मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ०२

विकिस्रोतः तः

अध्वरः

1.2.1 अनुवाकः1
आपो देवीः शुन्धत मा मधुमन्तं मधुमतीर्देवयज्यायै ॥
ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः ।
या ते शिवतमा तनूस्तयैनं उपस्पृश ॥
स्वस्त्युत्तरं अशीय ॥
हिरण्यवर्णाः शुचयः पावकाः प्रचक्रमुरि हित्वावद्यमापः ।
शतं पवित्रा विततानि आसु तेभिर्मा देवः सविता पुनातु ॥
आपो मा मातरः सूदयन्तु घृतेन मा घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्तु देवीरुदिदाभ्यः शुचिरा पूत एमि ॥
विष्णोः शर्मासि शर्म मे यच्छ , ऊर्जे त्वा , महीनां पयोऽस्यपामोषधीनां रसो ,
वर्चोधा असि वर्चो मे धेहि ॥
वृत्रस्यासि कनीनिका चक्षुषो मे वयोधाः , अन्तरहं त्वया द्वेषो अन्तररातीर्दधे महता पर्वतेन
चक्षुष्पा असि चक्षुर्मे पाहि ॥
चित्पतिस्त्वा पुनातु वाचस्पतिस्त्वा पुनातु ॥
देवस्त्वा सविता पुनात्वछिद्रेण पवित्रेण । वसोः सूर्यस्य रश्मिभिः ॥
तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने , तं शकेयम् ॥

1.2.2 अनुवाकः2
आकूत्यै प्रयुजे अग्नये स्वाहा , मेधायै मनसे अग्नये स्वाहा , दीक्षायै तपसे अग्नये स्वाहा
सरस्वत्यै पूष्णे अग्नये स्वाहा ॥
आपो देवीर्बृहतीर्विश्वशंभुवो द्यावापृथिवी उरो अन्तरिक्ष ।
बृहस्पतिर्नो हविषा वृधातु ॥ स्वाहा ॥
विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् ।
विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ स्वाहा ॥
ऋक्सामयोः शिल्पे स्थस्ते वां आरभे , आ मोदृचः पातं , विष्णोः शर्मासि, शर्म मे यच्छ नमस्ते अस्तु मा मा हिंसीः ॥
इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण संशिशाधि ।
ययाति विश्वा दुरिता तरेम सुतर्माणं अधि नावं रुहेयम् ॥
सूर्याग्नी द्यावापृथिवी उरो अन्तरिक्षापः॥
ओषधया उप मा दीक्षायां दीक्षापतयो ह्वयध्वं , देव सवितस्त्वं दीक्षाया दीक्षापतिरसि , इत्थं मा सन्तं पाहि ,
ऊर्गस्यङ्गिरस्यूर्णम्रदाः , ऊर्जं मयि धेहि , इन्द्रस्य योनिरसि, गोपाय मा , नमस्ते अस्तु मा मा हिंसीः ॥
कृषिं सुसस्यामुत्कृषे सुपिप्पला ओषधीस्कृधि ।
विषाणे विष्यैतं ग्रन्थिं यदस्य गुःपितं हृदि मनो यदस्य गुःपितं ॥
बृहन्नसि वानस्पत्यः , सुद्युम्नो द्युम्नं यजमानाय धेहि , नक्षत्राणां मातीकाशात् पाहि ॥
आ वो देवास ईमहे वामं प्रयत्यध्वरे ।
यद्वो देवास आगुरि यज्ञियासो हवामहे ॥
स्वाहा यज्ञं मनसः स्वाहा दिवः स्वाहा पृथिव्याः स्वाहोरोरन्तरिक्षात् , स्वाहा वातात् परिगृह्णामि स्वाहा ॥

1.2.3 अनुवाकः3
नक्षत्राणां सकाशान् मा यौषं , व्रतं चरत ॥
दैवीं धियं मनामहे सुमृडीकामभिष्टये ।
वर्चोधां यज्ञवाहसं सुतीर्था नो असद्वशे ॥
ये देवा मनुजाता मनोयुजः सुदक्षा दक्षपितरस्ते नोऽवन्तु ते नः पान्तु , तेभ्यः स्वाहा ॥
शिवाः पीता भवत यूयमापो अस्माकं योना उदरे सुशेवाः ।
इरावतीरनमीवा अनागसः शिवा नो भवत जीवसे ॥
हविषां मन्दिष्ठोऽग्ने त्वं सु जागृहि वयं सु मन्दिषीमहि ।
गोपाय नः स्वस्तये प्रबुधे नः पुनस्कृधि ॥
पुनर्मनः पुनरायुर्ना आगात् पुनः प्राणः पुनराकूतमागात् ।
वैश्वानरोऽदब्धस्तनूपा अपबाधतां दुरितानि विश्वा ॥
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
त्वं यज्ञेष्वीड्यो व्रतं अस्मासु धारय ॥
पूषा सनीनां , सोमो राधसां , मा पृणन् पूर्त्या विराधिष्ट , मा वयमायुषा वर्चसा च
रास्त्वेयत् सोमा , आ भूयो भर , देवः सविता वसोर्वसुदावा , वायुर्गोपास्त्वष्टाधिपतिः , पूषा प्रतिग्रहीता ,
देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रियावान् मदिन्तमस्तं वो मा क्रमिषं ,
याः पशूनां ऋषभे वाचस्ताः सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिणोमि यथाभागं वो अत्र
शिवा नः पुनरायन्तु वाचो , वायवे त्वा, वरुणाय त्वा, रुद्राय त्वा, निर्ऋत्यै त्वा ,
इन्द्राय त्वा , मरुद्भ्यस्त्वा ॥

1.2.4 अनुवाकः4
इयं ते शुक्र तनूरिदं वर्चस्तया संभव , भ्राजं गच्छ , जूरसि धृता मनसा जुष्टा विष्णवे ,
तस्यास्ते सत्यसवसः प्रसवे तन्वो यन्त्रमशीय स्वाहा , शुक्रमसि चन्द्रमसि , अमृतमसि वैश्वदेवमसि चिदसि मनासि धीरसि दक्षिणासि यज्ञियासि क्षत्रियासि , अदितिरस्युभयतःशीर्ष्णी
सा नः सुप्राची सुप्रतीची भव , मित्रस्त्वा पदि बध्नातु पूषाध्वनः पातु , इन्द्रायाध्यक्षाय ,
अनु त्वा माता मन्यताम् अनु पिता , अनु भ्राता सगर्भ्यो , अनु सखा सयूथ्यः,
सा देवि देवमछेहि , इन्द्राय सोमं , रुद्रस्त्वावर्तयतु , स्वस्ति सोमसखा पुनरेहि , वस्व्यसि रुद्रासि , अदितिरसि , आदित्यासि चन्द्रासि रुद्रासि , बृहस्पतिष्ट्वा सुम्ने रम्णातु , रुद्रो वसुभिराचके
पृथिव्यास्त्वा मूर्धन्नाजिघर्मि यज्ञिया इडायास्पदे घृतवति स्वाहा , अस्मे रमस्व , अस्मे ते रायस्तव रायस्तव तव रायो , मा रायस्पोषेण वियौष्मः त्वष्ट्रीमन्तस्त्वा सपेम ॥

1.2.5 अनुवाकः5
सूर्यस्य चक्षुरारुहमग्नेरक्ष्णः कनीनिकाम् ।
यदेतशेभिरीयसे भ्राजमानो विपश्चिता ॥
अपि पन्थां अगन्महि स्वस्तिगामनेहसं ।
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥
अस्माकोऽसि
शुक्रस्ते ग्रहः
स्वाहा त्वा विचिद्भ्यः ॥
अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवसं रत्नधामभि प्रियं मतिम् ।
ऊर्ध्वा यस्यामतिर् भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः ॥
प्रजाभ्यस्त्वा प्रजास्त्वानुप्राणन्तु
प्रजाः पाहि
शुक्रं ते शुक्र शुक्रेण चन्द्रं चन्द्रेणामृतममृतेन क्रीणामि देव सोमः
शक्म यत्ते गोर .स्मे ते चन्द्राणि
तपसस्तनूरसि प्रजापतेर्वर्णः
सहस्रपोषं पुष्यन्ति
परमेण पशुना क्रियस्वा , स्मे ते बन्धुः
सुवाङ्गभ्राडङ्घारे बम्भारेऽस्तरहस्तः कृशानो ,
एते वः सोमक्रयणास्तान् रक्षध्वं ,
मा वो दभन् , दुश्चक्षा वो मावक्षत् ॥

1.2.6 अनुवाकः6
स्वजा असि , स्वभूरस्य, स्मे कर्मणे जातः , ऋतेन त्वा गृह्णामि , ऋतेन नः पाहि
मित्रो ना एहि सुमित्रधः सह रायस्पोषेण , इन्द्रस्योरुमाविश दक्षिणं उशन्नुशन्तं स्योनः स्योनं ॥
उदायुषा स्वायुषोदोषधीनां रसेन ।
उत्पर्जन्यस्य धाम्नोदस्थाममृतं अनु ॥
उर्वन्तरिक्षं वीहि , अदित्याः सदा आसीद ॥
अस्तभ्नाद् द्यां ऋषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्याः ।
आसीदद्विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणस्य व्रतानि ॥
वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्न्यासु ।
हृत्सु क्रतुं वरुणं दिक्ष्वग्निं दिवि सूर्यमदधात् सोममद्रौ ॥
धूरसि ध्वर ध्वरन्तं यो अस्मान् ध्वरात् , यं वयं ध्वराम तं ध्वर ॥
वारुणमसि, वरुणः त्वोत्तभ्नातु , वरुणस्य स्कम्भोऽसि ॥
प्रच्यवस्व भुवनस्पते विश्वानि अभि धामानि ।
मा त्वा परिपरिणो मा परिपन्थिनो मा त्वा वृका अघायवो विदन् ॥
श्येनो भूत्वा परापत यजमानस्य नो गृहे संस्कृतं ।
देवेभ्यः सुत्यायै ॥
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत ।
दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शँसत ॥
वारुणमसि वरुणः त्वोत्तभ्नातु वरुणस्य स्कम्भसर्जनं असि ॥
विचृत्तो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशो , नमो वरुणस्य पाशाय ,
अग्नेस्तनूरसि विष्णवे त्वा
सोमस्य तनूरसि विष्णवे त्वा ,
अतिथेरातिथ्यमसि विष्णवे त्वा ,
अग्नये त्वा रायस्पोषदे विष्णवे त्वा
श्येनाय त्वा सोमभृते विष्णवे त्वा
वारुणमसि वरुणोऽसि धृतव्रतो ,
वरुणस्य ऋतसदनं आसीद वरुणाय त्वा ॥

1.2.7 अनुवाकः7
अग्नेर्जनित्रं असि वृषणौ स्था , उर्वश्यसि , आयुरसि, पुरूरवा असि गायत्रमसि त्रिष्टुबसि जगदसि ॥
भवतं नः समनसौ समोकसौ सचेतसा अरेपसौ ॥
मा यज्ञं हिंसिष्टं मा यज्ञपतिं जातवेदसौ , शिवौ भवतमद्य नः ॥
अग्ना अग्निश्चरति प्रविष्टा ऋषीणां पुत्रो अधिराज एषः ॥
तस्मै विधेम हविषा वयं, मा देवानां यूयुपाम भागधेयम् ॥
आपतये त्वा गृह्णामि, परिपतये त्वा गृह्णामि , तनूनप्त्रे शक्मने शक्वराय शक्मना ओजिष्ठाय ,
अनाधृष्टमस्यनाधृष्यं देवानां ओजः ॥ अभिशस्तिपा अनभिशस्तेन्यम् ॥
अनु म इदं व्रतं व्रतपतिर्मन्यताम् अनु दीक्षां दीक्षापतिरञ्जसा, सत्यं उपागां ,
सुविते मा धा , अग्ने व्रतपते या मम तनूरेषा सा त्वयि ,
अग्ने व्रतपते या तव तनूरियं सा मयि
सह नौ व्रतपते व्रतिनोर्व्रतानि ,
अंशुरंशुस्ते देव सोमाप्यायताम् इन्द्रायैकधनविदे , आ त्वमिन्द्राय प्यायस्व ,
आ तुभ्यमिन्द्रः प्यायताम्
आप्यायय सखीन्त्सन्या मेधया
स्वस्ति ते देव सोम सुत्यामशीय स्वस्त्यौदृचं
एष्टा राया एष्टा वामानि प्रेषे भगाय ऋतं ऋतवादिभ्यो , नमो दिवे नमः पृथिव्यै ॥
या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गहनेष्ठा ।
त्वेषं वचो अपावधीरुग्रं वचो अपावधीः ॥ स्वाहा ॥
या ते अग्ने रजाशया, या ते अग्ने हराशया, या ते अग्ने रुद्रिया तनूस्तया नः पाहि, तस्यै ते स्वाहा ॥

1.2.8 अनुवाकः8
तप्तायनी मेऽसि
वित्तायनी मेऽसि ,
अवतान्मा नाथितं
अवताद्व्यथितं
अग्ने अङ्गिरो योऽस्यां पृथिव्यामध्यस्यायुना नाम्नेहि
वसवस्त्वा हरन्तु गायत्रेण छन्दसा
वित्स्व यज्ञपते र्यत्तेऽनाधृष्टं धामानाधृष्यं तेन त्वादधे ,
अग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामध्यस्यायुना नाम्नेहि
रुद्रास्त्वा हरन्तु त्रैष्टुभेन छन्दसा
वित्स्व यज्ञपते ,
र्यत्तेऽनाधृष्टं धामानाधृष्यं तेन त्वादधे ,
अग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामध्यस्यायुना नाम्नेहि ,
आदित्यास्त्वा हरन्तु जागतेन छन्दसा
वित्स्व यज्ञपते ,
र्यत्तेऽनाधृष्टं धामानाधृष्यं तेन त्वादधे
विदेरग्ने नभो नाम यत्ते
सिंहीरसि
महिषीरसि
देवेभ्यः शुन्धस्व
देवेभ्यः शुम्भस्व ,
इन्द्रघोषास्त्वा पुरस्ताद्वसुभिः पान्तु
पितरस्त्वा मनोजवा दक्षिणतः पान्तु
रुद्रास्त्वा प्रचेतसः पश्चात् पान्तु
विश्वकर्मा त्वादित्यैरुत्तरात् पातु
सिंहीरसि सपत्नसाही स्वाहा
सिंहीरसि रायस्पोषवनिः स्वाहा
सिंहीरसि सुप्रजावनिः स्वाहा
सिंहीरस्यादित्यवनिः सजातवनिः स्वाहा
सिंहीरसि , आवह देवान् देवायते यजमानाय स्वाहा
भूतेभ्यस्त्वा , विश्वायुरसि , पृथिवीं दृंह , ध्रुवक्षितिरसि , अन्तरिक्षं दृंह , अच्युतक्षिदसि, दिवं दृंह , अग्नेर्भस्मासि ,
अग्नेः पुरीषमसि , अग्नेः कुलायमसि ॥
विभ्राड् बृहत् पिबतु सोम्यं मध्वायुर्दधद्यज्ञपता अविह्रुतं ।
वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजति ॥

1.2.9 अनुवाकः9
देवश्रुतौ देवेष्वाघोषेथां ॥
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविदेका इन्मही देवस्य सवितुः परिष्टुतिः ॥
अप जन्यं भयं नुद मा चक्रा अवृत्सत ।
गृहं सोमस्य गच्छतं गच्छदिन्द्रस्य निष्कृतं ॥
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदा ।
समूढमस्य पांसुरे ॥
इरावती धेनुमती हि भूतं सूयवसिनी मनवे यशस्ये ।
व्यष्कभ्ना रोदसी विष्ण एते दाधर्थ पृथिवीमभितो मयूखैः ॥
सुवागावद देव दुर्यं अरिष्यन्नरिष्यतः ॥
आ नो वीरो जायतां कर्मण्योऽभिशस्तिपा अनभिशस्तेन्यः ।
यं बहवोऽनुजीवान्यो बहूनामसद्वशी ॥
वैष्णवमसि , विष्णुस्त्वोत्तभ्नातु ॥
दिवो विष्ण उत वा पृथिव्या उरोर्वा विष्णो बृहतो अन्तरिक्षात् ।
हस्तौ पृणस्व बहुभिर्वसव्यैरात् प्रयच्छ दक्षिणादोत सव्यात् ॥
विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि ।
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणः त्रेधोरुगायः ॥
विष्णोः पृष्ठमसि , विष्णो रराटमसि , विष्णोः शिप्रे स्थो , विष्णोः स्यूरसि , विष्णोर्ध्रुवोऽसि , वैष्णवमसि , विष्णवे त्वा ॥
प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥

1.2.10 अनुवाकः10
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे , अभ्रिरसि , नारिरसि , इदमहं रक्षसो ग्रीवा अपिकृन्तामि ,
इदमहं यो मे समानो योऽसमानोऽरातीयति तस्य ग्रीवा अपिकृन्तामि
बृहन्नसि बृहद्राया , बृहतीमिन्द्राय वाचं वद रक्षोहणं वलगहनं वैष्णवीं , सम्राड् असि सपत्नहा , इदमहं तान्वलगानुद्वपामि यान्मे समानो यानसमानो निचखान ये कुल्फदघ्ने
निरस्तो वलगः स्वराडस्यभिमातिहा , इदमहं तान्वलगानुद्वपामि यान्मे सजातो यानसजातो निचखान ये जानुदघ्ने
निरस्तो वलगो , विराडसि रक्षोहा , इदमहं तान्वलगानुद्वपामि यान्मे सबnध्रु यानसबnध्रु निचखान ये नाभिदघ्ने
निरस्तो वलगः
सत्रराडस्यशस्तिहा , इदमहं तान्वलगानुद्वपामि यान्मे भ्रातृव्यो यानभ्रातृव्यो निचखान ये अंसदघ्ने
निरस्तो वलगः सर्वराडस्यरातीयतो हन्ता , इदमहं तान्वलगानुद्वपामि यान्मे सजन्यो यानसजन्यो निचखान ये शीर्षदघ्ने निरस्तो वलगः ॥
संमृश इमानायुषे वर्चसे च देवानां निधिरसि द्वेषोयवनः ।
युयोध्यस्मद्द्वेषांसि यानि कानि च चकृम ॥
देवानामिदं निहितं यदस्त्यथाभाहि प्रदिशश्चतस्रः ।
कृण्वानो अन्यं अधरान्त्सपत्नान् ॥

1.2.11 अनुवाकः11
पृथिव्यै त्वा , अन्तरिक्षाय त्वा , दिवे त्वा , शुन्धन्तां लोकाः पितृषदना , यवोऽसि यवय द्वेषो अस्मद्य, वयारातिम् , पितृषदनं त्वा लोकमवस्तृणामि ॥
उञ्श्रयस्व वनस्पते सजूर्देवेन बर्हिषा । नितानस्त्वा मारुतो निहन्तु मित्रावरुणौ ध्रुवेण धर्मणा ॥
ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामि, ब्रह्म दृंह, क्षत्रं दृंह रायस्पोषं दृंह , प्रजां दृंह , सजातानस्मै यजमानाय दृंह ॥
घृतेन द्यावापृथिवी आपृण विश्वजनस्य छायासि ॥
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥
इन्द्राय त्वा , इन्द्रस्य स्यूरसि , इन्द्रस्य ध्रुवोऽसि , ऐन्द्रमसि , इन्द्राय त्वा , रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवान् , रक्षोहणं त्वा वलगहनं अवसिञ्चामि वैष्णवं , रक्षोहणं त्वा वलगहनं अवस्तृणामि वैष्णवं , रक्षोघ्नी वां वलगघ्नी उपदधामि वैष्णवी , रक्षोघ्नी वां वलगघ्नी पर्यूहामि वैष्णवी , रक्षोहणं त्वा वलगहनं आस्तृणामि वैष्णवं ॥

1.2.12 अनुवाकः12
विभूरसि प्रवाहणः , वह्निरसि हव्यवाहनः , श्वात्रोऽसि प्रचेतास्तुथोऽसि विश्ववेदा , अवस्युरसि दुवस्वान् ,
अङ्घारिरसि बम्भारिरु , शिगसि कविः , शुन्ध्युरसि मार्जालीयः , सम्राड् असि कृशानुः , परिषद्योऽस्यास्तव्यो ,
नभोऽसि प्रतक्वा , असंमृष्टोऽसि हव्यसूदनः , ऋतधामासि स्वर्ज्योतिः , समुद्रोऽसि विश्वव्यचा ,
अहिरसि बुध्न्यः , कव्योऽसि कव्यवाहनो , मा मा हिंसीः ॥

टिप्पणी

द्र. वाजसनेयि संहिता ५.३१ उवट-महीधर भाष्यम्


1.2.13 अनुवाकः13
त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः । उरु यन्तासि वरूथं ॥ स्वाहा ॥
जुषाणो अप्तुराज्यस्य वेतु ॥ स्वाहा ॥ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि ।
घृतं घृतवने पिब प्रप्र यज्ञपतिं तिर ॥ स्वाहा ॥ एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरं अमृतस्य गोपाम् ।
स नः शर्म त्रिवरूथं वियंसत्पातं नो द्यावापृथिवी उपस्थे ॥ उर्वन्तरिक्षं वीहि , अदित्याः सदा आसीद , देव सवितरेष ते सोमस्तं रक्षस्व , मा त्वा दभन् , दुश्चक्षास्ते मावक्षत् , एतत् त्वं देव सोम देवान् उपावृत , इदमहं मनुष्यान्त्सह रायस्पोषेण प्रजया चोपावर्ते , नमो देवेभ्यः , स्वधा पितॄभ्यो , निर्वरुणस्य पाशादमुक्षि स्वरभिव्यक्षं ज्योतिर्वैश्वानरम् , अग्ने व्रतपते या तव तनूर्मय्यभूदेषा सा त्वयि , अग्ने व्रतपते या मम तनूस्त्वय्यभूदियं सा मयि , पुनर्नौ व्रतपते व्रतिनोर्व्रतानि , यथायथं नौ व्रतपते व्रतिनोर्व्रतानि , वि व्रतानि सृजावहै ॥

1.2.14 अनुवाकः14
अत्यन्यानगां नान्यानुपागां , अर्वाक् त्वा परेभ्यः परोऽवरेभ्योऽविदं , तं त्वा जुषामहे देवयज्यायै जुष्टँ विष्णवे
विष्णवे त्वा ॥
उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि ।
घृतं घृतवने पिब प्रप्र यज्ञपतिं तिर ॥ स्वाहा ॥
ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः ।
या ते शिवतमा तनूस्तयैनं उपस्पृश ॥
यं त्वामयं स्वधितिस्तिग्मतेजाः प्रणिनाय महते सौभगाय ।
दिवमग्रेण मा हिंसी , रन्तरिक्षं मध्येन , पृथिव्या संभव , भ्राजं गच्छ ।
वनस्पते शतवलिशो विरोह सहस्रवलिशा वि वयं रुहेम ॥
पृथिव्यै त्वा , अन्तरिक्षाय त्वा , दिवे त्वा , शुन्धन्तां लोकाः पितृषदनाs , यवोऽसि, यावय द्वेषो अस्मद्य, वयारातिम् , पितृषदनं त्वा लोकमवस्तृणामि ॥
स्वावेशोऽस्यग्रेगा नेतॄणां , अधि त्वा स्थास्यति , तस्य वित्स्व ॥
घृतेन द्यावापृथिवी आपृण , देवस्त्वा सविता मध्वानक्तु ॥
इन्द्रस्य चषालं असि , सुपिप्पला ओषधीस्कृधि , दिवमग्रेणोत्तभाना , न्तरिक्षं मध्येनापृण , पृथिवीं उपरेण दृंह ॥
ता ते धामानि उष्मसि गमध्यै गावो यत्र भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य विष्णोः परमं पदमवभाति भूरि ॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥
ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामि , ब्रह्म दृंह , क्षत्रं दृंह , रायस्पोषं दृंह , प्रजां दृंह , सजातानस्मै यजमानाय दृंह ॥
तद्विष्णोः परमं पदं शच्या पश्यन्ति सूरयः ।
दिवीव चक्षुराततं ॥
परिवीरसि , परि त्वा दैवीर्विशो व्ययन्ताम् , परीमं यजमानं मनुष्याः सह रायस्पोषेण प्रजया च व्ययन्ताम् ,
दिवः सानूपेष , दिवं ते धूमो गच्छतु , अन्तरिक्षं ज्योतिः , पृथिवीं भस्म स्वाहा ॥

1.2.15 अनुवाकः15
इषे त्वा , उपावीरसि , उपो देवान् दैवीर्विशः प्रागुर्वह्नय उशिजः , बृहस्पते धारया वसूनि हव्या ते स्वदं , देव त्वष्टर्वसु रणे , रेवती रमध्वं , देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे , ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चामि , अमुष्मै त्वा जुष्टं , धर्षा मानुषाः , अद्भ्यो त्वौषधीभ्यो जुष्टं प्रोक्षामि , अनु त्वा माता मन्यताम् अनु पिता , अनु भ्राता सगर्भ्यो , अनु सखा सयूथ्यः , अनुमानावह देवान् देवायते यजमानाय , अपां पेरुरसि स्वात्तं सद्धविरापो देवीः स्वदन्तु , सं ते वायुर्वातेन गच्छताम् , सं यजत्रैरङ्गानि सं यज्ञपतिराशिषा , घृतेनाक्तौ पशूंस्त्रायेथां ॥
ये बध्यमानं अनु बध्यमाना अन्वैक्षन्त मनसा चक्षुषा च ।
अग्निष्टं अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥
रेवति प्रेधा यज्ञपतिमाविशो,रो अन्तरिक्ष सजूर्देवेन वातेन ॥
त्मनास्य हविषो यज समस्य तन्वा भव ।
वर्षीयो वर्षीयसो यज्ञं यज्ञपतौ धाः ॥
स्वर्विदसि , स्वर्वित्त्वा स्वरिहि, स्वर्मह्यम् , स्वः पशुभ्यो , लोकविदसि , लोकं वित्त्वा लोकमिहि , लोकं मह्यम् , लोकं पशुभ्यो , नाथविदसि , नाथं वित्त्वा नाथमिहि , नाथं मह्यम् , नाथं पशुभ्यो , गातुविदसि , गातुं वित्त्वा गातुमिहि , गातुं मह्यम् , गातुं पशुभ्यः ॥
न वा एतन् म्रियसे नोत रिष्यसि देवं इदेषि पथिभिः शिवेभिः ।
यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवः सविता दधातु ॥
शमितार उपेतन यज्ञं देवेभिरन्वितं ।
पाशात् पशुं प्रमुञ्चत बन्धाद्यज्ञपतिं परि ॥
अदितिः पाशान् प्रमुमोक्त्वेतान् पशोः पाशान् पशुपतेरधि ।
यो नो द्वेष्ट्यधरः स पद्यतां तस्मिन् पाशान् प्रतिमुञ्चाम एतान् ॥

1.2.16 अनुवाकः16
नमस्त आतान , अनर्वाक् प्रेहि यजमानाय घृतस्य कुल्यामनु सह रायस्पोषेण , देवीरापः शुद्धा यूयं देवान् युयुध्वं ,
शुद्धा वयं सुपरिविष्टाः परिवेष्टारो वो भूयास्म , वाचमस्य मा हिंसीः , प्राणमस्य मा हिंसीः , चक्षुरस्य मा हिंसीः ,
श्रोत्रं अस्य मा हिंसीः , यत्ते क्रूरं यदास्थितं तदेतेन शुन्धस्व , देवेभ्यः शुम्भस्व , गात्राण्यस्य मा हिंसीः ,
चरित्रानस्य मा हिंसीः , नाभिमस्य मा हिंसीः , मेढ्रं अस्य मा हिंसीः , पायुमस्य मा हिंसीः , शमद्भ्यः ॥
ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः ।
या ते शिवतमा तनूस्तयैनं उपस्पृश ॥
पृथिव्यै त्वा , रक्षसां भागोऽसि , इदमहं रक्षोऽवबाधे , इदमहं रक्षोऽधमं तमो नयामि , इषे त्वा , ऊर्जे त्वा , देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व ॥
घृतेन द्यावापृथिवी प्रोर्णुवाताम् , अमुष्मै त्वा जुष्टं , नमः सूर्यस्य संदृशे ॥ उर्वन्तरिक्षं वीहि प्रत्युष्टँ रक्षः प्रत्युष्टाराति , र्वायोः स्तोकानां , प्रयुता द्वेषांसि , स्वाहोर्ध्वनभसं मारुतं देवं गच्छतं ॥

1.2.17
जुष्टं देवेभ्यो हव्यं घृतावत् , अमुष्मै त्वा जुष्टं , रेडसि , अग्निष्ट्वा श्रीणातु , आपस्त्वा समरिण्वन् वातस्य त्वा ध्राज्यै पूष्णो रंह्या ऊष्मणोऽव्यथिषेऽपामोषधीनां रसो , घृतं घृतपावानः पिबत , वसां वसापावानः पिबत , अन्तरिक्षस्य हविरसि , स्वाहा त्वा वाताय, दिशः प्रदिश आदिशो विदिश उद्दिशो दिश , ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यत् , ऐन्द्रोऽपानो अङ्गे अङ्गे निबोभुवत् , ऐन्द्रो व्यानो अङ्गे अङ्गे विबोभुवत् ॥
देव त्वष्टर्भूरि ते सत्समेतु सलक्ष्म यद्विषुरूपं बभूव ।
देवत्रा यन्तमवसे सखायो अनु त्वा माता पितरो मदन्तु ॥

1.2.18 अनुवाकः18
समुद्रं गच्छ स्वाहा , अन्तरिक्षं गच्छ स्वाहा , देवं सवितारं गच्छ स्वाहा , अहोरात्रे गच्छ स्वाहा,
मित्रावरुणौ गच्छ स्वाहा , द्यावापृथिवी गच्छ स्वाहा , छन्दांसि गच्छ स्वाहा , सोमं गच्छ स्वाहा ,
यज्ञं गच्छ स्वाहा , दिव्यं नभो गच्छ स्वाहा , अग्निं वैश्वानरं गच्छ स्वाहा , मनो हार्दिं यच्छ ,
ओषधीभ्यस्त्वा ॥
धाम्नोधाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्न्या वरुणेति शपामहै ।
ततो वरुण नो मुञ्च ॥
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥
सुमित्रा ना आपा ओषधयः सन्तु दुर्मित्रास्तस्मै सन्तु ।
यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥