मेमासस्य प्रवचनानि

विकिस्रोतः तः

मे 1 – कस्यामपि कृतौ हेतुः शुद्धः भवेत्। त्रिषु गुणेषु जडतमत्वेन तमोगुणस्य परिणामः जगति सत्वरं दृश्यते। दुष्टबुद्धिः तमोगुणस्य परिणामः। परं भगवन्नाम्ना बुद्ध्याः शुद्धीकरणस्य उपायः मनुष्याधीनः। एतदर्थं प्रचुरं नामस्मरणं करणीयम्। तेन सत्वगुणः उदेति, बुद्धिः शुद्धा भवति च। देहकष्टेन भगवान् वशीभवति इति असत्यम्। तथा वर्तते चेद् आतपे पाषाणस्फोटकाः शीघ्रं भगवन्तं लभेरन्। भगवान् अस्माकं देहापेक्षया मनः पश्यति। मनसि प्रपञ्चहेतून् धृत्वा उपवासादीनि कियन्ति अपि कष्टानि कृतानि तर्हि जनाः वञ्चेयुः, परं भगवान् न वञ्चेत्। अस्माभिः वचनानुगुणस्य वर्तनस्य अभ्यासः करणीयः। परमार्थे मिथ्याचारः अतिबाधकः। प्रपञ्चविषयाणां कृते उपवासः मह्यं न रोचते। उपवासः ‘भवेत्’ - अस्मिन् यः आनन्दः सः उपवास’करणे’ न विद्यते। भगवतः स्मरणे एतादृशी तल्लीनता भवेद् यद् वयं सदा तेन सह स्मः इति मनः भावयेत्। तदनु देहेन अन्नं भुक्तं चेत् का हानिः? प्रत्युत मनसि अविद्यमाने भगवन्नाम्निदेहेन बहूनि उपवासव्रतानि कृतानि चेदपि दुर्बलत्वं विना न किमपि लभ्येत। केचन मूर्खाः जनाः सन्ति। उपवासादि तपः किमर्थं क्रियते इति एव ते न जानन्ति। कस्याः अपि कृतेः वास्तविकं मूल्यं तस्याः हेतुना निश्चीयते। शुद्धहेतुना कृता कृतिः कदाचिद् असमीचीना वर्तते चेद् भगवान् अनुमन्येत। किन्तु कृतिः उत्तमा परं हेतुः अशुद्धः चेद् भगवान् दूरे तिष्ठेत्। उपवासव्रतं निष्कामं केवलं भगवत्स्मरणार्थं च कृतं चेद् बहु उत्तमम्। निष्कामकर्मणः महत्त्वम् अतीव वर्तते। ‘भगवतः कृते भगवान्’ इति अस्माकं वृत्तिः भवेत्। किं बहुना नामस्मरणसमये साक्षात् भगवान् पुरतः आयाति ‘किमिच्छसि त्वम्?’ इति पृच्छति चेद् ‘भवतः नामस्मरणमेव ददातु’ इति याञ्चाकरणम् एव निष्कामता। यतो हि आकारितः भगवान् कदाचित् नश्येत् परं तस्य नाम निरन्तरं वर्तेत। तस्य नाम स्मरामः चेत् तस्य अस्माकं प्रति आगमनं तस्य कृते अनिवार्यमेव। अतः वृथा देहपीडनेन अलम्। नामस्मरणं कुर्वन्तु। सः निश्चयेन कृपां कुर्यात्।

    • ’यत्र नाम तत्र रामः’ इति विश्वसन्तु। रघुनाथः विशेषत्वेन कृपां कुर्यात्।***

मे२ - साधनायाम्अतीवसावधानताअपेक्षिता। क्षेत्रंसम्यक्सिद्धंकृतम्, उत्तमंबीजम्उप्तं, वृष्टिःपर्याप्ताजाता, सस्यंसुष्ठुवर्धितं, तथापिकार्यंसम्पन्नम्इतिनास्ति।यतोहियथायथाएकैकंसोपानम्अग्रेगम्यतेतथातथाअधिकासावधानताअपेक्ष्यते।सस्येवर्धमानेसतिनाशस्यद्वेकारणेभवितुमर्हतः।एकंपशुभिःप्रविश्यकृतःनाशः, द्वितीयंकीटैःअथवा‘टोळा’क्रमणेनकृतःनाशः।एतयोर्मध्येप्रथमंकारणंस्थूलम्, अपरम्ईषत्सूक्ष्मम्।क्षेत्रेप्रविष्टाःपशवःसामान्यदृष्ट्याअपिसहजंज्ञायन्ते, तान्गमयितुंशक्यतेच।किन्तुकीटाःयदिसस्यंखादन्तितर्हिसूक्ष्मतयाद्रष्टव्यंभवति।वृतिंकृत्वाक्षेत्रस्यसंरक्षणंशक्यते।रक्षां, गोमयं, रसायनंवायोजयित्वाकीटात्सस्यरक्षणंकर्तुंशक्यते।अस्मिन्कार्येकृषकेणसततंसावधानेनभवितव्यम्।निरन्तरंक्षेत्रम्अवधातव्यम्।परमार्थेअपिएषःनियमःअनुवर्तते।साधकेनअतीवसावधानेनव्यवहरणीयंभवति। क्षेत्रंरक्षितुंयथावृतिःक्रियतेतथासंसारःपरमार्थंपरितःवृतिरूपःभवेत्।वृत्यैखाद्यंजलंचलभ्येतेचेत्वृतिःएवक्षेत्रंभुङ्क्ते।तथानभवेत्इतिसावधानेनसंसारःपोषणीयः।क्षेत्रेकीटाःलग्नाःवाइतियथाअवधानंभवेत्तथास्ववृत्तिःक्वापियुक्तावाइतिसूक्ष्मतयाद्रष्टव्यम्।एवंसावधानेनव्यवहारःक्रियतेचेत्सस्यप्राप्तिःइतिकार्यंसम्पन्नम्।किन्तु‘सस्यंप्राप्तम्अधुनाकाचिन्ता?’इतिमत्वानिश्चिन्तेननभवितव्यम्।सस्यंप्राप्तंपरंमर्दनम्आवश्यकं, धान्यंसंग्रहिण्यांरक्षणीयम्।अन्यथामूषकादयःधान्यंखादिष्यन्ति।अथयदाआवश्यकंतदा कुट्टयित्वात्वक्निष्कासनीयम्।तदाकणःखण्डितःनभवेत्इतिअवधातव्यम्।एवम्आरम्भात्अन्तपर्यन्तंनितरांजागराअपेक्षिता।एवंभवतिचेत्साधकस्यगन्तव्यप्राप्तिःभवेत्।अन्यथामध्येएवदुर्लक्षत्वेनसर्वंलब्धम्इतिभ्रमेणउन्नतिःतत्रैवतिष्ठेत्।एतादृशानिउदाहरणानिसाम्प्रतम्अधिकानिदृश्यन्ते।अतःअतीवसावधानेनभवितव्यम्।गृहस्थसाधकेनगृहस्थजनैःसहस्थातव्यंभवत्येव।परंसःआत्मानंनितरांरक्षेत्।स्ववृत्तिःकदापरिवर्तेतइतिवक्तुंनशक्यते।नूनंपरमार्थःइतिअतिदुष्करंवेधनम्।वेधनंतथाकरणीयंयत्‘अहंत्वं’मारयित्वाअस्माभिःजीवनीयम्।यत्अस्माकंकृतेनापेक्षितंतद्निगलेत्।

        • सावधानेननामजपनीयम्।नामसततंधारारूपेणजपनीयम्।तेनतत्वृत्तिपर्यन्तंप्राप्नुयात्।****

मे३– दृढनिश्चयेननामस्मरणंचित्तशुद्धिःच। मयाअद्यापिअमुकंकरणीयमितिकल्पनात्यक्तव्या।अधुनाअहंपरमेश्वरस्यअस्मि।मयाकिमपिकरणीयंनास्ति, एवंमनःस्थितिःअपेक्षिता।‘हेभगवन्त्वदीयायकार्यायअहंजीवामि।तवनामस्मरणात्ऋतेममकिमपिकार्यंनावशिष्टम्।‘एवंनिश्चितंचेत्मनःसमाहितंभवेदेव।‘नामस्मरणंनभवति,.यतोहिवृद्धत्वेनमनःश्रान्तम्’इतिकथनम्अनुचितम्।शरीरंश्रान्तंभवेद्यतोहिबाल्यकालेवर्धनं, वार्धक्येशीर्णम्इतिशरीरस्यनिसर्गक्रमःएव।किन्तुमनःश्रान्तमितिनसंयुक्तम्।मनःपरमेश्वस्यअंशःवर्ततेइतिस्वस्यदिव्यविभूतीनांकथनसमयेभगवताकथितमस्ति।मनसःआत्यन्तिकीक्षीणावस्थामृत्युसमयेवर्तते।परंतदापिममस्मरणंभवतु’इतिभगवान्कथयति।अतःततःपूर्वंमनःश्रान्तं, स्मरणंनशक्यतेइतिभवितुंनार्हति।पुराषड्षड्होरांसततम्उपविश्यनामस्मरणंकृतं, तथाकदाचित्नभवेत्।तावत्उपवेशनंनशक्यम्।अन्तराअन्तरानिद्राभवेत्इतिअङ्गीकृतं, परंस्मरणंनशक्यम्इतिनभवितुमर्हति।मनःश्रान्तमितिनवास्तविकीसमस्या, मनसःअन्याव्यापृताअधिकाइतिवास्तवंकारणम्।अतःअन्येभ्यःविषयेभ्यःचिन्ताभ्यःचमनःअपाकृत्यभगवतियोजनीयम्इतिअपेक्षितम्।धनं, वित्तं, प्रपञ्चविषयाःचेतिएतेमनसःत्यक्तव्याः।तेनकार्यंसिद्ध्यतिइतिअहंनिश्चयेनकथयामि। धनस्यवासना,लौकिकस्यलालसाचमनुष्यंभगवतःदूरंनयतः।तयोःनिग्रहणेनभवितव्यम्।लोकेषणा, वित्तेषणाचेतिएतयोःसम्बन्धःगार्हस्थ्येभवत्येव।तस्यपरिहरणंदुष्करम्।यःभगवत्प्रेमइच्छतितेनएतयोःगुणधर्मान्अवगत्यएतयोःउपयोजनंकरणीयम्।तेनताभ्याम्उद्भविताःदोषाःतंनबाधेरन्।धर्माचरणं, भगवद्भक्तिः, नामस्मरणं, सत्सङ्गतिःचेतिचित्तशुद्धेःउपायाः।अथवाएकेनशब्देनवक्तुंशक्यतेयत्सत्सङ्गःएवउपायोत्तमः।चित्तशुद्धेःलक्षणम्एवंयत्स्वम्इवसर्वंजगत्सुखिभवेत्इतिभावनीयम्।एवंभावनांवर्धयितुं‘सर्वंजगत्’सुखिभवतुइतिप्रार्थनाकरणस्यपरिपाटिःआचरणीया।तेनशनैःशनैःभगवत्कृपालभ्येत।अभिमानःचित्तशुद्धिंप्रदूषयति।सःकदाउद्भवेत्, घातंकुर्यात्चेतिवक्तुंनशक्यते।भगवतःस्मरणेअभिमानस्यमरणंविद्यते।अतःभगवत्स्मरणम्अखण्डंकरणीयम्, आनन्देनस्थातव्यंच।

        • नामविनाजगतिअपरंसत्यंनास्तिइतिभावनादृढीभवतु। ****

मे४– सत्सङ्गत्यांभवितव्यम्। सदासत्सङ्गत्यांभवितव्यम्।परमार्थायसत्सङ्गस्यअधिष्ठानम्अपेक्षितम्।सन्तःअस्माकंपार्श्वेसन्ति।तान्द्रष्टुंक्वापिगमनंनापेक्षितम्।चित्तेअशुद्धेसतिसतांसमीपंगत्वापि.कःलाभः? तेअस्माभिःदेहेनद्रष्टव्याः।सन्तःदेहेनसन्ति।यत्साधनंतेकथयन्तितस्मिन्तेभवन्ति।अस्माकंविषयलालसायाःत्यागेनविनातेषांदर्शनम्असम्भवम्।सतांसमीपेकश्चनचोरःगतःचेत्सःतान्द्रष्टुंशक्नुयात्किम्? तस्यहेतुनाअधिकंचेत्सःतत्रचौर्यंकर्तुंप्रभवेत्।परंसद्भ्यःयत्वस्तुतःप्राप्तव्यंतत्सःलभेतकिम्? यदिवयंचित्तंशुद्धंकृत्वागच्छामःतर्हितेषांदर्शनंभवेत्, त्रिभुवनेयत्नलभ्येततत्तेअस्मभ्यंदास्यन्ति। कश्चनकमपिसत्पुरुषंद्रष्टुम्आगच्छतिस्म।अन्येअपिबहवःजनाःतत्रभवन्तिस्म।परंसःकेनापिसहनभाषतेस्म।केनापिकिमपिपृष्टेसतिसःनउत्तरतिस्म।सदातस्यमुखमुद्राखिन्ना।कोपितंवक्तुंनैच्छत्।गच्छताकालेनकदाचित्सःसत्पुरुषःअवदत्, “ममसःमूर्खःक्वास्ति?सःअद्यकिमर्थंनागतः?”एतत्श्रुत्वासःआनन्देनअनृत्यत्।ततःनिर्गतः।पुनःनागतःएव! किमर्थमागच्छेत्? गुरुःएकवारम्आत्मानं‘मदीयः’इतिकथयेत्इतिएवशिष्यस्यइच्छा।तत्तेनअवगतमासीत्।तत्सःप्राप्तवान्।गुरुःभवन्तं‘भवान्मदीयःजातः’इतिवदति, परंभवन्तःतत्नावगच्छन्ति, यतोहिभवद्भिःसहविषयाःभवन्ति।तेविषयाःलभेरन्इतिभवतांकामनावर्तते।गुरुःभवन्तंनिवृत्तिंयच्छति।निवृत्त्यनन्तरंविषयस्मरणमेवनश्यति।यथापिपासितःजलमिच्छति,परम्उदरपूर्णंजलंपिबतिचेत्तदेवजलंजनःनेच्छतितथा, इत्युक्तेतस्यजलेच्छानिवृत्ताभवति।अधुनाकदाचित्अस्मिन्भवन्तःनविश्वसन्ति।परम्एवंविश्वासंप्राप्तुंभगवतःनामस्मरणंकरणीयंभवेत्।नामस्मरणेनतत्कार्यंभवति, अतःनामस्मरणंकरणीयम्।नाम्नाचिन्तानश्यति, स्वाभाविकंयत्मनःक्षुब्धताअपिनश्यति। मनःअस्मभ्यम्विषयाणाम्उपायनंददाति।अस्माभिःमनसेनामोपायनंदातव्यम्।अस्माभिःअन्तःकरणायनाम्नःऔष्ण्यंदातव्यम्।अन्तःकरणेक्वथितेसतिदोषाःउपरिआयान्ति।तान्दोषान्निक्षिपामःचेत्अन्तःकरणंशुद्धंभवति।शुद्धान्तःकरणेननामस्मरणंक्रियतेचेत्भगवत्कृपाअनुभूयते।नाम्नाएवअन्तरङ्गंशुद्धंभवति।नाम्नाएवमनःअन्तःप्रविशति, स्थिरंभवतिच।

      • सन्तःयथाकथयन्तितथाकरणमेवतेषांसेवा।****

मे५–अभिमानेनविनाकर्मकर्तव्यम्। ‘अहंनजानामि’इतिभावःपरमार्थस्यप्रथमंसोपानम्।वयम्अभिमानेन‘सर्वंजानामि’इतिभावेनजगतिव्यवहरामः।नूनम्अभिमानेनसदृशःनान्यःपरमार्थस्यशत्रुः।अभिमानःविषतृणमिवसर्वंनाशयतिइतिवचनमपिअपूर्णंयतोहिविषतृणंदृश्यतेतत्उत्पाटयितुंशक्यते।अभिमानःतथानास्ति।सःनदृश्यते।सःकदाकुतःआगच्छेत्इतिनज्ञायतेएव।चित्तशुद्धिमार्गेमहत्तमःविक्षेपःअभिमानः।‘स्वकर्तृत्वेनतस्यनिग्रहणात्अहंमुक्तःभवामि’इतिकथनंमूर्खत्वमेव।तस्यनिग्रहणात्विमोचनस्यमार्गःइत्युक्तेसद्गुरुःअनन्यत्वेनशरणंगन्तव्यः।सःसततंप्रार्थनीयःयत्, ‘अभिमानात्मांमोचयतुइति। चित्तशुद्धेःअनन्तरंक्षेत्रंसिद्धम्इतिवक्तुंशक्यते।अग्रिमःविषयःबीजम्उत्तमंभवेत्।उत्तमंबीजंवयम्अभिज्ञातुंनशक्नुमः।किन्तुउत्तमंफलंपरिचिनोतुंप्रभवामः।अधुनाएवंकल्पयन्तुयत्मधुराणांफलानाम्एवक्षेत्रेआरोपणंकृतं, तथापिगच्छताकालेनअनुभूयतेयत्सःवृक्षःम्रियते, फलानिनलभन्तेच।तेनमनःदूयते।इत्युक्तेअधुनामधुराणिफलानिअपिकालान्तरेणदुःखस्यकारणंभवन्ति।अतःबीजंतादृशंद्रष्टव्यंयत्यस्यवृक्षःअक्षयंमधुरफलानिदद्यात्, शाश्वतंसुखंचलभ्येत।जगतिउत्पन्नंकिंवस्तुअक्षयंचिरंवर्तते? ‘किमपिन’इत्येवउत्तरंलभ्येत।अतःनश्यमानस्यफलस्यआशयाकृतंकिमपिकार्यंसुखंननयतिइत्येवसत्यम्।अतःभगवन्तंविनाकिमपिफलंनापेक्षणीयम्।कर्मकर्तव्यबुद्ध्याकरणीयम्इत्येवसुखस्यमार्गः।एतदेवउत्तमबीजवपनम्।भगवान्पूर्णमनसाप्रार्थनीयःयत्‘तवभक्तिंविनाकापिआशानभवेत्इतिकृपांकरोतु।‘तथाअस्माभिःप्रयतनीयम्।यथाउत्तमंतथाचविनष्टम्धान्यंवयंशूर्पेएकत्रव्यालोढयामः।तेनविनष्टंबहिःउत्क्षिप्यउत्तमंशूर्पेरक्षामः।तद्वत्भगवद्भक्तिंकुर्वन्भगवन्तंविनाअन्याःसर्वाःइच्छाःनिरन्तरंक्रमेणउत्क्षिपामःचेत्गच्छताकालेनभगवतःकृतेएवभगवत्प्राप्तिःइतिभावःदृढीभवति।

        • यथार्थंसुखंचिरकालंभवेत्।****

मे६– स्वार्थसंयमनेनपरस्परंप्रेमवर्धते। परस्परंप्रेमवर्धयितुंकेचनविषयाःआवश्यकाः।एकंलघुलघुविषयान्दुर्लक्ष्यप्रत्येकंजनस्यस्वभावायकश्चनअवसरःकल्पनीयः।अनेनद्वेषःनभवति।द्वितीयंयत्सर्वेषांसंभूयकश्चनप्रेमविषयःभवेत्, सःअवधातव्यः।तृतीयःयत्काचित्सूचनाकथनीयाचेत्विशिष्टंजनम्उद्दिश्यनकथनीया, नम्रतयामधुरभाषयाचकथनीया।चतुर्थःअतीवमहत्त्वपूर्णः, यस्मिन्सर्वेविषयाःबह्वंशेनअन्तर्भूताःसन्ति, सःइत्युक्तेस्वार्थसंयमनंकरणीयम्।एतस्यअर्थःएवंयत्अहंयावत्स्वस्यकृतेअस्मिततोपिअधिकम्अन्येषांकृतेअस्मिइतिभावनीयम्।इतिमनसिनिधायतथावर्तनमेवप्रेमवर्धयितुंसहायंकरोति।यःस्वार्थंसाधयितुंनेच्छति, तस्यकिमपिन्यूनंनभवत्येव।निस्स्वार्थिनेजनायईश्वरेणपूरणीयंभवत्येव। स्वार्थचिन्तनेएवंभाव्यतेयत्‘अहंतुक्वस्वार्थीअस्मि?अहंकंकिंयाचे?’किन्तुकेवलम्अनेन‘स्वार्थदृष्टिःनास्ति’इतिवक्तुंनशक्यते।अहङ्कारःइवस्वार्थःअपिप्रबलः।तस्यमूलानिएतावत्गभीराणिसूक्ष्मानिचसन्तियत्तानिचिह्नितानिकर्तुंनप्रभवामः।स्वार्थस्यत्रयःप्रकाराः।कायिकः, वाचिकः, मानसिकःच।अन्येषांकृतेदेहःकष्टंनानुभवेत्इतिवर्तनंकायिकःस्वार्थः।‘ममवचनंसर्वैःअङ्गीकरणीयं, किमपिन्यूनाधिकंवदामिचेत्सर्वैःसोढव्यम्’इतिवाचिकःस्वार्थः।‘मममतानुगुणंसर्वैःवर्तनीयं, ममविचाराःयोग्याःएवइतिसर्वैःअवगन्तव्यम्’इतिधारणाइत्युक्तेमानसिकःस्वार्थः।अधुनाअहंयावत्ममकृतेअस्मिततोपिअधिकम्अन्येषांकृतेअस्मिइतिचिन्त्यतेचेत्मयाममकृतेयावान्अवसरःकल्पितःअस्ति,तावान्अथवाततोपिईषत्अधिकःअवसरःअन्येषांकृतेकल्पनीयः।इत्युक्तेअन्येनमयासहयथानव्यवहरणीयंतथामयाअपिअन्येनसहनव्यवहरणीयम्।तथैवप्रत्युतयत्अन्येनमयासहकृतंतत्सुष्ठुइतिअहंमन्येतथामयाअपिअन्येनसहकरणीयम्।इदमेवसर्वस्यसारः।एषःएवयथार्थःधर्मः।वयंजगतिनप्रीणीमःचेत्वयंप्रेमनप्राप्स्यामः।वयंपुष्कलेषुप्रीणीमःचेत्अहम्एकःप्रीणामि।परंप्रसङ्गेतेसर्वेममसहायंकरिष्यन्ति।यःबहूनांजातः, सःभगवतःजातःइतिअवगन्तव्यम्।

      • निस्स्वार्थबुद्ध्याप्रीणातिसःनिश्चयेनआनन्दंप्राप्नोति। *****

मे७– देहबुद्धिःत्यक्तव्या। सन्मानस्यहेतुःअभिमानः।अहंमहान्इतिमनसाधार्यतेचेत्सन्मानःआवश्यकःभवति।एषःअभिमानःअस्माकंतथाचभगवतःमध्येअन्तरायम्आनयति।एनम्अभिमानंगमयितुंगुर्वाज्ञयावर्तनीयम्।गुरुःशरणंगन्तव्यः।तेनकथितानिसाधनानिकरणीयानिचेतिउपायाःसन्ति।किन्तुएतानिसाधनानिनिरभिमानेनकरणीयानि।एषःअभिमानःअतिसूक्ष्मः।‘अहंगुर्वाज्ञयाव्यवहरामि, तेनकथितानिसाधनानिकरोमि, ममअभिमानःगतः’इतिभाषणमपिअभिमानवाक्।वस्तुतःअभिमानयोग्यम्अस्माकंसविंधेकिंवर्तते? शक्तिःधनंकीर्तिःवा? जगतिअस्माकम्अपेक्षयानैकेमहान्तःजनाःसन्ति।परंविनोदःयत्भिक्षुकस्यअपिअभिमानःभवति।‘अहम्अमुकस्यगृहंभिक्षार्थंगतः, सःमाहट्इतिउक्त्वादूरीकृतवान्।तदारभ्यतस्यद्वारंनगतवान्अहम्!’एवंसःवदति।एषःअभिमानः, अपमानःवाकथमस्तिइतिअस्माभिःगवेषणीयम्।एतस्यमूलंकारणंदेहबुद्धिः।एषादेहबुद्धिःनाशनीया।कस्मिन्नपिवृक्षमूलेखाद्यम्अर्पयामःचेत्सःवृक्षःकथंम्रियेत? मांजनाःस्तुवन्तु, सन्मानंयच्छन्तु, अपशब्दान्वदन्तितर्हिदुःखम्अनुभवामिचेतिसर्वंदेहबुद्ध्यैखाद्यदानमेव।समीचीनमसमीचीनं, मानमपमानंचसर्वंदेवायसमर्पणीयम्।वस्तुतःकर्तृत्वंतस्मैदातव्यम्।इत्युक्तेकस्याःअपिकृतेःमनसिपरिणामःनभवेत्।व्यवहारेकश्चनअभिमानःअपेक्षितः।परंयत्कारणंतदर्थमेवसःभवेत्।स्वामिनःसेवकैःसहव्यवहरणेअभिमानःअपेक्षितः।परंतावदेवभवेत्।तेनमनःनपरिणमेत्।एनांदेहबुद्धिम्, एनम्अभिमानं, चगमयितुंसद्गुरोःभवितव्यम्. अन्यूनंबलेन‘अहंतस्य’इतिवक्तव्यम्।सद्गुरुःभवन्तम्अज्ञापयित्वाभवतःअभिमानंदूरीकुर्यात्। परमार्थेसत्पुरुषाणांशासनंभवेत्।तत्रपित्रोःकिमर्थंनाङ्गीकरणीयम्? यस्यमनःस्वनियन्त्रणेअस्ति, स्थिरंवर्ततेअथवासदाभगवत्समीपेविद्यतेतस्यशासनंविशिष्ठम्।अस्माकंदेहबुद्धेःरीतिःविलक्षणा।सुगुणोपासनानअभ्यस्ताअतःनक्रियते।अतिसरलम्अतःभगवन्नामनजप्यते।निश्शुल्कंकिमर्थंभोजनीयमितिमत्वामनुष्यःअन्नदानंनकरोति।एतादृशस्यजीवनंमोघम्! देहबुद्धिंसम्यक्कर्तुंसद्ग्रन्थवाचनमपेक्षितम्।उषःकालेईषत्प्रकाशःईषत्अन्धकारःचवर्तते।अस्माकंवर्तमानस्थितिःतादृशी।देहबुद्धेःतमसिभगवत्स्मरणस्यईषत्प्रकाशःविद्यते।एतस्यदेहबुद्धितमसःविनाशेनपूर्णःप्रकाशःवितनोतुंभगवदनुसन्धानेनविनाअन्यःकःउपायःभवितुमर्हति?

      • अहंकारस्यअभिमानस्यचपूर्णाहुतिःएवयथार्थःयज्ञः। ***

मे 8 – भगवतः अनुसन्धानं रक्षणीयम्। बहूनि दिनानि उपयुक्ते पादत्राणे त्रुटिते कतिपयवारं समीकृते चेदपि वारं वारं त्रुटत्येव। शरीरस्यापि तथैव वर्तते। जीर्णशरीरस्य किमपि बाध्यते एव। समीकृते पादत्राणे कश्चन कीलः यदि पादे तुदति तर्हि पादः रक्षणीयः भवति। तथैव आमयेन मनः खिद्यते चेद् रक्षणीयम्। सः मनसि न परिणमेत इति द्रष्टव्यम्। आत्मनः आमयस्य वृद्धत्वस्य च लाभः प्राप्तव्यः। काचित् पाचनपट्वी महिला यथा तुषाभ्यः सुव्यञ्जनं करोति तथा अस्माकं आमये अपि भगवदनुसन्धानं कल्पयितुं शिक्षणीयम्। अनुसन्धाने भवामः चेत् प्रपञ्चे आनन्दः वर्तते। समस्याभ्यः आपद्भ्यः चापि विनोदः लभ्येत। तर्त्रे सरलं तरणं न रोचते। सः कूर्देत निमज्जेत् तिर्यग् गच्छेत्। तथैव भगवदनुसन्धाने प्रपञ्चः अपि आनन्दं जनयेत्। कस्यापि विषयस्य अभिज्ञानेन तस्य भयं नश्यति। तथैव यावत् विषयान् न जानीमः तावत् ते पीडयन्ति। एतदर्थं यद् यद् वर्तते तत् तद् भगवदिच्छया एव वर्तते इति अवगम्य वृत्तेः नियन्त्रणं करणीयम्। परमार्थमार्गे वयमेव आत्मानम् अवरुणध्मः। आत्मनः वृत्तिः यत्र यत्र सञ्चरति तत्र तत्र भगवान् निवसति। अतः या कापि वृत्तिः उद्भवेत् भगवन्तं स्मरामः चेत् सा त्वरया विलीयते। सदैव उपास्या देवता स्मरणीया। तस्याः चरणयो: शिरः संस्थाप्य प्रार्थनीयम्, ‘हे भगवन्, भवत्प्राप्तिम् अवरोद्धार: एते विषयाः भवत्कृपां विना न दूरीभवन्ति। अद्ययावत् जगत् मया अनुभूतम्। भवत्प्राप्तिं विना क्वापि सुखं न विद्यते इति ज्ञात्वापि वृत्तिः विघ्नंजनयत्येव। मम अज्ञानित्वात् अहमेव आत्मानम् अवरुणध्मि। अतः भवतः इत्युक्ते मम एव स्वाभिज्ञानं भवेत्। तस्मिन् भवन्तमेव पश्येयम्। एषा एव मम जीवनस्य अन्तिमा इच्छा। भवत्कृपां विना तां पूरयितुंन शक्नोमि। अतः मम मनः भवत्चरणयोः दृढीभवेत् इति करोतु। एनं विना नाहं किमपि अपेक्षे। अधुना अहं भवदीयः। इतःपरं यद् भविष्यति तद् भवतः एव इच्छा इति मत्वा अहं जीविष्यामि। भवतः नाम स्मर्तुं निग्रहेण प्रयतिष्ये। मामात्मीयः इति वदतु।

    • वृत्तिः स्थिरा भवति चेत् समाधानं अन्वायाति। ****

9 मे - शुद्धः परिवेषः पवित्रमाचरणं च। अस्माकं गृहे शुद्धः शान्तः पवित्रः च परिवेषः अपेक्षितः। गृहमागन्ता प्रत्यागन्तुमेव न इच्छेत्। भगवदिच्छया प्रपञ्चः प्रवर्तते इति ज्ञात्वा तस्मिन् प्रपञ्चे विद्या, वैभवं, गृहसम्पद्, यशः चेति एते सर्वे लभ्येरन्। केनचित् राजयोगिना सदृशं सर्वमैश्वर्यं प्राप्नुवन्तु। परमिदं कुर्वतां भवताम् अन्तःकरणं भगवत्प्रेम्णा परिपूर्णं भवेत्। केनापि सह वादं न कुर्वन्तु। जगति सम्मानः बहु घातकः। तस्मिन् आसक्तः भवति चेत् मनुष्यः तम् अनुधावति। अनन्तरं येन मानः लब्धः तेन कार्यं न भवति, मानः अपि नश्यति च। जगति विद्यमानाः अजेयाः पुरुषाः अपि विषयेषु लिप्ताः भवन्ति। तत्रैव तेषां घातः भवति च। जगति ते प्रभाविणः भवेयुः, परं विषयाणां पुरतः ते हतप्रभाः भवन्ति। प्रेम्णि न लिप्ताः भवन्तु तथैव द्वेषमत्सरयोः अपि न निगृहीताः भवन्तु। द्वावपि समानौ घातकौ। प्रियः आप्तः मृतः वा यः आत्मनः विरुद्धं न्यायालयं गतः, सः मृतः, द्वयोरपि अशौचं समानम्। तद्वद् मनुष्यः प्रेम्णा वा द्वेषेण लिप्तः, द्वयोरपि हानिः समाना। भगवद्विस्मरणं केनापि कारणेन भवेत् तद् न योग्यम्। प्रपञ्चे सुखसाधनैः तद् भवेत् वा दुःखेन भवेत्। मिथ्याचारेण अलम्। तादृशेषु क्रियाकलापेषु मा पतन्तु। किमपि न कुर्वन्ति तर्हि अनुमतम्। परं मिथ्याचारः कदापि मास्तु। सर्वे मयि कृपां कुर्वन्तु। सम्यग् अनुभवेन कथयन् अस्मि। ‘बुवा’ मा भवन्तु। भगवत्स्मरणे स्वकर्तव्यं कृत्वा अखण्डं तस्य अनुसन्धानम् अनुवर्तयन्तु। अस्माकम् एतादृशीं वृत्तिं कल्पयितुं सत्सङ्गतिः अपेक्ष्यते। वयं सत्सङ्त्यां स्मः इति वदामः परम् अस्माकं वृत्तिः किमर्थं न समीचीना भवति? यतो हि सत्पुरुषेभ्यः यत् रोचते तद् वयं न स्वीकुर्मः। तेन एव अस्माकं वृत्तिः परिष्कृता न भवति। श्रीकृष्णः उद्धवाय ज्ञानं दत्त्वा गोपीः प्रति प्रेषितवान्। भगवन्नाम्नि ताः रताः आसन्। गोपीनां भगवन्नामप्रेम दृष्ट्वा उद्धवः आश्चर्यनिर्भरः। नाम्नि ताः भगवन्तं पश्यन्ति स्म। तद् दृष्ट्वा उद्धवः भगवन्तम् उक्तवान्,“देव, भवान् मह्यं ज्ञानं दत्तवान्। किन्तु भवतः भक्त्याः प्रेम ततोऽपि श्रेष्ठम्। तद् मह्यं ददातु”। नूनं नाम्नः महत्तमत्वं देववर्णनात् अपि अधिकम्। भवन्तः सर्वे अत्र आगताः। इतः रामाद् भवन्तः किमपि याचितुम् इच्छन्ति, तर्हि तस्य नाम्नः प्रेम भवन्तः याचन्ताम्। सर्वे नामस्मरणं कुर्वन्तु। आनन्देन भवन्तु। रामः कृपां कुर्यात् इति विश्वसन्तु।

        • अस्माकं जीवने सहजता अपेक्ष्यते। सहजतायां समाधानं वर्तते।****

मे१० - देहमनसाभवतुरामार्पणम्। भगवदुपासना।अपाकरोतिसर्वायातना।।चित्तेस्थिरता।भगवदुपासनायांनिश्चितता।।यदिदेहःअतिजीर्णः।तर्हिवासनावेगःअनिवारः।।इतिज्ञातेसति।भजनीयःरघुपतिः।।हृदयेकुर्वन्भगवद्ध्यानं।नामविनाकिमपिनोच्चारणम्।।तथैवव्यवहारपालनं।नकस्यापिमनःदयनीयम्।।एवंयस्यनियमः।तत्रनिवसतिरामः।।अहंरामस्यरामःमदीयः।इतिसर्वदाभवतुभावः।।एवंयेरामंध्यायन्ते।तेमह्यम्अतीवरोचन्ते।।अधुनाइतोपिनवक्तव्यं।रामंविनानकिमपिअस्तित्वम्।।यद्भवितव्यं।तद्भवत्येव।भगवदिच्छाएवप्रमाणम्।।इतिमनसिभाव्यते।उपासनाप्रवर्तते।।यस्यअखण्डारामसेवा।तस्यअहोधन्यामाता।।स्वार्थंविनारामसेवा।प्राप्तिःनास्तिततोपिवरा।।रामंस्थापयन्तुमनसि।निरन्तरंपूजनंचेतसि।।वाचाभगवन्नामजपनं।कायेनभगवत्सेवनम्।।चेतसिभगवद्ध्यानं।मनःसदारामार्पणं।ततोपिवरंनकिमपिभजनं।।उपासनाभवतुसुदृढा।सर्वदासमयंविना।।उपासनायांभवतुबलं।तेनभवतुमनःस्थिरम्।।यस्यअधीनेस्वजीवनं।तेनसहवासेनिरन्तरम्।।यद्यद्मयाकरणीयं।तत्रपरमात्मनःसाक्षित्वंभाव्यम्।।नत्यक्तव्यःधीरः।पार्श्वेसदारघुवीरः।।करोतुभगवच्चिन्तनं।तेनस्वस्यविस्मरणम्।।सर्वंरामाधीनम्।अहंनिमित्तकारणम्।।रामेभवतुचित्तंतथा।प्रपञ्चेइष्यतेअस्माभिःयथा।।प्रत्येकम्उपासकः।भवतुसदादक्षः।।अद्ययावत्कृताउपासना।नभवतुसाकदापिन्यूना।।सर्वेषांश्रोतव्यं।उपासनायाःदूरंनगन्तव्यम्।।देयादेयेममरामः।रामःमांपरितः।।रामंविनाजगति।नभवतुअन्यत्किमपि।।प्रमाणासद्गुरोःआज्ञा।एषाएवरामसेवा।।महान्तःऋषयः।यतिसाधुमुनयः।एतेषाम्एकाएवकृतिः।रामंविनानजीवस्थितिः।।रामेपूर्णःविश्वासः।नकरणीयःशरीरेत्रासः।।उपासनायांस्थातव्यम्।इदमेवरामसान्निध्यम्।।स्वार्थरहितासेवा।देवाधिदेवस्यप्राप्तिःतया।।यद्यद्भवति।पश्यतु,तद्रामःकरोति।एषःएकःविश्वासः।समाधानस्यउपायःनिश्चितः।।यत्रपरमात्माशास्ति।तत्रनकस्यापिगतिः।।अतःयत्रस्थापयतिईश्वरः।तत्रभवतुसमाहितः।।

      • चेतसिभगवद्ध्यानं।मनःसदारामार्पणं।ततोपिवरंनकिमपिभजनं।।****

मे 11 – स्वल्पं पठढनीयं परम् आचरणीयम्। बहु किमपि ज्ञातव्यम्, ज्ञानम् अर्जनीयम् चेति बहूनां जनानाम् आसक्तिः वर्तते। तद्विना ते अस्वस्थाः भवन्ति। इदं प्रकारान्तरेण व्यसनमेव। ‘अफू’ नामकं मादकं द्रव्यं यः खादति सः अमत्ततां सोढुं न शक्नोति। स्वल्पं द्रव्यं जीर्यते चेत् मत्तताप्राप्तिपर्यन्तम् अधिकाधिकं द्रव्यं सः अश्नाति। एतेन अधिकाधिकं द्रव्यं सः जीर्णं करोति। अन्ते सः एतावत् द्रव्यं खादति यत् तेनैव तस्य मृत्युः भवति। ज्ञानप्राप्तिव्यसनस्य अपि तथैव वर्तते। अतः स्वल्पमेव पठनीयम्। सम्यक् अवगन्तव्यम्। तथा च आचरणीयम्। अन्यथा आजन्म ज्ञानसम्पादने एव समयः गच्छेत्। आचरणेन विना हस्ते किमपि न लभ्येत। मनुष्याय भोजनार्थं विंशतिः-पञ्चविंशतिः निमेषाः पर्याप्ताः भवन्ति। किन्तु भुक्तम् अन्नं जीरयितुं पञ्च-षड् घण्टाः अपेक्षिताः। मनुष्यः सततं भुञ्जमानः एव वर्तेत तर्हि अजीर्णेन तस्य अस्वास्थ्यं भवेत्। तेन तस्य जीवनान्तः अपि भवितुम् अर्हति। अतः केवलं पठता एव न भवितव्यम्। अल्पं पठनीयम्। परम् आचरणे आनेतुं प्रयतनीयम्। केवलं पठनावगमनाभ्याम् उन्नतिः न भवति। तस्याचरणेन उन्नतिः सम्भवति। अतः केवलम् अवगमनस्य अपेक्षया आचरणे अधिकम् अवधातव्यम्। अस्माकं सङ्कुचितं मनः विशालं भवेत्, स्वार्थी स्वभावः नि:स्वार्थी भवेत् चेति वास्तवं वेदान्तरहस्यम्। विचारमात्रेण तत्वज्ञानं निश्चितं न लभ्यते। तदर्थं साधना अपेक्ष्यते। जगतः संशोधनं कर्तुं नानुधावन्तु। आत्मानं परिष्कुर्वन्तु। तदनु जगद् अपि सुसमीचीनं भवेत्। यदि आत्मानं न परिष्कुर्मः तर्हि जगद् न परिष्कृतं भवेदेव। वस्तु न सुखसाधनम्। भ्रमेण वयं तत् सुखरूपं मन्यामहे। परिणामतः वस्तुना सुखं प्राप्तुं प्रयत्नं विना अधिकाधिकं वस्तुप्राप्तुमेव वयं प्रयतामहे। अन्ततः दुःखिनः भवामः। कर्मारम्भे फलं लभ्यते उत न इति चिन्तया दुःखं भवति, कर्माचरणे फलासक्तं चित्तं कर्मक्लेशेन दुःखि भवति। कर्मसमाप्त्यनन्तरं यदि फलं न लभ्यते तर्हि दुःखम्। यदि लभ्यते तर्हि ततः नूतना आशा प्रादुर्भवति, फलप्राप्त्याः आनन्दं सा हन्ति। अतः दुःखमेव लभ्यते। सारांशेन आरम्भात् अन्तपर्यन्तं दुःखमेव हस्ते पतति। अतः फलापेक्षां परित्यज्य यदि कर्म कुर्मः तर्हि कर्मकरणे एव मनः समाधानं प्राप्नोति। परमार्थे साक्षात् व्यवहारः वर्तते। आश्वासनं न अनुमन्यते इति सर्वे सत्पुरुषाः कथयन्ति।

      • अधिकं मा पठन्तु। यत् स्वल्पं पठितं, तस्य मननं कुर्वन्तु, तस्य आचरणं कुर्वन्तु।******
मे 12 – कस्यामपि परिस्थित्यां वृत्तिः स्थिरा भवेत्।

अमानित्वं देहधर्मः। अन्येषां महत्त्वं संरक्ष्य आत्मनः महत्त्वं वर्धनीयम्। दम्भः मनसः धर्मः। अन्यान् वञ्चयितुं सः न भवेत्। आत्मनः कल्याणार्थमेव दम्भः वर्तते चेद् न चिन्ता। अहिंसा देहस्य मनसः च धर्मः। अहिंसा हेतौ अवलम्बिता। वाण्या कस्यापि मनः न दूषणीयम्, देहेन परपीडा न करणीया च। अन्येषां दोषदर्शनं हीनत्वलक्षणम्। लौकिके विद्यमानं महत्तमत्वम् एकस्य जन्मनः घातं करोति, परं दम्भहिंसे नैकेषां जन्मानां घातं कुरुतः। द्वेषेण हिंसा प्रवर्तते, अतः कस्यापि द्वेषः न करणीयः। कामक्रोधादयः सर्वे विकाराः परमेश्वरं दूरीकुर्वन्ति, परं वैरद्वेषसमौ परमार्थनाशकौ शत्रू न विद्येते। स्वार्थेन द्वेषः जायते। स्वार्थनिराकरणार्थं नामसदृशम् अन्यत् साधनं न विद्यते। अस्माकं वाग् अन्यान् शिक्षयितुं,स्वमहत्तमत्वं कल्पयितुं च न विद्यते। जिह्वया भाषितुं भोक्तुं च शक्नुमः। सदा सत्यं मधुरं च वक्तव्यम्। भोजनविषये जिह्वा स्वनियन्त्रणे भवेत्। आत्मनः चित्तशुद्धिं कृत्वा सत्पुरुषाणां गुणान् आचरणे आनेतुं प्रयतामहे। अभिमानस्य विषं यत्र वर्तते, तत्र नामस्मरणं करणीयम्। देवापेक्षया अपि नाममाहात्म्यम् अधिकं वर्तते। वृत्तिः उद्भवति चेद् नामस्मरणं योजनीयम्। हिरण्यकश्यपोः सविधे भगवान् नासीत् इति न, परं वृतिः अधिका वर्धते चेत् क्षेत्रं न सम्यक् दृश्यते तद्वत् तस्य जातम्। स्वात्मनि भगवान् वर्तते इति हिरण्यकश्यपुः विस्मृतवान्। तेन भगवता स्तम्भे दर्शनदानम् अनिवार्यं जातम्। अभिमानः यावान् आवश्यकः तावान् एव भवेत्। ‘अहं रामस्य’ इति अभिमानः धरणीयः। नामजपनम् अङ्गीकरणीयम्। ‘नारायणस्य दर्शनं भवेत्’ इति प्रल्हादेन न उक्तम्, ‘नामस्मरणं न त्यजामि’ इति सः उक्तवान्। बाल्यकाले वृत्तिः समीचीना भवति। बाल्येन कोऽपि दोषः, सर्वे लाभाः एव। बालकत्वेन विना भगवतः कृपास्तन्यं न लभामहे। अतः अस्माभिः भगवत्पुरतः बालकत्वेन भवितव्यम्। बालकत्वं न वयसि अवलम्बितम्। तत् अस्माकं वृत्त्यामवलम्बितम्। कस्यापि विषये दुर्विचाराः मनसि न आनेतव्याः। तेन अस्माकं मनः प्रदूषितं भवति। ‘मम गार्हस्थ्यं यथा कथञ्चित् भवेत्, परं भवतः विस्मरणं न भवेत्, इति करोतु’ इति प्रार्थना परमेश्वरम् अनन्यतया करणीया। मम विश्वासः वर्तते यत् सः भवतः साहाय्यार्थं निश्चयेन आगच्छेत्।

      • वृत्तिः स्थिरा कर्तुं सा स्थिरवस्तुनि लेपनीया। भगवान् एव एतादृक् एकं स्थिरवस्तु।****

मे 13 – आत्मानं परिष्कर्तुं प्रयतन्ताम्। वस्तुतः किमपि न करणीयम्। अहं किमपि करोमि अथ वा मया किमपि करणीयमिति न भावनीयमिति एव परमार्थः। देहेन मनसा च सततम् आन्दोलनं करणीयमिति अस्माकम् अभ्यासः जातः वर्तते। देहेन स्वस्थेन स्थातव्यमिति दुष्करं, मनसा स्थिरेण स्थातव्यमिति ततोऽपि दुष्करम्। तथा च देहेन कर्म कुर्वता मनसा स्थिरेण स्थातव्यमिति अतिदुष्करम्। वस्तुतः मनः स्वास्थ्यम् अपेक्षते। परं तत् प्राप्तुं साधनम् इत्युक्ते प्रयत्नाः अपेक्ष्यन्ते। मनःस्वास्थ्यभङ्गस्य त्रीणि कारणानि। एकं मनोविरुद्धं किमपि भवति। द्वितीयं स्वपूर्वकर्मणः स्मरणम्। तृतीयं श्वस्तनी चिन्ता। प्रत्येकं जनः स्वेच्छया सर्वं भवेत् इति वदेत् एव। तदनु सर्वे भवतः इच्छानुगुणं कथं व्यवहरेयुः? भवतः इच्छाविरुद्धं किमपि भवेदेव। अतः स्वास्थ्यं न भज्येत एतदर्थम् इच्छा एव नष्टव्या। अमुकं विषयं लभेय इति एषा बुद्धिः एव न भवेत्। लोभः त्यक्तव्यः। लोकेषणा परिहर्तव्या। यद् भवति तत् रामस्य इच्छया भवति इति चिन्तनीयम्। प्रत्येकं विषयः रामेण क्रियते इति मन्तव्यम्। इत्युक्ते अखण्डं भगवतः अनुसन्धाने स्थातव्यम्। अस्माकम् अहंता कियती गभीरा गता वर्तते इति पश्यन्तु। पुरतः दृश्यमानान् विषयान् सहजं न दृष्ट्वा अस्माकं दोषाणांकारणम् अन्येषु विना सङ्कोचम् आरोपयामः। कस्यचिद् अन्यस्य सङ्गत्या मम पुत्रः भ्रष्टः जातः इति वदामः, परं मम पुत्रः एव भ्रष्टः इति न अङ्गीकुर्मः। तत् वक्तुं लज्जाम् अनुभवामः अतः अन्यस्य पुत्राय दोषं दद्मः। स्वपुत्रः अस्माकं पुरतः सङ्गत्याः कारणेन स्खलितः भवति तर्हि सङ्गत्याः कियान् महान् परिणामः। यदि एतादृशः सङ्गत्याः परिणामः भवति तर्हि सत्सङ्गत्या अस्मासु परिष्कारः किमर्थं न दृश्यते? सत्सङ्गत्या अस्मासु निश्चयेन परिष्कारः भवेत्, परं तथा न दृश्यते। कुत्र समस्या वर्तते? एतस्य मुख्यं कारणं वर्तते यद् वयं परिष्कारार्थं न प्रयतामहे। वयं सर्वं जानीमः, परं प्रयत्नं न कुर्मः। वासनाजालात् मोचनार्थं वयं न प्रयतामहे। तेन वासनायां जनिं लभामहे, वासनायामेव जीवनान्तः भवति च। एतदर्थम्एकः एव निश्चितः उपायः। भगवन्तम् अनन्यभावेन शरणगमनम्।‘ हे राम, भवन्तं विना इतः मम मुक्तिः न विद्यते। भवान् यथा स्थापयति तथैव आनन्दं मन्ये। भवतः प्रेम लभे’ इति आर्ततया तस्मै कथनीयम्। सदैव तस्य नाम हृदये संस्थापनीयम्। सः उदारः परमात्मा भवत्सु कृपां कुर्यादेव इति विश्वसन्तु।

          • वासनां हन्तुं भगवतः अधिष्ठानमेव एकः उपायः।****

मे 14 – विषयाणां, लौकिकस्य च लोभः त्यक्तव्यः। वयं रामस्य भवामः चेद् अस्माकं चिन्तां सः करोति। अस्माकं रामीयभवने वयमेव अन्तरायाः। अस्माकं रुचिः एव विषयाणां लौकिकस्य च। स्वाभाविकं यद् एकस्य आसक्त्या अपरस्य विरक्तिः उत्पद्यते। कार्यार्थं गमनसमये दारपुत्रान् अपाकुर्मः नु? साधनासमये ते एव विक्षेपं जनयन्ति इति कथं वदामः? पत्नी, धनं च विघ्नं जनयतः इति बहुभिः सत्पुरुषैः कथितं विद्यते। तदनु एतयोः निर्माणमेव किमर्थं कृतिमिति कश्चन पृच्छेत्। तस्य उत्तरं विद्यते यद् अग्निपेटिकया चूल्हिं ज्वालयितुं शक्नुमः तथा च गृहमपि ज्वालयितुं शक्नुमः। यथा वयम् उपयुञ्ज्महेतथा शक्यम्। वस्तुतः भगवत्प्राप्तेः सिषाधयिषा एव अस्मासु न विद्यते। कश्चन माम् उक्तवान्, ‘अहं प्रपञ्चं त्यक्तुमिच्छामि’। अहम् उदतरम्, ‘केवलं प्रपञ्चत्यागेन भवान् वैराग्यं कथं प्राप्तुं शक्नोति? वैराग्येण सह विवेकः अपेक्ष्यते। भवता केवलम् अहंकारः त्यक्तः चेदपि पर्याप्तम्’। सत्कर्म अपि न बाधते इति न। दुष्कर्म वक्तुं लज्जामहे। परं सत्कर्म सर्वान् अभिमानेन वदामः। गतजन्मनि पापं कृतम् अतः एतादृशान् भोगान् भुञ्जे। ‘अधुना सत्कर्माणि करोमि तेनआगामिनि जन्मनि सुखं लप्स्ये’, इति वदामः। इत्युक्ते जन्ममृत्युचक्राद् न मुक्तिः, निगृहीतः एव जातः। दुष्कर्मणा पश्चात्तापेन कदाचिद् भगवतः स्मरणं भवेत्। परं सत्कर्मणाम् अहंकारः साधुजनमपि क्व नयेद् इति न जानीमः। राजा अपि सम्यग् मार्गं दर्शयितुं स्वेन सह उत्तमं जनं स्थापयति। भगवान् उद्धवं सत्समागमं करोतु इति उक्तवान्, इतोऽपि किम् अधिकमपेक्ष्यते। कारवेल्लं खादामः चेत् तिक्तरुचिः लभ्यते, तथैव विषयप्राप्त्या जीवनं मधुरं कथं भवेत्? प्रेम यदा उत्पद्येत तदा भक्तिं करोमि इति न वक्तव्यम्। विषयार्थं कियतः परिश्रमान् कुर्मः तथापि सुखं न लभ्यते, तदनु भगवन्नामस्मरणम् कृत्वा प्रेम नोत्पद्यते इति वचनं मूर्खता एव। विवाहात् प्राक् पञ्च-दश यूनः दर्शयामः परं विवाहानन्तरं तेषु एकः एव पतिः अन्येषां स्मरणमेव तस्याः न विद्यते, तद्वद् एकदा रामस्य भवामः चेद् इत्युक्ते रामेण सह विवाहः जातः चेद् विषयाणां प्रेम कथं विद्येत?

    • भगवन्नाम विषयद्वयार्थम् अस्माभिः अपेक्ष्यते। एकं प्रपञ्चस्वरूपम् अवगन्तुं। द्वितीयं भगवत्प्राप्त्यर्थम्।***

मे 15 – कस्यापि मनः असंपीड्य सर्वैः सह प्रेम्णा वर्तनीयम्। यः स्वल्पं वा धनं रक्षितुमिच्छति तेन ऋणं न करणीयम्। तदनु व्ययः न्यूनः करणीयः। तेन स्वाभाविकं धनं संचयेत्। सः एव नियमः प्रेमार्थं वर्तते। प्रेम वर्धयितुम्चेत् आदौ द्वेषबुद्धिः नष्टव्या। अनन्तरं प्रेमवर्धनं करणीयम्। अस्माकंप्रमादेनअपि कस्यापि मनः न दूयेत इति अवधातव्यम्। (अर्थो नावबुद्ध:) कश्चन दण्डेन ताडितः प्रकारान्तरेण तस्य देहे आघातः कृतः वातर्हि गच्छता कालेन तस्य व्रणः निर्गच्छेत् वेदना अपि शाम्येत् च। तं प्रणम्य क्षमां याचामहे चेत् सः कदाचित् क्षमाम् अपि कुर्यात्। परं मनःपीडनेनसमं दुष्करं कार्यं न विद्यते। मनःपीडनमित्युक्ते परमेश्वरस्यएव पीडनम्। यतो हि भगवता विभूतिकथनसमये इन्द्रियाणां मनश्चास्मि इति कथितं विद्यते। सत्यव्रतम् उत्तममेव। परं प्रत्येकं विषये सारासारविचारः अपेक्ष्यते। कश्चन यदि वदेत्, ‘अहं सत्यमेव जानामि। सत्यभाषणे माता,पिता,गुरुः,जनः,देवःवा कमपि न जानामि’ इति, तर्हि तं किं वदामः? केवलं सत्यपालने एतादृशानां पूजनीयविभूतीनाम्अवमाननस्य दशवारम् अपराधाः भवन्ति चेत् तत् सत्यं साधु वाइति कथं वक्तव्यम्? चौर्यार्थम् आगतस्य चोरस्य मनः न दूयेतइति मत्वा तस्य चौरकार्यमनुमतं तर्हि तत् कथं योग्यं भवेत्? सारांशेन प्रत्येकं विषये सारासारविचारः अपेक्ष्यते। चिन्तयन्तु, कस्यचन पितुः चत्वारः पुत्राः सन्ति। तेषु एकस्मै मधुरं रोचते। अन्यस्मै आम्लं रोचते। तृतीयाय तिक्तं रोचते। चतुर्थाय तैलयुक्तं रोचते। एतस्मात् रुचिवैचित्र्यात् ते यदि कलहम् आरभन्ते तर्हि तस्य शमनम् अशक्यमेव। कलहशमनार्थम् आदौ तैः स्वरुचिः दुर्लक्षणीया। तदनन्तरं प्रेमवर्धनार्थं यस्य एकस्य पितुः ते चत्वारः पुत्राः सः पिता अवधातव्यः। तेन स्वाभाविकं प्रथमविषयस्य विस्मरणेन वयं सर्वे बान्धवाः इति एकमेव भानं उद्भवेत्, प्रेमपोषणं भवेत्च।कस्यामपि परिस्थित्यां परस्परं सहकार्येण प्रेम्णा च स्थातव्यम् इति सारासारविचारस्य पालनं प्रत्येकं भ्रात्रा कृतं चेत् कस्यापि मनः न दूयेत। कुटुम्बे समाधानम् आनन्द: च उद्भवेत्।

      • साधकस्य गृहे एतादृशं प्रेम भवेत् यत् ततः गन्तारः पुनः कदा प्रत्यागच्छामः इति उत्कटतया इच्छेयुः।***

मे 16 – देहः परमार्थसाधनं मन्यन्ताम्। भवतां देहबुद्ध्याः विमोचनं सत्पुरुषाणां कार्यम्। भवद्भ्यः पुत्रः देयःद, रोगमुक्तिः करणीया चेत्युक्ते विषयाः अपि दातव्याः इति तेषां कार्यं न। यथा यथा वयं परमार्थमार्गेण अग्रे गच्छामः, तथा तथा देहबुद्धिः अस्मान् ततः प्रत्याक्रष्टुंप्रयतते। लौकिकविद्याप्राप्तिहेतुः बुद्धिः देहबुद्ध्या सह वर्तते। तां हत्वा सा शुद्धा करणीया। एतदर्थं भगवत्स्मरणं विना नान्यः उपायः। श्वा रात्रौ रक्षणार्थँ बहु उपयुक्तः। परं कियान् अपि सः अर्हः उपयुक्तः च भवेत्, तं स्वस्थालिकायां भोजनार्थं न स्वीकुर्मः। तद्वत् देहस्यापि वर्तते। यथा नारिकेलगर्भस्य रक्षणार्थं कवचः उपयुक्तः तथा परमार्थप्राप्त्यै देहः साधनम्। परं मनुष्यः ‘एषः देहः अहम् एव इति मत्वा व्यवहरति। वस्तुतः ‘वयं स्वदेहात् भिन्नाः स्मः’ इति पदे पदे दर्शयामः। ‘मम हस्तः’, ‘मम पादः’, ‘मम नेत्रं’, ‘मम मनः’, तथैव ‘मम जीवःअपि’ इति वयं वदामः। परं ‘देहः एव अहम्’ इति मत्वा व्यवहरामः। देहसम्बन्धिनः विषयान् एव याचामहे। तथा न करणीयम्। स्वदेहप्रीतिं नाशयितुं अन्येषु प्रेतव्यम्। प्रेतुम् अस्मत्सदृशः देहः एव आवश्यकः। रुदन्तं श्वानंदृष्ट्वा खिन्नता न आयाति परं रुदन्तं बालकं दृष्ट्वा खिद्यामहे। देवं प्रेतुं देवमपि देहधारिणंकल्पयामः। अतः देहप्रेम न्यूनीकर्तुं देहबुद्धिं क्षयितुं च सगुणमूर्तेः सद्गुरोः वा ध्यानं कुर्याम। यथा तत् ध्यानं दृढं भवति तथा वयम् आत्मानं विस्मरामः। तथा च देहातीताः भवामः चेत् सद्गुरोः वास्तवं स्वरूपं देहातीतं वर्तते इति जानीमः। यथा देहबुद्धिः नश्येत् तथा सद्गुरोः वास्तवम् अभिज्ञानं भवेत्। येन देहाभिमानः नाशितः तस्मै महान् ज्ञानी अपि असूयते। ‘अहं देहः’ इति ज्ञानस्य अपेक्षया अन्यत् किमपि अज्ञानं न। भगवदीयः भूत्वापि ‘अहं देहस्य’ इति वदामः एतावत् अनृतं न विद्यते। प्रपञ्चे आपदः आयान्ति, परं त्यक्तुं नेच्छामः। इतोऽपि भगवतः माया का? अतिसन्निकर्षेण देहविषयकं ममत्वं न अपगच्छति। परमात्मना सह वासः इत्युक्ते देवदर्शनस्य वा नामजपस्य संकल्पः कृतः चेत् देहस्य ममत्वं स्वल्पं स्वल्पं न्यूनीभवति। देहेन सह वासेन वयं देहस्य भवामः नाम्ना सह वासेन वयं परमात्मीयाःभवामः।

      • भगवत्स्मरणे देहबुद्ध्याः मरणं वर्तते।****

मे 17 –‘अहं भगवतः’ इति सदा भानं कल्पनीयम्। किमपि इच्छामः परं तद् यदि न लभ्यते तर्हि मनः आकुलं भवति। परं यदि सर्वं परमात्मा एव करोति इति जानीमः तर्हि चिन्ता न वर्तते। देवः वर्तते इति वदामः परं तथा वास्तवः विश्वासः विद्यते किम्? कश्चन निमज्जन् जनः पाषाणः हस्ते लभ्यते चेत् (सति सप्तमी वरा)सः अपि त्रायेत इति विश्वस्य तेन सह स्वयमपि निमज्जति। अतः वदामि देवः वर्तते इति अस्माकं वास्तवः विश्वासः न विद्यते। केवलं मुखेन भणामः एव। अन्यथा मनसि किमर्थं चिन्ता विद्यते? साक्षात् देवः पुरतः तिष्ठेत् तथापि चिन्ता, सुखं, दुःखं च न विलयं गच्छे।(?) यतो हि परमेश्वरे विद्यमानः अस्माकं विश्वासः कम्पमानः वर्तते। वस्तुतः यदि परमेश्वरेच्छा प्रमाणं इति यदि मन्यामहे तर्हि सुखदुःखस्य किमपि कारणमेव न विद्यतॆ। परमेश्वरः सर्वव्यापी वर्तते। यथा सः मयि विद्यते तथा अन्येषु अपि विद्यते। अतः अन्येन जनेन किमपि कृतं चेदपि वय़ं किमर्थं दुःखिताः भवामः। तदनु भावना एतादृशी भवेत् यत् अहं देवस्य अस्मि, सः मम रक्षकः वर्तते च। अतः केनापि कारणेन मम चिन्ता न भवेत् एव। इदं सर्वं नामस्मरणेन सिद्ध्येत्। अतः अद्यारभ्य अहं सततं नामस्मरणं करिष्यामि इति निश्चयः करणीयः। तथा प्रयत्नाः अपि करणीयाः। परमेश्वरं शरण गत्वा तं प्रार्थयामहे यत् मह्यं तथा आचरणबुद्धिं ददातु। आरम्भे कदाचित् मनसि बलम् योजनीयं भवेत्। बालकाः आरम्भे बलेन शालां प्रेषणीयाः भवन्ति। कन्यां पतिगृहं प्रेषयितुं तथैव करणीयं भवति। स्वल्पः वा नियमः करणीयः। उदाहरणार्थं भोजनात् प्राक्, रात्रौ निद्रासमये, प्रातः उत्थानावसरे, वा नामजपः करणीयः एव। भगवत्स्मरणं करणीयम् एव। तथा कृतं चेत् जीवने बहु लाभाय। प्रपञ्चे यथा प्रयत्नाः अपेक्षिताः तथा करणीयाः परं ‘भगवन्तमपि इच्छामि’ इति निरन्तरं वदामः। भगवत्प्राप्तेः इच्छा मनसि कल्पनीया। शनैः शनैः सा वर्धेत। तस्याः परिवर्तनं ध्यासे (निदिध्यासे) भवेत् च। चिन्तयन्तु, कश्चन जनः गृहं निर्मातुम् इच्छति। तथा वदन् सः धनसंचयं करोति। आभूषणकरणसमये सः निषेधयति। यतो हि सः गृहं निर्मातुम् इच्छति। इदं यथा सत्यं तथा केवलं भगवन्तम् इच्छामि इति सततं जपेन मनुष्यः सततं जल्पनेन अपि मनुष्यः केवलं प्रपञ्चे लिप्तः न भवेत् विषयान्संयततया उपभुञ्जेत। (अर्थो न बुद्ध:) वास्तवः ध्यासः (ध्यास: इति शब्दो नास्ति) यदा लभ्येत तदा वास्तवं वस्तुप्राप्तिं विना आनन्दं कथं मन्यामहे?

      • यस्य भगवति विश्वासः सः समाधानं निश्चयेन प्राप्नुयात्।***

मे 18 – वृत्तिः भगवति स्थिरा भवेत्। ‘मम देहः परमार्थमार्गे विक्षेपं जनयति’ इति वचनम् असत्यम्। देहः साहाय्यं करोति विक्षेपं जनयतिवा इति एतस्मिन् विषयद्वयेअपि तथ्यं न मन्तव्यम्। मम वृत्तिः क्व लगति तत् द्रष्टव्यम्। भगवद्भजने दिवसः यापनीयः इति चिन्तितं परं क्रीडालुः सुहृद् मिलितः। तस्य इच्छा कथं परिहरणीया इति विचिन्त्य क्रीडा आरब्धा, एवं भवति चेत् कथम्? अद्ययावत् माता बहून् परिश्रमान् कृतवती, पोषितवती, वर्धापितवती। सा एव माता विवाहानन्तरं विषयभोगे विघ्नं जनयति इति मत्वा अरिणा समंभासते। वस्तुतः द्वयोरपि देहयोः कोऽपि भेदः न जातः। केवलं वृत्त्यांपरिवर्तनं जातम्। विषयेषु एव आसक्तः जातः तर्हि किं करणीयम्? ‘कथमहं सुखी भविष्यामि’ इति अस्माभिः स्वकल्पनया निश्चितम्। परम् अस्मिन् जगति पूर्णं सुखं, पूर्णं दुःखं वा किमपि अस्ति किम्? सत्यं वा असत्यं वयं निश्चितं न जानीमः। परं तद्विषये वयं वृथा कल्पनाः कुर्मः। यदा अन्यः कश्चन अस्मान् पीडयति तदा तस्मिन् अर्धं कल्पना एव वर्तते। अवशिष्टम् अर्धम्। तद्विषये ‘तेन दत्तां पीडाम् अहं न स्वीकरोमि’ इति भावना भवेत्। तेन विषयः समाप्नोति। अस्माकं वृत्तिः सततं परिवर्तते। जगत् अपि सततं परिवर्तते। अतः अमुकपरिस्थित्या सुखं वा अमुकपरिस्थित्या दुःखं वा भवेत् इति न सत्यम्। यतो हि सुखं च दुःखं च अस्थिरे वर्तेते। शास्त्रनियमाः वृत्तिं स्थिरां कुर्वन्ति। भजनं, ग्रन्थपठनं, मन्दिरनिर्माणं च इत्यादीन् वृत्तिपरिष्करणार्थं न कुर्मः चेत् केवलं मनोविनोदः भवेत्, तेन न कोऽपि वास्तवः लाभः। रेलयानं प्रतिदिनं काशीं गच्छति। परं सा तस्य न तीर्थयात्रा। अन्तः उपविष्टानां जनानां यात्रा भवति। तेषां गङ्गास्नानं विश्वेश्वरदर्शनं च भवति। तथैव पूजापाठं केवलं देहेन कृत्वा परमार्थप्राप्तिः न भवति। अस्माकं वृत्तिः भगवति योजनीया। भगवद्रूपं सततं पुरतः स्थापयितुं न शक्नुमः। तस्य रूपस्मरणं न भवेत् तथापि तस्य नाम जपामि इति स्मरणं भवति चेदपि वृत्तेः परिष्करणं भवेत्। कस्मिञ्श्चित् लघुकणे नेत्रं गच्छति सति सः नयनंतुदति। तस्यापेक्षया वृत्तिः सूक्ष्मा। तां भगवान् एव सम्यग् जानाति। तत्र चातुर्यं कार्यं न करोति। प्राप्ते विषयभोगे यः न लिप्तः तस्मिन् भगवतः कृपा जाता इति ज्ञातव्यम्। भगवतः भिन्नं न स्थातव्यं, सः न विस्मर्तव्यः, तस्य स्मरणे एव अवस्थातव्यम्। निरन्तरं तस्य नाम जपनीयम् च इति अस्मिन् वास्तवं समाधानं शान्तिः सुखं च विद्यन्ते।

      • वृत्तेः स्थिरता, शान्तता च इति एतस्य नाम समाधानम्। भगवति सततं वृत्तेः अवस्थानम् इत्युक्ते समाधिः।***

मे 19 – भगवत्प्रेम वर्धयितुं कृतिः करणीया। जगति देयादेयम् इति नियमः। द्वौ काष्ठखण्डौयोजनीयौ चेत् प्रत्येकं खण्डस्य किञ्चित् अंशं न्यूनीकृत्य परस्परं योजयन्ति। तेन सम्यक् सन्धिः भवति। तद्वत् प्रत्येकं जनेन स्वल्पाः स्वदोषाः परित्यक्ताः चेत् परस्परप्रेम्णः सन्धिः सम्यक् भवेत्। एतदर्थं विवेकेन अवधानं दत्त्वा व्यवहारः अपेक्षितः।गृहे बहिः वा प्रेम्णा अनुशासनं भवेत्, न तु भयेन। यथा पुत्रस्य मातरि प्रेम वर्तते तथा अस्माभिः भगवान् प्रेतव्यः तथा वर्तनीयं च। नियमः वर्तते यत् यः भगवत्प्रेम्णा अन्तर्बाह्यः पूर्णः तस्मिन् भजने नृत्यति चेत् तस्य स्पर्शेण अन्यः अपि नृत्यति। भगवत्प्रेम एकं व्यसनम्। तत् यः लभते सः भाग्यवान् ननु! भगवत्प्रेममात्रं लभ्यते चेत् वाणींसर्वे उत्तमाः गुणाः आयान्ति। पुस्तकपठनेन वा केवलं बुद्ध्या जगतः अशाश्वतत्वं न कदापि ज्ञायेत। भगवत्प्रेम वर्धते चेत् तत् सहजं ज्ञायते। कस्यचन मनुष्यस्य मुखपाके सति सः भोक्तुं न शक्नोति। तस्य रुचिः एव नश्यति। तद्वत् अन्तः भगवत्प्रेम वर्तते तथापि बाह्यप्रपञ्चासक्त्या भगवन्नाम मधुरं न भासते। जिह्वां सम्यक्कर्तुम्औषधंस्वीकरणीयम्। तथैव भगवन्नाम्नि रुचिम् आनेतुं प्रपञ्चासक्तिः न्यूना करणीया। एतस्याः प्रपञ्चासक्त्याः त्यागः न्यूनीकरणं वा अतिदुष्करं कार्यम्। तदर्थं भगवद्विषये आत्मीयता, अनुसन्धानं सत्सङ्गः च इति त्रयः उपायाः। भगवान् बहुरूपी अनन्तरूपेषु नट: च वर्तते। अतः तं प्राप्तुं नैकानि साधनानि स्युः। प्रत्येकं जनस्य मनोरचनानुकूलं साधनं भवितुमर्हति। परं सर्वेषु साधनेषु भगवत्प्रेम समानम्। कस्यापि साधनस्य भगवत्प्रेम एव प्राणः। तत् प्रेम याचितुं सततं प्रार्थना करणीया। यः भगवत्प्रेम लभते सः सृष्टिं कौतुकेन पश्येत्। सत्यं भगवत्प्रेम एकदा लभ्यते चेत् कोऽपि तत् अवरोद्धुं न शक्नोति। भगवन्नामजपने नीतिः पथ्यम्। यः नीत्या व्यवहरेत् तस्य भगवत्प्रेम वर्धेत। भगवति अत्यन्ता निष्ठा भवेत्। प्रेम भवेत्। भगवान् न कष्टसाध्यः, सः तु सहजसाध्यः। हीनतमः अज्ञतमः अपि भगवन्तं प्राप्तुं शक्नोति।

        • भगवत्प्रेम प्राप्तुं नामजपःएव साधनम्।****

मे२०–भगवत्स्मरणेगार्हस्थ्यंकरणीयम्। दुःखस्यमूलंकारणं।स्मरणंरघुनन्दनविहीनम्।।सर्वदुःखानांमूलं।भगवतःदूरंवयम्।।रामात्ऋतेगार्हस्थ्येनसुखं।यतोहिगार्हस्थ्यंनितरांदुःखमयम्।।अङ्गारेणहस्तःकृष्णः।तेनखिन्नःजातः।यस्ययःधर्मःतेनसःअनुकृतः।किन्तुअस्माभिःनज्ञातः।तथाप्रपञ्चःदुःखमयः।भगवन्तंविनाव्यर्थःजातः।।यद्यपिसम्मानः,जगदैश्वर्यंलब्धं।रामरायंविनानसमाधानम्।।जगतियत्वैभवं।सर्वंयद्यपि प्राप्तं।तथापिसर्वंमोघं।यदिनलभतेरामम्।।परमात्मनःविस्मरणं।सर्वस्यमूलंबीजम्।।चिन्ता,अहङ्कारः।भीतिःमनःक्षोभः।एषःतस्यैवविस्तारः।।सारांशेनतिख्तंबीजम्उप्तं।नप्राप्तंमधुरंफलम्।।चिन्ताभीतिः।कारणंभगवतःविस्मृतिः।।प्रपञ्चेलाभःहानिः।भगवन्तंदूरंकरोति।।व्यवहारः, सद्वासना, सदाचरणं।लौकिकः, संततिः, सम्पद्, शास्त्रमननं।सर्वंरामंविनामन्येशून्यम्।।संततिः, सम्पद्, लौकिकं।सर्वंवैभवंयद्यपिप्राप्तं।तथापिअपहासःविनारामम्।।प्रपञ्चेसदादक्षः।नभवेत्रामविस्मरः।सुखीएवभवतिसः।।सर्वेकुर्वन्तुगार्हस्थ्यं।किन्तुसदास्मरन्तुरामम्।। सर्वथाभगवदीयःभवतु।अहंत्वं, ममत्वंचत्यजतु।।भगवतःभूत्वाअवस्थानं।अन्यत्किमपिनकरणीयम्।।‘नाहंकर्ता’मत्वाकृतिः।तेननबाधतेकलिः।।दुष्टाभिमानेनगृहीतः।कलिःतस्यस्वामीजातः।।यत्रकलेःप्रवेशः।रामःदूरंततः।।भगवतःस्मरणेन।कोपिउद्योगःअवधानेन।मुख्यसाधनरूपेण।करणीयःगृहस्थेन।।नाहंकर्ता, कर्तारामः।मनसिनिधायएषःभावः।करणीयःव्यवहारः।।रामात्परंकल्याणं।निश्चयेनघातःएवंयस्यमतं।यावत्चिन्तनेकर्ताहं।तावत्रामचरणेनमनःलग्नम्।।अहंकारःअभिमानःचत्यक्तव्यः।सुखम्अनुधावेत्इतिभवतुविश्वासः।।यस्यसर्वंरामार्पणं।तत्रअहंकारस्यनस्थानम्।।पापंनलभ्येत।यदिकर्तारामःइतिमन्येत।।रामसेवायाःपरंकल्याणं।जगतिनास्तिसत्यंत्रिवारम्।।रामायभवतुअनन्यशरणं।दुःखंदूरीकर्तुंमुख्यंसाधनम्।।मनसाभवतिभगवतः।सार्थकंजीवतिसः।।महत्तस्यभाग्यं।यःयोजयतिरामम्।।देहःयस्यरामायअर्पितः।सःधन्यःएवधन्यः।।

      • यस्यअखण्डंभगवतःस्मरणं।सःदूरीकरोतिदुःखकारणम्।****

मे 21 – निग्रहेण नामस्मरणं करणीयम्। नामस्मरणसदृशं सूक्ष्मं स्थूलं च साधनं न विद्यते। काचिद् वार्ता अत्यन्तम् आर्ततया कथनीया चेद्‘आमूलबन्धात् कथयति’ इति वदामः तथैव नाम अपि आमूलबन्धात् उच्चरणीयम्। यतो हि सर्वासां वासनानाम् उद्भवः तत्रैव वर्तते। नाम तत्रैव स्थापितं चेत् सहजं वासनाक्षयः भवेत्। वृथा उत्तानं नामस्मरणं न करणीयम्। निग्रहेण अन्तःकरणपूर्वकं च तत् करणीयम्। तेन एव कल्याणं भवेत्। वासना मृता चेत् विषयान् कथं भुञ्जेयम् इति चिन्ता मास्तु। भगवतः शासनं ज्ञातं चेत् सः सहजं ज्ञातुं शक्येत। यः भगवन्तं जानाति सः एव सत्पुरुषः। ग्रामंगते सति वयं प्रतिष्ठितस्य जनस्य पृच्छां कुर्मः। पाटिलः वर्तते इति जनाः कथयन्ति, अतः तेन वयं मिलामः। परं परमात्मा निर्गुणः, निराकारः च । तं कथं जानीमः इति न ज्ञायते। ‘अनवगम्यमाना:सर्वे विषयाः मिथ्या’ इति वदामः किम्? भगवद्विषये अस्माकं सिषाधयिषा पूर्णत्वस्य सिषाधयिषा वर्तते। नास्तिकजनः अपि पूर्णत्वम् इच्छति। तदनु एतस्याः सिषाधयिषायाः औषधिः भगवत्प्राप्तिः एव। कोऽपि विषयः सिषाधयिषां विना सम्यक् न भवति। प्रत्येकं जीवस्य सिषाधयिषा भवति, परं कस्मिन् विषये सिषाधयिषा भवेत् इत्येव प्रमादः भवति। सा विषयाणां कृते वर्तते अतः जीवः वास्तवं समाधानं न लभते। अस्माकं जन्म वासनायां भवति। अतः वासनातृप्तेः एषणा स्वाभाविकी वर्तते। तां ततः निष्कास्य भगवति योजयेम इति एव मनुष्यस्य कर्तृत्वम्। ‘किं कृतं चेत् अहं भगवतः भविष्यामि?’ इति सिषाधयिषा भवेत्। तथा न वर्तते चेत् अस्माकं दोषः जातः। वासनाम् अनुधावन्तीं सिषाधयिषां भगवति योजयितुमेव सर्वाणि साधनानि। आर्तता उद्भूयते चेत् भगवान् साहाय्यं ददाति। जगति किमपि दुःखं न वर्तते येन भगवदानन्दः नष्ट: भवेत्। प्रत्येकं जनः आनन्दम् इच्छति। आनन्दः एव भगवतः स्वरूपम्। मूलतः विद्यमानम् आनन्दस्वरूपम् अस्माभिः अभ्यासेन वर्धनीयम्। भगवान् यदि अस्माकं मूलस्वरूपं तर्हि तस्य अभ्यासस्य किं प्रयोजनम्? तस्य कारणं यत् अस्माकं भगवतः विस्मरणं जातम् अस्ति। भगवान् प्रेममूर्तिः। अतः मन्दिरे सर्वत्र प्रेम पूरणीयम्। अन्यः किं करोति इति न दृष्ट्वा ‘वयं किं कुर्याम’ इति आदौ चिन्तयन्तु।

      • भगवन्नामजपनं ज्ञानस्य एव लक्षणम्। भगवन्तं ध्यायामः चेत् आत्मज्ञानं सहजं भवेत्।***

मे 22 – गुरौ अत्यन्ताश्रद्धा विधीयताम्। मल्लक्रीडया संघर्षेण च शरीरबलं वर्धते। गणितस्य कठिनानि उदाहरणानिसमाधायबुद्धिबलं वर्धते। तथैव प्राप्तायां परिस्थित्यां समाधानेन स्थित्वा आत्मिकं बलं वर्धते। आत्मिकबलवर्धनम् नाम देहबुद्धिक्षयः। तदर्थमेव परमेश्वरः सङ्कटानि प्रेषयति। परं भवन्तः तेभ्यः एव बिभ्यति एतदर्थं किं वक्तव्यम्? अतः सङ्कटानां परमेश्वरेण प्रतिस्वीकरणं भवतः अहिताय। भवतः हितं सः सम्यक् जानाति। भोगानां समाधानेन भोजनम्।। रोगः भवति चेत् औषधिः स्वीकरणीय:। परम्औषधौ गुणः परमात्मना एव स्थापितः वर्तते नु? औषधिः अपि निश्चयेन कापंर्यं करोति एव इति वर्तते किम्? एकस्मिन् करोति। अपरस्मिन् न करोति। यथा कस्यचित् हितं वर्तते तथा तस्य परमेश्वरः करोति, इति अवधातव्यम्। भवद्भिः एकमेव करणीयम्। परमात्मा शरणं गत्वा, ‘ इमंभोगं भोक्तुं मह्यं शक्तिं ददातु। समाधानं न भज्येत। भवतः सततं स्मरणं भवेत्’ इति प्रार्थना करणीया। व्याधिः भोजनीयः तर्हि समाधानेन किमर्थं न? प्रारब्धस्य भवति विद्यमानम् ऋणं तावत् न्यूनं भवेत् ननु! व्याधिः आयाति चेत् सः उपेक्षणीयः। तेन सहजं सः न्यूनः भवेत्। अहम् इत्युक्ते अमुकः विशिष्ट: इति अस्माकं स्वविषये निश्चितता वर्तते। तथैव देवः वर्तते इति निश्चितता भवेत्। स्वसद्गुरुः देवः एव वर्तते इति अस्माकं विश्वासः जातः चेत् अस्माकं सद्गुरौ भावः वर्तते इति वक्तुं शक्नुमः। यां मम सेवां भवन्तः कुर्वन्ति, सा भवतां देहबुद्धेः सेवा। भवद्भ्यः यत् रोचते तत् भवद्भिः कृतम्। वस्तुतः मम सेवा इत्युक्ते मह्यं यत् रोचते तत् करणीयम्। मम आज्ञापालनं करणीयम्। नामस्मरणं करणीयम्। सर्वेषु भूतेषु भगवद्भावं दृष्ट्वा कस्यापि मनः न दूषणीयम्। परमात्मा एव सर्वं करोति इति भावनीयम्। मम कथनं न परिणमते तस्य कारणद्वयं भवितुमर्हति। एकं भवतां मनःपरिवर्तनसामर्थ्यं मयि नास्ति। द्वितीयं भवन्तः अभ्यासं न कुर्वन्ति। परमार्थे सहसा परिवर्तनं न योग्यम्। कश्चन क्रोधी मनुष्यः सहसा शान्तः जातः तर्हि तत् न योग्यम्। आत्मनि शनैः शनैः परिवर्तनं भवेत् तथा च तत् विवेकेन साधनीयम्।

      • भजनं पूजनं नामस्मरणं चेत्यादि वयं कुर्मः तत् मनःपर्यन्तं गच्छेत् तदा एव तस्य योग्यः परिणामः शीघ्रं दृश्येत। ****

मे 23 – देवस्य कृते आत्मानं विस्मरन्तु। प्रतिदिनं एकवारं वा भवन्तः आत्मानं विस्मरन्ति वा न? साम्प्रतं वयम् आत्मानं विस्मरामः परं तत् विषयाणां कृते।स्वत्वंविस्मरणीयं परं विषयाणां कृते न। कदाचित् आनन्दवार्तां श्रुत्वा वयं किं कुर्मः इति एव न जानीमः इति भवति। तदा वयं भाने न भवामः। दुःखदां वार्तां श्रुत्वापि तथैव भवति। सारांशेन विषयाधीने सति वयं देहं विस्मृत्य विषयान् भुञ्ज्महे। क्रोधविषये अपि तथैव वर्तते। विषयार्थं देहभानविस्मरणं कदापि असमीचीनमेव, परं देवाय यदि आत्मानं विस्मरामः तर्हि अत्युत्तमम्। भजनं देहभानं विस्मृत्य करणीयम्। अधुना तथा वयं कुर्मः किम्? कश्चन ताले प्रमदति चेत् वयं कुप्यामः। तद् न सत्यं भजनम्। अतः भजने अहं देवस्य पुरतः अस्मि तथा च आवयोः मध्ये अन्यः कोऽपि न वर्तते इति मत्वा भजनीयम्। तथैव अभ्यासः करणीयः। तेन देहभावं विस्मर्तुं शक्नुमः। संसारे कोऽहं इति अविस्मृत्य संसारः करणीयः। कदापि विषयाधीनेन अभूत्वा प्रपञ्चः करणीयः। आत्मानं संस्मृत्य प्रपञ्चं कुर्मः चेत् सः न बाधते। व्यवहारे कामः क्रोधः,लोभः च इति सर्वे भवेयुः परं अस्माभिः तेषाम् अधीनं न भवितव्यम्। ते नियन्त्रणे भवेयुः। तेन देहभावः सहजं नश्येत्। इदं सर्वं साधयितुं परमेश्वरः शरणं गन्तव्यः। एषः एव एकः सरलः मार्गः। तदर्थं नामस्मरणमेव साधनम्। केचनचतुर्विंशतिःवर्षाणि साधनां कृत्वा लाभः न जातः इति वदन्ति। अस्मिन् न कोऽपि सारः इति विचिन्त्य साधनां त्यजन्ति। तदनु एते जनाः असाराः गुरुः अर्थहीनःवा? सत्यं तु वयमेव एतदर्थं कारणीभूताः इति दृढम् अवगन्तव्यम्। संन्यासः स्वीकरणीयः चेत् भार्यां स्वीकृत्य कथं शक्यते तथैव विषयैः सह गुरुं प्रति गच्छामः चेत् गुरोः सत्यं मेलनं कथं भवितुम् अर्हति? न शक्यम्,. अतः गुरुः यथा कथयति तथा साधनम् आदौ करणीयम्। तेन चित्तं शुद्धं भवेत्। तदनन्तरं गुरोः वास्तवं मेलनं भवति। अतः अस्माभिः सः सत्यं समाधानं याचनीयः। तस्य प्राप्तेः अनन्तरं याचनार्थं किम् अवशिष्टं वर्तते? तदनु सः यस्यां स्थित्यां स्थापयति तस्यां समाधानमेव लभ्यते। देहभोगस्य न कापि चिन्ता भवति। तद्विषये जिहासा अपि न अवशिष्यते।

        • परमात्मस्मरणे विषयाणां विस्मरणम्।****
मे 24 – नाम प्राणैः सहअस्माभिः कल्पनीयम्।

अस्मभ्यं दत्ता जिह्वा यदि नामस्मरणं विना उपयुक्ता तर्हि समीचीनं भवेत् किम्? यत्करणेन देवस्य प्राप्तिः भवति, तत् न कृत्वा अन्यविषयेषु जल्पनेन समयः यापितः तर्हि कः लाभः? भवन्तः अभ्यासं कुर्वन्ति। अभ्यासार्थं स्वीकृतानि पुस्तकानि केवलम्उपाधानरूपेण उपयुक्तानि तर्हि अभ्यासः भवेत् वा? अतः वदामि अस्मभ्यं दत्ता जिह्वा नामस्मरणार्थम् उपयोक्तव्या। स्वास्थ्यंसम्यक् वर्तते, सुदृढानि अङ्गानि सन्ति तानि देवप्राप्त्यर्थं न उपयुक्तानि तर्हि तेषाम्अविद्यमानेन का हानिः?ब्रह्मानन्दस्वामिनः उदाहरणं पुरत: दृष्टवा अपि एतादृशं किमर्थं कुर्वन्ति? तैः किं कृतं तत् पश्यन्तु। तैः नामस्मरणं विना किमपि न कृतम्। तैः प्राणैः सह नामस्मरणं कृतम्। भवन्तः तावत् कर्तुं न शक्ष्यन्ति तर्हि देहे यथा प्रेम कुर्वन्ति तथा नाम्नि कुर्वन्तु। साम्प्रतं कलियुगस्य अनुदिवसं देवे विद्यमानः श्रद्धाभावः नश्यमानः अस्ति। अतः अस्मिन् समये अवधातव्यम्। अश्रद्धा उत्पद्यते चेत् अस्माकं पापमेव विक्षिपति इति मन्तव्यम्। तदा नामस्मरणं कुर्वन्तु। मयि व्यवहारविषये न विश्वसन्तु, परं नामस्मऱणं कर्तुं सूचयामि तस्मिन् विश्वसन्तु। नाम व्यवहारे न उपयोक्तव्यम्। नामस्मरणं नाम्नः कृते एव कुर्वन्तु। तेन एव वास्तवः आनन्दः लभ्येत। दिने कियान् समयः नामस्मरणे यापितः इत्येतद्विषये प्रतिदिनं चिन्तयन्तु। कश्चित् समयः नामस्मरणे यापनीयः इति निश्चिन्वन्तु। तेन विश्वासः वर्धेत। वास्तवं समाधानं भवन्तः नाम्नि एव प्राप्नुयुः। भगवतः नाम स्वाभाविकं स्वयम्भूः च वर्तते। नामविषये संशयः विकल्पः वा उद्भवेत् चेदपि नामस्मरणम् आग्रहेण कुर्वन्तु। सर्वे संशयाः सहजं नश्यन्ति। वस्तुतः भगवन्नाम वित्तकोशे स्थापितेन धनेन सदृशं वर्तते। प्रसङ्गे तत् निश्चयेन उपयुक्तं भवति। विकल्पानां निराकरणार्थं नाम एव कुञ्चिका। भगवन्तम् अनन्यं शरणं गत्वा ‘भवतः नामविषये प्रेम मह्यं ददातु’ इति आर्ततया प्रार्थना करणीया। तेन नामप्रेम सहजं वर्धेत भगवद्दर्शनं भवेत् च। वासनया मम आनन्दभङ्गः भवति। इत्युक्ते वासना मम आनन्दस्य चौर्यमेव करोति। यत्समाधानार्थं मम प्रयत्नाः विद्यन्ते तत् समाधानमेव वासना अपहरति। नामस्मरणेन एतस्याः वासनायाः कृते योग्या दिक् लभ्यते। अतः सदा सर्वदा नाम्नि भवति चेत् शनैः शनैः तस्याः अन्त:भवति । केवलम् आनन्दः अवशिष्यते।

      • अस्माकं जिह्वायाः नामजपनस्य अभ्यासः कारणीयः। आरम्भे सा विस्मरेत्। परं अभ्यासेन सहजं स्मरेत्।***

मे 25 – आनन्दं प्राप्तुं वासना भगवति नियोजनीया। गृहे सर्वेण हसता, क्रीडता, आनन्देन च भवितव्यम् खलु। अस्माकं वृत्तिः एतादृशी भवेत् यत् यः आनन्दम् इच्छति सः अस्माकं प्रति धावेत्। अन्यां सम्पदं कियतीम् अपि दद्मः चेत् न पर्याप्ता भवति। परं वृत्त्यानन्दः कदापि न समाप्नोति। जीवनं मूलतः आनन्दमयं वर्तते। सृष्टिक्रमंतेनअनुवर्त्यतेइतिपश्यामःचेत्जीवनंसुखमयंभवति।आनन्दः सर्वत्रव्यापृतः।अतिविशालः। देहबुद्ध्याः मरणानन्तरं सः लभ्यते। आनन्दप्राप्तिः अति सरला। इदं ज्ञात्वा अस्माभिः अपि सरलतया भवितव्यम्। उपाधिना वयं जडाः जाताः। अतः अस्माभिः सरलेन भवितव्यम्। वयं उपाधिना जडाः जाताः स्म। अतः वयं तरलाः भवेम। सर्वं जगत् आनन्दम् इच्छति। अतः कस्यामपि स्थित्याम् आनन्दः रक्षणीयः। आनन्दः शाश्वतः, परं वयं विषये एव आनन्दं कल्पयामः। तेन वास्तवं शाश्वतम् आनन्दं वयं न लभामहे। विस्फोट: आयाति चेत् कण्डू: भवति। कण्डूयनेन रुधिरम् आयाति तथापि कश्चन आनन्दः लभ्यते। अतः सततं कण्डूयनं योग्यं किम्?अस्थिखण्डयुतेन मुखेन श्वा स्वस्यैव रुधिरं लेलिह्यते। ततः किञ्चित् रुधिरम् अधः भूमौ पतित्वा न्यूनं भवति तथापि सः अस्थिखण्डं न त्यजति। विषयस्य आनन्दः एतादृशः भवति। वस्तुमात्रस्य अभावसमये भूयमानः आनन्दः एव परमात्मनः व्यक्तरूपम्। वासनां भगवन्तं प्रति योजनेन आनन्दं विना किं लभ्येत? वस्तुतः वासना अग्निसदृशी विद्यते। येन अग्निना रुचिकरम्उष्णं भोजनं कर्तुं शक्यते तेनैव गृहमपि दह्यते। तद्वत् वासना भगवति योजयामः चेत् अस्मान् आनन्दमयान् करोति, परं विषयेषु योजयामः चेत् दुःखसागरे पातयति। वासना प्रतिदिनं नूतनीं क्रीडां दर्शयति। इत्युक्ते क्रीडा पुरातनी परं वासनायाः रूपं नूतनम्। वासना इत्युक्ते अभिमानः अहंकारः वा। एषः मनुष्यरिपुः आनन्दं भग्नं करोति। वासनया चित्तं समाधानं न प्राप्नोति, इति ज्ञात्वा अपि वासनावेगः एतावान् बलशाली वर्तते यत् अन्तिमश्वासपर्यन्तं सः नशाम्यति। येन वासना जिता तेन भगवत्कृपा एव प्राप्ता। वासनां जेतुं भगवन्नामस्मरणसदृशः उपायः न विद्यते। वासनां विना कर्म इत्युक्ते संन्यासः। यत्र वासना समाप्ता तत्र आनन्दः एव वर्तते।

        • चिरकालं स्थितः आनन्दः वस्तुविहीनः वर्तते।***

मे 26 – भगवतः स्मरणमेव सद्बुद्धिः। परमेश्वरः सर्वत्र व्यापृतः। सः सर्वविश्वव्यापी। तदनु तस्य अस्तित्वस्य भानं सर्वे किमर्थं न प्राप्नुवन्ति? यस्य भावना प्रगल्भा सः भगवतः अस्तित्वम् अनुभवति, न अन्ये। अतः तादृशी भावनाआवश्यकी। तस्याः उद्भवार्थं परमेश्वरस्य स्मरणम् अपेक्ष्यते। ‘अहं नामस्मरणं करोमि’ इति यः वदति सः मयि उपकारान् करोति इति मन्ये। यतो हि यः नामस्मरणं करोति सः आत्मोद्धारं करोति इत्युक्ते पर्यायेन मयि उपकारान् एव करोति। बुद्धिवादिनाम् एका शङ्का वर्तते यत् यदि परमेश्वरः एव बुद्धिदाता तर्हि दुर्बुद्धेः दोषः मानवस्य कथम्? एतस्य उत्तरं वदामि। बुद्धिदाता परमेश्वरः एव इति पूर्णं सत्यम्, परं सा बुद्धिः सद्बुद्धौ दुर्बुद्धौ वा किमर्थं परिणमते इति द्रष्टव्यम्। प्रकाशस्य अन्धकारस्य वा कारणं सूर्यः एव। सूर्यस्य अस्तित्वं प्रकाशस्य नास्तित्वम् अन्धकारस्य च कारणम्। तद्वत् भगवतः स्मरणं सद्बुद्धेः, विस्मरणं दुर्बुद्धेः च कारणं विद्यते। अतः परमेश्वरः बुद्धिदाता इति सत्यं परं सद्बुद्धिः भवेत् वा दुर्बुद्धिः भवेत् इति एतत् मनुष्यस्य हस्ते एव वर्तते। भगवतः स्मरणं वर्तते चेत् दुर्बुद्धिः न भवेत्। अतः सदा भगवान् स्मरणीयः। तदर्थम् उपायः विद्यते नामस्मरणम्। सर्वं त्यक्त्वा भगवत्स्मरणे भवितव्यम्। परं सम्यग्व्यवहारपूर्वकं भगवदनुसन्धानं भवति चेत् ततोपि उत्तमम्। भगवत्कृपया प्राप्तः अद्यतनदिवसः तस्य कृते एव योजनीयः। भगवदनुसन्धानेन दिवसः तस्य कृते योजितः भवति। एतेन प्रकारेण अद्यतनदिवसः भगवदनुसन्धाने यापितः चेत् अस्माकं नित्यःदीपोत्सवः एव। अनुसन्धाने स्त्री, पुरुषः, श्रीमान्, दरिद्रःचेति एतादृशाः भेदाः न सन्ति। इतरसाधनैः यत् सिद्ध्यति तत् केवलम् अनुसन्धानेन सिद्ध्यति। एषः अस्य युगस्य महिमा।इतरविषयाः मनसि न आगच्छेयु:, मनः च एकस्मिन् एव विषये एकाग्रं भवेत् इत्येव अनुसन्धानम्।भगवतः अनुसन्धानम् एव वास्तवं पुण्यम्। एषः एव जीवने प्राप्तव्यः एकमेव विषय़ः। एकं भगवतः अनुसन्धानं कल्पयन्तु इतरसर्वे गुणाः अन्वायान्ति। भगवान् अनन्यभावेन प्रार्थनीयः यत् ‘हे देव, प्रारब्धेन आगताः भोगाः आगच्छेयुः, परं भगवतः अनुसन्धानं क्षणमपि न निर्गच्छेत्’।

      • नामस्मरणम् अनुसन्धानं च चतुर्विशतिःहोरा: सततं प्रवर्तेत। अन्यः कश्चित् विषयः समये न जातः चेत् तस्य आग्रहः न भवेत्। ****

मे27 – अभिमानरहितः परोपकारः एव भगवतः सेवा। प्रत्येकं मनुष्यस्य परोपकारबुद्धिः अत्यावश्यकी। परं परोपकारं कः कर्तुं शक्नुयात्, केन करणीयः चेति चिन्तनीयः विषयः। जलपूर्णात् क्षेत्रात् जलं यदि बहिः वहति तर्हि तत् अन्यत्र उपयोक्तुं शक्यते, हितकरमपि वर्ततेच। इतरक्षेत्रेषु तथा न वर्तते। तत्र पर्याप्तं जलं कथं लभ्येत इत्येव आदौ चिन्तनीयम्। परोपकारं कर्तुम् उद्युक्तेन जनेन एषा एव दृष्टिः कल्पनीया। स्वोद्धारं कृत्वा जगत्कल्याणार्थं जातानां महात्मानाम् एव परोपकारस्य अधिकारः। तदनु प्रश्नः उद्भवति यत् इतरैः जनैः परोपकारबुद्धिः कल्पनीया वा न, तथा प्रयत्नाः करणीयाः वा न ? परोपकारबुद्धिः प्रयत्नः च अपेक्षितौ एव। परं परोपकारः इत्युक्तेक: तथा च दुष्परिणामं विना सः कथं करणीयः इति द्रष्टव्यम्। भगवत्सेवां मत्वा अन्येषां कृते कृताः परिश्रमाः नाम परोपकारः। तेन हानिः न भवेत्। परम् एतत् न सरलम्। यतो हि मनुष्यस्य सहजः स्वभावः वर्तते यत् स्वल्पं वा उत्तमं कार्यं स्वेन कृतं चेत् ‘अहम्एतत् कृतवान्, अहम् एतादृशः उत्तमः’ इति एतादृशं चिन्तनम् आरभ्य सः अभिमानग्रस्तः भवति। अतः यदा यदा अन्येषां कृते किमपि कर्तुम् अवसरः लभ्यते तदा तदा तस्य लाभं स्वीकृत्य मनः प्रार्थनां कर्तुं पाठनीयं यत् ‘हे देव, भवतः सेवां कर्तुं मह्यम् अवसरं दत्तवान् इति एषा मयि महती कृपा जाता। एतादृशीं कृपां कृत्वा मत्तः इतोपि सेवां कारयतु’।एतादृश्याः चिन्तनशीलतायाः अभावेन अस्माकं घातः कथं भवेत् इति एतस्य अवगमनमपि न भवेत्। अतः अत्यन्तं सावधानतया व्यवहर्तव्यम्। परोपकारः इत्युक्ते पर-उपकारः। इत्युक्ते अन्येषां कृते कृतः उपकारः। एतेन ज्ञातुं शक्नुमः यत् परोपकाराय जनद्वयम् अपेक्ष्यते। एकः उपकारकर्ता अन्यः उपकारस्वीकर्ता। जगति सामान्यतः जनान् पश्यामः चेत् स्वानुभवेन दृश्यते यत् अहम् एकः भिन्नः अन्ये सर्वे जनाः तथा च वस्तुमात्रसहितं सर्वं जगदपि भिन्नम्। मनसः एतया रचनया यदि स्वेन कदाचित् कस्यचित् कार्यं कृतं चेत् मया अन्यस्य कार्यं कृतम् इति भावनया अहंकारः रभसा वर्धते। अतः परोपकारविषये अत्यन्तं सावधानतया वर्तनीयमिति सूचना सत्पुरुषैः दत्ता वर्तते। नामस्मरणे अहंकारः नश्यति, सावधानता लभ्यते, चित्तं शान्तं भवति च।

      • जगति परोपकारशीलाः विख्याताः, परं भगवदधिष्ठानरहिताः महान्तः जनाः मानसन्माने क्वचित् निबद्धाः भवन्ति।***

मे 28 – प्रपञ्चः देवस्य इति मत्वा करणीयः। अमुकमेकम् अपेक्ष्यते अमुकमेकं नापेक्ष्यते च इति एतयोः मनोभावयोः अभावः एव वैराग्यम्। विपदि विपत् न भवेत् इति न मत्वा ईश्वरः याचनीयः यत् ‘हे देव भवन्तं कामपि याच्ञांकर्तुम् ईच्छां मह्यं न ददातु’।देहं हेतुतः न पीडयेत्। परं यदा कष्टानि सहजम् आयान्ति तदा आनन्देन सोढव्यानि। पुरुरवा दुष्कृत्यं कृतवान् तेन सः वैराग्यम् अलभत। तदनु तत् दुष्कृत्यं वा सत्कृत्यम्? तथापि वैराग्यप्राप्तेः एषः न मार्गः खलु? वयं शास्त्रविरुद्धं कर्म न कुर्याम। अन्येन कृतं चेत् सः न दूषणीयः।न जानीमः, परमात्मनः इच्छा वर्तते चेत् तेन एव किमपि उत्तमं भवेत्। प्रपञ्चः मिथ्या मन्तव्यः, तथा च यः मिथ्या सः समीचीनः कथं भवेत्? सः यथा वर्तते तथा भवेत्। नटः नाटके यथा अभिनयति तथा प्रपञ्चे वयं स्वकार्यं कुर्मः। भवतः परमार्थः अपि भवतः अधीन: न वर्तते। सद्गुरुः एव भवतः कृते तं कुर्वन् अस्ति। अतः भवता कस्यापि चिन्ता न करणीया। यत् भवति तस्मिन् एव आनन्दं मन्यन्ताम्। सद्गुरुदर्शनेन पूर्वकर्माणि पापानिच दह्यन्ति। भवतः आगामिनींचिन्तां सद्गुरुः करिष्यति। तदनु अतीतं न स्मरणीयम् चिन्ता न करणीया च। समाधानेन आनन्देन च भवितव्यम्। प्रपञ्चं देवस्य मत्वातस्य अभिमानेन विना करणमेव परमार्थः। परमेश्वरं स्मृत्वा सः एव कर्ता इति मननं सर्वं तस्य कृते एव करणं च इति सर्वं देवाय समर्पणम् इव। केवलं कर्मान्ते कृष्णार्पणमिति वदामः चेत् अवशिष्टे समये सः विस्मरणीयः इति भवति वा न?‘हे देव, माम् आत्मीयं मन्यताम्, इदं मनः भवच्चरणयोः अर्पितं वर्तते, भवन्तं काम् अपि याच्ञां कर्तुं मम इच्छा एव न भवेत्’ इति देवः प्रार्थनीयः। अन्यथा सः राज्यं दातुं सिद्धः परं वयं सम्मार्जनीं याचामहे इति भवेत्। भगवान् मनसा प्रार्थनीयः। सः अस्मान् सम्यक् मार्गं दर्शयति। अन्धकारे गच्छतः अस्मान् सः एकं क्षणमात्रं विद्युल्लतां प्रकाश्य सम्यक् मार्गं दर्शयति। तद्वत् भगवन्तं मनसा स्मरामः चेत् अग्रिमं मार्गं सम्यक् जानीमः। भवान् यत् ददाति तत् मह्यं रोचते, इति भगवन्तं कथयामः, भगवन्तम् अखण्डं स्मरामः च। एतदपेक्षया भगवन्तं गन्तुम् अन्यः कः मार्गः?

      • यस्य प्रपञ्चे परमात्मा रक्षकः तस्य प्रपञ्चः परमार्थः। यस्य रक्षकः अभिमानः सः प्रपञ्चः।****

मे 29 - भगवतः सिषाधयिषा अपेक्ष्यते। यस्मै यत् रोचते तत् अस्माभिः कृतं चेत् सः प्रमोदते। भगवान् प्रेम विना किमपि न अपेक्षते। भगवत्प्रेम लब्धुं तस्य आत्मीयत्वं कल्पनीयम्। भगवता सह योजनेन विना न भविष्यामि इति निश्चेतव्यम्। तथा निश्चितं चेत् जनाः मां निन्दन्ति इति किमर्थं चिन्तनीयम्? निश्चयः वर्तते चेत् सर्वे उपायाः स्फुरन्ति। सिषाधयिषा वर्तते चेत् मार्गः लभ्यते। सत्पुरुषाः मार्गं दर्शयितुं सततं सिद्धाः सन्ति। केवलं देहबुद्धिं त्यक्त्वा वयं शरणं गच्छेम। सर्वं जगत् यदि भगवतः वर्तते तर्हि चिन्तायाः किं कारणम्? उपाधिः केन स्वीकृतः? मया एव। अहं निर्दुष्टः भविष्यामि तदा मया निर्दुष्टाः जनाः दृश्यन्ते। आत्मनः सर्वेषाम् अवगुणानां कारणं यत् ‘अहं रामं विस्मृतवान्’ इति एव। परमात्मविस्मरणमेव वास्तवं पापम्। यदा कोऽपि न पश्यति तदा दुष्कर्म वयं कुर्मः। परं भगवान् सर्वत्र पश्यति इति भानं भवति चेत् एतादृशं पापं न भवेत्। किमपि कस्मिन् अपि कर्मकरणे फलाशा वर्तते चेत् घातः एव। यत् भगवन्तं समीपम् आनयति तत् सत्कृत्यम्। सन्ध्यावन्दनं कृत्वा अनृतः व्यवहारः कृतः चेत् कः लाभः? मनसि कमपि हेतुं न निधाय परमेश्वरे श्रद्धाम् अवधाय व्यवहर्तव्यम्। मनः ईश्वरार्पणं भवेत्। तत् अन्यत्र न योजनीयम्। एकदा अर्पिताय मनसे पुनः विषय: रोचते चेत् तत् नार्पितम् इत्येव अवगन्तव्यम्। ‘मम प्रपञ्चः यथेच्छया भवेत् परं भवन्तं न विस्मरेयम्’ इति अनन्यभावनया भगवन्तं प्रार्थयामहे। प्रत्येकं कृतौ ‘अहं भगवतः’ इति भानं कल्पनीयम्। विपत्परिस्थितौ यः भागवतः भूत्वा अवतिष्ठते स कस्मात् अपि न बिभेति। पाण्डवैः सह साक्षात् भगवान् आसीत् तथापि कति सङ्कटानि तेषु आपतितानि। सङ्कटानाम् आगमनानन्तरं तेभ्यः रक्षणस्यापेक्षया प्रागेव भगवता किमर्थं सङ्कटानि न परिहृतानि इति अस्य उत्तरं सरलम्। बहुधा आपत्यमानं सङ्कटं केनचित् परिहृतं चेत् तत् सङ्कटं नापेक्षितमेव इति मन्यामहे। वस्तुतः सङ्कटानि अस्माकं कर्मणः एव फलम्। सङ्कटसमये भगवतः अस्तित्वस्य भानं वर्तते चेत् तेन वयं समाधानं लभामहे। येषां सर्वम् अनुकूलं ते अपि समाधानं न लभन्ते। अतः येषां तादृशी अनुकूलता न वर्तते तैः तद्विषये असमाधानेन न भवितव्यम्। यतो हि समाधानं तस्यां न वर्तते एव। असमाधानरोगः सर्वेषां कृते समानः एव। तदर्थं भगवत्स्मरणमिति औषधमपि सर्वेषां कृते एकमेव।

      • यस्य समाधानं भगवन्तम् अवलम्बते तस्य समाधानं कदापि वर्तते एव।****

मे३० - सर्वंविस्मृत्यरामःस्मरणीयः। अकर्तृत्वेनकर्मकरणीयं।परमात्मानंप्राप्तुम्उपायोऽयम्।।कस्यापिद्वेषःमत्सरःवानकरणीयः।सर्वेषुरघुवीरःद्रष्टव्यः।।परनिन्दापरिहर्तव्या।आत्मनिदृष्टिःनेतव्या।।गुणाःसंवर्धनीयाः।दोषाःउत्पाटनीयाः।।यत्रयत्रगच्छेम।स्नेहंदत्त्वाआगच्छेम।।एतदर्थम्उपायः।रघुनाथप्रेमविना.नान्यः।।देहदुःखम्अतीवकष्टकरं।रामकृपयानभवतिभानम्।।मनःकेनापिनपरिणमेत्।रामःमांत्रायेतइतिदढभावःभवेत्।।तिलमात्रंनभवेत्अभिमानः।अन्तःभावःनिर्भयः।।रामेणदत्तंदुःखं।तदपिकल्पयतुसुखम्।।देहःभवतुप्रारब्धे।स्वयंसदासाधने।।मयारामस्यभवितव्यं।नान्यत्जगतिकिमपिसुन्दरम्।।प्रपञ्चसुखदुःखंदेहस्यभवतु।स्वयंरघुनाथंनकदापित्यजतु।।अहंत्वंनविद्यतेइतिज्ञानं।नकदापिदर्शनीयम्।।जगतःदोषान्नपश्यतु।आत्मानमेवपरिष्करोतु।।कमपिनपीडयन्तु।सदाएषःनियमःभवतु।।केवलंरामसेवाभवतुमनसि।भगवद्भावंसर्वेषुपश्यसि।।रामःयस्यस्वामी।सःदीनःनकदापि।।कस्मादपिनकापियाच्ञा।रामचरणेनम्रभावना।।सङ्कटेअपिइष्टंसाधनीयं।मनसिदृढंकल्पनीयम्।।भगवतःविस्मरणं।वस्तुमोहस्यकारणम्।।अतःभक्तिंनामस्मरणंचविना।नशृण्वन्तुज्ञानजल्पना।।परिस्थित्याःनिर्मातापरमात्मा।तस्यांसःएवद्रष्टव्यः।।सर्वकर्तारामःइतिचेतसिभावः।तेनसाकंभवतियथार्थःविचारः।।तेव्यवहारेलाभहानी।मनसिनकल्पयन्ति।रामस्योहम्इतिमत्वासुखेन।समाजेयापयन्तुजीवनम्।।सःअन्यतमःक्षणः।सर्वस्यविस्मरणेनश्रीराममयंमनः।।रामंविनायायावृत्तिः।तयासहनभवतुस्वस्थितिः।।अहंरामस्यइतिचिन्तनं।वृत्तौसदासमाधानम्।।धन्योहं, धन्योहं।रामस्याहंरामस्याहम्।एषाभवतुवृत्तिः।तेनसन्तुष्येत्रघुपतिः।।एवंवृत्तिंघटयितुं।परमात्मानुसन्धानंसाधनम्।।शरीरंक्षीयते।परंवृत्तिःनक्षीयते।।विषयाधीनावृत्तिः।तेनदूरंयातिरघुपतिः।।यत्रसज्जनःनिवसति।तत्रभवतुमनोवृत्तिः।।निरन्तरंचेतसिविवेकः।रामनाम्निमनः।तेनपरमपदलाभः।।नामजपनेसामर्थ्यं।येनरघुनाथेनसहयोजनम्।।रामात्परंनकल्याणं।कथयन्अस्मिसत्यंसततम्।।भगवतेअतीवरोचतेआत्मीयत्वं।अतःरामनाम्निसावधानेनभवितव्यम्।।

      • रघुनाथस्मरणेभवतुआनन्दः।तत्रअन्यस्यनभवतिप्रभावः।।****

मे 31 भगवन्तं शरणं गच्छेम। यत् यत् अहं करोमि तत् तत् भगवतः कृते करोमि इति यः मन्यते सः सत्यः उत्तमः च भक्तः। कर्तृत्वं नाशयितुम्उत्तमेन भक्तेन भवितव्यम्। भगवन्तं विना किमपि नापेक्ष्यते इति भावः एव भक्तस्य लक्षणम्। साधु कार्यमपि बन्धनस्य कारणं भवितुमर्हति। तदर्थं किमपि कार्यं भगवत्स्मरणेन करणीयम्। भगवत्स्मरणे स्नानमपि न जातं चेत् तं पापी इति कथं वक्तुं शक्नुमः? भगवत्स्मरणे व्यतीतः कालः एव सुखमयः। विषयार्थं वयम् आत्मानं विस्मरामः तर्हि भगवत्स्मरणे आत्मानं किमर्थं न विस्मरामः? सगुणमूर्तौ यावत् प्रेम नायाति तावत् सगुणभक्तिः करणीया। गुर्विच्छया व्यवहरामः चेत्अस्माकम् इच्छाः नष्टाः एव। अत्र अभिमानः अनायासेन नष्टः भवति। अहङ्कारत्यागेन विना गुर्वाज्ञां पालयितुं न शक्नुमः। गुर्वाज्ञां प्रमाणीकृत्य इच्छादमनं कुर्मः चेदपि इच्छा पुनः पुनः उद्भवति एव। परम् एकवारम् एषः नाङ्गीकरोति इति यदि सा जानीयात् तर्हि सा शनैः शनैः विलयं गच्छति। देहार्पणप्रसङ्गः आयाति चेदपि गुर्वाज्ञाभङ्गः न करणीयः। देहातीतः भवितुं गुर्वाज्ञापालनं विना अन्यत् किं वर्तते?‘अहं न देही’ इति वदन् मनुष्यः कदाचित् देहातीतः भवेत्। अस्माकं धर्मः नीतिः च अनुसरणीया। सत्पुरुषः प्रापञ्चिकः द्वौ अपि प्रपञ्चं कुरुतः। परं प्रापञ्चिकः कर्तृत्वं स्वयं स्वीकरोति। सत्पुरुषः रामः कर्ता इति मत्वा प्रपञ्चं करोति। कर्तृत्वं स्वीकुर्वन्ति चेत् सुखदुःखं भोजनीयं भवति। भार्यायां रुग्णायां सत्याम् अहोरात्रं जागर्ति आत्मानं विस्मरति च। तदनु भगवतः कृते तथा कर्तुं न शक्नुमः किम्? हृदये आर्तता वर्तते चेत् सर्वं किमपि भवति। मुक्तिः कतिभि: दिनै:लभ्येत? इति अस्य प्रश्नस्य उत्तरं समर्थरामदासेन सम्यक् दत्तमस्ति। यस्मिन् क्षणे भगवत्स्मरणे आत्मानं विस्मरेत् तत्क्षणे मुक्तिं लभेत। आत्मनः विस्मरणमित्युक्ते निर्गुणत्वप्राप्तिः। यः आचरणं करोति तस्य एव वेदान्तः सत्यः। ‘अहं विद्वान्’ इति भावः भवति चेत् भगवद्भजनस्य लज्जा भवति। एतदर्थं सततं भगवतः नाम्ना सह वासः करणीयः। सह वासेन मनुष्यस्य अपि प्रेम वर्धते तर्हि भगवता सह वासेन तस्य प्रेम किमर्थं न लभ्येत? भगवन्तं शरणं गच्छेम। भागवतेन भूत्वा भवितव्यम्। अयमेव सर्वेषां धर्माणां शास्त्राणां च सारः।

        • देहात् मनसः च वयं भिन्नाः, अतः नाम जपता भिन्नत्वेन भवितुं प्रयत्नाः करणीयाः। यत् केनापि न साधितं तत् नाम्ना सिद्ध्येत्। ****
"https://sa.wikisource.org/w/index.php?title=मेमासस्य_प्रवचनानि&oldid=228073" इत्यस्माद् प्रतिप्राप्तम्