मृच्छकटिकम्/अष्टमोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search
← सप्तमोऽङ्कः मृच्छकटिकम्
अष्टमोऽङ्कः
शूद्रकः
नवमोऽङ्कः →

अष्टमोऽङ्कः

(ततः प्रविशत्यार्द्रचीवरहस्तो भिक्षुः )

 भिक्षुः---अ1ज्ञा ! कलेध धम्मशंचअं,-

शंजम्मध णिअपोटं णिच्चं जग्गेध झाणपडहेण ।
विशमा इंदि अचोला हलंति चिलशंचिदं धम्मं ॥ १ ॥

अवि अ, अणिच्चदाए पेक्खिअ णवलं दाव धम्माणं शलणम्हि ।

पंचजण जेण मालिदा इत्थिअ मालिअ गाम लक्खिदे ।।
अबले के चंडाल मालिदे अवसं वि शे णल शग्ग गाहदि ॥ २ ॥
शिल मुंडिदे तुंड मुंडिदे चित्त ण मुंडिद कीश मुंडिदे ।।
जाह उण अ चित्त मुंडिदे शाहु शुट्ठु शिल ताह मुंडिदे ॥ ३ ॥

गिहिदकशाओदए एशे चीवले, जावं एदं लट्टिअशालकाहकेलके उजाणे पविशिअ पोक्खलिणीए पक्खालिअ लहुं लहुं अवक्कमिश्शं

 [ अ1ज्ञाः ! कुरुत धर्मसंचयम्,-

संयच्छत निजोदरं नित्यं जाग्रत ध्यानपटहेन ।
विषमा इन्द्रियचौरा हरन्ति चिरसंचितं धर्मम् ॥


शंजम्मधेति । गाथा । क्वचिदृश्यते । संयच्छत निजकमुदरं नित्यं जाग्रत ध्यानपटहेन । विषमा इन्द्रियचौरा हरन्ति चिरसंचितं धर्मम् ॥ १ ॥ पंचज्जणेत्यादि । वैतालीछन्द सा द्वयम् । पञ्चेति । ज्जणसंयोगात्पच्चेति पञ्चशब्दो गुरुः छन्दोनुरोधात् । पञ्चजनेति णकारः ( ? )। अबले क्केति केवलः ककारः एकारश्च लधुः । अवसं वीत्यत्र सकारो न प्रविष्टः । अन्यथा अवस्सं वीति स्यात् । शे गले इत्येकारद्वयेऽन्यतरो न गाहतीत्यत्र ‘गा' इत्याकारस्य गुरुत्वम् । पञ्चजनाः पञ्चेन्द्रियाणि । इत्थिअ अविद्याम् । गाम शरीरम् । लक्खिदे रक्षितः । दुष्टत्वविकृतिपातात् । चण्डालोऽहंकारः । अबलोऽसहायः । अथवेन्द्रियादिविनाशात् । अवश्यं स नरः स्वर्गं गाहते ।। २ ।। शिरों मुण्डितं तुण्डं मुडित चित्तं पाठा०-१ अज्जाः (=आर्याः). अपि च, अनित्यतया प्रेक्ष्य केवलं तावद्धर्माणां शरणमस्मि ।

पञ्चजना येन मारिता अविद्यां मारयित्वा ग्रामो रक्षितः ।
अबलः क्व चण्डालो मारितोऽवश्यमपि स नरः स्वर्ग गाइते ॥

शिरो मुण्डितं तुण्डं मुण्डितं चितं न मुण्डितं किमर्थं भुण्डितम् ।
यस्य पुनश्च चित्ते मुण्डितं साधु सुष्टु शिरस्तस्य मुण्डितम् ॥

गृहीतकषायोदकमेतच्चीवरम् , यावदेतद्राष्ट्रियश्यालकस्योद्याने प्रविश्य पुष्क- रिण्यां प्रक्षाल्य लघु लघ्वपक्रमिष्यामि । ] ( परिकम्य, तथा करोति )

( नेपथ्ये )

 शकारः----च्यिश्ट ले दुश्टशमणका ! च्यिश्ट । [तिष्ठ रे दुष्ट- श्रमणक! तिष्ठ ।

 भिक्षुः---( दृष्ट्वा, सभयम् ) ही अविद, माणहे एशे शे लाअशालशंठाणे आअदे। एक्केण भिक्खुणा अबलाहे कि दे, अण्णं पि जहिं जहिं भिक्खु पेक्खदि, तहिं तहि गोणं व्व णाशं विधिअ ओवाहेदि; ता कहिं अशलणे शलणं गमिश्शं । अथवा भट्टालके ज्जेव बुद्धे मे शलणे । [ आश्चर्यम् , एष स राजश्यालसंस्थानक आगतः, एकेन भिक्षुणापराधे कृतेऽन्यमपि यत्र यत्र भिक्षुं पश्यति, तत्र तत्र गामिव नासां विद्वापवाह- यति। तत्कुत्राशरणः शरणं गमिष्यामि ? । अथवा भट्टारक एव बुद्धो मे शरणम् । ।

( प्रविश्य, सखङ्गेन विटेन सह )

 शकारः-च्यिश्ट ले दुश्टशमणका ! च्यिश्ट; आवाणअमञ्झ- पविश्टश्श; विअ लत्तमूलअश्श शीदं दे मोडइश्शं । (इति ताडयति )


न मुण्डितं न संयत्तीकृतं किं मुण्डितम् । यस्य पुनश्चितं मुण्डितं सुष्ठु साधु शिरस्तस्य मुण्डितम् ।। ३ ।। लट्टिअशालकाहेति । राष्ट्रियश्यालकत्वेन च पुनः संयोगः प्रकर्षख्यापनार्थः । अपूपौ द्वावितिवत् वा न पुनरुक्तम् ॥ ही अविद माणहे' इति विस्मयखेदे । नासिकां भित्त्वापवाहयति । तत्कुत्राहमशरणः शरणं गमिष्यामीति ॥ आपानकं पानगोष्ठी । पिबन्त्यस्मिन्नित्यधिकरणे ल्युट् । रकमूलकस्य शीर्षमिव [ तिष्ठ रे दुष्टश्रमणक! तिष्ठ; अपानकमध्यप्रविष्टस्येव रक्तमूलकस्य शीर्ष ते भक्ष्यामि।]

 विटः----काणेलीमातः । न युक्तं निर्वेदधृतकषायं भिक्षुं ताडयितुम् । तत्किमनेन ? । इदं तावत्सुखोपगम्यमुद्यानं पश्यतु भवान् ।

अशरणशरणप्रमोदभूतैर्वनतरुभिः क्रियमाणचारुकर्म ।
हृद1यमिव दुरात्मनामगुप्तं नवमिव राज्यमनिर्जितोपभोग्यम् ॥ ४ ॥

 भिक्षुःशाअद; पशीददु उवाशके | | स्वागतम् प्रसीद- पासकः ।]

 शकारः-----भावे ! पेक्ख पेक्ख, आक्कोशदि मं । [भाव ! पश्य पश्य, आक्रोशति माम् ।।

 विटः-किं ब्रवीति ?।।

 शकारः-उवाशके त्ति मं भणादि, किं हग्गे णाविदे ? । [उपासक इति मा भणति, किमहं नापितः ? । ] ।

 विटः - बुद्धोपासक इति भवन्तं स्तौति ।

 शकारः----थुणु शमणका ! थुगु । [ स्तुनु श्रमणक ! स्तुनु ।]

 भिक्षुः--तुमं धण्णे, तुम पुण्णे । [वं धन्यः, त्वं पुण्यः ।]

 शकारः---भावे ! धणे पुण्णे त्ति मं भणादि । किं हग्गे शलावके कोश्टके कोंभकाले वा ।। [ भाव ! धन्यः पुण्य इति मां भणति । किमहं शला2वकः (चार्वाकः ) कोष्टकं कुम्भकारो वा ? ।]


मध्यमा किं पत्रलकभागमपनीय ( ?) मूलकमुपदंशीकुर्वन्ति । अशरणेति । अनिर्जितमनात्मसात्कृतम् ॥ ४ ॥ णाविदे नापितः । स ह्युपासको दृष्ट इत्याशथः । शलाकवश्चार्वाकः । कोष्ठकामेष्ठकादिरचितम् ॥ यत्र तावत्कुकु( क्कु )राः शृगाला जलं टिप्प०-1 अपीयते संभूय पीयते सुरा़डत्रेत्यापानकं मद्यपायिनां समाजः । 2 यथा खलानां हृदयं तदैवोत्तानं भवति, यदा सोडन्यस्य दोषादिकमन्यमै कथयति तद्वत् । उद्यानमिदमीदृशम् , असदपहाय सदेव कर्म विदधाति; त्वं तु चेतनः संन्या- सिनमपि ताडयसि; किमतः परमसदस्ति ? इति शकारोपरि विष्टस्य कटाक्षः ।  विटः---काणेलीमातः । ननु धन्यस्त्वम्' 'पुण्यस्त्वम्' इति भवन्तं स्तौति ।

 शकारः-भावे ! ता कीश एशे इध आगदे ? । [ भाव ! तरिक- मर्थमेष इहागतः ? १]

 भिक्षुः—इदं चीवलं पक्खालिदुं । [ इदं चीवरं प्रक्षालयितुम् ।]

 शकारः-- अले दुश्टशमणका ! एशे मम बहिणीवदिणी शव्वुज्जा- णाणं पबले पुप्फकलंडुज्जाणे दिण्णे, जहिं दाव शुणहका शिआलापाणि पिअंति । हग्गे वि पबलपुलिशे मणुश्शके ण ण्हाआमि; तहिं तुमं पुक्खलिणीए पुलाणकुलत्थजूशशवण्णाइं उश्शगंधिआइं चीवलाइं पक्खालेशि । ता तुमं एक्कपहालिअं कलेमि । [ अरे दुष्टश्रम- णक ! एतन्मम भगिनीपतिना सर्वोद्यानानां प्रवरं पुष्पकरण्डोद्यानं दत्तम् , यन्न तावच्छुनकाः शृगालाः पानीयं पिबन्ति । अहमपि प्रवरपुरुषो मनुष्यको न स्नामिः तत्र त्वं पुष्करिण्यां पुराणकुलित्थयूषसवर्णान्युग्रगन्धीनि चीवराणि प्रक्षालयसि ? । ततेत्वामेकप्रहारिकं करोमि ।

 विटः--काणेलीमातः ! तथा तर्कयामि यथानेनाचि2रप्रव्रजितेन भवितव्यम् ।

 शकारः-कधं भावे जाणादि ? । [कथं भावो जानाति ? ।

 विटः- किमत्र ज्ञेयम् ? । पश्य

अद्याप्यस्य तथैव केशविरहाद्गौरी ललाटच्छविः
कालस्याल्पतया च चीवरकृतः स्कन्धे न जातः किणः ।
नाभ्यस्ता च कषायवस्त्ररचना दूरं निगूढान्तरं
वस्त्रान्तं च पटोच्छ्याप्रशिथिलं स्कन्धे न संतिष्ठते ॥ ५ ॥


पिबन्ति । हग्गे वि अहमपि । त्वमपि पुराणकुलित्थयूषसवर्णान्यूग्रगन्धीनि चीवराणि प्रक्षालयसि । एकप्रहारवन्तं करोमि । एकप्रहारेण मारणोक्तावयं प्रयोगः । अद्यापीति । गौरी ललाटे शोभा भवति । विरतस्य तस्यात्मनि स्वरूपगतिः (१)। | हिप्प०-1 सांप्रतमेव संन्यासाश्रमोऽनेन गृहीतोऽत एवायमपरिचितः संन्या- सिनः कार्याकार्यस्येति भावः । तदेवाग्रमश्लोके वक्ष्यति ।  भिक्षुः--उवाशके 1 एव्वं । अचिलपवजिदे हग्गे [उपासक ! एवम् । अचिरप्रव्रजितोऽहम् ।]

 शकारः---ता कीशं तुमं जातमेत्तक ज्जेन ण पव्वजिदे । [तस्किमर्थं त्वं जातमात्र एव न प्रवजितः ? ।] ( इति ताडयति )

 भिक्षुः - णमो बुद्धश्श । १ नमो बुद्धाय ।]

 विटः–किनेन ताडितेन तपस्विना ? मुच्यताम् ; गच्छतु ।

 शकारः-अले ! च्यिश्ट दाव जात्र शंपधालेमि । [अरे ! तिष्ठ तावत् , याचत्संप्रधारयामि ।]

 विटः--केन सार्धम् ।।

 शकारः–अत्तणो हडक्केण । [ आत्मनो हृदयेन । ]

 विटः-हन्त, न गतः ।।

 शकारः----पुत्तका हडक्का ! भटके पुत्तके ! एशे शमणके अवि णाम किं गच्छदु, किं च्यिश्टदु । (स्वगतम् ) णावि गच्छदु, णावि च्यिश्टदु ? । ( प्रकाशम् ) भावे शंपधालिदं मए हडक्केण शह । एशे मह हडक्के भणादि । [ पुत्रक हृदय ! भट्टारक पुत्रक ! एष श्रमणकोऽपि नाम किं गच्छतु, किं तिष्ठतु ? । नापि गच्छतु, नापि तिष्ठतु । भाव ! संप्रधारितं मया हृदयेन सह । एतन्मम हृदयं भणति ।]

 विटः --- किं ब्रवीति ? ।

 शकारः--मावि गच्छदु, मावि च्यिश्टदु । मावि ऊशशदु, मावि णीशशदु; इध ज्जेव झत्ति पडिअ मलेदु । [मापि गच्छतु, मापि तिष्ठतु। माप्युच्छ्वसितु, मापि निःश्वसितु । इहैव झटिति पतित्वा म्रियताम् ।] किणः संघर्षजो व्रणाकारः । वस्नकषायीकरणं न शीलितम् । वस्त्रान्तः स्कन्धे न तिष्ठते । नपुंसकत्वं चिन्त्यम् (?)। निगूढमवकाशो यस्य तत् । संकोचितप्रदेश-


मित्यर्थः । पटस्योच्छ्यो विशालता । तस्माद्दुःखम् ॥ ५ ॥ जातमात्र एव म प्रव्रजितः ॥ तपस्विना घराकेण ।। हलक्केन हृदयेन । न गतस्तर्हि न गमिष्यतीत्यर्थः।

-.- ... .----.. - --.-. .

.---:  भिक्षुः----णमो बुद्धश्श; शलणागदम्हि । [नमो बुद्धाय; शरणा- गतोऽस्मि ।]

 विटः–गच्छतु ।।

 शकारः–णं शमएण । [ ननु सम1येन !]

 विटः---कीदृशः समयः ।।

 शकारः----तधा कद्दमं फेलदु, जधा पाणिअं पंकाइलं ण होदि । अधवा पाणिअं पुंजीकदुअ कद्दमे फेलदु । [ तथा कर्दमं प्रक्षिपतु, यथा पानीयं पङ्काविलं न भवति । अथवा पानीयं पुञ्जीकृत्य कर्दमे क्षिपतु ।

 विटः--अहो मूर्खता,--

विपर्यस्तमनश्चेष्टैः शिलाशकलवर्ष्मभिः।
मांसवृक्षैरियं मूर्खैर्भाराक्रान्ता वसुंधरा ॥ ६॥

( भिक्षुर्नाट्येनाक्रोशति )

 शकारः--- किं भणादि ? । [ किं भणति ? ।]

 विटः--स्तौति भवन्तम् ।।

 शकारः--थुणु थुणु, पुणो वि थुणु । [ स्तुनु स्तुनु, पुनरपि स्तुनु ।

( तथा कृत्वा निष्क्रान्तो भिक्षुः )

 विदः---काणेलीमातः ! पश्योद्यानस्य शोभाम्

अमी हि वृक्षाः फलपुष्पशोभिताः
कठोरनिष्पन्दलतोपवेष्टिताः ।
नृपाज्ञया रक्षिजनेन पालिता
नराः सदारा इव यान्ति निर्वृतिम् ॥ ७ ॥


पुत्रक हृदय अदस्वं (?) । भट्टारकं दउतिटिति नम इति प्रस्तावात् (?) । विटोऽयमर्थः (१) पंकाइलं पह्वाविलम्। कलुषमिति यावत् ॥ विपर्यस्तमिति । टिप्प- उच्यमानकार्यकरणस्य प्रतिज्ञया । -*-*-*-*-*-*-*-

  • -
  • -

-* शकार-शुश्टु भावे भणादि

बहुकुशुमविचित्तिदा अ भूमी
कुशुमभलेण विणामिदा अ लुक्खा ।
दु1मशिहललदाअलंबमाणा ।
पणशफला विअ बाणला ललंति ॥ ८ ॥

 [ सुष्टु भावो भणति

बहुकुसुमविचित्रिता च भूमिः कुसुमभरेण विनामिताश्च वृक्षाः ।
द्रुमशिखरलतावलम्बमानाः पनसफलानीव वानरा ललन्ति ॥]

 विटः----काणेलीमातः ! इदं शिलातलमध्यस्यताम् ।।

 शकारः-एशे म्हि आशिदे । ( इति विटेन सहोपविशति ) भावे ! अज्ज वि तं वशंतशेणिअं शुमलामि । दुज्जणवअणं विअ हेडक्कादो ण ओशलदि । [एषोऽस्म्यासितः । भाव ! अथापि तां वसन्तसेना स्मरामि । दुर्जनवचनमिव हृदयान्नापसरति ।।

 विटः--(स्वगतम् ) तथा निरस्तोऽपि स्मरति ताम् । अथवा

स्त्रीभिर्विमानितानां कापुरुषाणां विवर्धते मदनः ।।
सत्पुरुषस्य स एव तु भवति मृदुर्नैव वा भवति ॥ ९ ॥

 शकारः---भावे ! का वि वेला थाक्लकचेडश्श भणिदश्श ‘पवहणं गेण्हिअ लहुं लहुं आअच्छे ति । अज्ज वि ण आअच्छदि त्ति। चिलम्हि बुभुक्खिदे । मज्झण्हे या शक्कीअदि पादेहिं। गंतुं । ता पेक्ख पेक्ख

णहमज्झगदे शूले दुष्पेक्खे कुविदवाणलशलिच्छे।
भूमी दृढशंतत्ता हदपुत्तशदेव गंधाली ॥ १० ॥


विपर्यस्तं लोकविरुद्धम् ॥ ६ ॥ अमी इति ॥ ७ ॥ बहुकुशुमेत्यादि । पुष्पिताप्राच्छन्दः । रुक्खा बृक्षाः । ललन्ति विहरन्ति ॥ ८ ॥ स्त्रीभिरि- त्यादि । आर्या ॥ १ ॥ बुभुक्षितो न शक्यते पादाभ्यां गन्तुम् । णहमज्झे त्यादि । गाथा । नभोमध्यगतः सूर्यो दुःप्रेक्ष्यः कुपितवानरसदृशः । भूमिर्दृ- पाठा०—१ दुमशिहललदा अ ललंबमाणा (=द्रुमशिखरलता इव लम्ब- मानाः)। - -....- - -. . -.-..-. - .. ... ... - -


 [भाव ! कापि वेला स्थावरकचेटस्य भणितस्थ ‘प्रवहण गृहीत्वा लघु

लघ्वागच्छ इति । अद्यापि नागच्छतीति । चिरमस्मि बुभुक्षितः । मध्याह्न न शक्यते पादाभ्यां गन्तुम् । तत्पश्य पश्य

नभोभध्यगतः सूर्यो दुःप्रेक्ष्यः कुपितवानरसदृक्षः ।
भूमिर्दढसंतप्ता हतपुत्रशतेव गान्धारी ॥]

 विटः--एवमेतत् ।

छायासु प्रतिमुक्तशष्पकवलं निद्रायते गोकुलं
तृष्णार्तैश्च निपीयते वनमृगैरुष्णं पयः सारसम् ।
संतापादतिशङ्कितैर्न नगरीमार्गो नरैः सेव्यते ।
तप्तां भूमिमपास्य च प्रवहणं मन्ये क्वचित्संस्थितम् ॥ ११ ॥

 शकारः--भावे !

शिलशि मम णिलीणे भाव शुज्जश्श पादे
शउणिखगविहंगा लुक्खशाहाशु लीणा ।
णलपुलिशमणुश्शा उण्हदीहं शशंता
घलशलणणिशण्णा आदवं णिव्वहंति ॥ १२ ॥

भावे । अज्ज वि शे चेडे णाअच्छदि । अत्तणो विणोदणणिमित्त किं पि गाइश्शं ( इति गायति ) भावे । भावे ! शुदं तुए जे मए गाइदं ।। [ भाव !

शिरसि मम निलीनो भाव ! सूर्यस्य पादः
शकुनिखगविहङ्गा वृक्षशाखासु लीनाः ।
नरपुरुषमनुष्या उष्णदीर्घं श्वसन्तो।
गृहशरणनिषण्णा आतपं निर्वहन्ति ।

भाव ! अद्यापि स चेट नागच्छति । आत्मनो विनोदननिमित्तं किमपि गास्यामि । भाव भाव ! श्रुतं त्वया यन्मया गीतम् ? ।]


ढसंतप्ता हतपुत्रशतेव गान्धारी । गान्धारी दुर्योधनादिपुत्रशतमाता ॥ १० ॥ छायास्विति ॥ ११ ॥ शिलशीत्यादि । मालिन्या श्लोकः । शिरसि मम निलीनो भाव सूर्यस्य पादः शकुनिखगविहङ्गा वृक्षशाखासु लीनाः । नरपुरुष- मनुष्या उष्णदीर्घ श्वसन्तो गृहशरणनिषण्णा आतपं प्रेरयन्ति ॥ १२ ॥ मृ० १३  विटः---किमुच्यते । गन्धर्वो भवान् ।

 शकारः--कधं गंधव्वे ण भविश्शं ?।

हिंगुञ्जले जीलकभदृमुश्ते वचाह गंठी शगुडा अ शुंठी ।
एशे मए शेविद गंधजुत्ती कधं ण हग्गे मधुलश्शले त्ति ॥ १३॥

भावे | पुणो वि दाव गाइश्शं । ( तथा करोति ) भावे भावे । शुदं तुए जं मए गाइदं ? । [ कथं गन्धर्वो न भविष्यामि ?

हिङ्गूज्वला जीरकभद्रमुस्ता वचाथा ग्रन्थिः सगुडा च शुण्ठी ।
एषा मया सेविता गन्धयुक्तिः कथं नाहं मधुर स्वर इति ॥

भाव ! पुनरपि तावद्गास्यामि । भाव भाव ! श्रुतं त्वया यन्मया गीतम् ? । ]

 विटः----किमुच्यते-गन्धर्वो भवान् ? ।।

 शकारः–कधं गंधव्वे ण भवामि ? ।।

हिंगुज्जले दिण्णभलीचचुषण्णे वग्घालिदे तेल्लघिएण मिश्शे।
भुत्ते भए पालहुदीअमंशे कधं या हग्गे मधुलश्शलेत्ति ॥ १४ ॥

घि भावे, ! अज वि चेडे णाअच्छदि । [कथं गन्धर्वो न भवामि ? ।

हिज्वलं दत्तमरीचचूर्ण व्याघारितं तैलधृतेन मिश्रम् ।
भुक्तं मया पारभृतीयमसिं कथं नार्ह मधुरस्वर इति ॥

भाव ! अद्यापि चेदो नागच्छति ।।

 विटः----स्वस्थो भवतु भवान्, संप्रत्येवागमिष्यति ।

( ततः प्रविशति प्रवहणाधिरूढा वसन्तसेना चेटश्च )

 चेटः-भीदे खु हग्गे, मज्झण्हिके शुज्जे । मा दाणि कुविदे


हिंगुज्जेत्यादि । उपजातिच्छन्दसा । हिङ्गूज्वलौ जीरकभद्रमुस्तकौ बचाया ग्रन्थिः सगुडा च शुण्ठी । एषा मया सेविता ग्रन्थयुक्तिः कथं नाहं मधुर स्वर इति ॥ १३ ॥ हिंगुञ्जले इति । हिफूज्वलं दत्तमरीच चूर्णं व्याघारितं तैलधृतैर्मिश्रम् । भुक्तं मया पारमृतीयं मांस कथं नाहं मधुर स्वर इति ॥ १४ ॥ हिङ्गूज्वलचूर्णं परभृतीयमांसेन टिप्प०-] पारभृतीयं कोकिलस्थ मांसम् । केचित्तु पारभृतमुपायनं तस्येदं पारभृतीयमित्याहुः । लाअशालशंठाणे हुविश्शदि । ता तुलिदं वहामि । जाध गोणा ! जाध । [भीतः खल्वहम् , माध्याह्निकः सूर्यः । नेदानीं कुपितो राजश्यालसंस्थानको भविष्यति । तत्वरितं वहामि । यातं गावौ ! यातम् । ]

 वसन्तसेना- हद्धी हद्धी, ण हु वड्ढमाणअस्स अअं सरसंजोओ । किं णेदं ? । किं णु खु अज्ज चारुदत्तेण वाहणपडिस्सम परिहरंतेण अण्णो मणुस्सो अण्णं पवहणं पेसिदं भविस्सदि १ । फुरदि दाहिणं लोअणं, वेवदि में हिअअं, सुण्णाओ दिसाओ, सव्वं ज्जेव विसंठुलं पेक्खामि । [हा धिक् हा धिक्, न खलु वर्धमानकस्यायं स्वरसंयोगः । किं न्विदम् ? किं नु खल्वार्यचारुदत्तेन वाहनपरिश्रमं परिहरतान्यो मनुष्योऽन्यत्प्रवहणं प्रेषितं भविष्यति ? । स्फुरति दक्षिणं लोचनम्, वेपते मे हृदयम्, शून्या दिशः, सर्वमेव विसंष्ठुलं पश्यामि । ]

 शकारः---( नेमिधोषमाकर्त्य ) भावे भावे अगदे पवहणे । [ भाव भाव! आगतं प्रवहणम् ।]

 विटः–कथं जानासि १ ।।

 शकारः किं ण पेक्खदि भावे ? बुङ्ढशुअले विअ घुलघुलाअमाणे लक्खीअदि । किं न पश्यति भावः १ वृद्ध शूकर इव घुरघुरायमाणं लक्ष्यते । ]

 विटः--( दृष्ट्वा ) साधु लक्षितम् अयमागतः ।

 शकारः-पुत्तका थावलका चेडा ! अगदे शि? [पुत्रक स्थावरक घेट ! आगतोऽसि ।]

 चेटः---अध इं । [ अथ किम् ।]


सह मया भुक्तं ततः कथं न मधुरस्वरोऽहम् । घनद्रवः कर्मणि यन् तः (१) ॥ किं न प्रेक्षते भावः । वृद्धसुकर इव । घुरघुरेत्यव्यक्तशब्दानुकरणम्। अव्यक्तं शब्दं कुर्वाणो  शकारः–पवहणे वि अगदे । [प्रवहणमप्यागतम् ?]

 चेटः---अध ई । [अथ किम् ।।

 शकारः–गोणा वि आगदे ?। [ गावावप्यागतौ ।।]

 चेटः---अध ई । [ अथ किम् ।]

 शकारः--तुमं पि आगदे ।। [त्वमप्यागतः ? । ]

 चेटः---( सहासम् ) भट्टके ! अहं पि आगदे । [ भट्टारक ! अहमप्यागतः ।]

 शकारः---ता पवेशेहि पवहणं । [ तत्प्रवेशय प्रवहणम् ।]

 चेटः--कदलेण मग्गेण ? । [कतरेण मार्गेण ? ।]

 शकारः–एदेण ज्जेव पगालखंडेण । [ एतेनैव प्राकारखण्डेन ।]

 चेटः-भट्टके ! गोणा मलेंति । पवहणे वि भज्जेदि । हग्गे वि चेडे मलामि । [ भट्टारक! वृषभौ न्नियेते । प्रवहणमपि भज्यते । अहमपि चेटो म्रिये।]

 शकारः-अले 1 लाअशालके हग्गे; गोणी मले, अवले कीणिइशं; पवहणे भग्गे, अवलं घडाइश्शं; तुमं मले, अण्णे पवहणवाहके हुविश्शदि । [ अरे ! राजश्यालकोऽहम्; बृषभौ मृतौ, अपरौ क्रेष्यामि । प्रवहणं भग्नम् , अपरे कारयिष्यामि । त्वं मृतः अन्यः प्रवहणवादहको भविष्यति ।]

 चेटः---शव्वं उववण्णं हुविश्शदि, हग्गे अत्तणकेलके ण डुविश्शं । [ सर्वमुपपन्नं भविष्यति, अहमात्मीयो न भविष्यामि ।]

 शकारः-अले ! शव्वं पि णश्शदु; पगालखंडेण पवेशेहि पवहणं । [ अरे ! सर्वमपि नश्यतु; प्राकारखण्डेन प्रवेशय प्रवहणम् ।]


लक्ष्यते ॥ पगालखंडेण प्राकारखण्डपथेनैव प्रवेशय ॥ दैवगत्या तु भग्नं प्रवह चेटः--विभज्ज ले पवहण ! शमं शामिणा विभज्ज । अण्णे पवहणे भोदु । भट्टके गदुअ णिवेदेमि । (प्रवेश्य ) कधं ण भग्गे । भट्टके ! एशे उवत्थिदे पवहणे । [ विभञ्ज रे प्रवहण ! समं स्वामिना विभञ्ज । अन्यत्प्रवहणं भवतु । भट्टारकं गत्वा निवेदयामि । कथं न भग्नम् ।। भट्टारक ! एतदुपस्थितं प्रवहणम् ।]

 शकारः–ण छिण्णा गोणा ? । ण मला लज्ज । तुमं पि ण मले । [न छिन्नौ वृषभौ ? । न मृता रजवः ? । स्वमपि न मृत: १।]

 चेटः---अध इं। [ अथ किम् ।]

 शकारः--भावे ! आअच्छ; पवहणं पेक्खामो। भावे ! तुमं पि मे गुलु पलमगुलु । पेक्खीअशि शादलके अब्भंतलकेत्ति पुलक्कलण्णीएत्ति तुमं दाव पवहणं अग्गदो अहिलुह । [भाव ! आगच्छ; प्रवहणं पश्यावः । भाव ! त्वमपि मम गुरुः परमगुरुः । प्रेक्ष्यसे सादरकोऽभ्यन्तरक इति पुरस्करणीय इति त्वं तावत्प्रवहणामग्रतोऽधिरोह ।]

 विटः---एवं भवतु । ( इत्यारोहति )

 शकारः----अधवा च्यिश्ट तुमं । तुह बप्पकेलके पवहणे, जेण तुमं अग्गदो अहिलुहशि । हग्गे पवहणशामी; अग्गदो पवहणं अहिलुहामि । [अथवा तिष्ठ त्वम् । तव पितृसंबन्धि प्रवहणम् , येन त्वमग्रतोऽधिरोहसि । अहं प्रवहणस्वामी; अग्रतः प्रवहणमधिरोहामि ।

 विट-भवानेवं ब्रवीति ।।


णमित्याह-कथं न भग्न इति ॥ म छिण्णा लज्ज, ण मला गोणा इति वक्तव्ये शकारोक्तत्वाद्भ्रमणम् । मम गुरुः । गुरुरित्यतिमान्यत्वपरम् एवं त्वं प्रेक्षसे । सावरं महतकृत्वा (?)। पुलक्कलिलीए पुष्पतणीयः (१) पुष्कलिनी । “एकार्यन्व- ययच्छनीश इत्यनेन गुरुत्वमेव द्रढयति' इति प्राचीनटीका (?) । त्वं तावत्पवहणमग्रत आरोह ॥ अथवा तिष्ठ त्वम् । तव पित्र्यं प्रवहणम् । अहं प्रवहणस्वामी। टिप्प०-1 ‘छिण्णालज्ज' इत्येकपदस्यापि मध्ये पदान्तरैर्व्यवहितत्वं शकारभाषणत्वादुपपद्यते । छिण्णालज्ज पुंश्चलीज इत्यर्थः ।  शकारः–जइ वि हग्गे एवं भणामि, तधा वि तुह एशे आदले अहिलुह भश्टके' त्ति भणिदुं। [यद्यप्यहमेवं भणामि, तथापि तवैष आचारः ‘अधिरोह भट्टारक! इति भणितुम् ।

 विटः--आरोहतु भवान् ।

 शकारः–एशे शंपदं अहिलुहामि । पुत्तका थावलका चेडा ! पलिवत्तावेहि पवहणं । [एष सांप्रतमधरोहामि । पुत्रक स्थावरक चेट ! परिवर्तय प्रवहणम् ।

 चेटः---( परावर्य ) अहिलुहदु भट्टालके । [ अधिरोहतु भट्टारकः ।]

 शकार--( अधिरुत्यावलोक्य च शङ्कां नाटयित्वा, त्वरितमवतीर्य, विटंकण्ठेऽवलम्ब्य ) भावे भावे ! मलेशि मलेशि । पवणाधिलूढा लक्खशी चोले व पडिवशदि । ता जइ लक्खशी, तदो उमे वि मूशे । अध चोले, तदो उमे वि खज्जे । [ भाव भाव ! मृतोऽसि मृतोऽसि । प्रवहणाधिरूढा राक्षसी चौरो वा प्रतिवसति । तद्यदि राक्षसी, सदोभावपि मुषितौ । अथ चौरः तदोभावपि खादितौ ।]

 विट:---न भेतव्यम्; कुतोऽत्र वृषभयाने राक्षस्याः संचारः ।। मा नाम ते मध्याह्नार्कतापच्छिन्नदृष्टेः स्थावरकस्य सकञ्चुकां छायां दृष्ट्वा भ्रान्तिरुत्पन्ना ।

 शकारः-पुत्तका थावलका चेडा जीवेशि ? । [पुत्रक स्थावरक चेट ! जीवसि ? ।]

 चेटः---अध इं। [ अथ किम् ।]


अग्रतः प्रवहणमधिरोहामि ॥ ययप्यहमेवं ब्रवीमि, तथापि तवैष आचारः अधिरोह भट्टारक' इति भणितुम् ॥ प्रवहणे राक्षसी चौरो वा प्रतिवसति । मुश्शे खज्जे इति  शकारः---भावे ! पवहणाहिं इत्थिआ पडिवशदि; ती अवलोएहि । [ भाव ! प्रवहणान्तः स्त्री प्रतिवसति; तदवलोकय ।]

 विटः--कथं स्त्री ।

अवनतशिरसः प्रयाम शीघ्रं पथि वृषभा इव वर्षताडिताक्षाः।
मम हि सदसि गौरवप्रियस्य कुलजनदर्शनकातरं हि चक्षुः ॥ १५॥

 वसन्तसेना---( सविस्मयमात्मगतम् ) कधं मम णअणाणं आआसअरो ज्जेव्व राअसालओ ! । ती संसइदम्हि मंदभाआ । एसो दाणिं मम मंदभाइणीए ऊसरक्खेत्तपडिदो विअ बीअमुट्टी णिप्फलो इध आगमणो संवुत्तो । ता किं एत्थे करइस्सं १ । [कथं मम नयनयोरायासकर एव राजश्यालः ? । तत्संशयितास्मि मन्दभाग्या । एतदिदानीं मम मन्दाभागिन्या ऊषरक्षेत्रपतित इव बीजमुष्टिर्निष्फलमिहागमनं संवृत्तम् । तत्किमत्र करिष्यामि ? ।।

 शकारः---कादले खु एशे वुड्ढचेडे पवहणं णावलोएदि । भावे । आलोएहि पवहणं । [ कातरः खल्वेष वृद्धचेटः प्रवहणं नावलोकयति । भाव ! आलोकय प्रवहणम् ।

 विटः–को दोषः ? । भवत्वेवं तावत् ।

 शकारः–कधं शिआला उड्डेंति, वाअशा वच्चेंति ? । ता जाव भावे अक्खीहिं भक्खीअदि, दंतेहिं पेक्खीअदि, ताव हग्गे पलाइश्शं ।। [कथं शृगाला उड्डीयन्ते, वायसा व्रजन्ति ? । तद्यावद्भावोऽक्षिभ्यां भक्ष्यते दन्तैः प्रेक्ष्यते, तावदहं पलायिष्ये ।।


विपरीतोक्तिः शकारवाक्यत्वात् ॥ अवनतेत्यादि । पुष्पिताग्रा । प्रयाम इति लोटौ मस (?) । गौरवमात्मनि बहुमानः ॥ १५ ॥ वुडढचेडे निन्दितश्रोतः । “वृद्धश्वोन्नेषांम्ह इत्यावाचकः । अकारणात्' इति पूर्वटीका (?) ॥ कथं शृगाला उडीयन्ते । वायसा घावन्ति ।। तद्यावद्भावोऽक्षिभ्यां भक्ष्यते दन्तैः प्रेक्ष्यते ।  विटः-( वसन्तसेनां दृष्ट्वा, सविषादमात्मगतम्) कथमये, मृगी व्याघ्रमनुसरति ?। भोः ! कष्टम्;

शरच्चन्द्रप्रतीकाशं पुलिनान्तरशायिनम् ।
हंसी हंस परित्यज्य वायसं समुपस्थिता ॥ १६ ॥

( जनान्तिकम् ) वसन्तसेने । न युक्तमिदम्, नापि सदृशमिदम् ;

पू1र्वं मानादवज्ञाय द्रव्यार्थे जननीवशात् ।।

 वसन्तसेना---ण । [न।] ( इति शिरच्चालयति ।)

 विटः---

अशौण्डीर्यस्वभावेन वेशभावेन मन्यते ॥ १७ ॥

ननूक्तमेव मया भवतीं प्रति---‘सममुपचर भद्रे ! सुप्रियं चाप्रियं च ।।

 वसन्तसेना---पवहणविपज्जासेण आगदा । सरणागदम्हि । [प्रवहणविपर्यसेनागता । शरणागतास्मि ।]

 विटः---न भेतव्यं न भेतव्यम् ; भवतु । एनं वञ्चयामि । (शकारमुपगम्य ।) काणेलीमातः ! सत्यं राक्षस्येवात्र प्रतिवसति ।

 शकारः—भावे भावे ! जइ लक्खशी पडिवशदि, ता कीश ण तुमं मूशेदि १ अध चोले, ता कि तुमं ण भक्खिदे १ । [भाव भाव ! यदि राक्षसी प्रतिवसति; तत्कथं न त्वां मुष्णाति ? । अथ चौरः, तदा किं त्वं न भक्षितः ।।1।


शकारवाक्यत्वाद्विपरीतोक्तिः । तावदहं पलाये। अन्यथा वापन्यात् (१) । लाघवानायाति कातरे विदुःखं काकादने भीरुः (१) । शरदिति ॥ १६ ॥ पूर्वमिति । वेशभावेन (?) ॥ १७ ॥ नाम्पश इति न्यन्तात् । कर्मणि लकारः । मोक्षयति (?) । भक्खिदे भक्षितः । विपरीतोक्तिः पूर्ववत् ॥ टिप्प०-1 पूर्वं यदा दशसहस्रसुवर्णमुद्राणामलंकाराः प्रवहणं च प्रेषितं तदा गर्वाद्गाजश्यालकमिमं तिरस्कृत्य, इदानीं द्रव्यनिमित्तं जननीवशादिदैवागतासि । 2 औदार्यस्वभावेन वेश्यात्वादागतासीति जनेन मन्यते इत्याशयः ।  विटः--किमनेन निरूपितेन ? । यदि पुनरुद्यानपरम्परया पद्भयामेव नगरीमुज्जयिनीं प्रविशावः, तदा को दोषः स्यात् ।।

 शकारः--एवं किदे किं भोदि १ } [ एवं कृते किं भवति ? ।।

 विटः–एवं कृते व्यायामः सेवितो धुर्याणां च परिश्रमः परिहृतो भवति ।।

 शकारः–एवं भोदु । थावलआ चेडा 1 णेह पवहणं । अधवा च्यिश्ट । च्यिश्ट; देवदाणं बम्हणाणं च अग्गदो चलणेण गच्छामि । णहि णहि, पवहाणं अहिलुहिअ गच्छामि, जेण दूलदो मं पेक्खिअ

 भणिश्शंति--‘एशे शे लश्टिअशाले भश्टालके गच्छदि' । [एवं भवतु । स्थावरक चेट ! नय प्रवहणम् । अथवा तिष्ठ तिष्ठ; देवतानां ब्राह्म- णानां चाग्रतश्चरणेन गच्छामि। नहि नहि, प्रवहणमधिरुह्य गच्छामि, येन दूरतो मां प्रेक्ष्य भणिष्यन्ति–'एष स राष्ट्रियश्यालो भट्टारको गच्छति' ।]

 विटः---{स्वगतम् ) दुष्करं विषमौषधीकर्तुम् । भवतु । एवं तावत् । (प्रकाशम् ) काणेलीमातः ! एषा वसन्तसेना भवन्तुमभिसारयितुमागता ।

 वसन्तसेना--संत पावं संत पावं । [ शान्तं पापम्, शान्त पापम् ।

 शकारः-(सहर्षम् ) भावे भावे, मं पबलपुलिशं मणुश्शं वाशुदेवकं । [भावे भाव ! मां प्रवरपुरुषं मनुष्यं वासुदेवकम् ।

 विटः-अथ किम् ।

 शकारः-- तेण हि अपुव्वा शिली शमशादिदा । तश्शिं काले मए लोशाविदा, शंपदं पादेशुं पडिअ पशादेमि । [ तेन ह्यपूर्वा श्रीः


अथवेत्यतलस्थोक्तिः । शृगाला उड्डीयन्तीत्यादि । चतुष्टयमपक्रमम् । देवदाणं बम्हणाणं अग्गदो चलणेण गच्छामि । नहि नहीति न्यायविरुसमासादिता । तस्मिन्काले मया रोषिता, सांप्रतं पादयोः पतिता प्रसादयामि । ]

 विटः---साध्वभिहितम् ।।

 शकारः---एशे पादेशुं पडेमि । ( इति वसन्तसेनामुपसृत्य ) अत्तिके, अम्बिके । शुणु मम विण्णत्तिं ।।

एशे पड़ामि चलणेशु विशालणेत्ते !
हश्तंजलिं दशणहे तत्र शुद्धदंति !।
जं तं मए अवकिदं मदणातुलेण
तं खम्मिदाशि वलगत्ति ! तव म्हि दाशे ॥ १८ ॥

एष पादयोः पतामि । मातः, अम्बिके! शृणु मम विज्ञप्तिम् । एष पतामि चरणयोर्विशालनेत्रे! हस्ताञ्जलिं दशनखे तव शुद्धदन्ति !। यत्तव मयापकृतं मदनातुरेण तत्क्षामितासि वरगात्रि ! तवास्मि दासः ।]

 वसन्तसेना--( सक्रोधम् ) अवेहि, अण्णज्जं मंतेसि । [ अपेहि, अनार्यं मन्त्रयसि ।] ( इति पादेन ताडयति )

 शकारः-( सक्रोधम् )

जे चुंबिदे अंबिकमादुकेहिं गदे ण देवाण वि जे पणामं ।
शे पाडिदे पादतलेण मुंडे वणे शिआलेण जधा मुदंगे ॥ १९ ॥

 अले थावलआ चेडा ! कहिं तुए एशा शमाशादिदा ।।

[यच्चुम्बितमम्बिकामातृकाभिर्गतं न देवानामपि यत्प्रणामम् ।
तत्पातितं पादतलेन मुण्डे वने शृगालेन यथा मृताङ्गम् ।।

अरे स्थावरक चेट ! कुत्र त्वयैषा समासादिता ? ।]


द्धम् ॥ तेन ह्यपूर्वा श्रीः समासादिता । लोशाविदा रोपिता ॥ हे अत्तिके हे अम्बिके । एशे पडामि इत्यादि । वसन्ततिलकम् । एष पतामि चरणयोर्विशालनेत्रे हस्ताञ्जलिं दशनखे तव शुद्धदन्ति । यत्तव मयापकृतं मदनातुरेण तत्क्षमस्वेदानीं वरगात्रि । तवास्मि दासः ॥ १८ ॥ जे चुंबिदे इति । उपजात्यो ।  चेटः-भश्टके ! गामशअलेहिं लुद्धे लाअमग्गे। तदो चालुदत्तश्श लुक्खवाड़िआए पवहणं थाविअ तर्हि ओदलिअ जाव चक्कपलिवट्टियं कलेमि, ताव एशा पावणविपज्जाशेण इह आलुढे त्ति तक्केमि । [ भट्टक ! ग्रामशकटै रूद्धो राजमार्गः । तदा चारुदत्तस्य वृक्षवाटि- कायां प्रवहणं स्थापयित्वा तत्रावतीर्य यावच्चक्रपरिवृत्तिं करोमि, तावदेषा प्रवहणविपर्यासेनेहारूढेति तर्कयामि ।।

 शकारः–कधं पवहणविपज्जाशेण आगदा, ण मं अहिशालिदुं ? ।। ता ओदल ओदल ममकेलकादो पवहणादो । तुमं तं दलिद्दशत्थवाहपुत्तकं अहिशालेशि । ममकेलकाई गोणाइं वाहेशि । ता ओदल ओदल गब्भदाशि ! ओदल ओदल । [कथं प्रवहणविपर्यासेनागता, ने मामभि- सारयितुम् ? तदवतरावतर मदीयात्प्रवहणात् । त्वं तं दरिद्रसार्थवाहपुत्रकमभिसरसि । मदीयौ गावौ वायसयसि । तदवतरावतर गर्भदासि ! अवतरावतार ।।

 वसन्तसेना--तं अज्जचारुदत्तं अहिसारेसि त्ति जं सच्चं, अलंकिदम्हि इमिणा वअणेण । संपदं जे भोदु तं भोदु । [ तमार्यचारुदत्तमभिसरसीसीति यत्सत्यम् , अलंकृताऽस्म्यमुना वचनेन। सांप्रतं यद्भवति तद्भवति ।]

 शकारः---

एदेहिं दे दशणहुप्पलमंडलेहिं।
इत्थेहिं चाडुशदताडणलंपडेहिं ।
कट्ठामि दे वलतणुं णि अजाणकादो
केशेशु बालिदइअं वि जहा जड़ाऊ ॥ २० ॥


ये चुम्बिता मातृकाम्बिकाभिर्गता न देवानामपि ये प्रमाणम् ( प्रणामम् )। ते पातिताः पादतलेन मुण्डा वने श्रृगालेन या मृदङ्गाः ॥ मातृका इति स्वार्थे कः । मुण्डा इति बहुवचनमप्यनर्थकम् ॥ १९ ॥ एदेहिं इत्यादि । वसन्त

[ एताभ्यां ते दशनखोत्पलमण्डलाभ्यां
हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् ।
कर्षामि ते वरतनुं निजयानका
त्केशेषु वालिदयितामिव यथा जटायुः ॥]

 विटः----

अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः।
न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥ २१ ॥

तदुत्तिष्ठ त्वम्, अहमेनामवतारयामि । वसन्तसेने ! अवतीर्यताम् ।

( वसन्तसेनावतीर्यैकान्ते स्थिता )

 शकारः----(स्वगतम् ) जे शे मम वअणावमाणेण तदा लोशग्गी शंधुक्खिदे, अज्ज एदाए पादप्पहालेण अणेण पज्जलिदे, तं शंपदं मालेमि णं । भोदु एव्वं दाव । ( प्रकाशम् ) भावे भावे !

जदिच्छशे लंबदशाविशालं पावालअं शुत्तशदेहिं जुत्तं ॥
मंशं च स्वादुं तह तुश्टि कादुं चुहू चुहु चुक्कु चुहू चुहूत्ति ॥ २२ ॥

[ यः स मम वचनावमानेन तदा रोषाग्निः संधुक्षितः, अद्यैतस्याः पादप्रहारेणानेन प्रज्वलितः। तत्सांप्रतं मारयाम्येनाम् । भवतु एवं तावत् । भाव भाव !

यदीच्छसि लम्बदशाचिशालं प्रावारकं सूत्रशतैर्युक्तम् ।।
मांसं च खादितुं तथा तुष्टिं कर्तुं चुहू चुहू चुकु चुहू चुहू इति ॥ ]


तिलकच्छन्दसा । सबिन्दोः पाक्षिकगुरुत्वात एदेहिं हत्थेहिं इत्यनयोर्लघुत्वम् । एताभ्यां तव दर्शनखोल्पलमण्डलाभ्यां हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् । कर्पयामि दे त्वाम् । वरतनुं निजयानकान्केशेषु वालिदयितामिव यथा केशेषु जटायुराकृष्टवान् । पाठान्तरे हनुमानित्यर्थः । व्याहृतोपमं चेदम् ॥ २० ॥ अग्राह्या इति ॥ २१॥ योऽसौ वचनामानेन तदा रोषाग्निः संधुक्षितः । सोऽद्येतस्याः पादप्रहारेणानेन प्रज्वलितः । ततः सांप्रतं मारयाम्येनाम् । जदिच्छशे इत्यादि । उपजातिच्छन्दसा । यदीच्छसि लम्बदशा विशालं प्रावारकं प्रच्छदं सूत्रशतैर्मग्रथितम् । मांस च खादितुं तथा तुष्टिं कर्तुम् । चुहू चुहू  विटः-----ततः किम् ।।

 शकारः-मम पिअं कलेहि । [ मम प्रियं कुरु ।]

 विटः---बाढं करोमि वर्जयित्वा त्वकार्यम् ।

 शकारः—भावे ! अकज्जाह गंधे वि णत्थि । लक्खशी कावि णत्थि । [ भाव ! अकार्यस्य गन्धोऽपि नास्ति । राक्षसी कापि नास्ति ।]

 विटः---उच्यतां तर्हि ।।

 शकारः---मालेहि वशंतशेणिअं । [ मारय वसन्तसेनाम् ।

 विटः----( कर्णौ पिधाय )

बालां स्त्रियं च नगरस्य विभूषणं च ।
वेश्यामवेशसदृशप्रणयोपचाराम् ।
एनामनागसमहं यदि घातयामि
केनोंडुपेन परलोकनदीं तरिष्ये ॥ २३ ॥

 शकारः-- अहं ते मेडक दइश्शं । अण्णं च, विवित्ते उज्जाणे इध मालंतं को तुमं पेक्खिश्शदि ।। अहं त उडुपं दास्यामि । अन्यच्च विविक्ते उद्यान इह मारयन्तं कस्त्वां प्रेक्षिष्यते ।।]

 विटः--

पश्यन्ति मां दशदिशो वनदेवताश्च
चन्द्रश्च दीप्तकिरणश्च दिवाकरोऽयम् ।
धर्मानिलौ च गगनं च तथान्तरात्मा ।
भूमिस्तथा सुकृतदुष्कृतसाक्षिभुता ॥ २४ ॥


चुक्कु चुहू चुहूत्ति इत्यनुकरणम् ॥ २२ ॥ निक्षिकेन्योन्यार्थावेतौ (१) ॥ बालामिति । अवेशसदृशेति । अवेश्यापाठकोचितं कृत्तिमम् (१) ॥ २३ ॥ विवित्ते बिजने । पटान्तापवारितां कृत्वा ॥ पश्यन्तीति ॥ ३४ ॥ अपध्वस्तो .•

टिप्पः– तदानीं मध्याह्ने रवेर्मस्तकस्थितत्वादा --अयमिति ।  शकारः---तेण हि पडंतोवालिदं कदुअ मालेहि । [ तेन हि पटान्तापवारितां कृत्वा मारय ।]

 विटः---मूर्ख ! अपध्वस्तोऽसि ।।

 शकारः–अधम्मभीलू एशे बुड्ढकोले । भोदु, थावलअं चेडं अणुणेमि । पुत्तका थावलका चेडा ! शोवण्णखंडुआइं दइश्शं । [ अधर्मभीरुरेष वृद्धकोलः । भवतु, स्थावरकं चेटमनुनयामि । पुत्रक स्थावरक चेट ! सुवर्णकटकानि दास्यामि ।

 चेटः–अहं पि पहिलिश्शं । [ अहमपि परिधास्यामि ।]

 शकारः-शोवण्णं दे पीढके कालइश्शं । [सौवर्ण ते पीठकं कारयिष्यामि ।।

 चेटः--अहं पि उवशिश्शं । [ अह्मप्युपवेक्ष्यामि ।]

 शकारः-शव्वं दे उच्छिश्टअं दइश्शं । [ सर्व त उच्छिष्टं दास्यामि । ]

 चेटः---अहं पि खाइश्शं । [ अहमपि खादिष्यामि ।]

 शकारः--शव्वचेडाणं महत्तलकं कलइश्शं । [ सर्वचेटानां महत्तरकं कारयिष्यामि ।]

 चेटः–भट्टके ! हुविश्शं । [ भट्टक ! भविष्यामि ।।

 शकारः-—ता मण्णेहि मम वअणं । [ तन्मन्यस्व मम वचनम् ।।

 चेटः--भट्टके ! शव्वं कलेमि वजिअ अकज्जं । [भट्टक ! सर्व करोमि वर्जयित्वाऽकार्यम् ।]

 शकारः---अकज्जाह गंधे वि णन्थि । [ अकार्यस्य गन्धोऽपि नास्ति ।]


धिकृतः ॥ खंडुआइं बाहुवलय विशेषान् । पहिलिस्सं परिधास्ये ॥ पीढके पीठम् ॥ उवधिसिस्सं उपवेक्ष्यामि ॥ तंवहिहिसिधोष्टासि (१) उच्छिश्टअं भोजनाव- - चेटः–भणादु भट्टके । [ भणतु भट्टकः।]

 शकारः--एणं वशंतशेणिअं मालेहि । [एनां वसन्तसेनां मारय ।]

 चेटः---पशीददु भट्टके । इयं मए अणज्जेण अज्जा पवहणपलिवत्तणेण आणीदा । [ प्रसीदतु भट्टकः । इयं मयानार्येणार्या प्रवहणपरि- वर्तनेनानीता।]

 शकारः--अले चेडा ! तवावि ण पहवामि । [ अरे चैट ! तवापि न प्रभवामि ।]

 वेटः—पहवदि भट्टके शलीलाह, ण चालित्ताह । ता पशीददु पशीददु भट्टके । भाआमि खु अहं । [प्रभवति भट्टकः शरीरस्य, न चारित्र्यस्य । तत्प्रसीदतु प्रसीदतु भट्टकः । बिभेमि खल्वहम् ।]

 शकारः---तुमं मम चेडे भविअ कश्श भाआशि ? । [ त्वं मम धेटो भूत्वा कस्माद्विभेषि ?।]

 चेटः–भट्टके ! पललोअश्श । [ भट्टक! परलोकात् ।]

 शकारः---के शे पललोए ?। कः स परलोकः १ ।]

 चेटः---भट्टके ! शुकिददुकिदश्श पलिणामे । [ भट्टक! सुकृत- दुष्कृतस्य परिणामः ।।

 शकारः----केलिशे शुकिदश्श पलिणामे १। [ कीदृशः सुकृतस्य परिणामः १ ।।

 चेटः--जादिशे भट्टके बहुशुण्णमंडिदे । [यादृशो भट्टको बहु- सुवर्णमण्डितः । ।

 शकारः-दुक्किदश्श केलिशे ? । [दुष्कृतस्य कीदृशः ? ।]

 चेटः----जादिशे हग्गे पलपिंडभक्खके भूदे, ता अकज्जं ॥ कलइश्शं । [ याद्दशोऽहं परपिण्डभक्षको भूतः, तदकार्य न करिष्यामि ।। शिष्टम् ॥ प्रभवति मम भट्टारकः शरीरस्य, न चारित्र्यस्य । परपिण्डभक्षको भूतः ॥  शकारः----अले ! ण मालिशशि ? । [अरे ! न मारयिष्यसि ? 1]

( इति बहुविधं ताडयति )

 चेटः–पिट्ठयदु भट्टके, मालेदु भट्टके, अकज्जं ण कलइश्शं ।

जेण म्हि गब्भदाशे विणिम्मिदे भाअधेअदोशेहिं ।
अहिअं च ण कीणिश्शं तेण अकज्जं पलिहलामि ॥ २५ ॥

तादयतु भट्टकः, मारयतु भट्टकः, अकार्य न करिष्यामि ।

येनास्मि गर्भदासो विनिर्मितो भागधेयदोषैः ।।
अधिकं च न क्रीणिष्यामि तेनाकार्यं परिहरामि ॥ ]

 वसन्तसेना-भाव ! शरणागद म्हि । [ भाव ! शरणागतास्मि ।]

 विदः----काणेलीमातः ! मर्षय मर्षय । साधु स्थावरक ! साधु ।

अप्येष नाम परिभूतदशो दरिद्रः ।
प्रेष्यः परत्र फलमिच्छति नास्य भर्ता ।
तस्मादमी कथमिवाद्य न यान्ति नाशं
ये वर्धयन्त्यसदृशं सदृशं त्यजन्ति ॥ २६ ॥

अपि च,-

रन्ध्रानुसारी विषमः कृतान्तो यदस्य दास्यं तव चेश्वरत्वम्।।
श्रियं त्वदीयां यदयं न भुङ्के यदेतदाज्ञां न भवान्करोति ॥ २७ ॥

 शकारः-( स्वगतम्) अधम्मभिलुए वुडढुखोडे । पललोअभिलु 'एशे गम्भदाशे । हग्गे लट्ठिअशाले कश्श भाआमि वलपुलिशमणुश्शे । ( प्रकाशम् ) अले गम्भदाशे चेडे ! गच्छ तुमं । ओवलके पविशिअ वीशंते एअंते च्यिश्ट । [ अधर्मभीरुको वृद्धशृगालः । परलोकभीररेष


पिट्टयतु ताडयतु मारयतु वा । जेण म्हीत्यादि । गाथा । येनास्मि गर्भदासो विनिर्मितो भागधेयदोषेण । अधिकं च न क्रीणि (के) ष्यामि तेनाइमकार्य परिह- रामि ॥ २५ ॥ अपीति ॥ २६ ॥ रन्प्ध्रेति ॥ २७ ॥ कस्स भाआमि गर्भदासः । अहं राष्ट्रियश्यालः कस्माद्बिभेमि वरपुरुषमनुष्यः १ । अरे गर्भदास चेट ! गच्छ त्वम् । अपवारके प्रविश्य विश्रान्त एकान्ते तिष्ठ ।]

 चेटः--जं भट्टके आणवेदि । ( वसन्तसेनामुपसृत्य ) अज्जए ! एत्तिके मे विहवे । [ यद्भट्टक आज्ञापयति । आर्ये! एतावान्मे विभवः । ( इति निष्क्रान्तः) ।

 शकारः—(परिकरं बध्न्न) च्यिश्ट वशंतशेणिए ! च्यिश्ट; माल- इश्शं । [ तिष्ठ वसन्तसेने ! तिष्ठ; मारयिष्यामि ।]

 विटः–आः, ममाग्रतो व्यापादयिष्यसि ? । ( इति गले गृह्णाति )

 शकारः---(भूमौ पतति ) भावे ! भश्टकं मालेदि । ( इति मोहं नाट- यति, चेतनां लब्ध्वा )

शब्वकालं मए पुश्टे मंशेण अ घिएण अ ।
अज्ज कज्जे शमुरप्पण्णे जादे में वेलिए कधं ॥ २८ ॥

( विचिन्त्य ) भोदु, लद्धे मए उवाए । दिण्णा वुड्ढुखोडेण शिलश्चाल- णशण्णा । ता एदं पेशिअ वशंतशेणिअं मालइश्शं। एव्वं दाव । ( प्रकाशम् ) भावे ! जं तुमं भए भणिदे, तं कधं हग्गे एव्वं वडडकेहिं मल्लकम्पमाणेहिं कुलेहिं जादे अकज्जं कलेमि ? एव्वं एदं अंगीकलावेदुं मए भणिदं । [ भावो भट्टकं मारयति ।


क( स्मात् )स्य बिमेमि। अपि तु न कस्यापीयर्थः ॥ ओवलिके अपवारके गृह विशेष इत्यर्थः ॥ परिकरे ‘काछ' इति प्रसिद्धम् ॥ सर्षकालमित्यादि । अर्थस्तु--- सर्वकालं मया पुष्टो मांसेन च घृतेन च । अद्य कार्ये समुत्पन्ने जातो मे वैरिकः कथम् ॥ वैरिको वैरी। स्वार्थे कः ॥ ३८ ॥ लब्धो मयोपायः । दत्ता वृद्धखोडेन शण्णा उपदेशः । एदं विटम् । भाव} यत्त्वं मया भणितः सर्वः समम् (?)। कथमहं एवं बृहतो मल्लकप्रमाणात् । समुद्रप्रमाणादिति वक्तव्ये मो मौर्ख्यान्मल्ल- कप्रमाणतया कुलमुपमिनोति। मल्लिका पत्रपुटिका तया कुलस्य महत्त्वं मौर्ख्यादुपमिनोति' इति प्राचीनटीका । जातोऽकार्य करोमि । एवमेतदङ्गीकारयितुं मया भणि- मृ० १४

सर्वकालं मया पुष्टो मांसेन च घृतेन च ।
अद्य कार्ये समुत्पन्ने जातो मे वैरी कथम् ॥

भवतु। लब्धो मयोपायः । दत्ता वृद्धशृगालेन शिरश्चालनसंज्ञा । तदेतं प्रेष्य वसन्तसेनां मारयिष्यामि । एवं तावत् । भाव ! यत्त्वं मया भणितः, तत्कथमहमेवं बृहत्तरैः मल्लकप्रमाणैः कुलैर्जातोऽकार्यं करोमि ? । एवमेत- दङ्गीकारयितुं मया भणितम् ।।

 विटः-

किं कुलेनोपदिष्ठेन, शीलमेवात्र कारणम् ।
भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ २९ ॥

 शकारः----भावे ! एशा तव अग्गदो लज्जाअदि, ण मं अंगीकलेदि, ता गच्छ । थावलअचेडे मए पिश्टिदे गदे वि । एशे पलाइअ गच्छदि । ता ते गेण्हिअ आअच्छदु भावे । [भाव ! एषा तवाग्रतो लज्जते न मामङ्गीकरोति । तद्गच्छ, स्थावरकचेटो मया ताडितो गतोऽपि । एष प्रपलाय्य गच्छति । तस्मात्तं गृहीत्वागच्छतु भावः ।]

 विटः–(स्वगतम् )

अस्मत्समक्षं हि वसन्तसेना शौण्डीर्यभावान्न भजेत मूर्खम् ।
तस्मात्करोम्येष विविक्तमस्या विविक्तविश्रम्भरसो हि कामः ॥३०॥

( प्रकाशम् ) एवं भवतु, गच्छामि ।

 वसन्तसेना—(पटान्ते गृहीत्वा ) ण भणामि शरणागदम्हि । [ ननु भणासि शरणागतास्मि ।]

 विटः----वसन्तसेने। न भेतव्यं न भेतव्यम्; काणेलीमातः । वसन्तसेना तव हस्ते न्यासः ।


तम् ॥ किं कुलेनेति ॥ २९ ॥ अस्मदिति ॥ ३०॥ णासेण न्यासेन, विनाशेन च।। अथवा कपटकापटिको प्राणः वृद्धखोडः कदाचिदपवारितस्तिष्ठति शृगालः ॥  शकारः--एव्वं; भम हश्ते एशी णाशेण च्यिश्टदु । [ एवम् । मम इस्ते एषा न्यासेन तिष्ठतु ।]

 विट----सत्यम् ।।

 शकारः--शच्चं । [ सत्यम् ।।

 विदः--( किंचिद्गत्वा) अथवा मयि गते नृशंसो हन्यादेनाम् । तदपवारितशरीरः पश्यामि तावदस्य चिकीर्षितम् । ( इत्येकान्ते स्थितः )

 शकारः---भोदु, मालइश्शं । अधवा कवडकावडिके एशे

बम्हणे वुड्ढुखोडे कदावि ओवालिदशलीले गडिअ शिआले भविअ हुलुभुलिं कलेदि । ता एदश्श वंचणाणिमित्तं एवं दाव कलइश्शं । (कुसुमावचयं कुर्वन्नात्मानं मण्डयति) वाशू वाशू, वशंतशेणिए । एहि । [ भवतु, मारयिष्यामि । अथवा कपटकापटिक एष ब्राह्मणो वृद्धशृगालः कदाचिदपवारितशरीरो गत्वा शृगालो भूत्वा कपटं करोति । तदेतस्य वञ्चनानिमित्तमेवं तावत्करिष्यामि । बाले बाले वसन्तसेने ! एहि ।]

 विटः---अये, कामी संवृत्तः । इन्त, निवृतोऽस्मि, गच्छामि । ( इति निष्क्रान्तः)

 शकारः--

शुवण्णअं देमि पिअं वदेमि पडेमि शीशेण शवेटणेण।।
तधा वि में गच्छशि शुद्धदेति ! किं शेवयं कश्टम मणुश्शी ॥३१

[सुवर्णकं ददामि प्रियं वदामि पतामि शीर्षेण शवेष्टणेण ।
तथापि मां नेच्छसि शुद्धदन्ति ! किं सेवक कष्टमया मनुष्याः ॥]

 वसन्तसेनाको एत्थ संदेहो।(अवनतमुखी ‘खलचरित' इत्यादि- श्लोकद्वयं पठति )


शुवण्णकमिति । उपजातिः । सुवर्णकं ददामि, प्रियं वदामि, पतामि शीर्षेण सवे ष्टनेन सोष्णीषेण । तेन नूनं वैशूनी इति प्रसिद्धम् (?)। तथापि मां नेच्छसि शुद्धदन्ति

खलचरित निकृष्ट ! जातदोषः
कथमिह मां परिलोभसे धनेन ।
सुचरितचरितं विशुद्धदेहं।
न हि कमलं मधुपाः परित्यजन्ति ॥ ३२ ॥

यक्षेन सेवितव्यः पुरुषः कुलशीलवान् दरिद्रोऽपि ।
शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः ॥ ३३ ॥

अवि अ, सहआरपादवं सेविअ ण पलासपादवं अंगीकरिस्सं । [ कोऽत्र संदेहः ? अपि च, सहकारपादपं सेवित्वा न पलाशपादप- मङ्गीकरिष्यामि ।।

 शकार—दाशीए धीए ! दलिद्दचालुदत्तके शहआलपादवे कडे, इग्गे उण पलाशे भणिदे, किंशुके वि को कड़े । एव्वं तुमं मे गालिं देंती अञ्ज वि तं ज्जेव चालुदत्तकं शुमलेशि ।। [ दास्याःपुत्रि ! दरिद्रचार- दत्तकः सहकारपादपः कृतः, अहं पुनः पलाशो भणितः, ? किंशुकोऽपि न कृतः । एवं त्वं मह्यं गालीं ददत्यद्यापि तमेव चारुदत्तकं स्मरसि? ।]

 वसन्तसेना--हिअअगदो ज्जेव्व किंत्ति न सुमरीअदि ? । { हृदयगत एव किमिति न स्मर्यते ? ।]

 शकारः–अज्ज वि दे हिअअगदं तुमं च शमं ज्जेव मोडेमि । ता दलिद्दशत्थवाहअमणुश्शकामुकिणि ! च्यिष्ट च्यिश्ट । [अद्यापि ते हृदयगतं त्वां च सममेव मोटयामि । तद्दरिद्रसार्थवाहकमनुष्यकामुकिनि ! तिष्ठ तिष्ठ।]

 वसन्तसेना-भण भण, पुणो वि भण सलाहणिआइं एदाइं अक्खराइं । [भण भण, पुनरपि भण श्लाघनीयान्येतान्यक्षराणि ।]


किं सेवकाः कष्टमया मनुष्याः ॥ ३१॥'खलचरित' ‘यनेन' [इति] प्रतीकपाठो दृश्यते । तत्र ‘इत्यादि' इत्यध्याहार्यः । इत्यादि लोकद्वयं पठतीत्यर्थः । खलचरितेति निकृष्टेति च संबोधनद्वयम् ॥ ३२ ॥ ३३ ॥ पलाशपदेन राक्षसोऽप्यभिधीयते । गालिं  शकार--पलित्ताअदु दाशीए पुत्ते दलिचालुदत्तके तुमं । [परित्रायतां दास्याः पुत्रो दरिद्रचारुदत्तकत्वाम् । ] ।

 वसन्तसेना---परित्ताअदि जदि मं पेक्खदि । [ परित्रायते यदि मां प्रेक्षते ।

 शकारः--

{{block center|{{bold|<poem>किं शे शके वालिपुत्ते महिंदे लंभापुत्ते कालणेमी शुबंधू ।। लुद्दे लाआ दोणपुत्ते जड़ाऊ चाणक्के वा धुंधुमाले तिशंकू ॥ ३४ ॥

अधवा, एदे वि दे ण लक्खंति ।

 चाणक्केण जधी शीदा मानिदा भालदे जुए। एव्वं दे मोदइश्शामि जड़ाऊ विअ दोव्वदिं ॥ ३५ ॥

( इति ताडयितुमुद्यतः)

{{block center|{{bold|<poem>[ किं स शक्रो वालिपुत्रो महेन्द्रो रम्भापुत्रः कालनेमिः सुबन्धुः । रुद्रो राजा द्रोणपुत्रो जटायुश्चाणक्यो वा धुन्धुमारस्त्रिशङ्कः ॥ ]

अथवा, एतेऽपि त्वां न रक्षन्ति ।

{{block center|{{bold|<poem>चाणक्येन यथा सीता मारिता भारते युगे ।। एवं त्वां मोटयिष्यामि जटायुरिव द्रौपदीम् ॥]

 वसन्तसेना—हा अत्ते ! कहिं सि ? । हा अज्जचारुदत्त 1 एसो जणो असंपुण्णमणोरधो ज्जेव्व विवज्जदि, ता उद्धं अक्कंदइस्सं । अधवा वसंतसेणा उद्धं अक्कंददि त्ति लज्जणीअं खु एदं । णमो अज्ज-


देंती साक्षेपं वदन्ती इति देशीति चिरंतनटीका । किं शे शङ्के इति । शक्वरी- विशेषच्छन्दसा श्लोकः । किम सौ [ शक्रो ] बालिपुत्रो महेन्दो रम्भापुत्रः कालनेमिः सुबन्धुः । रुद्रो राजा द्रोणपुत्रो जटायुश्चाणक्यो वा धुन्धुमारस्त्रिशङ्कः ।। कालनै- मिरसुरः । सुबन्धुः कवि बिशेषः । धुन्धुर सुरभेदः ॥ ३४ ॥ अथवा, एतेऽपि त्वां न रक्षन्ति । चाणक्येनेत्यादि । अर्थस्तु----चाणक्येन यथा सीता मारिता भारते युगे भारतावच्छिन्ने समये । एवं त्वां मारयिष्यामि जटायुरिव द्रौपदीम् ॥ ३५ ॥ चारुदत्तस्स । [हा मातः ! कुत्रासि १ । हा आर्यचारुदत्त ! एष जनोऽसंपूर्णमनोरथ एव विपद्यते, तदूर्ध्वमाक्रन्दयिष्यामि । अथवा वसन्तसेनोर्ध्वमाक्रन्दतीति लज्जनीयं खल्वेतत् । नम आर्यचारुदत्ताय ।]

 शकारः---अज्ज वि गब्भदाशी तश्श ज्जेव पावश्श णामं गेण्हदि । ( इति कण्ठे पीडयन्) शुमल गब्भदाशि । शुमल । { अद्यापि गर्भदासी तस्यैव पापस्य नाम गृह्णाति १ । स्मर गर्भदासि ! स्मर ।

 वसन्तसेना-णमो अज्जचारुदत्तस्स । [ नम आर्यचारूदत्ताय ।]

 शकारः—मल गम्भदाशि | मल । [ भ्रियतां गर्भदासि ! म्रियताम् । ] ( नाट्येन कण्ठे निपीडयन्मारयति )

( वसन्तसेना मूर्च्छिता निश्चेष्टा पतति )

 शकारः—( सहर्षम् )

एदं दोशकलंडिअं अविणअश्शावासभूदं खलं
लत्तं तश्शे किलागदश्श लमणे कालागदं आअदं ।
किं एशे शमुदाहलामि णिअअं बाहूण शूलत्तणं
णीशाशे वि मलेइ अंब शुमला शीदा जधा भालदे॥ ३६॥

इच्छंतं मम णेच्छति त्ति गणिआ लोशेण मे मालिदा
शुण्णे पुण्फकलंडके त्ति शहशा पाशेण उत्ताशिदा ।
शेवावंचिदभादुके मम पिदा मादेव शा दोप्पदी
जे शे पेक्खदि णेदिशं ववशिदं पुत्ताह शूलत्तणं ॥ ३७ ॥


ऊर्ध्वमुचैस्तराम् ॥ शुभल स्मर ॥ मल म्रियस्व। एदं दोशकलंडिअमित्यादि। शार्दूलेन श्लोकद्वयम् । एतां दोषकरण्डिकामविनयस्यावासभूतां खलां दुर्जनस्वभावाम् । रक्षां तस्य चारुदत्तस्य किलगतस्य रमणे संभोगनिमित्तं कालागतामागताम् । काल कृष्णाम् । किमेष समुदाहरामि निजकं बाह्वोः शूरत्वम् । निःश्वासापि म्रियते अम्बा सुमृता सीता यथा भारते ॥ ३६॥ इच्छन्तं मां नेच्छतीति गणिका रोषेण मया मारिता अन्य पुष्पकरडके इति सहसा पाशेनोन्नासिता । मया भोदु, शंपदं वुड्ढुखोडे आगमिश्शदि त्ति । ता ओशलिअ च्यिश्टामि ।

[एत दोषकरण्डिकामविनयस्यावासभूतां खलां रक्तां तस्य किलागतस्य रमणे कालागतामागताम् । किमेष समुदाहरामि निजकं बाह्वोः शूरत्वं निःश्वासापि म्रियतेऽम्बा सुमृता सीता तथा भारते ॥ इच्छन्तं मां नेच्छतीति गणिका रोषेण मया मारिता शून्ये पुष्पकरण्डक इति सहसा पाशेनोन्नासिता । सेवावञ्चितभ्रातृका मम पिता मातेव सा द्रौपदी योऽसौ पश्यति नेदृशं व्यवसितं पुत्रस्य शूरसत्वम् ॥

भवतु, सांप्रतं वृद्धशृगाल आगमिष्यतीति । ततोऽपसृत्य तिष्ठामि ।]

( तथा करोति )

(प्रविश्य, चेटेन सह )

 विटः–अनुनीतो मया स्थावरकश्चेटः । तद्यावत्काणेलीमातरं पश्यामि । ( परिक्रम्यावलोक्य च ) अये, मार्ग एवं पादपो निपतितः । अनेन च पतता स्त्री व्यापादिता । भोः पाप ! किमिदमकार्यमनुष्ठितं त्वया ? । तवापि पापिनः पतनास्त्रीवधदर्शनेनातीव पातिता वयम् । अनिमित्तमेतत् , यत्सत्यं वसन्तसेनां प्रति शङ्कितं मे मनः । सर्वथा देवताः स्वस्ति करिष्यन्ति । (शकारमुपसृत्य ) काणेलीमातः 1 एवं मयानुनीतः स्थावरकश्चेटः ।।

 शकारः-भावे । आअदं दे । पुश्तका थावलका चेडा ! तवावि शाअदं । [ भाव ! स्वागतं ते । पुत्रक स्थावरक धेट ! तवापि स्वागतम् ।


रोषेण मारिता । इति ] विपर्यस्य योजना । सेवावञ्चितो भ्राता मम पिता माता च सा द्रौपदी । पाठान्तरे तु प्रमांतः पतिः (१)। या सा पश्यति नेदृशं व्यवसितं पुत्रस्य शूरत्वम् ॥ ३७॥ ता ततः । अपसृत्य तिष्ठामि ॥ पाप इति वृक्षं संबोधयति । अनिमित्तमसंकुलम् ॥ पिट्टदो पृष्ठतः । दक्षिणदिग्गतत्वं मृतत्वमपि ।  चेटः--अध इं । [ अथ किम् ।।

 विटः--मदीयं न्यासमुपनय ।।

 शकारः----कीदिशे णाशे ? । [ कीदृशो न्यासः ? ।]

 विटः–वसन्तसेना ।

 शकारः-गडा । [गता ।]

 विटः--क्व ! ।।

 शकारः--भावश्श ज्जेव पिश्टदो । [भावस्यैव पृष्ठतः ।]

 विटः---( सवितर्कम् ) न गता खलु सा तया दिशा ।

 शकारः-तुम कदमाए दिशाए गडे ? । [त्वं कतमया दिशा गतः १ ।]

 विटः-पूर्वया दिशा ।।

 शकारः--शा वि दक्खिणाए गडा। [ सापि दक्षिणया गता ।।

 विटः----अहं दक्षिणया ।।

 शकारः-शा वि उत्तलाए । [ साप्युत्तरया।]

 विटः–अव्याकुलं कथयसि, न शुद्धथति मेऽन्तरात्मा; तत्कथय सत्यम् ।

 शकारः-शवामि भावश्श शीशं अत्तणकेलकेहिं पादेहिं । तो शंठावेहि हिअअं । एशा मए मालिदा। [शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम्, ततः संस्थापय हृदयम् । एषा मया मारिता !!

 विटः--( सविषादम् ) सत्यं त्वया व्यापादिता ।


शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । संस्थापय हृदयम् ; एषा मया मारिता ॥ यदि मम न प्रत्येषि पराक्रमे, ततः प्रेक्षस्व राष्ट्रिक (य) श्यालस्य शूरत्वम् । -.. –.. . -  शकारः---जइ मम वअणे न पत्तिआअशि, ता पेक्ख पढमं लश्टिअशालशंठाणाह शूलत्तणं । [ यदि मम वचने न प्रत्ययसे, तत्पश्य प्रथमं राष्ट्रियश्यालसंस्थानस्य शूरत्वम् ।] ( इति दर्शयति ) ।

 विटः----हा, हतोऽस्मि मन्दभाग्यः । ( इति मूर्च्छितः पतति ) ।

 शकारः---ही ही, उवलदे भावे । [ही ही, उपरतो भावः ।]

 चेटः-शमश्शशदु शमशशदु भावे । अविचालिअं पवहणं आणंतेण ज्जेव मए पढमं मालिदा। [ समाश्वसितु समाश्वसितु भावः । अविचारितं प्रवहणमानयतैव मया प्रथमं मारिता ।]

 विटः---( समाश्वस्य, सकरुणम् ) हा वसन्तसेने !

दाक्षिण्योदकवाहिनी विगलिता याता स्वदेशं रति-
र्हा हालंकृतभूषणे सुवदने क्रीडारसोद्भासिनि ! ।
हा सौजन्यनदि प्रहासपुलिने हा मादृशामाश्रये !
हा हा नश्यति मन्मथस्य विपणिः सौभाग्य1पण्याकरः ॥३८॥

( सास्रम् ) कष्टं भोः ! कष्टम्

किं नु नाम भवेत्कार्यमिदं येन त्वया कृतम् ।
अपापा पापकल्पेन नगरश्रीर्निपातिता ॥ ३९ ॥

(स्वगतम् ) अये । कदाचिदयं पाप इदमकार्य मयि संक्रामयेत् । भवतु, इतो गच्छामि । ( इति परिकामति )

(शकार उपगम्य धारयति )

 विटः–पाप ! मा मा स्प्राक्षीः । अलं त्वया, गच्छाम्यहम् ।


उवलदे उपरतः । दाक्षिण्येति ॥ ३८ ॥ किं न्विति ॥ ३९ ॥ हे पाप टिप्प०-- सौभाग्यं सौन्दर्यं सुदैवं विलासादीनामद्भुतत्वं च तदेव पण्यं विक्रयवस्तूजातं तस्याकर: खनिः, उत्पत्तिभूमिरिति भावः । अत्र करुणो रसः ।  शकार--अले ! वशंतशेणिअं शअं ज्जेव मालिअ मं दूशिअ कहिं पलाअशि शंपदं ईदिशे हग्गे अणाधे पाविदे । [ अरे ! वसन्त- सेनां स्वयमेव मारयित्वा मां दूषयित्या कुत्र पलायसे ?। सांप्रतमीदृशोऽहमनाथः प्राप्तः ।।

 विटः--अपध्वस्तोऽसि ।

 शकारः---

अत्थं शदं देमि शुवण्णअं दे
कहावणं देमि शवो1डिअं दे।
एशे दुशद्दाण फलक्कमे मे।
शामाण्णए भोदु मणुश्शआणं ॥ ४० ॥

[अर्थं शतं ददामि सुवर्णकं ते काषापणं ददामि सवोडिणं ते ।
एष दोषस्थानं पराक्रमो मे सामान्यको भवतु मनुष्यकाणाम् ॥ ]

 विटः–धिक्, तवैवास्तु ।।

 चेटः--शंतं पावं । [ शान्त पापम् ।]

(शकारो हसति )

 विद!----

अप्रीतिर्भवतु विमुच्यतां हि हासो ।
धिक्प्रीतिं परिभव2कारिकामनार्याम् ।
मा भूच्च त्वयि मम संगतं कदाचि-
दाच्छिन्नं धनुरिव निर्गुणं त्यजामि ॥ ४१ ॥


हे पापसंकल्प ।। अत्थं शदमिति । अथे शतं ददामि सुवर्णकं ते कार्षापर्ण ददामि सवोटिकं ते । वोडी विंशतिकपर्दका ( क ) गौडे प्रसिद्धः । तच्चतुष्टयं 'पणः । ते षोडश कार्षापणः कहावण इत्येके । एष दोषस्थानं पराक्रमो मे साधारणो भवतु मनुष्याणाम् ॥ ४० ॥ अप्रीतिरिति ॥ ११ ॥ | टिप्प,---1 अन्ये तु कहावणमङ्गरक्षादिवस्त्रम् , वेष्टिकं उष्णीषं कटिबन्धनमित्याहुः । 2 परिभवकारिकां निन्दाहेतुकां, अनार्यां अनादरमूलां, निर्गुणं ज्यारहितम् ।  शकारः-भावे | पशीद पशीद । एहि । णलिणीए पविशिअ कीलेम्ह । [ भाव ! प्रसीद प्रसीद । एहि । नलिम्यां प्रविश्य क्रीडावः ।]

 विटः--

अपतितमपि तावत्सेवमानं भवन्तं
पतितमिव जनोऽयं मन्यते मामनार्यम् ।
कथमहमनुयायां त्वां इतस्त्रीकमेनं
पुनरपि नगरस्त्रीशङ्कितार्धाक्षिद्दष्टम् ॥ ४२ ॥

(सकरुणम् ) वसन्तसेने !

अन्य1स्यामपि जातौ मा वेश्या भूस्त्वं हि सुन्दरि !।
चारित्र्यगुणसंपन्ने जायेथा विमले कुले ॥ ४३ ॥

 शकारः--मम केलके पुप्फकलंडकजिण्णुज्जाणे वशंतशेणिअं मालिअ कहिं पलाअशि एहि, मम आवृत्तश्श अग्गदो ववहालं देहि। [मदीये पुष्पकरेण्डक जीर्णोद्याने वसन्तसेनां मारयित्वा कुत्र पलायसे ? एहि, मम आवृत्तस्याग्रतो व्यवहारं देहि ।]( इति धारयति )

 विटः-आः, तिष्ठ जाल्म 1। ( इति खङ्गमाकर्षति )

 शकारः--( सभयमपसृत्य ) किं ले, मीदेशि, ता गच्छ। [ किं रा, भीतोऽसि १ तद्गच्छ ।]

 विटः----( खगतम् ) न युक्तमवस्थातुम् । भवतु, यत्रार्यशर्विलक- चन्दनकप्रभृतयः सन्ति, तत्र गच्छामि । ( इति निष्क्रान्तः )


अपतितमिति ॥४२॥ अन्यस्यामिति ॥ ४३ ॥ आउ (बु) तश्श भगिनीएतेः । व्यवहार (रं) विचारम् ॥ निधनं गच्छ त्विति ( त्वमिति ) ॥ चेटं प्रति ब्रूते । यस्यां वेलायामलंकलेमीति अलंकरोमीति वक्तव्ये इति पुरातनटीका (?)॥ ढिप्प०----1 कस्मिन्नपि जन्मनि मा वेश्या भूः, यतो वेश्यात्वादेवेयं तव विपत्तिः, कुलीनस्त्रियां नेद्वशी विपत्तिः संभवतीति भावः ।  शकार---णिधणं गच्छ । अले थावलका पुश्तका ! कीलिशे मए कडे १ । [निधनं गच्छ। अरे स्थावरक पुत्रक ! कीदृशं मया कृतम् १ ।।

 चेटः–भट्टके ! महंते अकज्जे कडे । [भक ! महदकार्य कृतम् ।]

 शकारः–अले चेडे । किं भणाशि अकज्जे कडेत्ति । भोदु, एव्वं दाव । ( नानाभरणान्यवतार्य ) गेण्ह एवं अलंकारअं मए ताव दिण्णे । जेत्तिके वेले अलंकलेमि तेत्तिकं वेलं मम । अण्णं तव । [अरे चैट ! किं भणस्यकार्यं कृतमिति ? । भवतु, एवं तावत् । गृहाणेममलंकारम् । मया तावत्तम् । यावस्यां वेलायामलंकरोमि तावतीं वेला मम । अन्यदा तव ।]

 चेटः----भट्टके ज्जेव एदे शोहंति, किं मम एदेहिं ?। [ भट्टक एवैते शोभन्ते, किं ममैतैः ? ।]

 शकारः----ता गच्छ एदाइं गोणाइं गेण्हिअ मम केलकाए पाशादवालग्गपदोलिकाए च्यिश्ट । जाव इग्गे आअच्छामि । [ तद्गच्छ, एतौ वृषभौ गृहीत्वा मदीयायां प्रासादाबालाग्रप्रतोलिकायां तिष्ठ । यावदहमागच्छामि । ]

 चेटः----जं भट्टके आणवेदि । [यद्भट्टक आज्ञापयति । ] ( इति निष्क्रान्तः )

 शकारः--अत्तपलित्ताणे भावे गदे अदंशणं । चेडं वि पाशादबालग्गपदोलिकाए णिगलपूलिदं कदुअ थावइश्शं । एवं मंते लक्खिदे भोदि, ता गच्छामि । अधवा पेक्खामि दाव एदं । किं एशा मला


पासाद बालग्गपडोलिआए । प्रासादोपरि गृहविशेष इति पञ्चव्याख्यातम् ॥ अत्तपलित्ताणे आत्मरक्षार्थम् । निगलपूरितं अतिगुरुवन्धनोक्तिरियम् । एवं मन्त्रोडभिरक्षितो भवति । प्रावारेण प्रच्छदपटेन । णामकिदे नामाङ्कितः । वसन्तसेनाया इति शकारस्य वेति लिखिताक्षरः । शुक्खपण्णउडेण शुष्कपर्णपुटेन तथा कृत्वा । आदु पुणो वि मालहश्शं । ( अवलोक्य ) कधं शुमला ? । भोदु, एदिणा पावालएण पश्छादेमि णं । अधवा णामं किदे एशे । ता के वि अज्जपुलिशे पच्चहिजाणेदि । भोदु, एदिणा वादालीपुंजिदेण शुक्खपण्णपुडेण पच्छादेमि । ( तथा कृत्वा, विचिन्त्य ) भोदु, एव्वं दाव । शंपदं अघिअलणं गच्छिअ ववहालं लिहावेमि, जहा अत्थश्श कालणादो शत्थवाहचालुदत्ताकेण ममकेलकं पुप्फकलंडकं जिण्णुज्जाणं पवेशिअ वशंतशेणि आ वावादिदे त्ति ।।

चालुदत्तविणाशाय कलेमि कवडं णवं ।।
णअलीए विशुद्धाए पशुधादं व्व दालुणं ।। ४४ ॥

भोदु, गच्छामि । ( इति निष्क्रम्य, दृष्ट्वा सभयम् ) अविद मादिके । जेण जेण गच्छामि मग्गेण तेण ज्जेव एशे दुश्टशमणके गहिदकशाओदकं चीवलं गेण्हिअ आअच्छदि । एशे मए णशिं च्छिदिअ वाहिदे किदवेले कदावि मं पेक्खिअ एदेण मालिदे त्ति पआशइश्शदि । ता कधं गच्छामि । ( अवलोक्य ) भोदु, एदं अद्धपडिदं पाआलखंड उल्लंघिअ गच्छामि।

एशे म्हि तुलिदतुलिदे लंकाणअलीए गअणे गच्छंते ।
भूमिए पाआले हणूमशिहले विअ महेंदे ॥ ४५ ॥

 [आत्मपरित्राणे भावो गतोऽदर्शनम् । चेटमपि प्रासादाबालाग्रप्रतोलिकायां निगडपूरितं कृत्वा स्थापयिष्यामि । एवं मन्नो रक्षितो भवति, तद्गच्छामि । अथवा पश्यामि तावदेनाम्--किमेषा मृता । अथवा पुनरपि


पूर्वोकेन स्थगितां कृत्वेत्यर्थः । अत्थश्श । अर्थस्येत्यर्थः। चालुदत्तेति । चारुदत्तविनाशाय करोमि कपट नवम् । नगर्या विशुद्धायां पशुधातमिव दारुणम् ॥ ४४ ॥ अधिद मादिके सभयविस्मये । नश्तिय नासारज्ज्वा वाहितः । कदवेले कृतवैरः । एशे म्हि इत्यादि । गाथा । एषोऽहं त्वरितत्वरितो लङ्कानगर्यां मारयिष्यामि । कथं सुमृता ? भवतु, एतेन प्रावारकेण प्रछादयाम्येनाम् । अथवा नामाङ्कित एषः, तत्कोऽप्यार्यपुरुषः प्रत्यभिज्ञास्यति । भवतु, एतेन वातालीपुञ्जितेन शुष्कपर्णपुटेन प्रच्छादयामि । भवतु, एवं तावत् । सांप्रतमधिकरणं गत्वा व्यवहारं लेखयामि, यथा-अर्थस्य कारणात्सार्थवाहक चारुदत्तकेन मदीयं पुष्पकरण्डकं जीर्णोद्यानं प्रवेश्य वसन्तसेना व्यापादितेति ।

चारुदत्तविनाशाय करोमि कपटं नवम्।।
नगर्यां विशुद्धायां पशुधातमिव दारुणम् ॥

भवतु, गच्छामि । अविद मादिके । येन येन गच्छामि मार्गेण, तेनैवैष दुष्टश्रमणको गृहीतकषायोदकं चीवरं गृहीस्वागछति । एष मया नासां छित्त्वा वाहितः कृतवैरः कदापि मां प्रेक्ष्यैतेन मारितेति प्रकाशयिष्यति । तत्कथं गच्छामि ? । भवतु एतमर्धपतितं प्राकारखण्डमुल्लङ्घ्य गच्छामि ।

एषोऽस्मि त्वरितत्वरितो लङ्कानगर्यो गगने गछन् ।
भूम्यां पाताले हनूमच्छिखर इव महेन्द्रः ॥]

( इति निष्क्रान्तः)

(प्रवि1श्यापटीक्षेपेण )

 संवाहको भिक्षुः----पक्खालिदे एशे मए चीवलखंडे । किं णु हु शाहाए शुक्खावइश्शं । इध वाणला विलुप्पंति । किं णु हु भूमीए धूलीदोशे होदि, तो कहिं पशालिअ शुक्खावइश्शं । ( दृष्ट्वा ) भोदु, इध वादालीपुंजिदे शुक्खवत्तसंचए पशालइश्शं । ( तथा कृत्वा ) णमो बुद्धश्श । ( इत्युपविशति ) भोदु, धम्मक्खलाइं उदाहलामि । (“पंचज्जण जेण मालिदा' (८।२ ) इत्यादि पूर्वोक्तं पठति ) अधवा अलं


गगने गच्छन् । भूमौ पाताळे हनुमच्छिखरादिव महेन्द्रः । महेन्द्रशिखरादिव हनुमानिति वक्तव्ये शकारोकत्वाद्विपरीतम् । 'अअट्' इति पाठे अष्टकशिखरादित्यर्थः । व्याहृतोपममिदं तावत् ॥ ४५ ॥ तथेति प्रसार्य । भवतु, धर्माक्ष- टिप्प:---! नेपथ्यपटमुद्घाट्य प्रविष्ट इत्यर्थः । यस्तावदेवमेवागतः पात्रविशेषः सोपटाक्षेयपेणेति नाटके संकेतः । एवमेवाग्रेऽपि बोध्यम् । मम एदेण शग्गेण । जाव ताए वशंतशेणिआए बुद्धोवाशिआए पच्चुवआलं ण कलेमि, जाए दशाण शुवण्णकाणं किदे जूदिअलेहिं णिक्कीदे, तदो पहुदि ताए कीदं विअ अत्ताणअं अवगच्छामि । ( दृष्ट्वा ) कि णु खु पण्णोदले शमुश्शशदि ह । अधवा

वादादवेण तत्ता चीवलतोएण तिम्मिदा पत्ता।
एदे विथिण्णपत्त्ता मण्णे पत्ता विअ फुलंति ॥ ४६॥

 [ प्रक्षालितमेतन्मया चीवरखण्डम् । किं नु खलु शाखायां शुष्कं करिष्यामि ? इह वानरा विलुम्पन्ति । किं नु खलु भूम्याम् ? । धूलीदोषो भवति । तत्कुत्र प्रसार्य शुष्कं करिष्यामि ? । भवतु, इह दातालीपुञ्जिते शुष्कपत्रसंचये प्रसारयिष्यामि । नमो बुद्धाय । भवतु, धर्माक्षराण्युदाहरामि । अथवालं ममैतेन स्वर्गेण ! यावत्तस्या वसन्तसेनाया बुद्धोपासिकायाः प्रत्युपकार न करोमि, यया दशानां सुवर्णकानां कृतेन द्यूतकाराभ्यां निष्क्रीतः, ततः प्रभृति तया क्रीतमिवात्मानमवगच्छामि । किं नु खलु पर्णोदरे समुच्छसिति ? । अथवा ।

वातातपेन तप्तानि चीवरतोयेन स्तिमितानि पत्राणि ।
एतानि विस्तीर्णपत्राणि मन्ये पक्षिण इव स्फुरन्ति ॥

( वसन्तसेना संज्ञां लब्ध्वा, हस्तं दर्शयति )

 भिक्षु-हा हा, शुद्धालंकालभूशिदे इत्थिआहत्थे णिक्कमदि । कधं दुदिए वि हत्थे ? । (बहुविधं निर्वर्ण्य) पञ्चभिआणामि विअ एदं हत्थे । अधवा, किं विचालेण ? । शच्चं शे ज्जेव हत्थे जेण मे अभअं


राणि सग्गेण स्वर्गेण । यावत्तस्या वसन्तसेनाया. द्यूतकराभ्यां सकाशाद्दशसुवर्णानां कृते निष्क्रीतः । तदो पहुदि निष्क्रयप्रभृति । तयो क्रीतमात्मानमवगच्छामि । वादादवेणेति । गाथा । वातातपेन तप्तानि चीवरतोयेन तिम्मितत्वमार्द्रत्वं प्राप्तानि । तिम्मिता इति भावप्रधानो निर्देशः । एतानि विस्तीर्णं प्राप्तं प्रसारितं यत्र (१) तानि मन्ये पत्राण्येव विजृम्भन्ते ॥ ४६ ॥ शुद्धेतिदिण्ण । भोदु, पेखिश्शं । ( नाट्येनोद्घाट्य दृष्ट्वा, प्रत्यभिज्ञाय च ) शा ज्जेव बुद्धोवाशिआ । [ हा हा, शुद्धालंकारभूषितः स्त्रीहस्तो निष्क्रामति । कथं द्वितीयोऽपि हस्तः १ । प्रत्यभिज्ञानामीवैतं हस्तम् । अथवा, किं विचारेण । सस्यं स एव हस्तो येन मेऽभयं दत्तम् । भवतु, पश्यामि । सैव बुद्धोपासिका।]

( वसन्तसेना पानीयमाकाङ्क्षति )

 भिक्षु?--कधं उदयं मग्गेदि । दूले च दिग्धिआ । किं दाणिं एत्थ कलइश्शं ? । भोदु, एदं चीवलं शे उवलि गालइश्शं । [कथं इकं याचते १ । दूरे च दीर्घिका, किमिदानीमत्र करिष्यामि ? । भवतु, एतच्चीवरमस्या परि गालयिष्यामि । ] ( तथा करोति )

( वसन्तसेना संज्ञां लब्ध्वोत्तिष्ठति, भिक्षुः पटान्तेन वीजयति )

 वसन्तसेना-अज्ज ! को तुमं। [ आर्य ! कस्त्वम् ? । ]

 भिक्षुः----किं मं ण शुमलेदि बुद्धोवाशिआ दशशुवण्णणिक्कीदं ? | [ किं मां न स्मरति बुद्धोपासिका दशसुवर्णनिष्क्रीतम् ? ।]

 वसन्तसेना-सुमरामि, ण उण जधा अज्जो भणादि । वरं अहं उवरदा ज्जेव । [ स्मरामि, न पुनर्यथाऽऽर्यो भणति । वरमहमुपरतैव ।]

 भिक्षुः---बुद्धोवाशिए ! किं ण्णेदं १ । [बुद्धोपासिके ! किं न्वि- दम् ।।]

 वसन्तसेना---( सनिर्वेदम् ।) जं सरिसं वेसभावस्स । [यत्सद्दर्श वेशभावस्य ।]


शुद्ध केवलं कटकादि न स्वभाव एवलंकरणं यत्र सः । दुदिए द्वितीयः । शे


---



--- टिप्प-1 केवलं त्वां स्मरामि, नतु दशसुवर्णनिष्क्रीतत्वेनेति महानुभावतेयं महतामिति भावः ।  भिक्षु-उट्ठेदु उट्ठेदु बुद्धोवाशिआ एवं पादवसमीवजादं लदं ओलंबिअ । [उत्तिष्ठत्तिष्ठतु बुद्धोपासिकैतां पादपसमीपजातां लताम- वलम्ब्य । ] ( इति लतां नामयति )।

( वसन्तसेना गृहीत्वोत्तिष्ठति )

 भिक्षुः--एदश्शि विहाले मम धम्मबहिणिआ चिट्ठदि । तहिं शमशशिदमआ भविअ उवाशिआ गेहं गमिश्शदि । ता शेणं शेणं गच्छदु बुद्धोवाशिआ । ( इति परिकामति, दृष्ट्वा ) ओशलध अज्जा | ओशलध । एशा तलुणी इत्थिआ, एशो भिक्खु त्ति शुद्धे मम एशे धम्मे ।

हत्थशंजदो मुहशंजदो इंदियशंजदो शे खु माणुशे ।।
किं कलेदि लाअउले तश्श पललोओ हत्थे णिश्चले ॥ ४७ ।।

 [ एतस्मिन्विहारे मम धर्मभगिनी तिष्ठति । तत्र समाश्वतमना भूत्वोपासिका गेहं गमिष्यति । तच्छनैः शनैर्गच्छतु बुद्धोपासिका। अपसरत आर्याः ! अपसरत । एषा तरुणी स्त्री, एष भिक्षुरिति शुद्धो ममैष धर्मः ।

हस्तसंयतो मुखसंयतः इन्द्रियसंयतः स खलु मनुष्यः ।
किं करोति राजकुलं तस्य परलोको हस्ते निश्चलः ॥]

( इति निष्क्रान्ताः )

इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ।



ज्जेव्व स एव ॥ से अस्याः । वरं मनागिष्टम् ॥ ओलंबिअ अवलम्ब्य । तत्र समाश्वस्तमना भूत्वा ।

इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ॥ ८ ॥


मृ० १५