मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ०४
यजमान-ब्राह्मणम्
1.4.1 अनुवाकः1
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।
मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥
अग्ने व्रतपते व्रतमालप्स्ये तत्ते प्रब्रूमस्तन् नो गोपाय , तं शकेयम् ॥
अग्निं होतारं उप तं हुवे देवान् यज्ञियान् इह यान्यजामहै ।
व्यन्तु देवा हविषो मे अस्या देवा यन्तु सुमनस्यमानाः ॥
युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः ।
इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते ॥
अस्मास्विन्द्र इन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
अस्माकं सन्त्वाशिषः ॥
आमाशिषो दोहकामा इन्द्रवन्तो हवामहे ।
धुक्षीमहि प्रजामिषं ॥
सा मे सत्याशीर्देवान् गम्याज्जुष्टाज्जुष्टतरा पण्यात् पण्यतरा ॥
अरेडता मनसा देवान् गच्छ , यज्ञो देवान् गच्छतु , यज्ञो देवान् गम्यात् ॥
वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि ।
धत्तादस्मभ्यं द्रविणेह भद्रं प्र मा ब्रूताद् भागधां देवतासु ॥
इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिः ।
अङ्गिरसो मे अस्य यज्ञस्य प्रातरनुवाकैरहूषुः ॥
तस्य मा यज्ञस्येष्टस्य वीतस्य द्रविणेहागम्यात् , वसुर्यज्ञो , वसुमान् यज्ञ,स्तस्य मा यज्ञस्य वसोर्वसुमतो वस्विहागच्छतु , अदो मागच्छतु , अदो मागम्यात् ॥
1.4.2 अनुवाकः2
सं यज्ञपतिराशिषा , सदसि , सन्मे भूयाः , पूर्णमसि , पूर्णं मे भूयाः , सर्वमसि ,
सर्वं मे भूयाः , अक्षितमसि , अक्षितं मे भूयाः , प्राच्या दिशा देवा ऋत्विजो मार्जयन्ताम् , दक्षिणया दिशा मासाः पितरो मार्जयन्ताम् , प्रतीच्या दिशा गृहाः पशवो मार्जयन्ताम् , उदीच्या दिशापा ओषधयो वनस्पतयो मार्जयन्ताम् ,
ऊर्ध्वया दिशा यज्ञः संवत्सरो मार्जयताम् , विष्णुः पृथिव्यां व्यक्रंस्त गायत्रेण छन्दसा , निर्भक्तः स यं द्विष्मो , विष्णुरन्तरिक्षे व्यक्रंस्त त्रैष्टुभेन छन्दसा
निर्भक्तः स यं द्विष्मो , विष्णुर् दिवि व्यक्रंस्त जागतेन छन्दसा , निर्भक्तः स यं द्विष्मो , अगन्म स्वः, सं ज्योतिषाभूम , इदमहममुष्य प्राणं निवेष्टयामि
तेजोऽसि, समहं प्रजया, सं मया प्रजा, समहं पशुभिः , सं मया पशवो , अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं , सुगृहपतिस्त्वं मया गृहपतिना भूया , अस्थूरिणौ गार्हपत्यं दीदायञ्शतं हिमाद्वायू , राधांसि संपृचाना असंपृचानौ तन्वो ,
असा अनु मा तनु , अछिन्नो दिव्यस्तन्तुर्मा मानुषश्छेदि , दिव्याद् धाम्नो मा छित्सि मा मानुषात् , ज्योतिषे तन्तवे त्वा ॥
1.4.3 अनुवाकः3
ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्नस्तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्नस्तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
यास्ते रात्रयः सवितर्देवयानीः सहस्रयज्ञमभि संबभूवुः । गृहैश्च सर्वैः प्रजया न्व् अग्रे स्वो रुहाणास्तरता रजांसि ॥ ये देवा यज्ञहनो अन्तरिक्षे अध्यासते ।
वायुर्नस्तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषो अन्तरिक्षे अध्यासते ।
वायुर्नस्तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ अगन्म मित्रावरुणा वरेण रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
ये देवा यज्ञहनो दिव्यध्यासते। सूर्यो नस्तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
ये देवा यज्ञमुषो दिव्यध्यासते । सूर्यो नस्तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
येनेन्द्राय समभरन् पयांस्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धया मां सजातानां मध्ये श्रैष्ठ्या आ धेहि मा ॥ वेदोऽसि , वेदो मा आभर , तृप्तोऽहं , तृप्तो त्वं ॥ घृतवन्तं कुलायिनं रायस्पोषं सहस्रिणं । वेदो वाजं ददातु मे ॥
निर् द्विषन्तं निररातिं दह, रुद्रास्त्वायच्छन् , आदित्यास्त्वास्तृणन् ॥
गोममग्नेऽविमं अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः ।
इडावान् एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥
सं पत्नी पत्या सुकृतेषु गच्छतां यज्ञस्य युक्तौ धुर्या अभूताम् ।
आप्रीणानौ विजहता अरातिं दिवि ज्योतिरुत्तमं आरभेथां स्वाहा ॥
पत्नि पत्नि एष ते लोको , नमस्ते अस्तु , मा मा हिंसीः , या सरस्वती वेशयमनी तस्यै स्वाहा ॥ या सरस्वती वेशभगीना तस्यास्ते भक्तिवानो भूयास्म ॥
अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यं इत् त्वमया असि ।
अयाः सन्मनसा कृत्तोऽयाः सन् हव्यं ऊहिषे , अया नो धेहि भेषजं स्वाहा ॥
1.4.4 अनुवाकः4
देवान् जनं अगन् यज्ञ,स्ततो मा यज्ञस्याशीरागच्छतु , पितॄन् जनं अगन् यज्ञ,स्ततो मा यज्ञस्याशीरागच्छतु, मनुष्यान् जनं अगन् यज्ञ,स्ततो मा यज्ञस्याशीरागच्छतु ,
अप ओषधीर्वनस्पतीन् जनं अगन् यज्ञ,स्ततो मा यज्ञस्याशीरागच्छतु , पञ्चजनं जनं अगन् यज्ञ,स्ततो मा यज्ञस्याशीरागच्छतु, पञ्चानां त्वा वातानां धर्त्राय गृह्णामि , पञ्चानां त्वा दिशां धर्त्राय गृह्णामि , पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि ,
पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि , पञ्चानां त्वा पञ्चजनानां धर्त्राय गृह्णामि ,
चरोस्त्वा पञ्चबिलस्य धर्त्राय गृह्णामि ॥
धामासि प्रियं देवानामनाधृष्टं देवयजनं । देववीत्यै त्वा गृह्णामि ॥
भूरस्माकं , हव्यं देवानां , आशिषो यजमानस्य , देवताभ्यस्त्वा देवताभिर्गृह्णामि ॥
1.4.5 अनुवाकः5
समृतयज्ञो वा एष यद् दर्शपूर्णमासौ , कस्य वाह यक्ष्यमाणस्य देवता यज्ञमागच्छन्ति कस्य वा न , बहूनां समानं अहर्यजमानानां , यः पूर्वेद्युरग्निं गृह्णाति स श्वो भूते देवता अभियजते , ममाग्ने वर्चो विहवेष्वस्त्व् इति पूर्वमग्निं गृह्णाति , देवता वा एतत् पूर्वेद्युरग्रहीत् , ताः श्वो भूतेऽभियजते , बर्हिषा वै पूर्णमासे व्रतं उपयन्ति वत्सैरमावास्यायां , पुरा वत्सानामपाकर्तोर् दंपती अश्नीयाताम् , हस्ता अवनिज्य दक्षिणतोऽग्निम् उपतिष्ठेत , अग्ने व्रतपते व्रतमालप्स्ये , इति , अग्निर्वै देवानां व्रतपतिर् ब्राह्मणो व्रतभृत् , व्रतपतय एव प्रोच्य व्रतमालभते , अग्निं होतारं उप तं हुवे , इति येन हविर् निर्वप्स्यन्स्यारात्तदभिमृशेत् , देवतानां वा एष ग्रहो , देवता वा एतदग्रहीत् , युनज्मि त्वा ब्रह्मणा दैव्येन , इति परिधिषु परिधीयमाणेषु वदेत् , अग्नेर्वा एष योगो , अग्निम् एतद् युनक्ति , युक्तोऽस्मै हव्यं वहति , अस्मास्विन्द्र इन्द्रियं दधातु , इति , इडायामुपहूयमानायां वदेत् , इडाया वा एष दोहाः , इडां वा एतद् दुहे , अथो इन्द्रियं वा इडा , इन्द्रियम् एवात्मन् धत्ते , आमाशिषो दोहकामाः , इति आशिषो वै दोहकामा यजमानं अभिसर्पन्ति , ता दक्षिणतो यजमानलोकमुपतिष्ठन्ते , ता यथा धेनवोऽदुग्धा अपक्रामन्त्येवमस्मादाशिषोऽदुग्धा अपक्रामन्ति य एवं न वेद , अथ य एवं वेदाशिष एव दुहे , सा मे सत्याशीर्देवान् गम्यात् , इति प्रस्तरे प्रह्रीयमाणे वदेत् , सत्यां वा एतदाशिषं देवान् गमयित्वाथ वरं वृणीते , एतद्ध स्म वा आहौपाविर् जानश्रुतेयः , सहस्रेणेष्ट्वा कमु ष्विदतोऽधि वरं वरिष्यामहे , इति
सहस्रेण यक्षीय , इति ह स्म वाव ततः पुराह , वि ते मुञ्चामि रशनां वि रश्मीन् इति परिधिषु प्रह्रियमाणेषु वदेत् , देवता वा एतत् स्वर्गं लोकं गमयित्वा प्रतिष्ठाप्य व्यमौक् , इष्टो यज्ञो भृगुभिरिति, यज्ञस्य वा एष दोहो , यज्ञं एतद् दुहे ,
एतद्ध स्म वा आह कपिवनो भौवायनः , किमु स यज्ञेन यजेत यो गां इव यज्ञं न दुहीत , सुदोहतरो हि गोरिति ॥
1.4.6 अनुवाकः6
सं यज्ञपतिराशिषा , इति यजमानो यजमानभागं प्राश्नाति , यजमानो वै यज्ञपतिः ,
यज्ञो यजमानभागो , यद्यजमानो यजमानभागं प्राश्नाति यज्ञपता एव यज्ञं प्रतिष्ठापयति , यदि प्रवसेत्समिष्टयजुषा सह जुहुयात् , अग्ना एव यज्ञं प्रतिष्ठापयति , यद्धविर् निर्वप्स्यन्नग्नौ निष्टपति , अग्नेरेव यज्ञं निर्मिमीते ,
अथ यद्धविर् निर्वप्स्यन् यजमानाय प्राह यज्ञपतेरेवाधि यज्ञं निर्मिमीते ,
अग्निर्वै भूयांसं प्रदहति , एतं वै लोकं यजमानो न्व् अतिमुच्यते यदेता आपोऽतिसृज्यन्ते , अछिन्नं स्रावयितव्या , अद्भिर्वा एतद्यजमानोऽग्नेरात्मानं अन्तर्धत्ते ,
द्वया वै देवा यजमानस्य गृहमागच्छन्ति सोमपा अन्येऽसोमपा अन्ये हुतादोऽन्येऽहुतादोऽन्ये , एते वै देवा आहुतादो (अहुतादो – पाठभेदः) यद् ब्राह्मण , एतद्देवत्य एष यः पुरानीजानः , एते वा एतस्य प्रजायाः पशूनां ईशते , तेऽस्याः प्रीता इषं ऊर्जमादायापक्रामन्ति , यदन्वाहार्यमन्वाहरति तान् एव तेन प्रीणाति , दक्षिणतःसद्भ्यः परिहर्तवा आह , दक्षिणावतैव यज्ञेन यजते , आहुतिभिरेव देवान् हुतादः प्रीणाति , तेऽस्मै प्रीता इषं ऊर्जं नियच्छन्ति ॥
1.4.7 अनुवाकः7
सदसि सन्मे भूया , इति आशिषो वा एतास्ता एवावरुन्धेया , पूर्णमसि पूर्णं मे भूया , इति , पूर्णो ह वा अमुत्राङ्गैः संभवति , सर्वमसि सर्वं मे भूया , इति
सर्वो ह वा अमुत्राङ्गैः संभवति , अक्षितमस्यक्षितं मे भूया , इति ,
अक्षितो ह वा अमुत्राङ्गैः संभवति , प्राच्या दिशा देवा ऋत्विजो मार्जयन्तामिति ,
एता वै यज्ञस्य मृष्टयः , एताः शान्तयस्ता बैजवापयो विदामक्रन् , तेषां मृष्टो यज्ञः शान्तोऽभूद् अघातुकः पशुपतिः पशून् , तद्य एवं वेद मृष्ट एवास्य यज्ञः शान्तो भवत्यघातुकः पशुपतिः पशून् , विष्णुः पृथिव्यां व्यक्रंस्त गायत्रेण छन्दसा , इति
विष्णुमुखा वै देवा असुरान् एभ्यो लोकेभ्यः प्रणुद्य स्वर्गं लोकमायन् ,
तद्विष्णुमुखो वा एतद्यजमानो भ्रातृव्यं एभ्यो लोकेभ्यः प्रणुद्य स्वर्गं लोकं एति ,
अगन्म स्वरिति स्वर्गं एव लोकं एति , सं ज्योतिषाभूम , इति ज्योतिर् हि स्वर्गो लोकः , इदमहममुष्य प्राणं निवेष्टयामि , इति प्राणमेवास्य निवेष्टयति , इत्थं पर्यावर्तते , एवं हि यज्ञः पर्यावर्तते , अथो अमुष्य वा एतदादित्यस्यावृतमनु पर्यावर्तते , तेजोऽसि , इत्याह , तेजो ह्यग्निः , स वै हित्वा प्रजां च पशूंश्च स्वरेति , यदाह , समहं प्रजया , सं मया प्रजा , समहं पशुभिः , सं मया पशवा , इति प्रजायां चैव पशुषु च प्रतितिष्ठति , अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं , सुगृहपतिस्त्वं मया गृहपतिना भूया , इति अग्रहणौ संजीर्यतः , सर्वमायुरितो , नार्तिं नीतः , पुत्रस्य नाम गृह्णाति , प्रजां एवानु समतानीत् , स वै मानुषं एवाभ्य् उपावर्तते , मनुष्यस्य हि नाम गृह्णाति , यदाह अछिन्नो दिव्यस्तन्तुर्मा मानुषश्छेदि , इति दिव्यं चैव मानुषं च समतानीत् , दिव्याद् धाम्नो मा छित्सि मा मानुषात् , इति उभा इमं लोकं जयतः, सह स्वर्गे लोके भवतः ॥
1.4.8 अनुवाकः8
इति य एव देवा यज्ञहनश्च यज्ञमुषश्च पृथिव्यां तांस्तीर्त्वान्तरिक्षमारुहत् ,
य एव देवा यज्ञहनश्च यज्ञमुषश्चान्तरिक्षे तांस्तीर्त्वा दिवमगन् , य एव देवा यज्ञहनश्च यज्ञमुषश्च दिवि तांस्तीर्त्वा सजातानां मध्ये श्रैष्ठ्या आधादेनं ,
शिरो वा एतद्यज्ञस्य यत् पुरोडाशः, केशा वेदो , यद् वेदेन पुरोडाशँ संमार्ष्टि
यज्ञस्य सर्वत्वाय , अथो मेध्यत्वाय , यज्ञो वै देवेभ्यो तिरोऽभवत् , तं देवा वेदेनाविन्दन् , तद् वेदस्य वेदत्वं , यद् वेदेन वेद्यामास्ते यज्ञं एवास्मै विन्दति ,
पत्यैदे वेदं प्रयच्छति , दुरनुवेदो वा अमुत्र यज्ञो , यज्ञं एवास्मै विन्दति , त्रिः प्रयच्छति , त्रिषत्या हि देवा , उपस्था आस्यते , पुमांसं जानुका भवति , पशवो वै वेदः , ओषधयो ह्येष , एष खलु वै पशूनां लोको यदन्तराग्नी , स्वे वा एतं लोके यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते , अर्धमासेऽर्धमासे वै यज्ञो विच्छिद्यते ,
संततमाहवनीयात् स्तृणन्न् एति यज्ञस्य संतत्यै , तं संततं उत्तरेऽर्धमासेऽभियजते
गोममग्नेऽविमं अश्वी यज्ञः , इति गोमन्तम् एवाविमन्तमश्विनं यज्ञमकर् ,
इडावान् एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् इति आशिषं एवाशास्ते , सं पत्नी पत्या सुकृतेषु गच्छतामिति एष वै पत्न्या यज्ञस्यान्वारंभः , सह स्वर्गे लोके भवतो , या वा एतस्य पत्नी सैतं संप्रति पश्चादन्वास्ते , यत् संप्रति पश्चादन्वासीत प्रजामस्या निर्दहेत् , यदाह पत्नि पत्नि एष ते लोकः , इति
लोकं एवास्या अकर् , अनिर्दाहुकोऽस्याः प्रजां भवति , या सरस्वती वेशयमनी , इति वेशयमनं , वेशान् एवास्मै तेन यच्छति , उतास्याजीवन्तः सजाता उपासते ,
वाचं इन्न्वस्य ब्राह्मणस्य वा राजन्यस्य वोपास्महे , इति मांसं तु न पचेयुस्तस्मिन्नग्नौ यत् पचेयुः क्रव्यादं कुर्युः , न हि तस्मिन्नग्नौ मांसं पचन्ति यस्मिन्नाहुतीर् जुह्वति , अयाश्चाग्नेऽस्यनभिशस्तिश्च , इति अया वै नामैषाग्नेः प्रिया तनूः , अया मर्याधैर्येण , इति खलु वा आहुः , यच्चैवात्र यज्ञे क्रियते यच्च न , यां चैवात्र यज्ञस्य प्रायश्चित्तिं विद्म यां च न तस्यैषोभयस्य प्रायश्चित्तिः ॥
1.4.9 अनुवाकः9
देवान् जनं अगन् यज्ञ, इति स्कन्नमभिमन्त्रयेत , जनं वा एतद्यज्ञस्य गच्छति यत् स्कन्दति , जनो हीयमस्मदधि , यज्ञस्य वा एतज्जनं गतस्याशिषं अवरुन्धेति
पञ्चानां त्वा वातानां धर्त्राय गृह्णामीति , पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्धा , अयं वाव यः पवत एष यज्ञ, स्तं एवाग्रहीत् , पञ्चानां त्वा दिशां धर्त्राय गृह्णामि , इति , इमा एव पञ्च दिशोऽग्रहीत् , पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामीति , पशवो वै सलिलम् , पशून् एवाग्रहीत् , पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि , इति पृष्ठानि एवाग्रहीत् , तेनास्य पृष्ठवन्तौ दर्शपूर्णमासौ संतता अविछिन्नौ भवतः , पञ्चानां त्वा पञ्चजनानां धर्त्राय गृह्णामीति , छन्दांसि वै पञ्च पञ्चजना , श्छन्दांस्येवाग्रहीत् , चरोस्त्वा पञ्चबिलस्य धर्त्राय गृह्णामीति ,
इमे वै लोकाश्चरुः पञ्चबिल , इमान् एव लोकानग्रहीत् ॥
धामासि प्रियं देवानामनाधृष्टं देवयजनं । देववीत्यै त्वा गृह्णामि ॥
इति प्रज्ञात आज्यग्रहः पथागात् , भूरस्माकं , हव्यं देवानां , आशिषो यजमानस्य , इति भूतिम् एवात्मन आशास्ते , हव्यं देवेभ्यो , आशिषो यजमानस्य ,
देवताभ्यस्त्वा देवताभिर्गृह्णामि , इति देवताभ्य एवैनं देवताभिरग्रहीत् ॥
1.4.10 अनुवाकः10
देवतानां वा एतदायतनं यदाहवनीयो , यदन्तराग्नी तत् पशूनां , मनुष्याणां गार्हपत्यः , पितॄणां ओदनपचनः , सर्वा ह वा अस्य यक्ष्यमाणस्य देवता यज्ञं आगच्छन्ति य एवं वेद , पूर्वं चाग्निमपरं च परिस्तरीतवा आह , मनुष्याणां वै नवावसानं , प्रियम् नवावसानं एवाकर् मेध्यत्वाय , अग्नेर् जिह्वासि वाचो विसर्जनं इति पुरोडाश्यानावपति , देवतानां वा एष ग्रहो , देवता वा एतदग्रहीत् ,
एतद्ध स्म वा आहारुण ओपवेशिः , अहुतासु वा अहमाहुतिषु देवता हव्यं गमयामि ,
संस्थितेन यज्ञेन संस्थां गछानि , इति तद्य एवं वेदाहुतास्व् एवास्याहुतिषु देवता हव्यं गच्छति संस्थितेन यज्ञेन संस्थां गच्छति , औलूखलाभ्यां वै दृषदा हविष्कृदेहि ॥ इति देवा यज्ञाद्रक्षांस्यपाघ्नत यदौलूखला उद्वादयन्ति दृषदौ समाघ्नन्ति ॥ हविष्कृदेहि ॥ इत्याह रक्षसामपहत्यै , वाचं यच्छति , मनसा वै प्रजापतिर् यज्ञमतनुत , औलूखलयोरुद्वदितोरध्वर्युश्च यजमानश्च वाचं यच्छेताम् , प्रजापतिरेव भूत्वा मनसा यज्ञं तन्वाते , न सर्वाणि सह यज्ञायुधानि प्रहृत्यानि , मानुषं तत् क्रियते , नैकमेकं , पितृदेवत्यं तत् , द्वे द्वे सह प्रहृत्ये , याज्यानुवाक्ययो रूपमुपवसति , उभयांस्तेन पशूनवरुन्धे ा ग्राम्यांश् चारण्यांश्च यद् ग्राम्यस्य नाश्नाति तेन ग्राम्यानवरुन्धे े , अथ यदारण्यस्याश्नाति तेनारण्यान् , अथो इन्द्रियं वा आरण्यम् , इन्द्रियम् एवात्मन् धत्ते , न माषाणामश्नीयात् , अयज्ञिया वै माषाः , न तस्य सायमश्नीयाद्यस्य प्रातर्यक्ष्यमाणः स्यात् , अप्रतिजग्धेन वै देवा हव्येन वसीयोभूयमगच्छन् प्रतिजग्धेनासुराः पराभवन् , तदप्रतिजग्धेन वा एतद्धव्येन यजमानो वसीयोभूयं गच्छति परास्य भ्रातृव्यो भवति , यो वै श्रद्धामनालभ्य यजते पापीयान् भवति , आपो वै श्रद्धा , न वाचा गृह्यन्ते न यजुषा , अति वा एता वाचं नेदन्त्यति वर्त्रं , मनस्तु नातिनेदन्ति यर्ह्यपो गृह्णीयादिमां तर्हि मनसा ध्यायेत् , इयं वा एतासां पात्रं , अनयैवैना अग्रहीत् , श्रद्धामालभ्य यजते , न पापीयान् भवति ॥
1.4.11 अनुवाकः11
ब्रह्मवादिनो वदन्ति , प्रेध्मं उक्षन्ति प्र हविः , इध्मः प्रथम आहुतीनां ,
कस्मादन्येषां हविषां याज्यानुवाक्याः सन्ति , कस्मादिध्मस्य नेति ॥
अग्नये समिध्यमानायानुब्रूहि ॥ इति पुरोनुवाक्या सामिधेनीर् , याज्योपवाको वषट्कारो , यत्र वै यज्ञस्यातिरिक्तं क्रियते तद्यजमानस्यातिरिक्तमात्मन् जायते
यदनाप्तं वि यज्ञश्छिद्यते क्षोधुको यजमानो भवति , परिधानीयया सामिधेनीनां उत्तमं इध्मस्य समर्धयति , अक्षोधुको यजमानो भवति , नास्यातिरिक्तमात्मन् जायते , यो वै प्रजापतिं सप्तदशं यज्ञेऽन्वायत्तं वेद नास्य यज्ञो व्यथते , प्रजापतौ यज्ञेन प्रतितिष्ठति ॥ ओ श्रावय ॥ इति चतुरक्षरं ॥ अस्तु श्रौषट् ॥ इति
चतुरक्षरं ॥ यज ॥ इति द्व्यक्षरम्॥ ये यजामहे ॥ इति पञ्चाक्षरं , द्व्यक्षरो वषट्कारस् , एष वै प्रजापतिः सप्तदशो यज्ञेऽन्वायत्तो , यद्यनुवाक्याया एति यदि याज्याया , अतश्चेदेवं नैति नास्य यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठति ,
न वै तद्विद्म यदि ब्राह्मणा वा स्मोऽब्राह्मणा वा यदि तस्य वा ऋषेः स्मोऽन्यस्य वा यस्य ब्रूमहे , यस्य ह त्वेव ब्रुवाणो यजते तं तदिष्टमागच्छति , नेतरं उपनमति , तत् प्रवरे प्रवर्यमाणे ब्रूयात् ॥ देवाः पितरः पितरो देवाः , योऽस्मि स सन्यजे
योऽस्मि स सन्करोमि , शुनं म इष्टं शुनं शान्तं शुनं कृतं भूयात् ॥ इति तद्य एव कश्च स सन्यजते तं तदिष्टमागच्छति नेतरं उपनमति ॥ यज्ञस्य त्वा प्रमयाभिमया परिमयोन्मया परिगृह्णामि ॥ इति गायत्री वै यज्ञस्य प्रमा त्रिष्टुबभिमा , जगती परिमा , अनुष्टुब् उन्मा , एतानि वै छन्दांसि यज्ञं वहन्ति , तैरेवैनं परिगृह्णाति ॥
1.4.12 अनुवाकः12
केशिनं वै दार्यंयज गन्धर्वाप्सरसोऽपृच्छन् , कथा यजमानो यजमानेन भ्रातृव्येण सदृङ्ङ् असि इति , अहं वेदा , इत्यब्रवीत् , तेऽब्रुवन् अङ्ग नो यज्ञं व्याचक्वा ं , इति तेभ्यो यज्ञं व्याचष्ट , तेऽब्रुवन् , उतैतेन यजमानो यजमानाद् भ्रातृव्यात् पापीयान्स्याम्दिति , तेऽब्रुवन् , तथा वै ते यज्ञं विधास्यामो यथा यजमानो यजमानं भ्रातृव्यमभिभविष्यसि , इति तस्मा आहुतीर्यज्ञं व्यदधुस्ततः केशी षण्डिकमौद्भारिमभ्यभवत् , अभि भ्रातृव्यं यज्ञेन भवति य एवं वेद , प्राणो वा आघारः , पूर्वार्धे होतव्यो , मुखत एवास्य प्राणं दधाति , प्राणो वा आघारः ,
मध्यतो होतव्यो , मध्यत एवास्य प्राणं दधाति , आघारं भूयिष्ठमाहुतीनां जुहुयात् ,
प्राणो वा आघारः , प्राणमेवास्य भूयिष्ठं करोति , संततमाघारम् आघारयेत् ,
प्राणो वा आघारः , प्राणस्य संतत्यै , ऊर्ध्वमाघारम् आघारयेत् स्वर्गकामस्य ,
यजमानो वा आघारो , यजमानं एव स्वर्गं लोकं गमयति , यं द्विष्यात्तस्य न्यञ्चमाघारयेत् , पापीयान् भवति , अभिक्रामन्ती वा एकाहुतिः ,
अपक्रामन्त्येका , प्रतिष्ठितैका , यामभिक्रामं जुहोति साभिक्रामन्ती ,
यामपक्रामं जुहोति सापक्रामन्ती , यां समानत्र तिष्ठन् जुहोति सा प्रतिष्ठिता ,
यं कामयेत , अभितरं वसीयाञ् श्रेयान्स्यारादिति तस्याभिक्रामं जुहुयात् ,
तेन सोऽभितरं वसीयाञ् श्रेयान् भवति , अथ यं कामयेत , अपतरं पापीयान्त् स्यादिति तस्यापक्रामं जुहुयात् , तेन सोऽपतरं पापीयान् भवति ,
अथ यं कामयेत न वसीयान् त्स्यान् न पापीयान् इति , तस्य समानत्र तिष्ठन् जुहुयात् , तेन स न वसीयान् न पापीयान् भवति , ऋतवो वै प्रयाजाः , समानत्र होतव्याः , ऋतूनां प्रतिष्ठित्यै , याग्नेराज्यभागस्य सोत्तरार्धे होतव्या ,
ततो योत्तरा सा रक्षोदेवत्या , या सोमस्याज्यभागस्य सा दक्षिणार्धे होतव्या
ततो या दक्षिणा सा पितृदेवत्या , एतद्वा अन्तराहुतीनां लोकः
क्लृप्ता अस्याहुतयो यथापूर्वं हूयन्ते य एवं वेद , धूमे जुहोति तां तमसि जुहोति ,
ततो यजमानोऽरोचुको भवति , यामङ्गारेषु जुहोति सान्धाहुति, स्ततो यजमानस्य चक्षुः प्रमायुकं भवति , उभे ज्योतिष्मति होतव्ये, रोचुको यजमानो भवति , नास्य चक्षुः प्रमीयते यामब्राह्मणः प्राश्नाति सा स्कन्नाहुति, स्तस्या वसिष्ठ एव प्रायश्चित्तिं विदांचकार ॥ ब्रध्न पाहि ॥ इति पुरोडाशमभिमृशेत् , भजतां भागी , मां भागो भक्त , ब्राह्मणानामिदं हविः सोम्यानां सोमपानां , नेहाब्राह्मणस्याप्यस्ति ,कुर्वतो मे मा क्षेष्ट , ददतो मे मोपदसत् ॥ इति दक्षिणीयेष्वेव यज्ञं प्रतिष्ठापयत्यस्कन्नमविक्षुब्धं उत यामब्राह्मणः प्राश्नाति सास्य हुतैव भवति ॥
1.4.13 अनुवाकः13
यस्याज्यमनुत्पूतं स्कन्दति सा वै चित्रा नामाहुति,स्ततो यजमानस्य चित्रं प्रमायुकं भवति , चित्रं देयम् , सैव तस्य प्रायश्चित्तिः , अथ यस्योत्पूतं स्कन्दति सा वै स्कन्ना नामाहुति,स्ततो यजमानः प्रमायुको भवति, वरो देयः , सैव तस्य प्रायश्चित्तिः , अथ यस्य पुरोडाशौ दुःशृतौ भवतस्तद्धविर्यमदेवत्यम् , यदा तद्धविः संतिष्ठेताथ चतुःशरावं ओदनं पक्त्वा ब्राहमणेभ्यो जीवतण्डुलं इवोपहरेत्
सैव तस्य प्रायश्चित्तिः , अथ यस्य पुरोडाशौ क्षायतस्तं यज्ञं वरुणो गृह्णाति,
यदा तद्धविः संतिष्ठेताथ तदेव हविर् निर्वपेत् , यज्ञो हि यज्ञस्य प्रायश्चित्तिः ,
अथ योऽदक्षिणेन यज्ञेन यजते तं यजमानं विद्यात् , अदक्षिणेन हि वा अयं यज्ञेन यजतेऽथ न वसीयान् भवतीति , उर्वरा समृद्धा देयात्, सैव तस्य प्रायश्चित्तिः , अथ यस्य कपालं भिद्येत तत् संदध्यात् , गायत्र्या त्वा शताक्षरया संदधामि ॥ इति वाग् वै गायत्री शताक्षरा , वाचैवैनत् संदधाति , अथ यस्य कपालं नश्यति तं वा इयं स्वर्गाल्लोकादन्तर्दधाति , यदा तद्धविः संतिष्ठेताथाग्नये वैश्वानराय द्वादशकपालं निर्वपेत् , अयं वा अग्निर्वैश्वानरः , इमां एव भागधेयेनोपासरत् स्वर्गस्य लोकस्यानन्तर्हित्यै , अथ यस्याहुतिर् बहिष्परिधि स्कन्दति सा वै जीवनडाहुति, रग्नीधं ब्रूयात् ॥ एतां संकुष्य जुहुधि ॥ इति , अग्निर्वै सर्वा देवताः, सर्वाभिरेवास्य देवताभिर् हुतं भवति , पूर्णपात्रमग्नीधे देयम् , सैव तस्य प्रायश्चित्तिः , यजमानो वै जुहू , र्भ्रातृव्य उपभृत् , न प्रक्षिणतेव होतव्यं , यत् प्रक्षिणीयाद्यजमानं प्रक्षिणीयात् , व्यृषतेव होतव्यं , देवेषवो वा एता यदाहुतयो , यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , देवेषुभिरेवैनं व्यृषति , स्तृणुत एव , पशवो वा आहुतयो रुद्रोऽग्निः स्विष्टकृत् , न सह होतव्यं , यत्सह जुहुयाद् रुद्रायास्य पशूनपिदध्यात् , उत्तरार्धपूर्वार्धे होतव्यं आहुतीनामसंसृष्ट्यै , अथो एवमस्य रुद्रः पशूननभिमानुको भवति ॥
1.4.14 अनुवाकः14
आग्नावैष्णवं एकादशकपालं निर्वपेद् दर्शपूर्णमासा आलप्स्यमानो , अग्निर्वै सर्वा देवता विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालभ्य दर्शपूर्णमासा आलभते , जयान् उ त्वो जुह्वति , देवाश्च वा असुराश्चास्पर्धन्त , स प्रजापतिरेतान् जयानपश्यत् , तानिन्द्राय प्रायच्छत् , तैः संस्तंभं संस्तंभमसुरानजयत् , संस्तंभं संस्तंभं भ्रातृव्यं जयति यस्यैते हूयन्ते ॥
आकूतं चाकूतिश्च ॥ इति यज्ञो वा आकूतं , दक्षिणाकूतिः ॥ चित्तं च चित्तिश्च ॥ इति मनो वै चित्तं , वाक् चित्तिः ॥ आधीतं चाधीतिश्च ॥ इति प्रजा वा आधीतं ,
पशवा आधीतिः ॥ विज्ञातं च विज्ञातिश्च ॥ इति ऋग् वै विज्ञातं , साम विज्ञातिः ॥
भगश्च क्रतुश्च ॥ इति प्रजापतिर्वै भगो , यज्ञः क्रतुः ॥ दर्शश्च पूर्णमासश्च ॥ इति
दर्शपूर्णमासा एव तद् द्वादश , द्वादश मासाः संवत्सरः , संवत्सरम् एवाप्त्वावरुन्धेमा , प्रजापतिः प्रायच्छज्जयानिन्द्राय वृष्ण , उग्रः पृतनासु जिष्णुः ॥ तेभिर्वाजं वाजयन्तो जयेम तेभिर्विश्वाः पृतना अभिष्याम ॥ इति त्रयोदशीमाहुतिं जुहुयात् ,
अस्ति मासस्त्रयोदश, स्तं एवैतयाप्त्वावरुन्धेता ॥ अग्ने बलदः सहा ओजः क्रममाणाय मे दा अभिशस्तिकृतेऽनभिशस्तेन्याय ॥ अस्यां जनतायां श्रैष्ठ्याय स्वाहा ॥ इति जुहुयाद्यत्र कामयेत, चित्रमस्यां जनतायां स्यां इति , चित्रमह तस्यां जनतायां भवति , शबलं त्वस्यात्मन् जायते ॥
1.4.15 अनुवाकः15
अग्नये भगिनेऽष्टाकपालं निर्वपेद्यः कामयेत भग्यन्नादः स्यां इति , प्रजापतिर्वै भगो , यज्ञः क्रतुः , तस्मात्सर्वो मन्यते , मां भगोऽरिष्यति मां भगोऽरिष्यतीति मां भगोऽरिष्यतीति यदग्नये भगिने भगमेव साक्षादाप्त्वावरुन्धे , भग्यन्नादो भवति , उभौ सह दर्शपूर्णमासा आलभ्या , उद्वा अन्यः शृङ्गे सितो मुच्यते , दर्शो वा एतयोः पूर्वः पूर्णमासा उत्तरो , अथ पूर्णमासं पूर्वमालभन्ते , तदयथापूर्वं क्रियते , तत् पूर्णमासं आलभमानः सरस्वत्यै चरुं निर्वपेत्सरस्वते द्वादशकपालं , अमावास्या वै सरस्वती पूर्णमासः सरस्वान् , उभा एवैनौ यथापूर्वं कल्पयित्वालभते , ऋद्ध्या , ऋध्नोत्येव , अथो मिथुनत्वाय ॥