मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

आधानम्

1.6.1 अनुवाकः1
प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।
देवान् जिगाति सुम्नयुः ॥
उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत ।
अग्ने हव्या जुषस्व नः ॥
उदग्ने तव तद् घृतादर्ची रोचता आहुतम् ।
निंसानं जुह्वो मुखे ॥
प्रजा अग्ने संवासयेहाशाश्च पशुभिः सह ।
राष्ट्राण्यस्मिन् धेहि यानि आसन्त्सवितुः सवे ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः ।
तं जानन्नग्ना आरोह ततो नो वर्धया रयिम् ॥
आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।
पितरं च प्रयन्त्स्वः ॥
त्रिंशद्धामा विराजति वाक् पतंगाय हूयते ।
व्यख्यन्महिषो दिवं ॥
अन्तश्चरत्यर्णवे अस्य प्राणादपानतः ।
प्रति वां सूरो अहभिः ॥
इतो जज्ञे प्रथमं स्वाद् योनेरधि जातवेदाः ।
स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा च देवेभ्यो हव्या वहतु प्रजानन् ॥
यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्यं आविवेश ।
तमात्मनि परिगृह्णीमसीह नेदेषो अस्मानवहाय परायत् ॥
दोह्या च ते दुग्धभृच् चोर्वरी, ते ते भागधेयं प्रयच्छामि , ताभ्यां त्वादधे , घर्मः शिरस् , तदयमग्निः संप्रियः पशुभिर्भव , पुरीषमसि , यत्ते शुक्र शुक्रं ज्योतिस्तेन रुचा रुचं अशीथाः ॥
मयि गृह्णाम्यहमग्रे अग्निं सह प्रजया वर्चसा धनेन ।
मयि क्षत्रं मयि रायो दधामि मदेम शतहिमाः सुवीराः ॥
भूर् भुवो , अङ्गिरसां त्वा देवानां व्रतेनादधे , अग्नेष्ट्वा देवस्य व्रतेनादधे , इन्द्रस्य त्वा मरुत्वतो व्रतेनादधे , मनोष्ट्वा ग्रामण्यो व्रतेनादधे ॥
आछदि त्वा छन्दो दधे द्यौर्मह्नासि भूमिर्भूना ।
तस्यास्ते देव्यदित उपस्थेऽन्नादमग्निमन्नपत्यायादधे ॥
अग्ना आयूंषि पवसे , अग्निर् ऋषिः , अग्ने पवस्व ॥

1.6.2 अनुवाकः2
या वाजिन्नग्नेः पवमाना प्रिया तनूस्तामावह , या वाजिन्नग्नेः पावका प्रिया तनूस्तामावह , या वाजिन्नग्नेः शुचिः प्रिया तनूस्तामावह ॥
यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् ।
श्येना ते पक्षा हरिणोत बाहू उपस्तुत्यं जनिम तत्ते अर्वन् ॥
ओजसे बलाय त्वोद्यच्छे वृष्णे शुष्माय , सपत्नतूरसि वृत्रतूः ॥
प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्निर्भवेह ।
विश्वा आशा दीद्यद्विभाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
अभ्यस्थां विश्वाः पृतना अरातीस्तदग्निराह तदु सोम आह ।
बृहस्पतिः सवितेन्द्रस्तदाह पूषा ना आधात् सुकृतस्य लोके ॥
भुवः स्वर् , अङ्गिरसां त्वा देवानां व्रतेनादधे , अग्नेष्ट्वा देवस्य व्रतेनादधे , इन्द्रस्य त्वा मरुत्वतो व्रतेनादधे , मनोष्ट्वा ग्रामण्यो व्रतेनादधे ॥
आछदि त्वा छन्दो दधे द्यौर्मह्नासि भूमिर्भूना ।
तस्यास्ते देव्यदित उपस्थेऽन्नादमग्निमन्नपत्यायादधे ॥
यत्ते शुक्र शुक्रं ज्योतिः शुक्रं धामाजस्रं तेन त्वादधे ॥
इडायास्त्वा पदे वयं नाभा पृथिव्या अधि ।
जातवेदो निधीमह्यग्ने हव्याय वोढवे ॥
सम्राट् च स्वराट् चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यच्छ , विराट् च प्रभूश्चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यच्छ , विभूश्च परिभूश्चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यच्छ ॥
समुद्राद् ऊर्मिर्मधुमं उदारदुपांशुना सममृतत्वमानट् ।
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥
वयं नाम प्रब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवञ् शस्यमानं चतुःशृङ्गोऽवमीद् गौर एतत् ॥
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रेधा बद्धो वृषभो रोरवीति महो देवो मर्त्यं आततान ॥
ये अग्नयः समनसा ओषधीषु वनस्पतिषु प्रविष्ठाः ।
ते विराजमभिसंयन्तु सर्वा ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि ।
सप्त ऋत्विजः सप्तधा त्वा यजन्ति सप्त होत्रा ऋतुथा नु विद्वान् त्सप्त योनीरापृणस्व घृतेन स्वाहा ॥
ये अग्नयो दिवो ये पृथिव्याः समागच्छन्तीषमूर्जं वसानाः ।
ते अस्मा अग्नये द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहा ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
सांराज्याय सुक्रतुः ॥
उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः ।
स्तुता मन्त्राः कविशस्ता अवन्तु न एना राजन् हविषा मादयस्व ॥
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्य् उक्थ्यम् ।
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥
घर्मः शिरस् , तदयमग्निः संप्रियः पशुभिर्भव , पुरीषमसि , यछा तोकाय तनयाय शं योर् , अर्को ज्योति, स्तदयमग्निः संप्रियः पशुभिर्भव , पुरीषमसि , यछा तोकाय तनयाय शं योः , वातः प्राणः , तदयमग्निः संप्रियः पशुभिर्भव , पुरीषमसि , यछा तोकाय तनयाय शं योः ॥ अविषं नः पितुं पच ॥
कल्पेतां द्यावापृथिवी कल्पन्तामापा ओषधयः ।
कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥
ये अग्नयः समनसा ओषधीषु वनस्पतिषु प्रविष्ठाः ।
ते विराजमभिसंयन्तु सर्वा ऊर्जं नो धत्त द्विपदे चतुष्पदे ॥

1.6.3 अनुवाकः3
प्रजापतिर्वा इदमग्र आसीत् , तं वीरुधोऽभ्यरोहन् , असुर्यो वा एता यदोषधय, स्ता अतितिष्टिघिषन्नतिष्टिघं नाशक्नोत् , सोऽशोचत् , सोऽतप्यत , ततोऽग्निरसृज्यत , तमग्निं सृष्टं वीरुधां तेजोऽगच्छत् , ता अशुष्यन् , न ततः पुराशुष्यन् , त्स प्रजापतिरग्निमाधत्त , इमा एवा सहा , इति ता असहत , तत् साढ्यै वावैष आधीयते , तद्यथादो वसन्ताशिशिरेऽग्निर् वीरुधः सहत एवं सपत्नं भ्रातृव्यमवर्तिं सहते य एवं विद्वानग्निमाधत्ते , एतावद्वा अस्या अनभिमृतं यावद् वेदिः परिगृहीता , ताम् उद्धत्याप उपसृज्याग्निमाधत्ते , यज्ञियां एवैनां मेध्यां कृत्वाधत्ते , अग्नेर्वा इयं सृष्टादबिभेत् , अति मा धक्ष्यतीति , यदप उपसृज्याग्निमाधत्ते , अस्या अनतिदाहाय , एषा वै प्रजापतेः सर्वता तनूर्यदापः , सर्वत एनं प्रजाः सर्वतः पशवोऽभि पुण्येन भवन्ति य एवं विद्वानप उपसृज्याग्निमाधत्ते , यावद्वै वराहस्य चषालं तावतीयमग्र आसीत् , यद्वराहविहतं उपास्याग्निमाधत्ते , इमां एव तन्नापाराट् , अस्या एनं मात्रायामध्याधत्ते , तस्मादेषा वराहाय विम्रदते , एष ह्यस्या मात्रां बिभर्ति ,देवपाणयो वै नामासुरा आसन् , ते देवगवीरपाजन् , ता अन्वगच्छन् , ता अभ्याजन् , तासां पयोऽहीयत , तेऽब्रुवन् , यद्वा आसां वरं अभूत्तदहास्तेति , तद्वराहो भूत्वासुरेभ्योऽधि देवानागच्छत् , तस्माद्वराहं गावोऽनुधावन्ति स्वं पयो जानाना, स्तद्यावत्प्रियमेव पशूनां द्विपदां चतुष्पदां पयस्तावत्प्रियः पशूनां द्विपदां चतुष्पदां भवति य एवं विद्वान् वराहविहतं उपास्याग्निमाधत्ते , एतद्वा अस्या अनभिमृतं यद्वल्मीको , यद्वल्मीकवपाम् उपकीर्याग्निमाधत्ते , अस्या एवैनं अनभिमृतेऽध्याधत्ते , रसो वा एषोऽस्या उदैषद्यद्वल्मीको , यद्वल्मीकवपाम् उपकीर्याग्निमाधत्ते , अस्या एवैनं रसेऽध्याधत्ते , ऊर्ग् वा एषोऽस्या उदैषद्यद्वल्मीको , यद्वल्मीकवपाम् उपकीर्याग्निमाधत्ते , अस्या एवैनं ऊर्य्उध्याधत्ते , प्रजापतेर्वा एष स्तनो यद्वल्मीको , यद्वल्मीकवपाम् उपकीर्याग्निमाधत्ते प्रजापतिरेवास्मै स्तनं अपिदधाति , अन्नाद्यमस्मा अवरुन्द्धे , अक्षुध्यतां स्वानां पुरःस्थाता भवति य एवं वेद , एतावद्वा अमुष्या इह यज्ञियं यद् ऊषाः , यद् ऊषानुपकीर्याग्निमाधत्ते , अमुष्या एवैनं यज्ञियेऽध्याधत्ते , न वा अनूषरिहः पशवो रेतो दधते, यद् ऊषानुपकीर्याग्निमाधत्ते रेत एवैतद् दधाति , पशूनां पुष्ट्यै प्रजात्यै , एष वा अग्निर्वैश्वानरो यदसा आदित्यः , स यदिहासीत्तस्यैतद् भस्म यत् सिकता , यत् सिकता उपकीर्याग्निमाधत्ते स्व एवैनं योनौ स्वे भस्मन्नाधत्ते , शिथिरा वा इयमग्र आसीत् , तां प्रजापतिः शर्कराभिरदृंहत् , यं शर्करा उपकीर्याग्निमाधत्ते , इमां एव तद् दृंहति धृत्यै , तद्यथेमां प्रजापतिः शर्कराभिरदृंहदेवमस्मिन् पशवो दृंहन्ते य एवं विद्वाञ् शर्करा उपकीर्याग्निमाधत्ते , इन्द्रो वै वृत्राय वज्रं प्राहरत् , तस्य या विप्रुषा आसंस्ताः शर्करा अभवन् , यच् शर्करा उपकीर्याग्निमाधत्ते वज्रं एव सपत्नाय भ्रातृव्याय प्रहरति , यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , वज्रं एवास्मै प्रहरति , स्तृणुत एव , पुरीषीति वै गृहमेधिनं आहुः , पुरीषस्य खलु वा एतन् निरूपं यदाखुकिरि , र्यदाखुकिरिमुपकीर्याग्निमाधत्ते पुरीषी गृहमेधी भवति ॥

1.6.4 अनुवाकः4
अग्निं वै देवा विभाजं नाशक्नुवन् , यत् प्राञ्चमहरन्त्सर्वः पुरोऽभवत् , यत् प्रत्यञ्चमहरन्त्सर्वः पश्चाभवत् , तमश्वेन पूर्ववाहोदवहन् , तदश्वस्य पूर्ववाहः पूर्ववाट्त्वं , अग्नेर्वै विभक्त्या अश्वोऽग्न्याधेये दीयते , अविभक्तो वा एतस्याग्निरनाहितो योऽश्वमग्न्याधेये न ददाति , अथ योऽश्वमग्न्याधेये ददाति विभक्त्यै , विभाज्यैवैनं आधत्ते , स्तोमपुरोगवा वै देवा असुरानभ्यजयन् , एष खलु स्तोमो यदश्वो , यदश्वं पुरस्तान् नयन्ति , अभिजित्या , अभिजित्यैवैनं आधत्ते , प्रजापतेर्वै चक्षुरश्वयत् , तस्य यः श्वयथा आसीत् सोऽश्वोऽभवत् , यदश्वं पुरस्तान् नयन्ति यजमानायैव चक्षुर्दधाति , न पराङ् अवसृज्यो , यत् पराञ्चमवसृजेद्यजमानं चक्षुर्जह्यात् , अन्धः स्यात् , प्रत्यवगृह्याधेयो , यजमानायैव चक्षुः प्रत्यवाग्रहीत् , न पद आधेयो , वास्तव्यं कुर्यात् , रुद्रोऽस्य पशूनभिमानुकः स्यात् , पार्श्वत इतो वेतो वाधेयो , न वास्तव्यं करोति , अघातुकोऽस्य पशुपतिः पशून् भवति , गायत्रीँ वै देवा यज्ञं अच्छ प्राहिण्वन् , त्सा रिक्तागच्छत् तस्या अग्निस्तेजः प्रायच्छत् , सोऽजोऽभवत् , यदजमग्न्याधेये ददाति तेज एवावरुन्द्धे , अग्नीधे देयो , यज्ञमुखं वा अग्नीत् , यज्ञमुखेनैव यज्ञमुखं समर्धयति , धेनुं चानड्वाहं च ददाति , तत्सर्वं वयोऽवरुन्द्धे , एतद्वै सर्वं वयो यद् धेनुश्चानड्वांश्च , एतौ वै यज्ञस्य माता च पिता च यद् धेनुश्चानड्वांश्च , आज्यं च पयश्च धेन्वाः पुरोडाशश्च चरुश्चानडुह, स्तदाहुः कामदुघां वा एषोऽवरुन्द्धे योऽग्न्याधेये धेनुं चानड्वाहं च ददातीति , तद् येषां पशूनां भूयिष्ठं पुष्टिं कामयेत तेषां दित्यौहीं वयसो दद्याद्दित्यवाहं च मुष्करम् , तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यै , वाग् वै सोमक्रयणी , दित्यौही वयसः सोमक्रयणी , यद्दित्यौहीं वयसो ददाति वाचं एवावरुन्द्धे , चारु वदति य एवं वेद , उपबर्हणं सर्वसूत्रं देयम् , छन्दसां वा एतन् निरूपं यदुपबर्हणं सर्वसूत्रं , यदुपबर्हणं सर्वसूत्रं ददाति छन्दांस्येवावरुन्द्धे , पशवो वै छन्दांसि , पशून् एवावरुन्द्धे , अयज्ञियो वै पुरुषो अमेध्य आहनस्याज्जायते , पुरुषक्षीरं धयति , हिरण्यं ददाति , आत्मानं एव तेन पुनीते , शतमानं भवति शतायुर्वै पुरुषः शतवीर्या , आयुरेव वीर्यमाप्नोति , पूर्वयोर्हविषोर् द्वे त्रिंशन्माने देये , उत्तरस्मिंश्चत्वारिंशन्मानं , तदेनं उदग्रहीत् , तेन स उत्तरं वसीयाञ् श्रेयान् भवति , अजातो वै तावत् पुरुषो यावदग्निं नाधत्ते , स तर्ह्येव जायते यर्ह्यग्निमाधत्ते , क्षौमे वसाना अग्निम् आदधीयाताम् , ते अध्वर्यवे देये , उल्बस्य वा एतन् निरूपं यत् क्षौमं , उल्बं एवापलुम्पेते , हिरण्यं सुवर्णमुपास्याग्निराधेयो , हिरण्यं वा अग्नेस्तेजः , सतेजसं एवैनं आधत्ते , तन् न निरस्तवै , यथानुहितं निरस्येदेवं तत् , यन् निरस्येदनुध्यायी क्षोधुकः स्यात् , तन् न निरस्तवा , अननुध्याय्यक्षोधुको भवति ॥

1.6.5 अनुवाकः5
यो वा अस्यायं मनुष्योऽग्निरेतं उपासीतोऽन्नमत्ति , एतं उपासीनः प्रजां विन्दते , एतं उपासीनं पशवा उपतिष्ठन्ते , यदेतमभागधेयम् उत्सादयेत तस्मा आवृश्चेता , अनुध्यायी क्षोधुकः स्यात् , तद् ये वनस्पतय आरण्या आद्यं फलं भूयिष्ठं पच्यन्ते तस्य पर्णाभ्यां यवमयश्चापूपो व्रीहिमयश्च संगृह्योपास्याधेय,स्तदेनं द्वयं भागधेयमभ्युत्सादयामकर् ग्राम्यं चारण्यं च , तेन तस्मै नावृश्चते , अननुध्याय्यक्षोधुको भवति , यवो वै पूर्व ऋतुमुखे पच्यते , इतः खलु वा एतं प्राञ्चं उद्धरन्ति , तस्माद्यवमयः पश्चोपास्यो व्रीहिमयः पुरस् , तद्यस्येर्त्सेद्यवमयमेव तस्य पश्चोपास्येद् व्रीहिमयं पुरः , प्रजापतेर्वा एतौ स्तनौ , यज्ञमस्य देवा उपजीवन्ति वर्षं मनुष्याः , अन्नाद्यमस्मा अवरुन्द्धे , अक्षुध्यतां स्वानां पुरःस्थाता भवति य एवं वेद , एतद्ध स्म वा आह केशी सात्यकामिः केशिनं दार्भ्यम् , अन्नादं जनतायै , एवं इव वयम् एतस्मा अग्न्याधेयेऽन्नमवारुध्म यथैषोऽन्नमत्ति , तदाहुः, सर्वं वावैतस्येदमन्नं , यजमानं त्वेवास्यैतदासन्नपिदधाति , तदेवं वेदितोर्न त्वेवं कर्तवा इति , त्रिर्वा इदं प्रजापतिः सत्यं व्याहरत् ॥ भूर् भुवः स्वः ॥ इति , इदं वाव भूरिदं भुवोऽदः स्व,स्तद् यो ब्राह्मण आङ्गिरसः स्यात्तस्यादध्यात् , भूर् भुवो , अङ्गिरसां त्वा देवानां व्रतेनादधा, इति पश्चा , भुवः स्वरिति पुरो , द्विः पश्चा द्विः पुर,स्तद्द्वेधा यज्ञः सत्ये प्रत्यष्ठाद्द्वेधा यज्ञपतिर,थ यो ब्राह्मणो वैश्वानरः स्यात्तस्यादध्यात् , भूर् भुवो , अग्नेष्ट्वा देवस्य व्रतेनादधा, इति पश्चा , भुवः स्वरिति पुरो , द्विः पश्चा द्विः पुर,स्तद्द्वेधा यज्ञः सत्ये प्रत्यष्ठाद्द्वेधा यज्ञपतिर,थ राजन्यस्यादध्यात् , भूर् भुवा , इन्द्रस्य त्वा मरुत्वतो व्रतेनादधा, इति पश्चा , भुवः स्वरिति पुरो , द्विः पश्चा द्विः पुरस्तद्द्वेधा यज्ञः सत्ये प्रत्यष्ठाद्द्वेधा यज्ञपतिः , ऐन्द्रो वै राजन्यो देवतया मारुती विट् , विशा खलु वै राजन्यो भद्रो भवति , विशमस्मा अवरुन्द्धे , अथ वैश्यस्यादध्यात् , भूर् भुवो , मनोष्ट्वा ग्रामण्यो व्रतेनादधा इति पश्चा, भुवः स्वरिति पुरो , द्विः पश्चा द्विः पुरस्तद्द्वेधा यज्ञः सत्ये प्रत्यष्ठाद्द्वेधा यज्ञपति, र्ग्रामणीथ्येन खलु वै वैश्यो भद्रो भवति , ग्रामणीथ्यम् अस्मा अवरुन्द्धे , अग्निर्वै सृष्ट उल्बमपलुम्पं नाशक्नोत् , तस्य प्रजापतिराग्नेयपावमानीभिरुल्बमपालुम्पत् , यदाग्नेयपावमानीभिराश्वत्थीः समिध आदधाति , उल्बं एवास्यापलुम्पति , पुनात्येनं , यथा शिशुं माता रेढि वत्सं वा गौर् एवं एनं रेढि , अग्नेर्वै सृष्टस्य तेजा उददीप्यत , तदश्वत्थं प्राविशत् , यदाश्वत्थीः समिध आदधाति तेज एवावरुन्द्धे , अग्निर्वै सृष्टो बिबिबाभवन्नतिष्ठदसमिध्यमानः , स प्रजापतिरबिभेत् , मां वावायं हिंसिष्यतीति , तं शम्या समैन्धत् , तमशमयत् , तं शम्याः शमीत्वं , यच् छमीमयीः समिध आदधाति सं एनं इन्द्धे , शमयत्येव , स शं यजमानाय भवति शं पशुभ्यो , देवा यत्रोर्जं व्यभजन्त तत उदुम्बरा उदतिष्ठत् , यदौदुम्बरीं समिधमादधाति , ऊर्जं एवावरुन्द्धे ॥

1.6.6 अनुवाकः6
विप्रियो वा एष पशुभिराधीयते , एष हि रुद्रो यदग्निस्तद्वाचयेत् , घर्मः शिरस्तदयमग्निः संप्रियः पशुभिर्भव , पुरीषमसीति , तदेनं संप्रियं पशुभिः पुरीषिणमक,र्यत्ते शुक्र शुक्रं ज्योतिस्तेन रुचा रुचं अशीथा इति रुचं एवैनं अजीगमत् , एष वा अग्निर्वैश्वानरो यदसा आदित्यो , यदुत्तरतो हरेदेषोऽतः स्यात् , अयमितो जीवन्तमेवैनं प्रदहेत् , सदक्षिणत एव हार्यः , स यदा समयाध्वं गच्छेदथ यजमानो वरं दद्यात् , तद्विराजं मध्यतोऽधित , विराडेवास्याग्नीन् विदधते , पशवो वै विराट् पशून् वा एतन्मध्यतोऽधित , असृष्टो वा अग्निरासीत् , अथ प्रजापतिः प्रजा असृजत , ता अन्धे तमसीमांल्लोकाननुव्यनश्यन् , त्सोऽशोचत् , सोऽतप्यत , ततोऽग्निरसृज्यत , तमग्निं सृष्टमधो व्यदधात् , तं या अस्मिंल्लोक आसंस्ता अभिसमावर्तन्त , तं कुल्फदघ्नं उदगृह्णात् , तं या उत्तरस्मिंल्लोक आसंस्ता अभिसमावर्तन्त , तं जानुदघ्नं तं नाभिदघ्नं तमंसदघ्नं तं कर्णदघ्नं उदगृह्णात् , तं या उत्तरस्मिंल्लोक आसंस्ता अभिसमावर्तन्त , तं कर्णदघ्नं नात्युद्गृह्यो , यत् कर्णदघ्नं अत्युद्गृह्णीयाद्यजमानो वर्षिष्ठः पशूनां , यजमानं उपरिष्टादग्निरभ्यवदहेत् , तदाहुः , कथमद्यैतं ब्रह्मणाहितं प्रच्यावयेयुः , शिथिरं वावैनं एतदकः , परैनं वपतीति , तमनिधायैवाथ जानुदघ्नं उद्गृह्णीयादथ नाभिदघ्नं अथांसदघ्नं ,
तद्यथैव प्रजापतिं प्रजा एभ्यो लोकेभ्योऽभिसमावर्तन्तैवं एव यजमानं पशव एभ्यो लोकेभ्योऽभिसमावर्तन्ते य एवं विद्वानग्निमाधत्ते , अग्निना वै देवतया विष्णुना यज्ञेन देवा असुरान् प्रव्लीय वज्रेणान्ववासृजन् , यः सपत्नवान् भ्रातृव्यवान् वा स्यात्तस्य रथचक्रं त्रिरनुपरिवर्तयेयुस्तद्यथैव देवा असुरानग्निना देवतया विष्णुना यज्ञेन प्रव्लीय वज्रेणान्ववासृजन्न् एवं एव यजमानः सपत्नं भ्रातृव्यमग्निना देवतया विष्णुना यज्ञेन प्रव्लीय वज्रेणान्ववसृजति य एवं विद्वानग्निमाधत्ते ॥


1.6.7 अनुवाकः7
एष वै प्रजापती रूपेण यत् पूर्णां स्रुक् , यत् पूर्णां स्रुचं जुहोति प्रजापतिम् एवाप्नोति, सप्त ते अग्ने समिधः सप्त जिह्वा , इति , एतावतीर्वा अग्नेस्तन्वः षोढा सप्तसप्त, यो वा अस्यैता अग्निमादधानो वितर्षयति वि ह तृष्यति , ता एवास्य तर्पयति , शमीमयीस्तिस्रः समिधा आदधाति घृतान्वक्ता घृतस्तोम्याभिः, सं एनं इन्द्धे , शमयत्येव , स शं यजमानाय भवति शं पशुभ्यो ये वा एषु त्रिषु लोकेष्वग्नयस्ते समागच्छन्ति , अस्य द्रविणं आददामहा , अति नोऽक्रमीत् , हव्यवाड् भवतीति, तज्जुहुयात् ॥
ये अग्नयो दिवो ये पृथिव्याः समागच्छन्तीषं ऊर्जं वसानाः ।
ते अस्मा अग्नये द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत ॥ स्वाहेति तदिमं एव द्रविणवन्तं कृत्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परायन्ति , तद्वाचयेत् , घर्मः शिर,स्तदयमग्निः संप्रियः पशुभिर्भव, पुरीषमसीति, तदेनं संप्रियं पशुभिः पुरीषिणमकर् , यत्ते शुक्र शुक्रं ज्योतिः शुक्रं धामाजस्रं तेन त्वादधा , इति सतेजसं एवैनं आधत्ते ॥
इडायास्त्वा पदे वयं नाभा पृथिव्या अधि ।
जातवेदो निधीमह्यग्ने हव्याय वोढवे ॥
इति हव्यावाहं एवैनं अकर् , अग्नेर्वै सृष्टस्य पशवोऽक्ष्या अवक्षाय प्रापतन् , त्स प्रजापतिर्वारवन्तीयमसृजत , तानवारयत , एतर्हि खलु वा एष सृज्यते यर्ह्याधीयते , तद्यथैतस्मात् सृष्टात् पशवः प्रापतन्न् एवमस्मादाहितात्पशवः प्रपतन्ति , एष हि रुद्रो यदग्नि,स्तद्य एवं विद्वान् वारवन्तीयं गायते पशून् एव वारयते , वारवन्तीयं वै सृष्ट्वा प्रजापतिर् यं कामं अकामयत तमार्ध्नोत् , तं एव कामं ऋध्नोति यजमानो यं कामं कामयमानोऽग्निमाधत्ते य एवं विद्वान् वारवन्तीयं गायते , अग्निर्वै क्रव्याद्विश्वदाव्य इमांल्लोकानदहत् , तं प्रजापतिर्वारवन्तीयं गायमानो वरणं बिभ्रत् प्रत्यैत् , तमशमयत् , यदेवास्य क्रव्याद्यद्विश्वदाव्यं तं शमयति य एवं विद्वान् वारवन्तीयं गायते , तस्माद्वरणो यज्ञावचरः स्यात् , न त्वेनेन जुहुयात् , यद्वा इदं सद्यद् भूतं यद् भवद्यद् भविष्यद्यदिमे अन्तरा द्यावापृथिवी तद्वामदेव्यं तदेवावरुन्द्धे य एवं विद्वान् वामदेव्यं गायते , ब्रह्मणो वा एष रसो यद्यज्ञायज्ञियम् , यद्यज्ञायज्ञियं गायते ब्रह्मण्येव रसं दधाति ॥

1.6.8 अनुवाकः8
अग्निं वै सृष्टं प्रजापतिः पवमानेनाग्रा उपाधमत् , यत् पवमानाय निर्वपति , उपैवैनं तद्धमति , यत्पावकाय पुनात्येनं , यञ् शुचये यदेवास्यापूतं तदेतेन पुनाति , यत् पवमानाय निर्वपति , पशवो वै पवमानः पशून् एवावरुन्द्धे , यत्पावकाय , अन्नं वै पावकं , अन्नं एवावरुन्द्धे , यच् शुचये, पूत एवास्मिन् रुचं दधाति , यं कामयेत , अपतरं पापीयान्त्स्यादिति तस्यैकमेकं हवींषि निर्वपेत् , तदेनं अपाग्रहीत् , तेन सोऽपतरं पापीयान् भवति , अथ यं कामयेत न वसीयान्त्स्यान् न पापीयान् इति तस्य सर्वाणि साकं हवींषि निर्वपेत् , तदेनं संरुणद्धि , तेन स न वसीयान् न पापीयान् भवति , अथ यं कामयेतोत्तरं वसीयाञ् श्रेयान्त्स्यादिति तस्याग्नये पवमानाय निरुप्याथ पावकाय च शुचये चोत्तरे हविषी समानबर्हिषि निर्वपेत् , तदेनं उदग्रहीत् तेन स उत्तरं वसीयाञ् श्रेयान् भवति , अथ यस्य त्रिष्टुभौ वानुष्टुभौ वा जगती वा संयाज्ये स्याताम् अति गायत्रं क्रामेदर्वाक् छन्दोभ्योऽवपद्येत , तद्यस्येर्त्सेद् गायत्र्या एव तस्य संयाज्ये कुर्यात् , गायत्रो ह्यग्निर् गायत्रछन्दाः , स्व एवैनं योनौ स्वे छन्दसि प्रतिष्ठापयति , आग्नावैष्णवं एकादशकपालं निर्वपेत् , अग्निर्वै सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्ध, विष्णवे शिपिविष्टाय त्र्युद्धौ घृते चरुं निर्वपेत् , यद्विष्णवे , विष्णुर्वै यज्ञो , यज्ञं एवालब्ध , यच् शिपिविष्टं , पशवो वै शिपिविष्टं , पशून् एवावरुन्द्धे , यत् त्र्युद्धौ , त्रयो वा इमे लोका , इमान् एव लोकानाप्नोति , यद् घृते , तेजो वै घृतं , तेज एवावरुन्द्धे , आदित्यं घृते चरुं निर्वपेत् पशुकामो , धेन्वा वै घृतं पयोऽनडुहस्तण्डुला,स्तन् मिथुनं , पशूनां पुष्ट्यै प्रजात्यै , अग्नीषोमीयं पुरोडाशं द्वितीयमनुनिर्वपेत् , तद् भूयो हव्यमुपागात् , नो अस्यान्य ईशे , यर्हि वा एतं पुरा ब्राह्मणा निरवपंस्तर्ह्य् एषां न कश्चनैश , न हि वा एतं इदानीं निर्वपन्ति , अथैषां सर्व ईशे , यदाग्नेय,स्तेजो वा अग्नि,स्तेज एवावरुन्द्धे , यत्सौम्यः , सोमो वै शुक्रो ब्रह्मवर्चसं , ब्रह्मवर्चसं एवावरुन्द्धे , तद् योऽसा आदित्यो घृते चरुस्तं ब्रह्मणे परिहरेयु,स्तं चत्वारः प्राश्नीयु,स्तेभ्यः समानो वरो देय,श्चतुर्वा इदमग्रे मिथुनं औद्यत , एकश्चैका च , द्वौ च द्वे च , त्रयश्च तिस्रश्च , चत्वारश्च चतस्रश्च तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यै ॥


1.6.9 अनुवाकः9
फल्गुनीपूर्णमासे ब्राह्मणस्यादध्यात् , फल्गुनीपूर्णमासो वा ऋतूनां मुखम्, अग्निर्देवतानां , ब्राह्मणो मनुष्याणां , ग्रीष्मे राजन्यस्यादध्यात् , ग्रीष्मे वा इन्द्रो वृत्रमहन् , वृत्रं खलु वै राजन्यो बुभूषन् जिघांसति , शरदि वैश्यस्यादध्यात् , अन्नं वै शरत् , अन्नेन वैश्यो भद्रो भवति , अन्नाद्यमस्मा अवरुन्द्धे , यद्यन्यस्मिन्न् ऋता आदधीत यदि वा अस्मै स एक ऋतुः शिवः स्यादथास्मा इतरेऽशिवा दुर्योणा भवेयुस्तद्यस्येर्त्सेत् फल्गुनीपूर्णमास एव तस्यादध्यात् , तदस्मै सर्व ऋतवः शिवा भवन्ति , सर्व एनं ऋतवो जिन्वन्ति , संवत्सरस्य वा एतदास्यं यत् फल्गुनीपूर्णमास्यमहर् यत् फल्गुनीपूर्णमास्यमहरादध्यात् संवत्सरस्यैनं आसन्नपिदध्यात् , द्व्यहे वा पुरैकाहे वाधेय,स्तद् द्वितीयस्य ऋतोरभिगृह्णाति, नैनं संवत्सरस्यासन्नपिदधाति, तद्यद् द्वितीयस्य ऋतोरभिगृह्णाति द्वितीयमेव सपत्नस्य भ्रातृव्यस्येन्द्रियं पशून् क्षेत्रं वृञ्जान एति, कृत्तिकासु ब्राह्मणस्यादध्यात् , आग्नेयीः कृत्तिका , आग्नेयो ब्राह्मणः , स्व एवैनं योनौ स्वेऽहन्नाधत्ते , प्रजापतेर्वा एतं शिरो यत् कृत्तिका , अग्निरास्यम् , शीर्णा ्न्नमद्यते , अन्नाद्यमस्मा अवरुन्द्धे , सप्त कृत्तिकाः , सप्त शीर्षन् प्राणाः , प्राणानस्मिन् दधाति , रोहिण्यां पशुकामस्यादध्यात् , सोमस्य वा एतन् नक्षत्रं यद् रोहिणी , सोमो रेतोधा , रेतोऽस्मिन् दधाति , ऋक्षा वा इयमग्र आसीत् , तस्यां देवा रोहिण्यां वीरुधोऽरोहयन् , तद्यथेमा अस्यां वीरुधो रूढा एवमस्मिन् पशवो रोहन्ति य एवं विद्वान् रोहिण्यामग्निमाधत्ते , रोहिण्यां स्वर्गकामस्यादध्यात् , रोहिण्यां वै देवाः स्वरायन् , त्स्वरेवैति , कालकाञ्जा वा असुरा इष्टका अचिन्वत, दिवमारोक्ष्यामा, इति तानिन्द्रो ब्राह्मणो ब्रुवाण उपैत् , स एतामिष्टकामप्युपाधत्त ,
प्रथमा इव दिवमाक्रमन्त , अथ स ताम् आबृहत् , तेऽसुराः पापीयांसो भवन्तोऽपाभ्रंशन्त , या उत्तमा आस्तां तौ यमश्वा अभवताम् , येऽधरे त ऊर्णावाभयो , यां तामिष्टकामाबृहत् सा चित्राभवत् , यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स चित्रायामग्निम् आदधीत , तद्यथैतस्यामावृढायामसुराः पापीयांसो भवन्तोऽपाभ्रंशन्तैवमस्य सपत्नो भ्रातृव्यः पापीयान् भवन्नपभ्रंशते य एवं विद्वांश्चित्रायामग्निमाधत्ते , यः कामयेत, भग्यन्नादः स्यां इति, स पूर्वासु फल्गुनीष्वग्निम् आदधीत , भगस्य वा एतदहर्यत् पूर्वाः फल्गुनी , र्भग्यन्नादो भवति , अथ यः कामयेत दानकामा मे प्रजाः स्युरिति, स उत्तरासु फल्गुनीष्वग्निम् आदधीत , अर्यम्णो वा एतदहर्यदुत्तराः फल्गुनी , र्दानं अर्यमा , दानकामा अस्मै प्रजा भवन्ति , तासु राजन्यस्यादध्यात् , दानं ह्येष प्रजानां उपजीवति, दानं अर्यमा , दानकामा अस्मै प्रजा भवन्ति, प्रजापतेर्वा एतौ स्तनौ यत् पौर्णमासी चामावास्या च , यत् पौर्णमास्यां वामावास्यायां वाग्निमाधत्ते प्रजापतिमेव प्रत्तं दुहे , देवानां वा एते सदोहविर्धाने यत् पौर्णमासी चामावास्या च , यत् पौर्णमास्यां वामावास्यायां वाग्निमाधत्ते उभे पुण्याहे उभे यज्ञिये ॥

1.6.10 अनुवाकः10
न पुरा सूर्यस्योदेतोर्मन्थितवा , असुर्यो विदेवा आधीयते , उद्यत्सु रश्मिषु मथ्यः, तत्सदेवः सेन्द्र उभयोरह्नो रूप आधीयते, चतुर्विंशत्यां प्रक्रमेष्वाधेय, श्चतुर्विंशत्यक्षरा वै गायत्री , गायत्रमग्नेश्छन्दः, स्व एवैनं योनौ स्वे छन्दस्याधत्ते , तद्यस्येर्त्सेदपरिमित एव तस्यादध्यात् , क्षेष्णु वै परिमितं , अपरिमितं एवास्मै जीवनं अवरुन्द्धे , अग्निर्वै सृष्टः प्रजापतेरध्य् उदक्रामत् , स प्रजापतिरबिभेत् ,
अद एवासा अभूदिदमहं इति , तस्मिन्ननुनिष्क्रम्याजुहोत् , एतर्हि खलु वा एष सृज्यते यर्ह्याधीयते , तदाहुः , अरम्ण एवानुद्रुत्याथाग्निहोत्रं होतव्यं इति , तन् नैवं कर्तवा , अयतं तत् कुण्ड्याग्रीयं तद्यज्ञस्य क्रियते यद् योनेः परं अवरं कुर्याद,प्रजनिष्णुः स्यात् , हवींष्येव पूर्वाणि निरुप्याथ सायमग्निहोत्रं जुहुयात् ॥
अग्निर् ज्योतिर् ज्योतिरग्निः स्वाहा ॥ इति तत् सायं ज्योतिषा रेतो मध्यतो दधाति ॥ सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा ॥ इति प्रातः ॥ तत् सायं ज्योतिषां रेतो मध्यतो हितं ॥ प्रातः प्रजनयामक,र्देवाश्च वा असुराश्च संयत्ता आसन् , अथेन्द्रोऽग्निमाधत्त , ते देवा अबिभयुः, अद एवासा अग्निं गोपायमानोऽग्निहोत्रं गोपायमानो भविष्यति, न ना उपैष्यति, अभि नो जेष्यन्तीति , तेऽब्रुवन् , यदेव त्वं किंच करवो यद्धना यज् जिना यद्विन्दासै तत्तेऽग्निहोत्रं कुर्मो , अथेहीति , स वा ऐत् , तस्माद् राजन्यस्याग्निहोत्रमहोतव्यं , यद् ध्येवैष किंच करोति यद्धन्ति यज् जिनाति यद्विन्दते यदेनं विश उपतिष्ठन्ते तद् राजन्यस्याग्निहोत्रं होतव्यं , राजन्यस्याग्निहोत्रा३न् न होतव्यां३ इति मीमांसन्ते , यद्धुत्वा न जुहुयाद्वि यज्ञं छिन्द्याज् जीयेत वा प्र वा मीयेत, पौर्णमासीममावास्यां वा प्रति होतव्यं, अथो अग्न्युपस्थानं वा चयितव्यो, तेनास्य दर्शपूर्णमासौ संतता अविछिन्नौ भवतः ॥

1.6.11 अनुवाकः11
यं कामयेत, पशुमान्त्स्यादिति यो बहुपुष्टस्तस्य गृहादग्निमाहरेयु, र्यथा वा एतं सृज्यमानं पशवोऽन्वसृज्यन्तैवं एनं आह्रियमाणं पशवोऽन्वायन्ति , एष हि रुद्रो यदग्निः, अथ यं कामयेत , अन्नादः स्यादिति तस्य भ्रष्ट्राद् दक्षिणाग्निमाहरेयु,रेष वा अग्नीनामन्नादो, अन्नकरणं भ्रष्ट्रं, अन्नाद्यमस्मा अवरुन्द्धे, तदाहु,र्यथा वृषलो निजः पुक्लकश्चिकित्सेदेवं स, इति स मथ्य एव , स शं यजमानाय भवति शं पशुभ्यो , यः सोमेनायक्ष्यमाणोऽग्निमादधीत न पुरा संवत्सराद्धवींषि निर्वपेत् , रुद्रोऽस्य पशूनभिमानुकः स्यात् , एते वै पशवो यद् व्रीहयश्च यवाश्च, तेषां चतुःशरावं ओदनं पक्त्वा ब्राह्मणेभ्यो जीवतण्डुलं इवोपहरेत् , तद्याभ्यो देवताभ्योऽग्निमाधत्ते यत्ताभ्यो न जुहुयात्ताभ्या आवृश्चेता , अनुध्यायी क्षोधुकः स्यात् , ताभ्या आज्यस्य होतव्यं , तेन ताभ्यो नावृश्चते , अननुध्याय्यक्षोधुको भवति , संवत्सरे हवींषि निर्वपति , तदस्य संवत्सरान्तर्हितो रुद्रः पशून् न हिनस्ति , संवत्सरम् अग्निहोत्रमहौषीत् , तत्तपोऽविदत् , स सर्वेण साकं स्वर्गं लोकं समारुक्षत् , त्रिर्वा इदं विराड् व्यक्रमत गार्हपत्यमाहवनीयं सभ्यम् , तद्विराजमापत् , अन्नं वै विराट् , अन्नं वावैतदापत् , मध्याधिदेवने राजन्यस्य जुहुयाद्वारुण्य ऋचा, वरुणो वै देवानां राजा , राज्यमस्मा अवरुन्द्धे , हिरण्यं निधाय जुहोति , अग्निमत्येव जुहोत्यायतनवति , अन्धोऽध्वर्युः स्याद्यदनायतने जुहुयात् , शतं अस्मा अक्षान् प्रयच्छेत् , तान् विचिनुयात् , शतायुर्वै पुरुषः शतवीर्या , आयुरेव वीर्यमाप्नोति , गामस्य तदहः सभायां दीव्येयु,स्तस्याः परूंषि न हिंस्यु,स्तां सभासद्भ्या उपहरेत् , तया यद् गृह्णीयात्तद् ब्राह्मणेभ्यो देयम् , तत्सभ्यमन्नमवरुन्द्धे ॥

1.6.12 अनुवाकः12
यस्या रात्र्याः प्रातरग्निमाधास्यमानः स्यात् तां रात्रीं चतुःशरावं ओदनं पक्त्वा ब्राह्मणेभ्यो जीवतण्डुलं इवोपहरेत् , अदितिर्वै प्रजाकामौदनं अपचत् , सोञ्शिष्टमाश्नात् , तस्या धाता चार्यमा चाजायेताम् , सापरं अपचत् , सोञ्शिष्टमाश्नात् , तस्या मित्रश्च वरुणश्चाजायेताम् , सापरं अपचत् , सोञ्शिष्टमाश्नात् , तस्या अंशश्च भगश्चाजायेताम् , सापरं अपचत् , सैक्षतोञ्शिष्टं मेऽश्नत्या द्वौ द्वौ जायेते, इतो नूनं मे श्रेयः स्याद्यत् पुरस्तादश्नीयां इति , सा पुरस्तादशित्वोपाहरत् , ता अन्तरेव गर्भः सन्ता अवदता,म् आवमिदं भविष्यावो यदादित्या इति , तयोरादित्या निर्हन्तारं ऐच्छन् , ता अंशश्च भगश्च निरहताम् , तस्मादेतौ यज्ञेन यजन्ते , अंशप्रासोंऽशस्य भागधेयम् , जनं भगोऽगच्छत् , तस्मादाहुर्जनो गन्तव्यस्तत्र भगेन संगच्छता इति, स वा इन्द्र ऊर्ध्व एव प्राणमनुदश्रयत, मृतं इतरं आण्डमवापद्यत, स वाव मार्ताण्डो यस्येमे मनुष्याः प्रजा , सा वा अदितिर् आदित्यानुपाधावत् , अस्त्व् एव म इदं मा म इदं मोघे परापप्तदिति , तेऽब्रुवन् , अथैषोऽस्माकं एव ब्रवातै न नोऽतिमन्याता, इति स वाव विवस्वानादित्यो यस्य मनुश्च वैवस्वतो यमश्च , मनुरेवास्मिंल्लोके यमोऽमुष्मिन् , एते वै देवयानान् पथो गोपायन्ति यदादित्यास्त इयक्षमाणं प्रतिनुदन्ते, यो वा एतेभ्योऽप्रोच्याग्निमाधत्ते तं एते स्वर्गाल्लोकात् प्रतिनुदन्ते , उञ्शिष्टभागा वा आदित्याः , यदुञ्शिष्टे विवर्तयित्वा समिध आदधाति तदादित्येभ्योऽग्न्याधेयं प्राह , नैनं स्वर्गाल्लोकात् प्रतिनुदन्ते , संवत्सरम् उत्सृजेताग्निमाधास्यमानो ,
नास्याग्निं गृहाद्धरेयु,र्नान्यता आहरेयुः , संवत्सरे वृद्धा गर्भाः प्रजायन्ते, प्रजातं एनं वृद्धमाधत्ते , द्वादश रात्रीरुत्सृजेत, द्वादश वै रात्रयः संवत्सरस्य प्रतिमा, संवत्सरे वृद्धा गर्भाः प्रजायन्ते , प्रजातं एनं वृद्धमाधत्ते, तिस्र उत्सृजेत, त्रयो वा इमे लोकाः, इमान् एव लोकानाप्नोति , एकामुत्सृजेत , एको वै प्रजापतिः , प्रजापतिम् एवाप्नोति, पुरूरवा वा ऐड उर्वशीमविन्दत देवीं , तस्या आयुरजायत ,
स देवान्त् स्वर्गं लोकं यत्तोऽनूदैत् , तेऽब्रुवन् , तद्वयं देवा इमः, क्वायं मनुष्यो गमिष्यतीति, सोऽब्रवीत् , बहवो वै मे समाना,स्ते मा वक्ष्यन्ति, किमयं देव्याः पुत्रो देवेभ्यो मातुर्भ्रात्रेभ्या आहार्षीत् , अस्त्व् एव मे किंचिदिति, तस्मा अग्निर्यज्ञियां तन्वं प्रायच्छत् ताम् उत्सङ्गेऽवधायाहरत् , ताम् उखायामवादधात् , सोऽश्वत्थ आरोहोऽभवत् , योखा सा शमी , तस्मादेतौ यज्ञावचरौ, पुण्यजन्मानौ हि , अग्निर्वै वरुणं ब्रह्मचर्यमागच्छत् प्रवसन्तम् , तस्य जायां समभवत् , तं पुरस्तादायन्तं प्रतिक्षाय प्रत्यङ् निरद्रवत् , सोऽवेत् सर्वं वा इन्द्रियं नृम्णं रेतो निर्लुप्य हरतीति, तदनुपराहाय निरलुम्पत् , यद् रेता आसीत् सोऽश्वत्थ आरोहोऽभवत् , यदुल्बं सा शमी , तस्मादेतौ यज्ञावचरौ , पुण्यजन्मानौ हि, प्रजापतिः प्रजाः सृष्ट्वा रिरिचानोऽमन्यत , सोऽश्वो भूत्वा संवत्सरं न्यङ् भूम्यां शिरः प्रतिनिधायातिष्ठत् , तस्याश्वत्थो मूर्ध्न उदभिनत् , तदश्वत्थस्याश्वत्थत्वं , तस्मादेष यज्ञावचरः , प्राजापत्यो हि ॥

1.6.13 अनुवाकः13
मनुर्वै प्रजाकामोऽग्निमाधास्यमानो देवतायै देवताया अजुहोत् , ततो मित्रावरुणयोराहुत्या प्रफर्व्य् उदतिष्ठत् , तस्या घृतं पदोरक्षरत् , सा मित्रावरुणा ऐत् , ता अब्रूताम् , आहुत्या वै त्वमावयोरजनिष्ठा , मनोस्त्वै त्वमसि, तं परेहीति, सा मनुमैत् , सोऽब्रवीत् , असुरा वा इमे पुण्यमन्या अग्निम् आदधते , तान् परेहीति , सा परैत् , तेऽमुमग्रा आदधताथेमं अथेमं , सा पुनरैत् , तामपृच्छत् , किमभ्यगन्न् इति , साब्रवीत् , अमुं एवाग्रा आधिषताथेमं अथेमं इति , सोऽब्रवीत् सकृद्वावासुराः श्रियोऽन्तमगुः , परा तु भविष्यन्तीति , सोऽब्रवीत् , देवा वा इमे पुण्यमन्या अग्निम् आदधते , तान् परेहीति , सा परैत् , त इमं अग्रा आदधत , अथामुमथेमं , सा पुनरैत् , तामपृच्छत् , किमभ्यगन्न् इति, साब्रवीत् , इमं एवाग्रा आधिषताथामुमथेमं इति , सोऽब्रवीत् , सकृद्वाव देवाः सर्वेण साकं स्वर्गं लोकं समारुक्षन् , इतः प्रदानात् तु यज्ञं उपजीविष्यन्तीति , यः सर्ववेदसं दास्यन्त्स्यात्स इमं अग्रा आदधीताथामुमथेमं , तद्यथैव देवाः सर्वेण साकं स्वर्गं लोकं समारोहन्न् एवं एव यजमानः सर्वेण साकं स्वर्गं लोकं समारोहति य एवं विद्वानग्निमाधत्ते, सोऽब्रवीत् , ऋषयो वा इमे पुण्यमन्या अग्निमादधते , तान् परेहीति , सा परैत् , त इमं अग्रा आदधताथेममथामुं , सा पुनरैत् , तामपृच्छत् , किमभ्यगन्न् इति , साब्रवीत् , इमं एवाग्रा आधिषत , अथेममथामुं इति , सोऽब्रवीत् , अहं वावाग्न्याधेयं विदांचकार, सर्वेषु वा एषु लोकेष्व् ऋषयः प्रत्यष्टुरिति, प्रति प्रजया च पशुभिश्च तिष्ठति य एवं विद्वानग्निमाधत्ते , यदमुमाधायेमं आदध्यादप तदादध्यात् , यद्वावेमं आधायामुमादध्यादप तदादध्यात् , तदिमं एवाधायाथेममथामुं , तथा समृद्धा आधीयते , प्राचीनप्रवण आधेय,स्तथा समृद्धा आधीयते, प्राचीनं मध्यमाद् वंशादाधेय,स्तथा समृद्धा आधीयते, या वै सा प्रफर्व्यासीत् सा गौरभवत् सेडा सा मानवी घृतपदी मैत्रावरुणी ॥
इति प्रथमकाण्डे आधानं नाम षष्ठः प्रपाठकः