मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ०५
अग्न्युपस्थानम्
1.5.1 अनुवाकः1
उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।
आरे अस्मे च शृण्वते ॥
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ॥
अपां रेतांसि जिन्वति ॥
उभा वां इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै ॥
उभा दातारा इषां रयीणां उभा वाजस्य सातये हुवे वाम् ॥
अयमिह प्रथमो धायि धातॄभिर् होता यजिष्ठो अध्वरेष्वीड्यः ।
यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥
अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
पयः सहस्रसां ऋषिम् ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः ।
तं जानन्नग्ना आरोह ततो नो वर्धया रयिम् ॥
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि नो मुखा करत् प्र ना आयूंषि तारिषत् ॥
अग्ना आयूंषि पवसा आसुवोर्जमिषं च नः ।
आरे बाधस्व दुच्छुनां ॥
अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तं ईमहे महागयम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
दधत् पोषं रयिं मयि ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
आ देवान् वक्षि यक्षि च ॥
स नः पावक दीदिवोऽग्ने देवं इहावह ।
उप यज्ञं हविश्च नः ॥
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः ।
शुची रोचता आहुतः ॥
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
तव ज्योतींष्यर्चयः ॥
अग्नीषोमा इमं सु मे शृणुतं वृषणा हवम ।
प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥
अग्निस्तिग्मस्तिग्मतेजाः प्रति रक्षो दहतु सहताम् अरातिम् ।
अपाघशँसं नुदताम् ॥
अग्ने सपत्नसाह सपत्नान्मे सहस्व ।
मा मा तितीर्षन्तारीत् ॥
1.5.2 अनुवाकः2
त्वमग्ने सूर्यवर्चा असि , सं मामायुषा वर्चसा सृज , सं त्वमग्ने सूर्यस्य ज्योतिषागथाः ॥
सं ऋषीणां स्तुतेन सं प्रियेण धाम्ना समहमायुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मीय ॥
इन्धानास्त्वा शतं हिमा द्युमन्तः समिधीमहि ।
वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतं ।
अग्ने सपत्नदम्भनं सुवीरासो अदाभ्यम् ॥
अग्नेः समिदसि , अभिशस्त्या मा पाहि , सोमस्य समिदसि , परस्पा म एधि , यमस्य समिदसि , मृत्योर्मा पाहि , आयुर्धा अग्नेऽसि , आयुर्मे धेहि , वर्चोधा अग्नेऽसि , वर्चो मे धेहि , चक्षुष्पा अग्नेऽसि , चक्षुर्मे पाहि , श्रोत्रपा अग्नेऽसि , श्रोत्रं मे पाहि , तनूपा अग्नेऽसि , तन्वं मे पाहि , यन्मे अग्न ऊनं तन्वस्तन्मा आपृण , अग्ने यत्ते तपस्तेन तं प्रति तप यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते शोचिस्तेन तं प्रतिशोच यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते अर्चिस्तेन तं प्रत्यर्च यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते हरस्तेन तं प्रतिहर यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते तेजस्तेन तं प्रतितितिग्धि यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने रुचां पते नमस्ते रुचे , मयि रुचं धा , श्चित्रावसो स्वस्ति ते पारम् अशीय , अर्वाग्वसो स्वस्ति ते पारम् अशीय , अम्भः स्थ , अम्भो वो भक्षीय , महः स्थ , महो वो भक्षीय , ऊर्जः स्थ , ऊर्जं वो भक्षीय , रायस्पोषः स्थ , रायस्पोषं वो भक्षीय ॥ रेवती रमध्वं अस्मिन्योना अस्मिन् गोष्ठे , अयं वो बन्धुः , इतो मापगात , बह्वीर्भवत , मा मा हासिष्ट ॥ संहितासि विश्वरूपा , आ मोर्जा विशा गौपत्येना प्रजया रायस्पोषेण ॥ मयि वो रायः श्रयन्तां , सहस्रपोषं वोऽशीय ॥
1.5.3 अनुवाकः3
उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥
राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
सचस्वा नः स्वतये ॥
अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ।
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनं ईमहे सखिभ्यः ॥
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युतत्तमं रयिं दाः ।
स नो बोधि श्रुधी हवं उरुष्या नो अघायतः समस्मात् ॥
अभ्यस्थां विश्वाः पृतना अरातीस्तदग्निराह तदु सोम आह ।
बृहस्पतिः सवितेन्द्रस्तदाह पूषा ना आधात् सुकृतस्य लोके ॥
ऊर्जा वः पश्याम्यूर्जा मा पश्यत ।
रय्या वः पश्यामि रय्या मा पश्यत ॥
संपश्यामि प्रजा अहं इडप्रजसो मानवीः ।
सर्वा भवन्तु नो गृहे ॥
इडा स्थ मधुकृतः स्योना माविशतेरंमदः ।
सहस्रपोषं वोऽशीय ॥
भुवनं असि सहस्रपोषपुषि , तस्य नो रास्व , तस्य ते भक्तिवानो भूयास्म , इडासि व्रतभृत् , त्वयि व्रतं , व्रतभृदसि ॥
1.5.4 अनुवाकः4
महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥
नहि तेषाममा सतां नाध्वसु वारणेषु च ।
ईशे रिपुरघशँसः ॥
ते हि पुत्रासो अदितेश्छर्दिर्यच्छन्त्यजस्रम् ।
प्र दाशुषे वार्याणि ॥
सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।
कक्षीवन्तं य औशिजः ॥
यो रेवान्यो अमीवहा वसुवित् पुष्टिवर्धनः ।
स नः सिषक्तु यः शिवः ॥
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमं ॥
कदा च न स्तरीरसि कदा च न प्रयुच्छसि ॥
परि ते दूडभो रथोऽस्मं अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥
निम्रदोऽसि , नि अहं तं मृद्यासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अभिभूरसि , अभ्यहं तं भूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मः, प्रभूरसि प्राहं तं अतिभूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ पूषा मा पथिपाः पातु , पूषा मा पशुपाः पातु , पूषा माधिपाः पातु , प्राची दिगग्निर्देवता , यो मैतस्या दिशो अभिदासादग्निं सा ऋच्छतु , दक्षिणा दिग् इन्द्रो देवता , यो मैतस्या दिशो अभिदासादिन्द्रं सा ऋच्छतु , प्रतीची दिङ् मरुतो देवता , यो मैतस्या दिशो अभिदासान्मरुतः सा ऋच्छतु , उदीची दिङ् मित्रावरुणौ देवता , यो मैतस्या दिशो अभिदासान् मित्रावरुणौ सा ऋच्छतु , ऊर्ध्वा दिक् सोमो देवता , यो मैतस्या दिशो अभिदासात् सोमं सा ऋच्छतु , धर्मो मा धर्मणः पातु , विधर्मो मा विधर्मणः पातु , आयुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राङ् चापाङ् च , उरुक उरुकस्य ते वाचा वयं सं भक्तेन गमेमह्यग्ने गृहपते ॥
1.5.5 अनुवाकः5
यस्य वा अग्निहोत्रे स्तोमो युज्यते स्वर्गं अस्मै भवति , अयज्ञो वा एष यत्र स्तोमो न युज्यते , उपप्रयन्तो अध्वरमिति , इयं वा उपोतिः , इत एव स्तोमं युनक्ति , अथो इमां एव स्तोमं उपयुनक्ति , अथो या एव प्रजा भूता नामन्वतीस्ता एव स्तोमं उपयुनक्ति , अस्य प्रत्नामनु द्युतं इति , असौ वै लोकः प्रत्नं , अमुत एव स्तोमं युनक्ति , अथो देवा वै प्रत्नं , तान् एव स्तोमं उपयुनक्ति , उभयत एव स्तोमं युनक्तीतश्चामुतश्च , देवान् वा एष प्रयुज्य स्वर्गं लोकं एति , यदाह उपोपेन्नु मघवन् भूया इन्नु ता , इतीयं वा उपोतिः , अस्यां एव प्रतितिष्ठति , अथ यदुपवत् पदमाह या एव प्रजा आभविष्यन्तीस्ता एव स्तोमं उपयुनक्ति , परि ते दूडभो रथा, इति उभयत एवैतया स्तोमं युक्तं परिगृह्णातीतः चामुतश्च , अग्निर्मूर्धेति स्वर्गा तेन , दिवः ककुदिति स्वर्गा तेन , पतिः पृथिव्या अयमिति मिथुना तेन , अपां रेतांसि जिन्वतीति रेतस्वती पशव्या सर्वसमृद्धाः , गायत्र्योपास्थित , गायत्रो ह्यग्निर् गायत्रछन्दाः , स्वेनैवैनं छन्दसोपास्थितः , उभा वां इन्द्राग्नी आहुवध्या , इति उभौ ह्येतौ सह , अमुं वा अयं दिवा भूते प्रविशति , तस्मादसौ दिवा रोचते , इमामसौ नक्तं , तस्मादयं नक्तं , यदुभा वां इत्याह , उभा एवैना अच्छम्बट्कारं उपतिष्ठते , उभयोर् लोकयो रोचतेऽस्मिंश्चामुष्मिंश्च , त्रैष्टुभोपास्थिता , अयमिह प्रथमो धायि धातॄभि, रिति अग्निर् ह्यस्यां प्रथमोऽधीयत , होता यजिष्ठो अध्वरेष्वीड्या , इति एष हि होता यजिष्ठो अध्वरेष्वीड्यो , यमप्नवानो भृगवो विरुरुचु, रिति अप्नवानो ह्येतं भृगवो व्यरोचयन् , वनेषु चित्रं विभ्वं विशे विशा , इति एष हीदं सर्वं विभू , र्जगत्योपास्थिता , अस्य प्रत्नामनु द्युतं , इति स्वर्गो वै लोकः प्रत्नं , स्वर्ग एव लोके प्रतितिष्ठति , अयं ते योनिर् ऋत्विया , इति एष ह्येतस्य योनिर् ऋत्वियो , अग्निः सूर्यस्य , अनुष्टुभोपास्थित ॥
1.5.6 अनुवाकः6
उपप्रयन्तो अध्वरमिति प्रवापयत्य् एवैतया , अग्निर्मूर्धेति प्रवापित एवैतया रेतो दधाति , उभा वां इन्द्राग्नी आहुवध्या , इति प्राणापानौ वा इन्द्राग्नी , प्राणापानौ वा एतन् मुखतो यज्ञस्य धीयेते ॥ अयमिह प्रथमो धायि धातॄभिरिति गर्भं एवाधात् , अस्य प्रत्नामनु द्युतं , इति उधरेवाकः , अयं ते योनिर् ऋत्विया, इति अजीजनच्चैवावीवृधच्च , षड्भिरुपतिष्ठते , षड्वै पृष्ठानि , पृष्ठानि एवाचीक्लृपत् , दधिक्राव्णो अकारिषं इति दधिक्रावत्योपतिष्ठते , एषा वा अग्नेर्दधिक्रावती प्रिया तनूः पशव्या सर्वसमृद्धा , अग्नेरेवैतया प्रियं धामोपैति , अथो पशुमान् भवति , अथो आत्मानं एवैतया यजमानः पुनीते , सप्तभिरुपतिष्ठते , सप्तपदा शक्वरी , शाक्वराः पशवः , पशून् एवावरुन्धेपु , जीर्यति वा एष आहितः , पशुर् ह्यग्निः, तदेतानि एवाग्न्याधेयस्य हवींषि संवत्सरे संवत्सरे निर्वपेत् , तेन वा एष न जीर्यति , तेनैनं पुनर्णवं करोति , तन् न सूर्ष्यंसं , एताभिरेवाग्नेयपावमानीभिरग्न्याधेयस्य याज्यानुवाक्याभिरुपस्थेयः , तेन वा एष न जीर्यति , तेनैनं पुनर्णवं करोति , द्वादशभिरुपतिष्ठते , द्वादश मासाः संवत्सरः , संवत्सरम् एवाप्त्वावरुन्धेया , अग्नीषोमीयया त्रयोदश्योपस्थेयो ,
अस्ति मासस्त्रयोदशो तं एवैतयाप्त्वावरुन्धेद् ॥
1.5.7 अनुवाकः7
ब्रह्मवादिनो वदन्ति , कस्मात् सायमग्निम् उपतिष्ठन्ते कस्मात् प्रातर् नेति , असौ वा आदित्यः सायमासुवति , तस्मात् सायम् उपतिष्ठन्ते , एष प्रातः प्रसुवति , तस्मात् प्रातर् नोपतिष्ठन्ते , तस्मात् सायमहुतेऽग्निहोत्रेऽग्निहोत्रिणा नाशितव्यं , तस्मादु प्रातरहुते नाशितव्यं , तस्मात् सायम् अतिथये प्रत्येनसः , पुण्यत्वात् तु प्रातर्ददति ,प्रातरवनेगेन प्रातरुपस्थेयो , अधिश्रित उन्नीयमाने वा हस्ता अवनेनिजीत , तत्र विहव्यस्य चतस्रा ऋचो वदेत् प्रातरवनेगे चतस्रः , प्रातरवनेगेन वा अनाप्तमाप्नोत्यनवरुद्धमवरुन्धेस् , तदनाप्तं एवैतेनाप्नोत्यनवरुद्धमवरुन्धे ध , अबिभेद्वा एष उद्धृतो
तं देवाश्छन्दोभिः पर्यस्तृणन् , यदुपतिष्ठते छन्दोभिरेवैनं परिस्तृणाति , उभयम् अस्मा अकर् , अग्नीषोमीयया पूर्वपक्ष उपस्थेयो , अग्नीषोमीयो वै पूर्वपक्षो , अपरपक्षायैवैनं परिददाति , ऐन्द्राग्न्यापरपक्ष उपस्थेयः , ऐन्द्राग्नो वा अपरपक्षः , पूर्वपक्षायैवैनं परिददाति , सर्वा ह वा एनं देवताः संप्रदायमनपेक्षं गोपायन्ति य एवं विद्वानग्निम् उपतिष्ठते ॥
1.5.8 अनुवाकः8
त्वमग्ने सूर्यवर्चा असीति वसीयसे श्रेयस आशिषं आशास्ते , सं मामायुषा वर्चसा सृजेत्यात्मना आशास्ते , सं त्वमग्ने सूर्यस्य ज्योतिषागथा इति सह ह्येते तर्हि ज्योतिषी भवतः , सं ऋषीणां स्तुतेनेति , छन्दांसि वा ऋषीणां स्तुतं , छन्दोभिरेवैनं समर्धयति , सं प्रियेण धाम्नेति , आहुतयो वा अग्नेः प्रियं धाम , आहुतिभिरेवैनं समर्धयति , समहमायुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मीयेति , आशिषं एवाशास्ते , इन्धानास्त्वा शतं हिमा , इति पृतनाजिद्ध्याहूतिः , तया राजन्या उपतिष्ठेत , यदा हि राजन्यः पृतना जयत्यथो भवति , उताराजन्या उपतिष्ठेत , सर्वो हि पृतना जिगीषति सर्वो बुभूषति , मनोर्वै दश जाया आसन् , दशपुत्रा नवपुत्राष्टपुत्रा सप्तपुत्रा षट्पुत्रा पञ्चपुत्रा चतुष्पुत्रा त्रिपुत्रा द्विपुत्रैकपुत्रा ये नवासंस्तान् एक उपसमक्रामत् , येऽष्टौ तान् द्वौ , ये सप्त तांस्त्रयो , ये षट् तांश्चत्वारो , अथ वै पञ्चैव पञ्चासन् , ता इमाः पञ्च दशत इमान् पञ्च निरभजन् , यदेव किंच मनोः स्वमासीत् , तस्मात्ते वै मनुमेवोपाधावन् , मना अनाथन्त , तेभ्य एताः समिधः प्रायच्छत् , ताभिर्वै ते तान् निरदहन् , ताभिर् एनान् पराभावयन् , परा पाप्मानं भ्रातृव्यं भावयति य एवं विद्वान् एताः समिधः आदधाति , अग्नेः समिदसि , अभिशस्त्या मा पाहीति , अभिशस्त्या एनं पाति , सोमस्य समिदसि , परस्पा म एधीति , परस्पा अस्य भवति , यमस्य समिदसि , मृत्योर्मा पाही, ति मृत्योर् एनं पाति , एतद्ध स्म वा आह नारदः , इदं वावाग्युस्पस्थानं आसेति , अभिशस्त्या एनं पाति , परस्पा अस्य भवति , मृत्योर् एनं पाति ॥
1.5.9 अनुवाकः9
आयुर्धा अग्नेऽसि , आयुर्मे धेहीति , आयुरेवास्मिन् दधाति , वर्चोधा अग्नेऽसि , वर्चो मे धेहीति , वर्च एवास्मिन् दधाति , चक्षुष्पा अग्नेऽसि , चक्षुर्मे पाहीति चक्षुरेवास्य पाति , श्रोत्रपा अग्नेऽसि , श्रोत्रं मे पाहीति , श्रोत्रं एवास्य पाति , तनूपा अग्नेऽसि , तन्वं मे पाहीति , तन्वं एवास्य पाति यन्मे अग्न ऊनं तन्वस्तन्मा आपृणे,ति यदेवास्यात्मन ऊनं यत् प्रजाया यत् पशूनां तदेवैतेनापूरयति , तदाप्याययति , अग्ने यत्ते तपा इति , एता वा अग्नेस्तन्वो ज्योतिष्मतीः , एतद्ध स्म वा आहारुण औपवेशिः , यान्वसीयसः श्रेयस आत्मनो भ्रातृव्यानभिप्राजानीमाभिष्टानग्नेस्तनूभिर् ज्योतिष्मतीभिः पराभावयामेति परा पाप्मानं भ्रातृव्यं भावयति य एवं विद्वानग्निम् उपतिष्ठते , अग्ने रुचां पते नमस्ते रुचे , मयि रुचं धा , इति शान्तमेव रुचं आत्मन् धत्ते , तेजस्वी ब्रह्मवर्चसी भवति , चित्रावसो स्वस्ति ते पारम् अशीयेति , रात्रिर्वै चित्रावसुः , अहरर्वाग्वसुः , अग्निर्वै रात्रिः , असा आदित्योऽहर् , एते वै भङ्गे , ते ईट्टे , त्रिराह , त्रिषत्या हि देवाः , रोचते ह वा अस्य यज्ञो वा ब्रह्म वा य एवं वेद , अम्भः स्थ , अम्भो वो भक्षीयेति , अम्भो ह्येता , महः स्थ , महो वो भक्षीये, ति महो ह्येता , ऊर्जः स्थ , ऊर्जं वो भक्षीयेति , ऊर्जो ह्येता, रायस्पोषः स्थ , रायस्पोषं वो भक्षीयेति , रायस्पोषो ह्येता , रेवती रमध्वं अस्मिन्योना अस्मिन् गोष्ठ , इति स्व एवैना योनौ स्वे गोष्ठे संवेशयति , अयं वो बन्धुः , इतो मापगात , बह्वीर्भवत , मा मा हासिष्टेति , आशिषमेवाआशास्ते , वत्सं आलभते , वत्सनिकान्ता हि पशव, एष वै सहस्रपोषस्येशे , पुष्यति सहस्रं न सहस्रादवपद्यते य एवं वेद , संहितासि विश्वरूपेति , रूपेण रूपेण ह्येषा संहिता , रूपैरेवैनां समर्धयति , नामासामग्रहीत् , मित्रमाभिरकृत , उत हि यदा मित्रस्य नाम गृह्णाति मित्रमेवैनेन कुरुते ॥
1.5.10 अनुवाकः10
सप्त वै बन्धुमतीरिष्टका अग्नौ चित्या उपधीयन्ते , ता वै ता अमुष्मा एव लोकाय , सप्त ग्राम्या इष्टकास्ता अत्रोपधेया, गौश्चाश्वश्चाश्वतरश्च गर्दभोऽजा चाविश्च पुरुषो , यद् गामालभते गवैव चिता भवन्ति , अथो आलब्ध एवोपधीयन्ते , पराङ् वा एष छन्दोभिः स्वर्गं लोकं एत्यन्यदन्यच्छन्दः समारोहं , उप त्वाग्ने दिवे दिवा , इति यदेतेन गायत्रेण तृचेनोपतिष्ठते , इयं वै गायत्री , अस्यां एव प्रतितिष्ठति , अग्ने त्वं नो अन्तमा इति , एषा वा अग्नेरस्तर्याः प्रिया तनूर्वरूथ्या , तामेव प्रैति , नैनं अभिदासन्स्तृठाणुते , चतसृभिर् द्विपदाभिरुपतिष्ठते , चतुष्पादो वै पशवो , द्विपाद्यजमानो , गृहा गार्हपत्यो , गृहेषु चैव पशुषु च प्रतितिष्ठति , ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति , ऊर्जैनाः पश्यत्य् ऊर्जैनं पश्यन्ति , रय्या वः पश्यामि , रय्या मा पश्यतेति , रय्यैनाः पश्यति , रय्यैनं पश्यन्ति ॥
संपश्यामि प्रजा अहं इडप्रजसो मानवीः । सर्वा भवन्तु नो गृहे ॥
इति , ऐडीश्च वा इमाः प्रजा मानवीश्च , ता एवावारुद्ध , ता आद्या अकृत , इडाः स्थ मधुकृता इति , इडा ह्येता मधुकृतः , स्योना माविशतेरंमदा इति, इरंमदो ह्येता , भुवनं असि सहस्रपोषपुषीति , भुवनं ह्येतत्सहस्रपोषपुषि , तस्य नो रास्व , तस्य ते भक्तिवानो भूयास्मेति , आशिषं एवाशास्ते , इडासि व्रतभृदिति , इडा ह्येषा व्रतभृत् , त्वयि व्रतं व्रतभृदसीति , व्रतभृद्येव्षा ॥
1.5.11 अनुवाकः11
महि त्रीणामवोऽस्त्व् इति, प्राजापत्येन तृचेनोपतिष्ठते , प्राजापत्या वा इमाः प्रजाः, ता एवावारुद्ध, ता आद्या अकृत , अथो प्रजापतिमेवोपैति , प्रजापता एव देवतासु प्रतितिष्ठति , सोमानं स्वरणं इति ब्राह्मणस्पत्ययोपतिष्ठते , ब्रह्मणि प्रतितिष्ठति , अथो ब्रह्मवर्चसं एवावरुन्धेअ् , यो वै ब्रह्मणि प्रतिष्ठितेन स्पर्धते पूर्वोऽस्मात् पद्यते , उभयीर्वा अग्निहोत्रिणि देवता आशँसन्ते याभ्यश्च जुहोति याभ्यश्च न , मित्रस्य चर्षणीधृता इति मैत्र्योपतिष्ठते , उभयत एवैतया मित्रमकृतेतश्चामुतश्च , कदा चन स्तरीरसीत्य् ऐन्द्रीभ्यां बृहतीभ्यां उपतिष्ठते , ऐन्द्रा वै पशवः, तान् एवावारुन्द्ध , तानाद्यानकृत , परि ते दूडभो रथा इति , असौ वा आदित्यो दूडभो रथः , एष वा इमा उभौ लोकौ समीयते , सर्वं एवैतया परिगृह्णाति , निम्रदोऽसि , नि अहं तं मृद्यासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति , पार्याभोाववगृह्णीयाद्यदि पापीयसा स्पर्धेत , अभिभूरसि , अभ्यहं तं भूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति , दक्षिणतः पदोऽवगृह्णीयाद्यदि सदृशेन स्पर्धेत , प्रभूरसि , प्राहं तं अतिभूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म , इति प्रपदेनावगृह्णीयाद्यदि श्रेयसा स्पर्धेत , सर्वान् एवैनानभिभवति , सर्वानतिभवति , सर्वानतिक्रामति , पूषा मा पथिपाः पात्व् इति , इयमेव पूषा मा पशुपाः पात्व् इति , अन्तरिक्षमेव , पूषा माधिपाः पात्व् इति , असौ एव , इमान् एव लोकानुपासरत् , एभ्यो लोकेभ्य आत्मानं परिधत्ते , अहिंसायै , प्राची दिगग्निर्देवतेति , तनूपानां एव दिक्षु निधत्ते , अथ येन स्पर्धते येन वा व्यभिचरते स एता एव देवता ऋत्वा पूर्वः पराभवति , सप्त वै पुरुषे महिमानः, ते वा एनेनेड्याः , ते वै ते सप्तऋषय एव , प्राणा वै सप्तऋषयः , प्राणान् वा एतद् ईट्टे , ईट्टे ह वै स्वान् प्राणान् वृङ्क्ते भ्रातृव्यस्य प्राणान् , नैनं अभिदासन्स्तृवेणुते य एवं वेद , धर्मो मा धर्मणः पातु , विधर्मो मा विधर्मणः पातु , आयुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राङ् चापाङ् चोरुक इति , अयं वा उरुकः , एष विभजति , तद्यदेष भजति तदेतस्मिन्न् एव पुनराभजति , अग्ने गृहपतेऽग्निं समिन्धे यजमानः , एतद्वै यजमानस्य स्वं यदग्निः , एतदग्नेर्यद्यजमानः , आयतनं इव वा एतत् क्रियते , ज्योतिषे तन्तवे त्वेत्यन्तराग्नी उपविश्य वदेत् , यां एव पुर आशिषमाशास्ते यां पश्चात्तामात्मन् धत्ते ॥
1.5.12 अनुवाकः12
ददन् मा इति वै दीयते , सददि वा एष ददाति योऽग्निहोत्रं जुहोति , यद्यत् कामयेत तत्तदग्निहोत्र्यग्निं याचेद्, उप हैनं तन् नमति , तदाहुः , ऋछति वा एष देवान् य एनान्त्सददि याचतीति , तस्मात्तर्हि नोपस्थेयो , यमो वा अम्रियत , ते देवा यम्या यममपाब्रुवन् , तां यदपृच्छन्त् साब्रवीत् , अद्यामृतेति , तेऽब्रुवन् , न वा इयमिमं इत्थं मृष्यते , रात्रीँ सृजामहा इति , अहर्वाव तर्या ुसीन्न रात्रिः, ते देवा रात्रिमसृजन्त , ततः श्वस्तनं अभवत् , ततः सा तममृष्यत , तस्मादाहुः , अहोरात्राणि वावाघं मर्षयन्तीति , सा वै रात्रिः सृष्टा पशूनभिसममिलत् , ते देवाश्छन्दोभिरेव पशूनन्वपश्यन् , छन्दोभिर् एनान् पुनरुपाह्वयन्त , यदुपतिष्ठते छन्दोभिर्वा एतत् पशूननुपश्यति , छन्दोभिर् एनान् पुनरुपह्वयते , अथो आहुः , वरुणो वै स तद् रात्रिर्भूत्वा पशूनग्रसतेति , ते देवाश्छन्दोभिरेव वरुणात् प्रामुञ्चँश्छन्दोभिर् एनान् पुनरुपाह्वयन्त यदुपतिष्ठते छन्दोभिर्वा एतद्वरुणात् पशून् प्रमुञ्चति छन्दोभिर् एनान् पुनरुपह्वयते , यज्ञो यज्ञो वै समृच्छते , अथाकस्यविदो मन्यन्ते , सोम एव समृच्छता इति , अग्नीषोमीयायाः पुरस्ताद्विहव्यस्य चतस्रा ऋचो वदेत् , आग्नेयस्य पुरोडाशस्य द्वे याज्यानुवाक्ये कुर्यात् , एतेनैव हवींष्यासन्नानि अभिमृशेत् , वृङ्क्तेऽन्यस्य यज्ञं नास्यान्यो यज्ञं वृङ्क्ते , सयज्ञो भवत्ययज्ञा इतरः ॥
1.5.13 अनुवाकः13
अग्निं वा एते चित्यं चिन्वते य आहिताग्नयो दर्शपूर्णमासिनः, तेषां वा अहोरात्राण्य् एवेष्टका उपधीयन्ते , यत्र पञ्च रात्रीः संहिता वसेत्तज्जुहुयात् , पञ्च रात्रयः पञ्चाहानि सा दशत् संपद्यते , तन् नैवं कर्तवै , अयतं तत् , दशस्व् एव रात्रिष्वन्तमं होतव्यं , तथा यतं क्रियते , न सर्वेषु युक्तेषु होतव्यं , वास्तौ जुहुयात् , नायुक्तेषु , अयतं क्रियते , सर्वाण्यन्यानि युक्तानि स्युरग्निष्ठस्य दक्षिणो युक्तः स्यात् , सव्यस्य योक्त्रं परिहृतं , अथ जुहुयात् , न वास्तौ जुहोति यतमुत्क्रियते , तन् न सूर्ष्यंत् , सर्वेष्वेव युक्तेषु होतव्यं , वास्तोष्पत्यं ह्येतत् , न हीनं अन्वाहर्तवै , रुद्राय हि तद् हीयते , यद् हीनं अन्वाहरेयू रुद्रं भूतं अन्वाहरेयुः , यद्यनुवाहः स्यात् पूर्वं तं प्रवहेयुरप वोद्धरेयुः , यद् हीयेत हीयेतैव तत् , अथ जुहुयात् ॥
अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् ।
सखा सुशेव एधि नः ॥
वास्तोष्पते प्रति जानीह्यस्मान् स्वावेशो अनमीवो भवा नः ।
यत् त्वेमहे प्रति तन् नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥
1.5.14 अनुवाकः14
पशून् मे शँस्य पाहि , तान्मे गोपायास्माकं पुनरागमात् ॥ अग्ने सहस्राक्ष शतमूर्धञ् शतं ते प्राणाः सहस्रमपानाः , त्वं साहस्रस्य राय ईशिषे , तस्मै ते विधेम वाजाय ॥
प्रजां मे नर्य पाहि , तां मे गोपायास्माकं पुनरागमात् , अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं , सुगृहपतिस्त्वं मया गृहपतिना भूया , अन्नं मे बुध्य पाहि , तन्मे गोपायास्माकं पुनरागमात् ॥
इमान्मे मित्रावरुणौ गृहान् गोपायतं युवं ।
अविनष्टानविह्रुतान् पूषैनानभिरक्षतु , आस्माकं पुनरागमात् ॥
पशून् मे शँस्य पाहि , तान्मे गोपायास्माकं पुनरागमादित्याहवनीयम् उपतिष्ठते , आहवनीयायैव पशून् परिदाय प्रैति , अग्ने सहस्राक्ष शतमूर्धन्न् इति , सहस्राक्षो ह्येष शतमूर्धा , शतं ते प्राणाः सहस्रमपाना , इति शतं ह्येतस्य प्राणाः सहस्रमपानाः , त्वं साहस्रस्य राय ईशिषे , तस्मै ते विधेम वाजायेति , आशिषं एवाशास्ते ॥ प्रजां मे नर्य पाहि , तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यं उपतिष्ठते , गार्हपत्यायैव प्रजां परिदाय प्रैति , अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं , सुगृहपतिस्त्वं मया गृहपतिना भूया इति , अग्रहणौ संजीर्यतः , सर्वमायुरितो , नार्तिं नीतो , अन्नं मे बुध्य पाहि , तन्मे गोपायास्माकं पुनरागमा, दिति दक्षिणाग्निम् उपतिष्ठते , दक्षिणाग्नय एवान्नं परिदाय प्रैति ॥
इमान्मे मित्रावरुणौ गृहान् गोपायतं युवं ।
अविनष्टानविह्रुतान् पूषैनानभिरक्षतु , आस्माकं पुनरागमात् ॥
इति अहोरात्रे वै मित्रावरुणौ , पशवः पूषा , अहोरात्राभ्यां चैव मित्रावरुणाभ्यां च गृहान् परिदाय प्रैति ॥ अग्निं समाधेहि ॥ इत्याह , भस्म त्वा उपतिष्ठते ॥
पशून् मे शँस्याजुगुपः, तान्मे पुनर्देहि ॥ इत्याहवनीयं पुनरेत्योपतिष्ठते , आहवनीयेनैव पशून् गुप्तानात्मन् धत्ते ॥
अग्ने सहस्राक्ष शतमूर्धञ् शतं ते प्राणाः सहस्रमपानाः , त्वं साहस्रस्य राय ईशिषे , तस्मै ते विधेम वाजाय ॥ प्रजां मे नर्याजुगुपः, तां मे पुनर्देहि ॥ इति गार्हपत्यं पुनरेत्योपतिष्ठते , गार्हपत्येनैव प्रजां गुप्तामात्मन् धत्ते ॥ अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं , सुगृहपतिस्त्वं मया गृहपतिना भूया , अन्नं मे बुध्याजुगुपः , तन्मे पुनर्देहि ॥ इति दक्षिणाग्निं पुनरेत्योपतिष्ठते , दक्षिणाग्निनैवान्नं गुप्तमात्मन् धत्ते ॥
इमान्मे मित्रावरुणौ गृहान् जुगुपतं युवं ।
अविनष्टानविह्रुतान् पूषैनानभ्यरक्षीदास्माकं पुनरागमात् ॥
इति , अहोरात्रे वै मित्रावरुणौ , पशवः पूषा , अहोरात्राभ्यां चैव मित्रावरुणाभ्यां च गृहान् गुप्तानात्मन् धत्ते ॥
इति प्रथमकाण्डे अग्न्युपस्थानं नाम पञ्चमः प्रपाठकः।।