मेघदूतम्/मेघदूतम् - पूर्वमेघ:

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मेघदूतम् - पूर्वमेघ:
कालिदासः
मेघदूतम् - उत्तरमेघ: →

महाकविकालिदासविरचितम्

मेघदूतम् (मेघसन्देशः)


॥ पूर्वमेघः ॥


कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः

शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः ।

यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु

स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥१.१॥



तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी

नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ।

आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं

वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श॥१.२॥



तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो-

रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।

मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः

कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे॥१.३॥



प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी

जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।

स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै

प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार॥१.४॥



धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः

सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।

इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे

कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु॥१.५॥



जातं वंशे भुवनविदिते पुष्करावर्तकानां

जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।

तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं

याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा॥१.६॥



सन्तप्तानां त्वमसि शरणं तत्पयोद प्रियायाः

सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।

गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां

बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या॥१.७॥



त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः

प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः ।

कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां

न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥१.८॥



त्वां चावश्यं दिवसगणनातत्परामेकपत्नीम्

अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।

आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानाम्

सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि॥१.९॥



मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां

वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।

गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः

सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः॥१.१०॥



कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम्

तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।

आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः

सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः॥१.११॥



आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम्

वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।

काले काले भवति भवतो यस्य संयोगमेत्य

स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम्॥१.१२॥



मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपम्

सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।

खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र

क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य॥१.१३॥



अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिर्-

दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।

स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं

दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥१.१४॥



रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद्

वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य ।

येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते

बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः॥१.१५॥



त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः

प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।

सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं

किंचित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण॥१.१६॥



त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना

वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।

न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय

प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः॥१.१७



छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्-

त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ।

नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थाम्

मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः॥१.१८॥



स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तम्

तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ।

रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां

भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य॥१.१९॥



{अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस्-

तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः ।

आसारेण त्वमपि शमये तस्य नैदाघमग्निं

सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु॥१.१९अ}॥



तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिर्-

जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।

अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां

रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय॥१.२०॥



नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैर्-

आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।

जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः

सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥१.२१॥



अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणाः

श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः ।

त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः

सोत्कम्पानि प्रियसहचरीसम्भ्रमालिङ्गितानि॥१.२२॥



उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः

कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते ।

शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः

प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत्॥१.२३॥



पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर्-

नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ।

त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः

सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः॥१.२४॥



तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं

गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा ।

तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्

सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि॥१.२५॥



नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्-

त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः ।

यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम्

उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि॥१.२६॥



विश्रान्तः सन् व्रज वननदीतीरजानां निषिञ्चन्न्-

उद्यानानां नवजलकणैर्यूथिकाजालकानि ।

गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां

छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम्॥१.२७॥



वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां

सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः ।

विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां

लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि॥१.२८॥



वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः

संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।

निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य

स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु॥१.२९॥



वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः

पाण्डुच्छायातटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।

सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती

कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः॥१.३०॥



प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्

पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् ।

स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां

शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम्॥१.३१॥



दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां

प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।

यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः

शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः॥१.३२॥



हारांस्तारांस्तरलगुटिकान् कोटिशः शङ्खशुक्तीः

शष्पश्यामान् मरकतमणीनुन्मयूखप्ररोहान् ।

दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान्

संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः॥१.३३॥



प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे

हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः ।

अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा-

दित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः॥१.३४॥



जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-

र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ।

हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा

लक्ष्मीं पश्यँल्ललितवनितापादरागाङ्कितेषु॥१.३५॥



भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः

पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।

धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-

स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः॥१.३६॥



अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले

स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।

कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयाम्

आमन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम्॥१.३७॥



पादन्यासैः क्वणितरशनास्तत्र लीलावधूतै

रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।

वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून्

आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्॥१.३८॥



पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः

सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।

नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां

शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या॥१.३९॥



गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं

रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।

सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं

तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः॥१.४०॥



तां कस्यांचिद् भवनवलभौ सुप्तपारावतायां

नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः ।

दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं

मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः॥१.४१॥



तस्मिन् काले नयनसलिलं योषितां खण्डितानां

शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।

प्रालेयास्त्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः

प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः॥१.४२॥



गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने

छायात्माऽपि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।

तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-

न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि॥१.४३॥



तस्याः किंचित्करधृतमिव प्राप्तवानीरशाखं

हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।

प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि

ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः॥१.४४॥



त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः

स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।

नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते

शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥१.४५॥



तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा

पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः ।

रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम्

अत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः॥१.४६॥



ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी

पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति ।

धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं

पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः॥१.४७॥



आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा

सिद्धद्वन्द्वैर्जलकणभयाद् वीणिभिर्मुक्तमार्गः ।

व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्

स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्॥१.४८॥



त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे

तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम् ।

प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-

रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥१.४९॥



तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां

पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् ।

कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं

पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम्॥१.५०॥



ब्रह्मावर्तं जनपदमथ च्छायया गाहमानः

क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः ।

राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा

धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि॥१.५१॥



हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां

बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।

कृत्वा तासामधिगममपां सौम्य सारस्वतीनाम्

अन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः॥१.५२॥



तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां

जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।

गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः

शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता॥१.५३॥



तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी

त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।

संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ

स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा॥१.५४॥



आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां

तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।

वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः

शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम्॥१.५५॥



तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा

बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।

अर्हस्येनं शमयितुमलं वारिधारासहस्रै-

रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम्॥१.५६॥



ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन्

मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।

तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्

के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः॥१.५७॥



तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः

शश्वत् सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः ।

यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः

कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः॥१.५८॥



शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः

संरक्ताभिस्त्रिपुरविजयो गीयते किंनराभिः ।

निर्ह्रादस्ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात्

संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः॥१.५९॥



प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्

हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।

तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी

श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः॥१.६०॥



गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः

कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।

शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं

राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः॥१.६१॥



उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे

सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य ।

शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम्

अंसन्यस्ते सति हलभृतो मेचके वाससीव॥१.६२॥



हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता

क्रीडाशैले यदि च विचरेत्पादचारेण गौरी ।

भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः

सोपानत्वं कुरु मणितटारोहणायाग्रयायी॥१.६३॥



तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयं

नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।

ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्

क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः॥१.६४॥



हेमाम्भोजप्रसवि सलिलं मानसस्याददानः

कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य ।

धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातै-

र्नानाचेष्टैर्जलदललितैर्निर्विशेस्तं नगेन्द्रम्॥१.६५॥



तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां

न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।

या वः काले वहति सलिलोद्गारमुच्चैर्विमाना

मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम्॥१.६६॥


संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. मेघदूतम
    1. मेघदूतम् - पूर्वमेघ:
    2. मेघदूतम् - उत्तरमेघ:

बाहरी कडियाँ[सम्पाद्यताम्]