण उपद्रष्टा , उपद्रष्टुरेवान्ते ब्रह्माविरकर् , तदेनं आविर्भूतमाविदं गमयति , अथ यौ विशपेयाताम, हं भूयो वेदाहं भूयो वेदेति , एष वाव भूयो वेद यश्चतुर्होतॄन् वेद , चतुर्होतारो वै यज्ञस्य योनिः , चतुर्होतृभ्योऽधि यज्ञो निर्मितो , नैनं विशप्तं हिनस्ति , चतुर्होतारं वदेद् दशमेऽहन्नन्नकामो , अन्नं वै चतुर्होतारो , अन्तो दशमं अहर् , अन्तमेव गत्वान्नाद्यमवरुन्धेन् , एतद्वा अस्यैतर्य्तप्रयुक्तं , एतदनवरुद्धं , तदेव प्रयुङ्क्ते , तदवरुन्धे ा , इयं वै सर्पराज्ञी , तस्या वा एतदुक्थं यच्चतुर्होतारो , होता वदति , स्तुतं वा एतदनुशँसति , न हि स्तुतमननुशस्तमस्ति ॥

1.9.8 अनुवाकः8
देवाश्च वा असुराश्चास्पर्धन्त , ते वै समावदेव यज्ञे कुर्वाणा आयन् , यदेव देवा अकुर्वत तदसुरा अकुर्वत , तेन व्यावृतमगच्छन् , ते देवा अब्रुवन् , एतेमं यज्ञं तिर उपर्यसुरेभ्यो तंस्यामहा इति , तं एतावञ्श आदायोदक्रामन् , अग्निर्यजुर्भिः , सविता स्तोमैः , इन्द्र उक्थामदै , र्बृहस्पतिश्छन्दोभिरिति , तं तिर उपर्यसुरेभ्योऽतन्वत , तं एषां यज्ञमसुरा नान्ववायन् , तेन वा एनानपानुदन्त , ततो देवा अभवन् , परासुरा, स्तद्य एवं वेद तिर उपरि भ्रातृव्याद्यज्ञं तनुते, भवत्यात्मना , परास्य भ्रातृव्यो भवति , एतैरेव जुहुयात् समृतयज्ञे , चतुर्भिश्चतुर्भिरन्वाक्शायं पुरस्तात् प्रातरनुवाकस्य , एतावान् वै यज्ञो , यावान् एव यज्ञस्तं वृङ्क्ते , सयज्ञो भवत्ययज्ञा इतर , एतैरेव जुहुयात् पुरस्ताद् दीक्षाया , एषा वै प्रत्यक्षं दीक्षा , तामेवालब्ध , एतैरेव जुहुयात् पुरस्ताद् द्वादशाहस्य , एष वै प्रत्यक्षं द्वादशाह, स्तं एवालब्ध , एतैरेवातिथ्यमभिमृशेत् , यज्ञेनैव यज्ञं आलब्ध , दक्षिणतो वै देवानसुरा यज्ञमजयन् , त उदञ्चः पत्नीभिः सहाग्नीध्रं प्राविशन् , तान् पत्नीभिः सह प्रक्शाय जिह्रियतोऽसुरा अपावर्तन्त , तांस्तत एवानुत्थायाजयन् , ततो देवा अभवन् परासुरा, स्तद्य एवं वेद भवत्यात्मना परास्य भ्रातृव्यो भवति , नास्य भ्रातृव्यो गृहान् न पशूनभ्यारोहति , अभि भ्रातृव्यस्य गृहानभि पशूनारोहति य एवं वेद , एतानि एवाग्नीधेऽनुब्रूयात् , अग्नीद्वै पात्नीवतस्य यजति , तृप्ता पत्नी रेतो धत्ते, प्र प्रजया च पशुभिश्च प्रजायते , एतैरेव जुहुयादन्तरा त्वष्टारं च पत्नीश्च संवत्सरं प्रजाकामो , मिथुनं वै त्वष्टा च पत्नीश्च , त्वष्टारं वा एतन् मिथुनेऽप्यस्राट् प्रजननाय , तन् मिथुनं , तस्मादेव मिथुनाद्यजमानः प्रजया च पशुभिश्च प्रजायते , विन्दते प्रजां , आस्य वीरो जायते , यदि संवत्सरं जुह्वन् न विन्देन्नादृत्यं ॥
इति प्रथमकाण्डे चातुर्होतृको नाम नवमः प्रपाठकः।।