मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

अग्निहोत्र-ब्राह्मणम्

1.8.1 अनुवाकः1
प्रजापतिः प्रजा असृजत , स वा अग्निम् एवाग्रे मूर्धतोऽसृजत , स यतोऽग्निमसृजत तत् पर्यमार्ट् , ततो लोहितमवाहरत् , तन् न्यमार्ट् , तत उदुम्बरः समभवत् , तस्मादुदुम्बरः प्राजापत्य,स्तस्माल्लोहितं फलं पच्यते , सोऽस्मात् सृष्टः पराङैद् भागधेयमिच्छमानः , स तदेव नाविन्दत् प्रजापतिर् यदहोष्यत् , स स्वं चक्षुरादायाजुहोत् ॥ अग्निर् ज्योतिर् ज्योतिरग्निः स्वाहा ॥ इति तद्वा अदश्चक्षुर्मन्यन्ते यदसा आदित्यो , अमुं वा एतदस्मिन् जुह्वतो मन्यन्ते , सत्यं वै चक्षुः , सत्येनाग्निहोत्रं जुहोति य एवं विद्वान् जुहोति , भविष्णुः सत्यं भवति य एवं वेद , कस्मै कमग्निहोत्रं हूयता इति ब्रह्मवादिनो वदन्ति , अग्नये वा एतद् धृत्यै गुप्त्यै हूयते , यत् सायं जुहोति रात्र्यै तेन दाधार , यत् प्रातर् अह्ने तेना,ग्नौ सर्वान् यज्ञान्त्संस्थापयन्ति , अथ कस्मादेतदेवाग्निहोत्रमुच्यता, इति ब्रह्मवादिनो वदन्ति , होत्रा वै देवेभ्योऽपाक्रामन्नग्निहोत्रे भागधेयमिच्छमाना , यत् ॥ अग्निहोत्रम् ॥ इत्याह तेन होत्रा आभजति , तेनैना भागिनीः करोति , एषा वा अग्रेऽग्ना आहुतिरहूयत, तदग्निहोत्रस्याग्निहोत्रत्वं , सोऽस्मात् सृष्टः पराङैद् भागधेयमिच्छमानः, स तदेव नाविन्दत् प्रजापतिर् यदहोष्यत् , तं स्वा वागभ्यवदत् , जुहुधीति, स इत एवोन्मृज्याजुहोत् ॥ स्वाहा ॥ इति स्वा ह्येनं वागभ्यवदत् , तत् स्वाहाकारस्य जन्म , तस्मादग्निहोत्रे स्वाहाकार,स्तस्माल् ललाटे च पाणौ च लोम नास्ति , अतो हि स तदादायाजुहोत् , तस्माद्यस्य दक्षिणतः केशा उन्मृष्टास्तमाहु , र्ज्येष्ठलक्मीऽतति , प्रजापतिर् ह्येतदग्रे ज्येष्ठ उदमृष्ट , अनेन संमिता स्रुक् कार्या , अनेन वा अग्रेऽग्ना आहुतिरहूयत , तस्या आहुत्याः पुरुषोऽसृज्यत , द्वितीयामजुहोत् , ततोऽश्वोऽसृज्यत , तस्मादश्व उभयादन् , अनन्तर्हितो हि पुरुषादसृज्यत, तस्मादेनं प्रत्यञ्चं तिष्ठन्तं मन्यन्ते , अश्वो नू पुरुषा इति तृतीयामजुहोत् , ततो गौरसृज्यत , चतुर्थीमजुहोत् , ततोऽविरसृज्यत , पञ्चमीमजुहोत् , ततोऽजासृज्यत , षष्ठीमजुहोत् , ततो यवोऽसृज्यत , सप्तमीमजुहोत् , ततो व्रीहिरसृज्यत , एते सप्त ग्राम्याः पशवोऽसृज्यन्त, तान् एवावरुन्धेहो य एवं विद्वानग्निहोत्रं जुहोति ॥

1.8.2 अनुवाकः2
अष्टमीमजुहोत् , ततो वसन्तोऽसृज्यत , नवमीमजुहोत् , ततो ग्रीष्मोऽसृज्यत , दशमीमजुहोत् , ततो वर्षा असृज्यन्त , एकादशीमजुहोत् , ततः शरदसृज्यत , द्वादशीमजुहोत् , ततो हेमन्तोऽसृज्यत , उद्यता त्रयोदश्याहुतिर् आसीत् , अथ शिशिरं असृज्यत , तस्मादेतद् ऋतूनामशान्तं क्रूरम् , अहुताद्धि समभवदहुतादसृज्यत , तदाहुर् ब्रह्मवादिनः , ऋतवः पूर्वेऽसृज्यन्ता३ पशवा३ इति , उत ऋतव उत पशवा, इति ब्रूयात् , उभये ह्येते सहासृज्यन्त, स वा एनमित एव पुनः प्राविशत् , एतद्वा अग्निधानं हस्तस्य यत्पाणिः, तस्मादेतो हस्तस्याग्निर्नतमां विदहति, यद्धन्यमानो हस्तौ प्रतिप्रसारयति , अग्नौ वा एतन् न्यञ्चनमिच्छते , अग्निं वै पशवः प्रविशन्त्यग्निः पशून् , प्र ह वा एनं पशवो विशन्ति प्र स पशून् य एवं वेद , एतद्ध स्म वा आह नारदो , यत्र गां शयानां निर्जानाति मृताम् एनामविद्वान्मन्यते ऽति अग्निं ह्येवैते प्रविशन्त्यग्निरेतान् , तस्मात्सर्वान् ऋतून् पशवोऽग्निमभिसर्पन्ति, न ह्येत ऋतेऽग्ने , र्यज्जातः पशूनविन्दत तज्जातवेदसो जातवेदस्त्वं , तामप्सु प्रासिञ्चत् , सापोऽन्वदहत् , ता अग्नये वज्रोऽभवन् , तस्माद्धवींषि प्रोक्षताग्निरभि न प्रोक्ष्यो , यदभिप्रोक्षेद्धतेन यज्ञेन यजेत , तां वै प्रजापतिर् अन्वैच्छत् , तामप्स्व् अन्वविन्दत् , ताम् ओषधीषु न्यमार्ट् , तस्मादोषधयोऽनभ्यक्ता रेभन्ते , ओषधीभ्यः पशवः , पशुभ्यो मनुष्या , अनभ्यक्तो ह रेभते य एवं वेद , तद् यो वसन्ताशिशिरे कक्षः स उपाधेय , एतद्वै तदग्नेः प्रियं धाम , एषा वाव साहुतिः श्रायति , अग्नेरेवैतया प्रियं धामोपैति , अथो पशुमान् भवति , अथो आत्मानं एवैतया यजमानः पुनीते , सह वा एता आस्तामग्निश्च सूर्यश्च समाने योना अयसि लोहिते , स आदित्य ऊर्ध्व उदद्रवत् , तस्य रेतः परापतत् , तदग्निर् योनिनोपागृह्णात् , तदेनं व्यदहत् , तस्मादयोऽत्रपु प्रतिधुक् क्षीरं विदहति , तस्मादेतज्जुह्वति , पशूनां वा एतत् पयो यद् व्रीहियवौ , तस्मादेतज्जुह्वति , नातिशृतं कार्यम् , रेतः शोषयेत् , यद्विष्यन्देतोन्मादुकोऽस्य प्रजायामाजायेता , अमुष्य वा एतदादित्यस्य रेतो हूयतेऽमेध्यमशृतं , समुदन्तं होतव्यं , तद्धि शृतं मेध्यं मिथुनं प्रजनिष्णुः ॥

1.8.3 अनुवाकः3
स्थाल्या दुहति , अनया वा एतदुपसीदन्ति , नहीमां इतो नेतः स्कन्दति , अस्कन्नत्वाय , आर्यकृती भवत्य् ऊर्ध्वकपाला सदेवत्वाय , सा हि सदेवा , असुर्यं वा एतत्पात्रं यत् कुलालकृतं चक्रवृत्तं , यत्र स्कन्देत्तदपो निनयेत् , आपो वै शान्तिः , आपो निष्कृतिः , आपो भेषजाः , यत्र वा एता अस्या उपयन्ति तत् प्रशस्ततरा ओषधयो जायन्ते बंहीयसीः , यदि दुह्यमानावभिन्द्यादन्यया स्थाल्या निर्णिज्य दोह्या , यज्ञो हि यज्ञस्य प्रायश्चित्तिः , यद्यधिश्रितं स्कन्देद्यद्युद्वास्यमानं यद्युद्वासितं यद्युन्नीयमानं यद्युन्नीतं यदि पुरः पराहृतं होमाय पुनरवनीयान्याभिदुह्या , यज्ञो हि यज्ञस्य प्रायश्चित्तिः , वारुणीं ऋचमनूच्य वारुण्या होतव्यं , वरुणो वा एतद्यज्ञस्य गृह्णाति यदार्छन्ति, निष्कृतिरेवैषा प्रायश्चित्तिः , अप्रतिषेक्यं स्यात्तेजस्कामस्य ब्रह्मवर्चसकामस्य , अथो तुस्तूर्षमाणस्य , अथो यः कामयेत, वीरो मा आजायेतेति , अप्रतिषिक्तो वै घर्मस्तेजो ब्रह्मवर्चसं , तेजस्वी ब्रह्मवर्चसी भवति , स्तृणुते यं तुस्तूर्षते , आ हास्य वीरो जायते , आज्येन होतव्यं यस्याप्रतिषेक्यं स्यात् , एतद्वा अप्रतिषिक्तं , न तु स्कन्नस्य प्रायश्चित्तिरस्ति , अथो न पशुमान् इव भवति , पशूनां वा एतत् पयः प्रवृज्यते , शुचं पशुषु दधाति , तेजोऽशान्तं पशून् निर्दहति , तस्मात् प्रतिषेक्यमेव स्यात् , यदद्भिः प्रतिषिञ्चेद्धरो विनयेत् , गांदोहसंनेजनेन प्रतिषिच्यं , तद्धि नापो न पय,स्तदाहुः , स्कन्दति वा एतत् , यर्हि वा एतद् दोहनात् पर्याक्रियते तर्हि स्कन्नं, अन्तर्हिता ह्यस्या वनस्पतया , इति तदद्भिरेव प्रतिषिच्यं , स्तोकेनैकेन न हरो विनयति , शुचं पशूनां शमयति , पशवो वै तेजो ब्रह्मवर्चसं , मिथुनं वा आपश्च पयश्च, मिथुनात् खलु वै प्रजाः पशवः प्रजायन्ते , तन् मिथुनं , तस्मादेव मिथुनाद्यजमानः प्रजया च पशुभिश्च प्रजायते , ओदनेन होतव्यं यस्य प्रतिषेक्यं स्यात् , एष हि प्रतिषिक्तः शान्तो मेध्यो मिथुनः प्रजनिष्णुः ॥

1.8.4 अनुवाकः4
प्रजापतिः प्रजा असृजत , ता वै तपसैवासृजत, स वै स वाचं एवायच्छत् , तपो वा एष उपैति यो वाचं यच्छति , सृष्टिः प्रजानामग्निहोत्रम् , उभयत एव प्रजाः असृजत इतश्चामुतश्च , निम्रुक्ते सूर्ये वाग्यन्तव्याथो दुह्यमानायामथो अधिश्रित , उन्नीयमान एव यन्तव्या,स्तदवक्लृप्ततमं ॥ उद्भवः स्थ ॥ इत्यवेक्षेत ॥ उदहं प्रजया पशुभिर्भूयासं ॥ इति प्रजायाः पशूनां सृष्ट्यै , अथो अभ्येवैनद् घारयति मेध्यत्वाय , अग्निहोत्रे वै दंपती व्यभिचरेते , पूर्वो यजमानस्य लोकोऽपरः पत्न्याः , यत् प्राचीनं उद्वासयेद्यजमानः प्रमीयेत , यत् प्रतीचीनं पत्नी , कं घर्ममभ्युदवीवसा , इति ब्रह्मवादिनो वदन्ति , उदीचीनं एवोद्वास्य,मग्रहणौ संजीर्यतः, सर्वमायुरितो , नार्तिं नीत , श्चतुरुन्नयति , चतुष्पदस्तेन पशूनवरुन्धेर् , द्विर्जुहोति , द्विपदस्तेन, यं कामयेत , अनुज्येष्ठं प्रजया ऋध्नुयादिति, तस्य पूर्णमग्रा उन्नयेदथ कनीयोऽथ कनीयो , अनुज्येष्ठं प्रजया ऋध्नोति , तदाहुः, कनीयांसं वा एष यज्ञक्रतुमुपैति कनीयसीं प्रजां कनीयसः पशून् कनीयोऽन्नाद्यं , पापीयान् भवति , संमितं इवाग्रा उन्नयेदथ भूयोऽथ भूयः , पूर्णमुत्तमं , यज्ञस्याभिक्रान्त्यै, तदाहु, र्ज्यायांसं वा एष यज्ञक्रतुमुपैति भूयसीं प्रजां भूयसः पशून् भूयोऽन्नाद्यं , वसीयान् भवति , अर्धुको ऽस्य पुत्रः कनिष्ठो भवतीति , यदि कामयेत सर्वे सदृशाः स्युरिति , सर्वान्त्समावदुन्नयेत् , सर्वे ह सदृशा भवन्ति , न पश्चादुपसादयेत् , अपक्रान्तिः सा यज्ञस्य , यत्रैवोन्नयेत्तत् सादयेत् , प्रतरं वा यज्ञस्याभिक्रान्त्यै , अनुध्यायिनं वा एतदपरं करोति यदपरस्मिंस्तपन्ति पूर्वस्मिन् जुह्वति , समयाग्निं हरन्ति , तेनैवैनं प्रीणाति , अथो अग्निहोत्रस्य वा एतत् पवित्रं , अपुपोदेवैनत् , अपरस्माद्वै पूर्वं सृष्टं, तं एतावत्यरमयन् , तस्मात् पुरोऽनुद्रुत्य जुहोति ॥ आयुर्मे यच्छ ॥ इति सादयति , आयुरेवास्मिन् यच्छति ॥ वर्चो मे यच्छ ॥ इति सादयति , वर्च एवास्मिन् यच्छति , ओषधीर्वा इमा रुद्रा विषेणाञ्जन् , ताः पशवो नालिशन्त , ते देवाः प्रजापतिमेवोपाधावन् , स प्रजापतिरब्रवीत् , वार्यं वृणै , भागो मेऽस्त्व् इति , वृणीष्वेति , अब्रुवन्त्सोऽब्रवीत् , मद्देवत्यैव समिदसदिति , तस्मात् प्राजापत्या समित् , देवेषु ह्यस्यैषा वार्यवृता , द्वे समिधौ कार्ये , द्वे ह्याहुती , एकैव कार्या , एको हि प्रजापतिः , एकधा खलु वै समिद्धः , उत बह्वीराहुतयो हूयन्ते , ता अग्निनान्ववाकरोत् , ता अस्वदयत् , ताः पुनर्णवा अजायन्त , एतर्हि खलु वा अग्निहोत्रिणे दर्शपूर्णमासिने सर्वा ओषधयः स्वदन्ते , यत्समिधमादधाति सर्वा एवास्मा ओषधीः स्वधयामकः ॥

1.8.5 अनुवाकः5
भूर् भुवः स्वः ॥ इति पुरस्ताद्धोतोर्वदेत् , एतद्वै ब्रह्म , एतत्सत्यं , एतद् ऋतं , न वा एतस्माद् ऋते यज्ञोऽस्ति , तस्मादेवं वदितव्यं ॥ अग्निर् ज्योतिर् ज्योतिअग्निः स्वाहा ॥ इति गर्भिण्या वाचा गर्भं दधाति, मिथुनया वाचा मिथुनं प्रजनयति , यद्वाचा च जुहोति यजुषा च तन् मिथुनं , यत् तूष्णीं च जुहोति मनसा च तन् मिथुनं , स्थाणुर्वै पूर्वाहुतिः , अतिहाय पूर्वां आहुतिम् उत्तरा होतव्या , स्थाणुमेव छम्बट्करोति , उत्तराहुतिर् भूयो होतव्या यज्ञस्याभिक्रान्त्यै , पशून् एव पूर्वयाहुत्या स्पृणोति ब्रह्मवर्चसं उत्तरया , आग्नेयी सायमाहुति, स्तया रेतः सिञ्चति , तद् रेतः सिक्तं रात्र्यै गर्भं दधाति , तत्सौर्या प्रातः प्रजनयामकर् , इयं होतव्याथ पराथ पुनरवस्तात् प्रातरवस्ताद्धि प्रजानां प्रजातिः, प्रजननं हि सौरी , तन् न सूर्क्ष्यं , परापरैव होतव्या यज्ञस्याभिक्रान्त्यै , उदङ्ङ् उद्दिशति ॥ अनाभो मृड, धूर्ते नमस्ते अस्तु , रुद्र मृड ॥ इति एता वै रुद्रस्य तन्वः क्रूरा एतानि नामानि , एताभिर्वा एष पशूञ् शमायते , ता एवास्य भागधेयेन शमयति , अवाचीनं सायम् अवमार्ष्टि , तस्मात् सायमवाची प्रुष्वै,ति ऊर्ध्वं दिवोन्मार्ष्टि , तस्माद् ऊर्ध्वा दिवैति , पराचीनमिव वा एतद्यदग्निहोत्रम् , यत् पुरस्ताद्याजुषं वदति धृत्या अनिर्मार्गाय , यो वा अग्निहोत्रस्य वैश्वदेवं वेदाघातुक एनं पशुपतिर् भवत्यघातुकोऽस्य पशुपतिः पशून् , प्राङ् आसीनो जुहोति , देवांस्तेन प्रीणाति , हुत्वोञ्शिंषति , पशून् एव यजमानायोञ्शिंषति , उदङ्ङ् उद्दिशति , रुद्रं तेन निरवदयते , दक्षिणतो निमार्ष्टि , ओषधीश्च तेन पितॄंश्च प्रीणाति , प्राश्नाति , मनुष्यांस्तेन प्रीणाति , अङ्गुल्या प्राश्नाति , यदत्त्वाय न दतो गमयेत् , यद् दतो गमयेत्सर्पा एनं घातुकाः स्युः , सर्पान् एव शमयति , अहिंसायै ॥ पूषासि ॥ इति यजुर्वदेत् , पशवो वै पूषा , पशून् एवावरुन्धे ् , अशान्तो वा एषोऽप्रीतः , पुरुषमेधं वा एष प्रतीक्षते यजमानं एव हव्यं , यदग्निहोत्रहवणीं निष्टपत्यशान्तस्तेन , अग्निहोत्रहवणीं प्रतप्य हस्तोऽवधेयो , हस्तो वा प्रतप्याग्निहोत्रहवण्यामवधेय, स्तेनैवैनं शमयति , तेन प्रीणाति, शान्त एनं प्रीतो न हिनस्ति , इत्थं पर्यावर्तते , एवं हि यज्ञः पर्यावर्तते , अथो अमुष्य वा एतदादित्यस्यावृतमनु पर्यावर्तते , होतव्यं गार्हपत्या३न् न होतव्या३मिति मीमांसन्ते , अनुध्यायी वा एष रूक्षो , होतव्यं एव ॥ अग्ने गृहपते परिषद्य जुषस्व स्वाहा ॥ इति जुहुयात्, तेनैवैनं शमयति , तेन प्रीणाति , अथो तेनैवैनं अननुध्यायिनं अरूक्षं करोति , अथ यत् पूर्वां आहुतिं हुत्वोत्तरां होष्यन् प्रतीक्षते तेनैवैनं शमयति , तेन प्रीणाति , अथो तेनैवैनं अननुध्यायिनं अरूक्षं करोति , अथ यत् पूर्वां आहुतिं हुत्वोत्तरां होष्यन् प्रतीक्षते तेनैवैनं शमयति , तेन प्रीणाति , अथो तेनैवैनं अननुध्यायिनं अरूक्षं करोति , अथ यदेवास्य गृह उपह्रियते यदेनं अग्निमभिता आसीना याचन्ति तेनैवैनं शमयति , तेन प्रीणाति , अथो तेनैवैनं अननुध्यायिनं अरूक्षं करोति ॥

1.8.6 अनुवाकः6
द्वे दुहन्त्यग्निहोत्राय , ज्यायान् वा एकस्या दुग्धादग्निहोत्रिणो लोको , यद् द्वे दुहन्ति ज्यायांसं वा एतं लोकं यजमानोऽभिजयति , मनुश्च वा इदं मनायी च मिथुनेन प्राजनयताम् , यत् स्थाल्या च दोहनेन च दुहन्ति मिथुनादेव प्रजायते ॥
सजूर् जातवेदो दिवा पृथिव्या जुषाणो अस्य हविषो वीहि स्वाहा ॥ इति जुहुयात् , एषा वा अस्य जातवेदस्या तनूः क्रूरा , एतया वा एष पशूञ् शमायते , ताम् एवास्य भागधेयेन शमयति , यदि तदति शमायेत ॥ अग्ने दुःशीर्ततनो जुषस्व स्वाहा ॥ इति जुहुयात् , एषा वा अस्य शृणती तनूः क्रूरा , एतया वा एष पशूञ् शमायते , ताम् एवास्य भागधेयेन शमयति , यदि तदति शमायेत ॥ द्वादश रात्रीः सायं सायं जुहुयात् , द्वादश वै रात्रयः संवत्सरस्य प्रतिमा , संवत्सरो वा अग्निर्वैश्वानर,स्तमाहिताग्नयो दर्शपूर्णमासिन इन्धते , तेषां वा ऋतव एव दारूणि, ये स्थविष्ठा अङ्गारास्ते मासा , ये क्षोदिष्ठास्तेऽर्धमासा , अहोरात्राणि मुर्मुरा , यत्सधूमं ज्योतिस्तद् वैश्वदेवं , यल्लोहितं तद्वारुणं , यत् सुवर्णं तद् बार्हस्पत्यं , यन् न लोहितं न सुवर्णं तन् मैत्रम् यदङ्गारेषु व्यवशान्तेषु लेलायद्वीव भाति तद्देवानामास्यम् , अथो अमुष्य च वा एतदादित्यस्य तेजो मन्यन्तेऽग्नेश्च, तस्मात्तर्हि होतव्यं , यद्येअमवासन्नपिदधाति तद्धिनोति , आविर्वै नामैषाहुतिः , आविर्भूयं देवमनुष्येषु गच्छति य एवं वेद, न समिदभिहोतवा , अप्रतिष्ठिता साहुतिः, नो यथा वीवावस्रवेत् , अयता सा , तत्तथैव होतव्यं यथाग्निं व्यवेयात् , सा हि यता , सा प्रतिष्ठिता , तस्मान्महानग्निहोत्रस्येध्मः कार्यो , यो वै बहु ददिवान् ब,ह्वीजानोऽग्निम् उत्सादयतेऽक्षित्तद्वै तस्य, तद् ईजाना वै सुकृतोऽमुं लोकं नक्षन्ति, ते वा एते यन् नक्षत्राणि, यदाहु, र्ज्योतिर् अवापादि तारकावापादीति ते वा एतेऽवपद्यन्ते , आप्त्वा स्थिते त इदं यथालोकं सचन्ते यदामुतः प्रच्यवन्ते , अथ यो बहु ददिवान् बह्वीजानोऽग्निहोत्रं जुहोति दर्शपूर्णमासौ यजते चातुर्मास्यैर्यजते बहूनि सत्राण्य् उपैति तस्य वा एतदक्षय्यमपरिमितं , तिरो वा ईजानाद्यज्ञो भवति , तदाभ्यामेवाग्निभ्यां दग्धव्यः , स्वं वा एतदिष्टमन्वारोहति , अपरेण दग्धव्याः३ पूर्वेणा३ इति मीमांसन्ते , उभौ समाहृत्या,न्तरा दग्धव्य, स्तदवक्लृप्ततमं गृह्णीयान् नक्तमग्निं, असुर्या वै रात्रि, र्ज्योतिषैव तमस्तरति , दिवा ह वा अस्मा अस्मिंल्लोके भवति , प्रास्मा असौ लोको भाति य एवं वेद ॥
भूर् भुवः स्वः ॥ इति पुरस्ताद्धोतोर्वदेत् , एभ्यो वा एतल्लोकेभ्या इष्टका उपदधाति स्वर्गस्य लोकस्य समष्ट्यै , यत् सायं जुहोति सहस्रं तेन कामदुघा अवरुन्धेक् , यत् प्रातः सहस्रं तेन , यदस्याग्निराधीयते सहस्रं तेन , यमराज्यं वा अग्निष्टोमेनाभिजयति , सोमराज्यमुक्येरान , सूर्यराज्यं षोडशिना , स्वाराज्यमतिरात्रेण , एतानि वै सर्वाणीन्रो ऽभवत् , एतानि सर्वाणि भवति य एतैर्यजते , सर्वमेतद् भवति य एवं वेद , हविष्मान् वा एको , देवयाज्येकः , सहस्रयाज्येको , योऽग्निहोत्रं जुहोति स हविष्मान् , यो दर्शपूर्णमासौ यजते स देवयाजी , यश्चातुर्मास्यैर्यजते स सहस्रयाजी अग्निहोत्रे वै सर्वे यज्ञक्रतवः सर्वान् यज्ञक्रतूनवरुन्धेश् य एवं विद्वानग्निहोत्रं जुहोति ॥

1.8.7 अनुवाकः7
प्रैयमेधा वै सर्वे सह ब्रह्माविदु, स्तेऽग्निहोत्रेण समराधयन् , तेषां त्रिरेकोऽजुहोद् द्विरेकः सकृदेकं, स्तेषां यस्त्रिरजुहोत्तमपृच्छन् , कस्मै त्वमहौषीरिति , सोऽब्रवीत् त्रेधा वा इदं, अग्नये प्रजापतये सूर्यायेति , अथ यो द्विरजुहोत्तमपृच्छन् , कस्मै त्वमहौषीरिति , सोऽब्रवीत् , द्वेधा वा इदं, अग्नये च प्रजापतये च सायम् , सूर्याय च प्रजापतये च प्रातरिति , अथ यः सकृदजुहोत्तमपृच्छन् , कस्मै त्वमहौषीरिति,
सोऽब्रवीत् , एकधा वा इदं , प्रजापतय एवेति , तेषां यो द्विरजुहोत्स आर्ध्नोत् , तस्येतरे साजात्यं उपायन् , ऋध्नोति य एवं विद्वानग्निहोत्रं जुहोति , उपास्य समानाः साजात्यं यन्ति , प्रदोषमग्निहोत्रं होतव्यं , व्युष्टायां प्रातर् वृद्धान् गर्भान् प्रजनयति , तदाहुः , परा वा एतस्याग्निहोत्रं पतति यस्य प्रदोषं न जुह्वतीति, यदि मन्येत, ऋतुमत्यनैषं इति ॥ भूर् भुवः स्वः ॥ इति पुरस्ताद्धोतोर्वदेत् , तेनैव सर्वं नान्तरेति ॥ दोषा वस्तोर्नमः स्वाहा ॥ इति जुहुयात् , ऋतुमेव नात्यनैत् , होतव्या३न्न होतव्या३मि,ति मीमांसन्ते, यस्याहुतमग्निहोत्रं सूर्योऽभ्युदियाद्धोतव्यं एव , अग्नये वा एतद् धृत्यै गुप्त्यै हूयते, प्रजननं तु छम्बट्करोति , यदि मन्येत , ऋतुमत्यनैषं इति ॥ भूर् भुवः स्वः ॥ इति पुरस्ताद्धोतोर्वदेत् , तेनैव सर्वं नान्तरेति ॥ प्रातर्वस्तोर्नमः स्वाहा ॥ इति जुहुयात् , ऋतुमेव नात्यनैत् , तद्यथा कारुद्वेषिणो जुह्वत्येवमस्य हुतं भवति , यस्याग्निमनुद्धृतं सूर्योऽभिनिम्रोचेद् यो ब्राह्मणो बहुवित्स उद्धरेत् , सर्वेणैवैनं ब्रह्मणोद्धरति , अग्निहोत्रेणानुद्रवेत् , भागधेयेनैवैनं प्रणयति , अथो भागधेयेनैवैनं समर्धयति , वरो दक्षिणा , सर्वत एवैनं दिग्योवै वरेण च्यावयति , यस्योभा अनुगता अभिनिम्रोचेद्यस्य वाभ्युदियात् पुनराधेयमेव तस्य प्रायश्चित्ति, र्यथा वै पथो वर्तनी एवं दर्शपूर्णमासौ, यथान्तरैवमग्निहोत्रम् एवं वा अग्निहोत्रिणे दर्शपूर्णमासिने स्वर्गो लोकोऽनुभाति , उपान्यानि हवींषि वसन्ति , अथ कस्मादग्निहोत्रं नोपवसन्तीति , ब्रह्मवादिनो वदन्ति , प्रततं वा एतदपरिमितमसंस्थितं, अश्नाति मांसं उप स्त्रियम् एति , तस्मान् नोपवसन्ति , पशुव्रतेन भवितव्यं , तूष्णीमिव पशवः संभवन्ति , ते मेध्याः, यत् तूष्णीं स्त्रियम् उपैति मेध्यतरस्तेन भवति , हिंकृत्योपेयात् , एवं इव हि पशव उपयन्ति मेध्यत्वाय , संस्थाप्या३न्न संस्थाप्या३मिति मीमांसन्ते , अग्निहोत्रं यत् संस्थापयेत् तॄणमक्त्वानुप्रहरेत् , सा ह्यग्निहोत्रस्य संस्थितिस्तदाहु, र्यदा वै जीयते यदा प्रमीयते यदार्तिम् आर्छत्यथाग्निहोत्रं संतिष्ठता इति , तन् न संस्थाप्यं , मनसा वा इमां प्रजापतिः पर्यगृह्णात् , इयं वा अग्निहोत्रस्य वेदिर् , इयम् उपयाम , ओषधयो बर्हिः , प्रुष्वाः प्रोक्षणी,र्दिशः परिधयो , यत् किंचाभ्याधीयते स इध्मो , यजमानो यूप , उन्नीयमाने स्थेयम् , एवं इव हि यूपः समृद्यैदा , मध्यतो वा एष यज्ञः प्रततो यदग्निहोत्रम् , तस्मादग्निहोत्री दर्शपूर्णमासी सर्वं बर्हिष्यं ददाति , मध्यतो ह्येतद्यज्ञस्य दीयते यदग्निहोत्रे , होतव्यं राजन्यस्याग्निहोत्रा३न् न होतव्या३मि,ति मीमांसन्ते , आमादिव वा एष यद् राजन्यो , बहु वा एषोऽयज्ञियममेध्यं चरति , अत्यनन्नं जिनाति ब्राह्मणं , तस्माद् राजन्यस्याग्निहोत्रमहोतव्यं , ऋतं वै सत्यमग्निहोत्रं, ब्राह्मण ऋतं सत्यं , तस्माद् ब्राह्मणस्यैव होतव्यं , अथो ब्राह्मणायैवास्याग्रतो गृह आहरेयुस्तद्धुतं एवास्याग्निहोत्रं भवति , अथो य ऋतं इव सत्यं इव चरेत्तस्य होतव्यं अनुसंतत्यै ॥

1.8.8 अनुवाकः8
याग्निहोत्रायोपसृष्टा निषीदेद्यस्यान्नं नाद्यात्तस्मै तां दद्यात् , अवर्तिं वा एषा यजमानस्यानुत्सह्य निषीदति तयैवैनां सह निरवदयते , गृहे तु तस्य ततः परो नाश्नीयात् , यदश्नीयादार्तिम् आर्छेत् , यस्याहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छेदग्निना च सहाग्निहोत्रेण चोद्द्रवेत् , भागधेयेनैवैनं प्रणयति , अथो भागधेयेनैवैनं समर्धयति , अथाभिमन्त्रयेत ॥
इत एव प्रथमं जज्ञे अग्निरेभ्यो योनिभ्यो अधि जातवेदाः ।
स गायत्र्या त्रैष्टुभा जगत्यानुष्टुभा च देवेभ्यो हव्या वहतु प्रजानन् ॥
इति , एते वा एतस्य योनयः , स्वेभ्य एवैनं योनिभ्योऽधि प्रजनयति ॥ इषे राये रमस्व सहसे द्युम्नायोर्जेऽपत्याय ॥ इति , एतानि एवावरुन्धेप् , अथो रमयत्य् एवैनं ॥ सम्राड् असि स्वराडसि , सुषदा सीद ॥ इति सुषदैवैनं सादयति ॥ सारस्वतौ त्वोत्सौ प्रावताम् ॥ इति , ऋक्सामे वै सारस्वता उत्सौ , ताभ्यां एवैनं प्रावति , ताभ्यां समर्धयति , अग्नये ज्योतिष्मतेऽष्टाकपालं निर्वपेद्वारुणं यवमयं चरुं यस्याहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगछेत् , तमो वा एतस्य यज्ञं युवते यस्याहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छति , यदग्नये ज्योतिष्मते ज्योतिषैवास्य यज्ञं समर्धयति , वारुणी रात्रि , र्यद्वारुणः , वरुणादेवास्याधि यज्ञं स्पृणोति , यस्याहुतेऽग्निहोत्रेऽपरोऽग्निरनुगछेत् , तत एव प्राञ्चमुद्धृत्यान्ववसायाग्निहोत्रं जुहुयात् , अथाभिमन्त्रयेत ॥
भवतं नः समनसौ समोकसौ सचेतसा अरेपसा , इति समनसा एवैनौ करोति यजमानस्याहिंसायै , एतौ वै तौ या आहुर् ब्रह्मवादिनो , नैकः कुब्जिर् द्वौ व्याघ्रौ विव्याचेति , अग्नयेऽग्निमतेऽष्टाकपालं निर्वपेद्यस्याग्ना अग्निमभ्युद्धरेयु , र्देवताभ्यो वा एष समदं करोति यस्याग्ना अग्निमभ्युद्धरन्ति , यदग्नयेऽग्निमते देवता एवास्मै भूयसीर्जनयति , वसीयान् भवति ॥

1.8.9 अनुवाकः9
अन्वग्निरुषसामग्रमक्शदन्व् अहानि प्रथमो जातवेदाः ।
अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततन्थ ॥
इत्यभिमन्त्रयेत यस्याहुतमग्निहोत्रं सूर्योऽभ्युदियात् , अनुक्षायैवैनत् पुनरवरुन्धे , तदाहुर् , अमुं वा एष लोकं समारोहयति सह प्रजया पशुभिश्च यजमानस्य , तस्मादुत बहुराहिताग्निरपशुर्भवतीति , तदुपस्थेयः ॥ इहैव क्षेम्य एधि , मा प्रहासीर्माममुमामुष्यायणं ॥ इति , अस्मिन् वावैनं एतं लोके दाधार , सह प्रजया पशुभिश्च यजमानो वसीयान् भवति , मैत्रं चरुं निर्वपेत्सौर्यम् एककपालं यस्याहुतमग्निहोत्रं सूर्योऽभ्युदियात् , मित्रो वा एतस्य यज्ञं युवते यस्याहुतमग्निहोत्रं सूर्योऽभ्युदेति , मित्रमहर् , यन् मैत्रो मित्रादेवास्याधि यज्ञं स्पृणोति , अथ यत्सौर्यो , अमुनैवास्यादित्येन पुरस्ताद्यज्ञं समर्धयति , यस्याहुतमग्निहोत्रं सूर्योऽभ्युदियादग्निं समाधाय वाचं यत्वा दंपती सर्वाह्णमुपासीयाताम् , द्वयोर्गवोः सायमग्निहोत्रं जुहुयात् , उभयम् एवास्मै भागधेयं प्रयच्छति सायन्तनं च प्रातस्तनं च , यद्वै पुरुषस्यामयत्यश्नाती३ नाश्नाती३, इति वै तमाहु, र्नाश्नातीति चेदाहुस्तद्वाव सोऽमृतेति , यन्नाश्नीतो न व्याहरतो अन्वेवैनं अम्राताम् , तपसैनं पुनरवरुन्धाते, अग्नये व्रतपतयेऽष्टाकपालं निर्वपेत् , अग्निर्वै देवानां व्रतपति,स्तमेव भागधेयेनोपासरत् , स एनं व्रतमालंभयति यस्याग्निरपक्षायेत् , यत्रैवैनं अनुपरागच्छेत्तत्समाधायान्ववसायाग्निहोत्रं जुहुयात् , एति वा एतदग्निर्यदपक्षायति , यत्रैवैनं अनुपरागच्छति तत एनं पुनरवरुन्धे ु , अग्नये पथिकृतेऽष्टाकपालं निर्वपेद्यस्याग्निरपक्षायेत् , बहिष्पथं वा एष एति यस्याग्निरपक्षायति , अग्निर्वै देवानां पथिकृत् , तं एव भागधेयेनोपासरत् , स एनं पन्थां अपिनयति , अनड्वान् दक्षिणा , स हि पन्थां अपिवहति , अग्नये शुचयेऽष्टाकपालं निर्वपेद्यस्याभ्यादाव्येन संसृज्येत , अशुचितर इव वा एष यदभ्यादाव्यो , यदग्नये शुचये शुचिमेवैनं मेध्यं करोति , अग्नये क्षामवतेऽष्टाकपालं निर्वपेद्यस्याहिताग्नेः स३तोऽग्निर्गृहान् दहेत् , अग्निर्वा एतस्य क्षामो गृहानभ्युच्यति , स दहत्येवापरं , यदग्नये क्षामवते यैवास्य क्षामा प्रिया तनूस्तामेवास्य भागधेयेन शमयति , अदाहुकोऽस्यापरं अग्निर्गृहान् भवति , यस्याग्निरनुगछेत्तेभ्य एवावक्षाणेभ्योऽधि मन्थितव्य,स्तदेनं स्वाद् योनेः प्रजनयति , यदि न तादृशानि वावक्षाणानि स्युर्भस्मनारणी संस्पृश्य मन्थितव्यः , स्वादेवैनं योनेः प्रजनयति , अग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेद्यस्याग्निरनुगछेत् , न हि वा एतस्मा अपिधीयतेऽथैषोऽनुगच्छति , ओषधयो वै पावका , ओषधीरेवास्मै पावका भागधेयमपिदधाति प्रजननाय ॥
त्रयस्त्रिंशत्तन्तवो यं वितन्वत इमं च यज्ञं सुधया ददन्ते ।
तेभिश्छिद्रमपिदध्मो यदत्र स्वाहा यज्ञो अप्येतु देवान् ॥
इति जुहुयाद्यद्यनो वा रथो वान्तरा वियायात् , एतावन्तो वै यज्ञस्य तन्तवो , देवता वा एता, स्तान्वा एतत्समवृक्षत् , ताः संदधाति , एतद्ध स्म वा आहुर् दाक्षायणास्तन्तून्त्समवृक्षद् , गामन्वत्यावर्तयेति , गौर् हि यज्ञिया मेध्या , इदं विष्णुर्विचक्रमा, इति पदं योपयति , विष्णोः स्विदेव यज्ञस्य विक्रान्तमकर् अपोऽन्वतिषिञ्चति शान्त्यै ॥

1.8.10 अनुवाकः10
रौद्रं गवि सत् , वायव्यमुपावसृष्टं , आश्विनं दुह्यमानं , सौम्यं दुग्धं , वारुणं अधिश्रितं , मैत्रं शरोगृहीतं , मारुतं बिन्दुमत् , पौष्णं उदन्तम् , सारस्वतं विष्यणं , वैष्णवं प्रतिनीयमानं , स्वर्ग्यम् उद्वासितं , त्वष्टुरुन्नीयमानं , धातुरुन्नीतं , वैश्वकर्मणं उद्यतं , सावित्रं प्रणीयमानं , द्यावापृथिवीयं प्रह्रियमाणं , ऐन्द्राग्नमुपसन्नं , प्राजापत्यं समिधि , वैश्वदेवं हुतं ॥

इति प्रथमकाण्डे अग्निहोत्र-ब्राह्मणं नाम अष्टमः प्रपाठकः।।