मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ०७

विकिस्रोतः तः
Jump to navigation Jump to search

पुनराधानम्

1.7.1 अनुवाकः1
यत् त्वा क्रुद्धः परोवप मन्युना सुमनस्तर ।
सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि ॥
यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे ।
आदित्या विश्वे तद्देवा वसवः पुनराभरन् ॥
यत्ते भामेन विचकरानीशानो हृदस्परि ।
पुनस्तदिन्द्रश्चाग्निश्च वसवः समचीक्लृपन् ॥
पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुधीते अग्ने ॥
घृतेन त्वं तन्वं वर्धयस्व रायस्पोषा यजमानं सचन्ताम् ॥
त्रयस्त्रिंशत्तन्तवो यं वितन्वत इमं च यज्ञं सुधया ददन्ते ।
तेभिश्छिद्रमपिदध्मो यदत्र स्वाहा यज्ञो अप्येतु देवान् ॥
मनो ज्योतिर् जुषतामाज्यस्य विछिन्नं यज्ञं समिमं दधातु ।
इमं यज्ञं सप्ततन्तुं ततं ना आ देवा यन्तु सुमनस्यमानाः ॥
बृहस्पतिर्नो हविषा घृतेन विछिन्नं यज्ञं समिमं दधातु ।
या इष्टा उषसो याश्च याज्यास्ताः संदधामि मनसा घृतेन ॥
अग्नेऽभ्यावर्तिन्नभि मावर्तस्वायुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण ॥
अग्ने अङ्गिरः शतं ते सन्वा ्वृतः सहस्रं त उपावृतः ।
अथा पोषस्य पोषेण पुनर् नो नष्टं आकृधि पुनर् नो रयिमाकृधि ॥
पुनर् ऊर्जा निवर्तस्व पुनरग्न इषायुषा ।
पुनर् नः पाह्यंहसः ॥
सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस्परि ॥
सलिलः सलिगः सगरस्ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा, केतः सुकेतः सकेतस्ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा, देवजूते विवस्वन्नादित्य ते नो देवाः सत्यां देवहूतिं देवेष्वासुवध्वं , आदित्येभ्यः स्वाहा ॥

1.7.2 अनुवाकः2
अग्नेर्वै भागः पुनराधेयम् , एतं वै भागं प्रेप्सन् व्यर्धयति , यद्यादधानो मन्येत , वि स्या ऋध्यता, इत्य् उत्साद्य पुनरादधीत, यमेव भागं प्रेप्सन् व्यर्धयति तं प्राप्यार्धयत्येव , सर्वमेवाग्नेयं क्रियते , यत् किंच सर्वमेवाग्नये भागं प्रदाय सर्वां ऋद्धिं ऋध्नोति, न संभाराः संभृत्याः , न यजुः कर्तवा, इत्याहुः, संभृतसंभारो ह्येष कृतयजुस्तदाहुः, संभृत्या एव संभाराः, कार्यं यजुरिति, पुनरुत्स्यूतं वासो देयं पुनर्णवो रथः पुनरुत्सृष्टोऽनड्वान् , एतानि वै पुनराधेयस्य रूपाणि , रूपाण्येवास्याप्त्वावरुन्धे, , अग्निर्वा उत्सीदन्नप ओषधीरभ्युत्सीदति , दर्भा वा आपा ओषधयो , यद् दर्भा उपोलपा भवन्ति , अद्भ्य एवैनं ओषधीभ्योऽध्याप्त्वावरुन्धेन् , देवा असुरैर्विजयम् उपयन्तोऽग्नौ प्रियास्तन्वः संन्यदधत , यन् नो जयेयुरिमा अभ्युपधावेम, यद्यु जयेमेमा अभ्युपावर्तेमहीति , ता देवा जित्वान्वैच्छन् , त्सर्वेषां नः सहेति , सोऽग्निरब्रवीत् , य एव मां मद्देवत्य आदधातै स एताभिस्तनूभिः संभवादिति , तं देवा आदधत , त एताभिस्तनूभिः समभवन् , पशवो वै देवानां प्रियास्तन्वः , पशुभिरेव समभवन् , तद्य एवं विद्वान् पुनराधेयमाधत्त एताभिरेवाग्नेस्तनूभिः संभवति , पशवो वै देवानां प्रियास्तन्वः , पशुभिरेव संभवति , मनुः पुष्टिकामा आधत्त , स इमान् पोषानपुष्यत् , तेन ऋद्धं , त्वष्टा पशुकामा आधत्त , त इमे त्वाष्ट्राः पशवः प्राजायन्त , तेन ऋद्धं , प्रजापतिः प्रजाकामा आधत्त , ता इमाः प्रजाः प्राजापत्याः प्राजायन्त , तेन ऋद्धं , यो वै तमग्रा आधत्त स तेन वसुना समभवत् , तत् पुनर्वसोः पुनर्वसुत्वं , तस्मात् पुनर्वसा आधेयः , पुनर् हि स तेन वसुना समभवत् , यो वै तमाधत्तार्नो,ुत् , स तस्मादनुराधास्व् आधेया ऋद्यैआ , ऋध्नोत्येव , अथो मिथुनत्वाय ॥

1.7.3 अनुवाकः3
अग्निर्वा उत्सीदन्सं्नवत्सरम् अभ्युत्सीदति , सप्तदश सामिधेनीः कार्याः , पञ्च ऋतवो द्वादश मासा, एष संवत्सरः , संवत्सरादेवैनं अध्याप्त्वावरुन्धेःः , तदाहुः, पञ्चदश सामिधेनीः कार्या न सप्तदशेति , एतद्वै संवत्सरस्य संक्रमणतमं , एतेनाशिष्टमाप्यते , पञ्चदश सामिधेनीः , पञ्चदशार्धमासस्य रात्रयस्ताभिरेव ता आप्यन्ते , यावन्ति वै सामिधेनीनामक्षराणि तावन्ति संवत्सरस्याहानि , तैरेव तानि आप्यन्ते , अग्निर्वा उत्सीदन्त्संवत्सरम् अभ्युत्सीदति , षड् वा ऋतवः संवत्सरस् , तस्मात् षड् विभक्तयः , संवत्सरो वा अग्निर्वैश्वानरो , यत् षड् विभक्तयः संवत्सरादेवैनं अध्याप्त्वावरुन्धेरो , अथ यदग्निर् बहुधा विह्रियत इमान् पोषान् पुपोष, तस्मादग्निरेतावतीर्विभक्तीरानशे नान्या देवता , अथ यद् द्व्यक्षराः सतीश्चतुरक्षराः क्रियन्ते , आचतुरं हि पशवो द्वन्वं ं मिथुना , ऋतवो वै प्रयाजा , अन्नं ऋतवो , यत् प्रयाजानन्तरियादन्नमन्तरियात् , यज्ञमुखं वै प्रयाजा, यत् प्रयाजानन्तरियाद्यज्ञमुखमन्तरियात् , तद्यस्येर्से ्त्तस्योपरिष्टात् प्रयाजानां विभक्तीः कुर्यात् , वीर्यं वै प्रयाजा , वीर्यं विभक्तयो , वीर्यादेवाधि वषट्करोति , ताजग् ऋद्धिमभिक्रामति , नानाग्नेयं क्रियतेऽथ कस्मात्सह विभक्तयः प्रयाजैरिति, संवत्सरं वै प्रयाजाः परीज्यन्ते , कस्मादाग्नेयं क्रियते तस्मान् नानाग्नेयं ॥

1.7.4 अनुवाकः4
पुनर् ऊर्जा निवर्तस्व पुनरग्न इषायुषा ।
पुनर् नः पाह्यंहसः ॥
इति पुरस्तात् प्रयाजानां जुहुयात् ॥
सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्न्याःा विश्वतस्परि ॥
इत्य् उपरिष्टादनुयाजानां जुहुयात् , ऊर्जा वा एष पशुभिरुत्सीदन्त्सहोत्सीदति , पुनर् ऊर्जा निवर्तस्वे,ति तद् ऊर्जं एव पशून् पुनरवरुन्धेयो , अथो तान् एव भागिनः करोति , अथो उभयत एष यज्ञस्याशिष ऋध्नोति , नानाग्नेयं क्रियते ,ऽथ कस्मादाज्यभागा इज्येते इति , चक्षुषी वा एते यज्ञस्य यदाज्यभागौ , यदाज्यभागा अन्तरियाच्चक्षुषी यज्ञस्यान्तरियात् , अग्ना आयूंषि पवसा , इति सोमस्य लोके कुर्यात् , यदाग्नेयी तेनाग्नेयी , यत्पावमानी तेन सौमी , नानाग्नेयं क्रियते , न सोममन्तर्यन्ति , अग्निर्मूर्धा दिवः ककुदि,ति प्रजाकामो वा पशुकामो वा सोमस्य लोके कुर्यात् , यन् मिथुना तेन प्रजननवती , यद् रेतस्वती तेन सौमी , यज्ञेन वा एष व्यृध्यते योऽग्निम् उत्सादयते , पाङ्क्तो यज्ञो , यत् पञ्चकपालो यज्ञमेव पुनरालभते , अष्टाकपालः कार्यो , गायत्रो ह्यग्निर् गायत्रछन्दा, आग्नेयं वा एतत् क्रियते यत् पुनराधेयम् , तस्मादष्टाकपालो , तन् न सूर्क्ष्यं , पञ्चकपाल एव कार्यः , पञ्चमाद्वा अध्य् ऋतोः षष्ठ ऋतुरभवत् , समानं एतद्यत् पञ्चमश्च ऋतुः षष्ठश्च , यत् पञ्चकपालः संवत्सरादेवैनं अध्याप्त्वावरुन्धेञ् , प्रजननं वा ऋतवो , अग्निः प्रजनयिता , यत् पञ्चकपालः प्रजननादेवैनं प्रजनयिता प्रजनयति ॥

1.7.5 अनुवाकः5
वीरहा वा एष देवानां योऽग्निम् उत्सादयते , शतदायो वीरो , यदेताः शताक्षराः पङ्क्तयो भवन्ति वीरं वावैतद्देवानामवदयते , अन्यस्मै वै कमाधेयमन्यस्मै पुनराधेयम् , न वै तदाधेयेन स्पृणोति यस्मै कं पुनराधेयम् , पुनराधेयेन वाव तत् स्पृणोति , जरा वै देवहितमायु, रेतावतीर् हि समा एति यदेताः शताक्षराः पङ्क्तयो भवन्ति , यावदेवायुर् वीर्यं तदाप्नोति , तत् स्पृणोति , तदवरुन्धे ा , आयुषा वा एष वीर्येण व्यृध्यते योऽग्निम् उत्सादयते , आयुर् वीर्यं हिरण्यम् , यद्धिरण्यं ददाति , आयुषैवैनं वीर्येण समर्धयति , शतमानं भवति , शतायुर्वै पुरुषः शतवीर्यो , आयुरेव वीर्यमाप्नोति , आदित्या वा इत उत्तमाः स्वर्गं लोकमायन् , ते व्यतृष्यन् , इतः प्रदानाद् धि देवा यज्ञं उपजीवन्ति , ते वा एतं पुनरादधत , त आर्नुन्वन् , आदित्या वा अस्मिंल्लोक ऋद्धा आदित्या अमुष्मिन् , पशवोऽस्मिन्न् ऋतवोऽमुष्मिन् , तद्य एवं विद्वान् पुनराधेयमाधत्त उभयोरेव लोकयोर् ऋध्नोत्यस्मिंश्चामुष्मिंश्च , सलिलः सलिगः सगरस्ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा , केतः सुकेतः सकेतस्ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा , देवजूते विवस्वन्नादित्य ते नो देवाः सत्यां देवहूतिं देवेष्वासुवध्वं आदित्येभ्यः स्वाहेति , एतैर्वै ते तं पुनरादधत , त आर्नु ेवन् , तद्यदेतैः पुनराधत्तेऽथ ऋध्नोति , आदित्या हि पुनराधेयम् ॥
इति प्रथमकाण्डे पुनराधानं नाम सप्तमः प्रपाठकः।।